Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
परिशिष्ट-१ महोपाध्याय-न्यायाचार्य-श्रीमद्-यशोविजय-प्रकाशितम्
((लघु) स्याहादरहस्यम्
ऍकारस्फारमन्त्रस्मरणकरणतो याः प्रसर्पन्ति बाच:, स्वच्छास्ताः कर्तुमिच्छुः सकलसुखकरं पार्श्वनाथं प्रणम्य । राचाटानां परेषां प्रलपितरचनोन्मूलने बद्धकक्षो, बाचां श्रीहेमसूरेर्विवृतिमतिरसोल्लासभाजां तनोमि ॥१॥ अभ्यस्य तर्क स्याद्वादरहस्यं शस्ययुस्तिकम् ।
निरस्तदुर्नयं मार्गप्रवेशाय निबध्यते ॥२॥ ___ इह हि निखिलकुवादिकुतर्कसन्तमसच्छन्नं जगतः शुद्धनयलोचनमुन्मिमीलयिषवः श्रीहेमसूरयो यथावस्थितार्थव्यवस्थापनद्वारा || भगवतं स्तोतमपक्रमते "सत्त्वस्ये" ति ।
(मलावीतरागस्तोत्र काग-2) सत्त्वस्यैकान्तनित्यत्वे कृतनाशाऽकृतागमी ।
स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमी ॥१॥ अत्र सत्त्वमेकान्तनित्यं न वेति न विप्रतिपत्तिः, एकान्तनित्यत्वकोट्यप्रसिद्धेः । किन्तु नित्यत्वमनित्यवृत्ति न वा, अनित्यत्वं नित्यवृत्ति न वेत्यादिरूपा । न चैवमपि तद्भावाऽव्ययत्वरूप नित्यत्वं परमते प्रसिद्धम, नित्यच्यवहारविषयत्वेनैव
सत्त्वस्य - पदार्थत्वेनोभयमतसंप्रतिपत्रस्य । उत्पादव्ययधीच्यात्मकस्येति व्याख्यानं तु स्वमतावष्टम्भेन शोभते, परमते धर्मितावच्छेदका निश्चयात् । एकान्तनित्यत्वं = अनित्यत्वाऽसम्मिन्ननित्यत्वे । कृतनाशी = घटादिपर्यायाणां कुम्भकारादिकृत्तानां सर्वथा नाशः स्यात्, अनित्यस्य नित्यत्वविरोधात् । एतच प्रत्यक्षविरुद्धं, पर्यायाणामपि द्रव्यार्थतोऽनाशात् । अयं दंड्यासीदितिबदिदं मृद्रव्यं घट आसीदिति प्रतीतेरेकस्यैवातीतविद्यमानत्वभानात, रूपभेदेनेवोभयधर्मसमावेशसंभवात् । न हि कम्युग्रीवत्वादिनेव मृत्त्वेनाऽपि घटो नष्ट इति कश्चित्प्रत्येति, प्रत्युत पूर्वमयमेव मत्पिण्डः (तत्) कम्बग्रीवत्यादिनासीदिति सर्वोऽपि प्रत्यभि||जानीते । न चेयं विशेषणाभावमेव विषयीकुरुते विशेष्ये नत्रर्धाऽन्वये बाधकाऽभावात, प्रतीतिप्रातिव्याच ।
यत्तु यदि ह्यतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेष्यस्य ध्वंस: स्यात तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेन प्रनिक्षणं । घटस्य विनाशः स्यादित्यभिदधे मणिकता, तत्तु तादृशक्षणभंगस्य दोषानावहत्त्वात् तदीयरेव दूषितम् । कश्चित्तु संसर्गावछिन्नकिश्चिद्धर्मावच्छिन्नप्रतियोगिताकस्याऽभावस्याऽत्यन्ताभावत्वनियमात्र प्रागुक्तप्रतीतेर्विशेषणावच्छिन्नविशेष्याऽभावविषयत्वमिति, तत्तुच्छ, घटत्वस्य ध्वंसप्रतियोगिताऽतिरिक्तवृत्तित्वेऽपि प्रागुक्तविशेषणस्याऽतथात्वात्, यदत्पत्ती कार्यस्याऽवश्यं विपत्तिस्तस्य प्रध्वंसत्वाऽभ्युपगमाच । नन्वत्र विपतिपदार्थाऽपरिचयो, विभागादेः संयोगादिनाशताऽऽपत्तिश्चेति चेत ? न, प्रतियोग्युत्तरकालीनाऽभावत्वादी तात्पर्यात्, उत्तरत्रेष्टापत्तेश्च ।
स्यादेतत् . घटत्वेन घटध्वंसस्येवाऽऽत्मत्वादिनाऽऽत्मादेवँसाऽभावादात्मादेरेकान्तनित्यत्वं स्यादिति । मैवं, ध्वंसप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वेनैवैकान्तत्वापायात् । इयांस्तु विशेषो-यदात्मत्वेनाऽऽत्मनो नित्यत्वं तद्भावाऽव्ययत्वात्, घटत्वेन घटस्य | तु नेति । ननु तद्भावेन व्ययश्चेत् प्रसिद्धः तदा तदभाव(व)रूपं नित्यत्वमात्मत्वादिनाऽऽत्मादौ सम्भवेत्, स एव तु गगनारविन्दसोदर इति चेत् । न, ध्वंसप्रतियोगितानवच्छेद(क)रूपवत्त्वस्यैव तदर्थत्वात् । न चैवं कम्युग्रीचादिमत्त्वेन घटस्य नित्यत्वं | स्यादिति वाच्यम्, गुरुधर्मस्यापि प्रतीतिबलेनाऽवच्छेदकत्वस्वीकारात् । ध्वंसप्रतियोगिताऽवच्छेदकं यद्धर्मवनिष्ठाऽत्यंताऽभावप्रतियोगितानवच्छेदकं तदन्यधर्मवत्त्वस्य वा तदर्थत्वात् । अथ कपालनाशादे; कपालादिसमवेतनाशं प्रति कारणत्वात् घटत्वेन घटध्वंस ,
कस्मिक इति चेत् ? न, कारणत्वपर्यायाणां प्रतीतिबलेन विशिष्य विधान्तानामेव कल्पनादिति दिक । ___अथाऽकृतागमः - पर्यायाणामपि नित्यानामेव सतामागन्तुकत्वादन्यथा पर्यायवतोऽप्यनित्यत्वाऽऽपत्ती नित्यत्वपक्षहानेः । अथ घटत्वादेरेव कपालादिजन्यताऽवच्छेदकत्वात्, घटत्वस्य च कपालायवृत्तित्वानाऽयं दोष इति चेत् ? न, कपालं घटीभूतमिति - - - - - - - - - - - - - - -

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370