Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
4 मध्यमस्याद्वादरहस्ये खण्ड: २
* लघुस्याद्वादरहस्य *
पञ्चमः, कालविशेषस्य कारणत्वेन्नाऽनतिप्रसंगे एककारणपरिशेषाऽऽपत्तेः । विशेषस्याऽऽगन्तुकोपाधिरूपस्य सदसद्विकल्पग्रासाच |२| नापि षष्ठः, सत्यामपि जिज्ञासायां कारणव्यापारात्प्राचार्याऽनुपलम्भाज्जिज्ञासाया ज्ञानमात्रं प्रत्यहेतुत्वाच्च । जिज्ञासितबोधं | प्रति जिज्ञासाया हेतुत्वे जिज्ञासां विनापि तत्राऽजिज्ञासितबोधाऽऽपत्तेश्व । ६ । नापि सप्तमः, अनाविर्भावस्यैव तिरोधानपदार्थत्वात्तस्य च लक्ष्यत्वादद्यापि नियतनिर्वचनाऽपरिचयात् ॥ ७अ नाप्यष्टमोऽनिर्वचनात् 1८] (इति)
स्यादेतत् “विजातीयसंयोगस्य जन्यसाक्षात्कारत्वं जन्यतावच्छेदकमस्तु न तु जन्यद्रव्यत्वं अनंतप्रागभाव प्रध्वंसा| भावकल्पनागौरवात् । न च विजातीयसंयोगं विनापि गुणादौ द्रव्यसाक्षात्कारोदयाद् व्यभिचारः, द्रव्यनिष्ठलौकिकविषयतायाः |कार्यतावच्छेदकसम्बन्धत्वेन तदुद्धारात् । एतेन " द्रव्यसाक्षात्कारत्वस्य तत्कार्यतावच्छेदकत्वे मूर्त्तसाक्षात्कारत्वादिना विनिगमनाविरहः, स्वाश्रयचिपयतासम्बन्धं कार्यतावच्छेदकीकृत्य द्रव्यत्वादिना तथात्वंऽपि मूत्तत्वादिना स एव दोषः " - इत्यपास्तम् । इत्थञ्च द्रव्यमात्रं सर्वथा नित्यमस्तु । न चैवं तंतूनामेव पटत्वात्तंतौ पट इति प्रत्ययो न स्यादिति वाच्यं, फलवलेन | विलक्षणसंयोगवत्त्वघत्पपटत्वादिविशिष्टाधारतावच्छेदकत्वस्य विलक्षणसंयोगत्वरूपतन्तुत्वे स्वीकारात् । अत एव न तन्तुपट - पदयोः पर्यायताऽपि, विलक्षणसंयोगवत्त्वरूपशक्यतावच्छेदकभेदात् । 'तंतुसंयोगात्पट उत्पन्न' इति व्यवहारस्तु भ्रान्त एव, पटपदं वा पटाभिव्यक्तिपरम् । 'पट उत्पन्न' इत्यादिप्रतीतिस्तु पटत्वादिघटकसंयोगोत्पादमात्रमवगाहते । 'तंतुः पट' इति प्रतीतिस्तु वृक्षो वनमितिवदेव नोदेति । 'पट: तंतब' इति प्रतीतिस्तु एकत्वधर्मितावच्छेदककबहुत्वप्रकारिका सतीच्छाविशषमपेक्षते । एकत्र द्वयमिति न्यायेन तदन्चयबोधापादने शब्दाऽसाधुत्वमेव वा । 'अधिकं मत्कृतन्यायवादार्थेषु बोध्यम् ।"
अत्र ब्रूमः - पर्यायत्वावच्छेदेनैव द्रव्यस्य कारणता सामान्यतो गृहीतेत्यसमानजातीयद्रव्यपर्यायरूपस्य घटस्य कथं न जन्यत्वम् ? अन्यथा कपालस्यैव घटत्वात्कपालरूप-घटरूपयोर्भेदो न स्यात्, तथा च प्रत्यक्षबाधः । किञ्चैवं दण्डादौ घटसाधनताज्ञानेन प्रवृत्तिर्न स्यात् । अथ " विजातीयसंयोग ( ब ) त्वमेव घटत्वं युक्तं चैतत् कथमन्यथा घटत्वस्य जातित्वं ? मृत्त्वस्वर्णत्वादिना सांकर्यात् । न च कुलालादिजन्यतावच्छेदकतया मृत्त्वस्वर्णत्वादिव्याप्यं नानाघटत्वमेव स्वीकर्त्तव्यमनुगतधीस्तु कथञ्चित् सौसादृश्यात् घटपदं तु नानार्थकमिति वाच्यम्, कुम्भकारादेर्विजातीयकृतिमत्त्वेन तत्त्वे घटत्वस्यैकत्वौचित्यात् इति चेत् ?" न, एवं सति घटवत्यपि भूतले संयोगेन घटो नास्तीति प्रतीतेः प्रमात्वापातात् घटः पटसंयुक्त इत्यादिप्रतीतेरप्रमात्वापाताचेति दिकू ।
