Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 355
________________ * लघुस्यावादरहस्य * सिद्धे च स्कन्धानां प्रविभक्तत्वे प्रविभक्तस्कन्धकत्वरूपं प्रदेशानां पार्थक्यं सिध्यतीति । अथ पृथकत्वं जात्यंतररूपमेवेति चेत्तर्हि भेदाभेद एव तादृशः किमिति नास्थीयते ? धर्मिधर्मोभयभासकसामग्र्या एव तद्भासकत्वेन ब्याकगवेषणविश्रामात् । एतेन "पृथक्त्वव्यवहाराऽसाधारणकारणं तदि" स्यप्युपेक्षितम्, कारणतावच्छेदकरूपपरिचयं बिना तादृशनिर्वचनाऽसम्भवाच । यत्तु - 'विभिनाश्रयाऽऽश्रितत्वमेव पार्धकूयं, विभिन्नाश्राश्रयाः स्कन्धानां देशा इव देशानां स्कन्धा अपि सम्भवन्ति, तन्ती पट इतिवत्पदे तन्तब इति प्रतीतेरप्यवाधितत्वात् । अन्यत्र रूपादिप्रतियोगिकत्वविशिष्टभेदाभेदस्याधारतात्वेऽप्यत्रान्यतरप्रतियोगिकत्वविशिष्टस्यैव तस्य प्रतीतिबलेन तधात्वकल्पनात् । तदक्तमुदयनेनापि “संविदेव हि भगवती वस्तूपगमे नः शरणमिति" । परमाणुनामपि शुद्धस्य स्वस्यैव स्वाश्रयत्वं भाविभूताश्रयसम्भवेनैव वा तदाश्रितत्वमक्षतमन्यथा द्रव्यचतुष्टपस्य सार्वत्रिकत्वाऽसम्भवादिति' तचिन्त्यम्, अत्यन्तविभिनानामपि आकाशादिरूपैकाश्रयसम्भवेन भेदाभेदसम्बन्धावच्छिन्नाश्रयताविवक्षणे स्फुटदोषात् । जवस्तु - सार्वजनीनप्रतीतिस्वारस्यादेव भेदाभेदयोर्न विरोधः । अत एव न संकर-व्यतिकर-संशयाऽनवस्था-दृष्टहान्यदृष्टकल्पनाः । भेदन स्वरूपान्तरात् स्वरूपन्यावृत्तिरूपः । स चैकद्रव्यगुणपर्यायेष्वपि सम्भवति । अयम्भावः - यथाहि सूत्रग्रथितमुक्ताफलानामपेक्षाबुद्धिविशेषविषयत्वरूपं हारत्वं सूत्रमुक्ताफलाधारतावच्छेदकं तथा गुणपर्यायाणां तादृशं द्रव्यत्वमपि तथा । यथा च हारत्वसूत्रत्वमुक्ताफलत्वावच्छेदेन शुक्लत्वप्रतीतिस्तथा द्रव्यत्वगुणत्वपर्यायत्वावच्छेदेन सत्त्वप्रतीतिरपि । यथा च शुक्लत्वाद्यवच्छिन्ने हारत्वाद्यवच्छिन्नभेदस्तथा सत्त्वत्वाधवच्छिन्ने द्रव्यत्वायवच्छिन्नभेद इति । तदुक्तं - "सहव्व सन्च गुणोत्ति" । विस्तारः = तत्तद्धर्मावच्छिन्नविशेष्यतानिरूपिताः प्रकारताः । नन्वेवं वृक्षो वनमितिवत् सद् द्रव्यमिति प्रयोगो न स्यात्, यत्र हि यद्धर्मावच्छिन्नप्रकारकबुद्धिविषयत्वं व्यवहारीपयिक तत्तद्धर्मावच्छेदेनेवाभेदेनान्वेतीति व्युत्पत्तेरिति चेत् न, एतनियमस्य विशिष्य विश्रामादिति दिक् । यद्वा कृतस्य = कुम्भकारादिप्रयत्नस्य नाशः = 'उपधानाऽव्याप्यत्वम्. अकृतस्य कुम्भकारादिप्रयत्नाऽभावस्याऽऽगमाऽनुपधानाऽव्याप्यत्वं च स्याताम्, वस्तुनः सर्वथा नित्यत्वात्, तथा च व्यवहारवाधः इति भावः । __ अत्रेदं विभाच्यते-सांख्यैर्हि सदेव वस्त्वभिमन्यते । तदुक्तं - "असदकरणादुपादानग्रहणात्सर्वसम्भवाऽभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्" ।। (सांख्यकारिका-९) इति । असनः = शशविषाणादेः कर्तुमशक्यत्वात्, सत एव सत्करणस्वाभाव्यात् । उपादानेन ग्रहणात् = सम्बन्धात् । न ह्यसतः सम्बन्धोऽस्ति । असम्बद्धस्यैव करणमिति चेत ? न, सर्वसंभवाऽभावात् = असम्बद्धत्वाऽविशेषे हि सर्वे सर्वस्माद्भवेयुः, न चैवमिष्टमिति । तथाऽशक्तस्य जनकत्वेऽतिप्रसंगात् शक्तस्य जनकत्वं वाच्यम्, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता न स्यात्, इतोऽपि कारणात् प्राक् कार्यस्य सत्त्वमुपेयम् । तथा तादात्म्यादपि सत्कार्यम, अक्यविनोऽवयवभेदाप्रतीतेरिति । तदयुक्तम, यतो घटश्चेत्कारणच्यापारामागप्यस्ति तर्हि तदानीमुपलम्भप्रसङ्गः । अथाऽनाविर्भावात नोपलभ्यते इति चेत् ? कोऽयमनाविर्भावः ? १ उपलब्ध्यभाचो वा, २ अर्थ क्रियाकारिरूपाऽभावो वा, ६ च्यञ्जकाऽभावो बा, ४ योग्यताऽभावो वा, ५ कालविशेषविशिष्टत्वाऽभावो वा, ६ जिज्ञासाऽभावो वा, ७ तिरोधानं । वा, ८ अन्यद्वा ? नायः, यस्यैवाक्षेपस्तस्यैवोत्तरे घट्टकुटीप्रभाताऽऽपातात् । अथ घटानुपलभ्याक्षेपे संस्थानायनुपलम्भस्योत्तरत्वमिति चेत् ? न, संस्थानज्ञानस्य संस्थानिज्ञानात् पूर्व नियतमनपेक्षणात्तस्यापि प्राकृसत्त्वे उपलब्धेरापायत्वात्, असत्त्वे वक्ष्यमाणदोषानुषङ्गाच ११॥ न द्वितीयः, अर्थक्रियारूपस्य प्रागसत्त्वेऽसत्कार्यवादापातात् ।। अत एव न तृतीयोऽपि, प्राथमिकोपलब्धी कुविन्दादिसमुदायस्योपलब्धिमात्रे वा विजातीयसंयोगस्य कारणत्वेऽपि तयोः प्राकसत्त्वावश्यकत्वात् । आविर्भूतयोरेच तयोः तथात्वमिति चेत् ? न, आविर्भावस्यापि सदसद्विकल्पग्रासात् । विजातीयसंयोगाद्याविर्भावस्य प्राक्सत्त्वेऽपि विजातीयसंयोगेन समं तस्य सम्बन्धो नास्तीत्यप्यसमीक्षिताभिधानं, तदोषाऽनतिवृत्तेः । एतेन "विषयिताविशेषसम्बन्ध एव घटत्वादेः विजातीयसंयोगजन्यतावच्छेदकतावच्छेदकोऽस्त्वनंतप्रागभावप्रध्वंसायकल्पनलाघवात" इत्यपि परास्तम । तदभावेऽपि घटत्वविनिर्मक्तविषयताकघटसाक्षात्काराऽऽपत्तेश्च । किञ्च घटादेः कुम्भकारादिव्यज्यत्वे जन्यत्वब्यवहारो निरालम्बनः स्यात, अन्यथा दिनकरकरनिकराऽभिव्यञ्जिते घटे तज्जन्यव्यवहाराऽऽपत्तेः ।। __ नाऽपि तुरीयः - महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वादिरूपायाचाक्षुषादियोग्यतायाःप्रागुक्तदिशा प्रागपि सत्त्वात् ।। नापि १. सदश्वं सन्च गुणी, मच्चेव य गज्जओनि वित्थारो । जो खलु तस्स अभावो, सो तदभावो अतम्भात्रो ॥ प्रव. सार० अ० २ गा० १५॥ २. फटात्पत्यच्याप्यत्त्वमित्यर्थः । प्रदिवस्तुनो नित्यत्वात् कुम्भकारादिप्रयत्नस्य बफल्यमेव, न तु फलनिष्पत्तिच्याप्यत्वमिति भावः । -" - --- - - - -

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370