-
अथ अनित्यत्वैकान्तपक्षेऽपि दोषमाहुः " स्यातामिति । एकान्तनाशे नित्यत्वाऽसंभिन्ननाशे कृतस्य नाशो = अकृततुल्यता । तन्मते हि वस्तुनः सर्वस्य क्षणिकत्वादुत्पत्तिसमनंतरमेव घटस्य नाश:, इति पृथुबुध्नोदरत्वादिपर्यायाणामाधारेण केन भवितव्यम् ? तथाऽकृतस्याऽऽगमः = अर्थक्रियाकारित्वम् । यद्धि कुम्भकारादिना घटादिकं कृतं तेन तु दुर्जनमन:प्रणयपरंपराबत्तदानीमेव दध्वंसे, तथा च जलाहरणादिक्रियासु व्याप्रियमाणेन तेनाकृतेनैवोपस्थातव्यमिति दूषणद्वयमिदं बौद्धबुध्युपनीतकाकुव्याकुलीकरणप्रवणं प्रसज्येतेति भावः ।
(क्षणिकवादपूर्वपक्ष: )
किं क्षणभंगुरमेव वस्त्वन्यथा वा ! तत्र बौद्धा:
1
इदमप्यत्र विचार्यते "मुद्गरादिसमवधानदशायां घटादेर्यत् स्वरूपं | वरीवर्त्ति तेन प्रागासीनं न वा १ अन्त्ये स्वरूपभावदान्यापत्तिः, अनायासेनैव सिद्धा क्षणभंगुरता भगवती । किंच तत्तत्क्षणावच्छेदेन घटादेः प्रध्वंसाऽप्रतियोगित्वकल्पनापेक्षया प्रध्वंसप्रतियोगित्वकल्पनैव लधीयसी । वस्तुतः तत्तत्क्षणेष्वेवास्तु घटत्वपटत्वादिकम् । नच संकरः, वासनाकृतविशेषेण तन्निरासात् । अत एव न स्थितिकाले घट उत्पन्नो, घटो ध्वस्त इत्यादि प्रतीतिः । विशिष्टोत्पादध्वंसयोर्विशेषणसत्त्वविरुद्धत्वात् । न च ' स एवायं घट' इति प्रत्यभिज्ञा क्षणिकत्वे बाधिका, स एवायं | मकार इत्यादिप्रत्यभिज्ञाया इव तस्यास्तज्जातीयाभेदविषयत्वात् । किञ्च नित्यस्य सतो वस्तुनः सर्वदार्थक्रियाकारित्वापत्ति:, स्वतः सामर्थ्याऽसामर्थ्याभ्यां परोपकारानवकाशात् । स्वतः समर्थमपि तत्कारणांतरसहकृतमेव कार्यमुपधातीति चेत् ? न, | कार्यानुपधानसमये सामर्थ्ये मानाभावात् । तस्मात् कुर्वद्रूपस्यैव कारणत्वाद्वस्तुनो मदुक्तदूषणभारभंगुरस्य सतः क्षणविश्राम | एवोचित इति ।" <
-
(क्षणिकवादनिरास:)
तदत्तिजस्त्तरं विनाशस्वभावत्वेन क्षणिकत्वे स्थितिस्वभावत्वेन नित्यत्वस्याप्याऽऽपतेः । स्थितिप्रत्ययो भ्रान्तो विनाशप्रत्ययस्तु | प्रमेति तु निजप्रणयिनीमनोविनोदमात्रम् । ध्वंसप्रतियोगित्वं तु यथा त्वया विधिपर्यायेण कल्प्यते तथा मया निषेधपर्यायेणापीति १. अधिक अधिक पूर्वपक्षवचनमित्यर्थः ।

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370