Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
** लघुस्याद्वादरहस्य * न दोषः । वासनाया ध्रुवत्वे तु नामान्तरेण द्रव्यमेवाऽभ्युपेतवान् भवान्, कृतांतं च कोपितरान्, अध्रुवत्वे तु किमनयाऽजागलस्तनायमानया ? कुर्चद्रूपत्वेन तु न कारणता, तस्य प्रागपरिचयात् इष्टसाधनताज्ञानविलम्बात् घटार्थिनो दंडादी प्रवृत्त्यनुदयापत्तेरिति दिक् ।। श्रीहेमत्रिवाचामाचामति चातुरीपरविचारम् । व्याख्यातायश्लोको जसविजयस्ता परिचिनोति ॥शा
(प्रधमलोकविवरणं समाप्तम्) ननु भवतु कदाचिद्वाह्यवस्तुनो नित्यानित्यत्वमः एमानुस्त न कथमपि । न च ज्ञानायभेदात् तथात्वं, तथा सति दुःखाभेदादु दुःखध्वंसस्यापि आत्मध्वंसरूपत्वात्तदर्थिनो यमादौ प्रवृत्तिर्न स्यात् । न च दःखध्वंसत्वमेव काम्यतावच्छेदक, तत्राऽऽत्मध्वसत्वरूपाऽनिष्टतावच्छेदकज्ञानस्य प्रवृत्तिप्रतिबंधकत्वात् । न चाऽऽत्मत्वावच्छिन्त्रध्वंसत्वमेव चार्वाकादिमतप्रसिद्धमनिष्टतावच्छेदक, विजातीयसुखत्वमेव वा काम्यतावच्छेदकमिति वाच्यम्, तथापि "नित्यं विज्ञानमानन्दं ब्रह्म" (तैत्तरीय-आरण्यक) इत्यादिश्रुत्या तस्य नित्यत्वौचित्यात् नित्यसुखादिनैव सममभेदबोधात् । न च "आनन्दं ब्रह्मणो रूपं, तच मोक्षे प्रतिष्ठितमि" ति भेदबोधकश्रुतिसद्भाबादुपचरितार्थत्वमेव तस्या युक्तमिति वाच्यम्, 'राहोः शिरः' इत्यादी षष्ठ्या अभेदेऽपि दर्शनात् । अत्राऽभेदप्रकारकबोधदर्शनाल्लक्षणेव, श्रुतौ तु सा न युक्तेति चेत् ? नः सुब्विभक्ती लक्षणाऽनभ्युपगमात्, अन्यथा व्यत्ययानुशासनवैययान् ।
अथ विभक्त्यंतरार्थे विभक्त्यंतरस्य लक्षणाया निषिद्धवज्ञापकं व्यत्ययानुशासनम् । अत एव घटं जानातीत्यादौ द्वितीयाया विषयित्वे लक्षणा नाऽनुपपन्ना । कञ्योगे पश्चनुशासनं च द्वितीयाऽसाधुत्वज्ञापकं, निष्ठादिवर्जनं च निष्टायां तत्साधुत्वज्ञापकं, कुत्ययोगे विकल्पविधानं च निष्ठायां शेपषठ्यसाधुत्वज्ञापकमिति चेत् ? न, तथापि तत्र सम्बन्धत्वप्रकारकबोधस्यैवेष्यमाणत्वात् । अत आहः 'आत्मनी'ति -
आत्मन्येकान्तनित्ये स्यात् न भोगः सुखदुःखयो ।
एकान्ताऽनित्यरूपेऽपि न भोगः सुखदु:खयोः ।।२।। आत्मन्येकान्तनित्येअभ्युपगम्यमान इति शेपः । सुखदुःखयोर्भोगः = साक्षात्कारो न स्यात् । यद्यपि भोगपदं सुखसुःखान्यतरसाक्षात्कारे रूढमिति पुनः "सुखदुःखयो"रित्युपादाने पीनरुक्त्यं, तथापि 'विशिष्टवाचकानामित्यादिन्यायात् भोगपदमत्र साक्षात्कारमात्रपरं दृष्टव्यम् । न च शक्यादनन्येऽर्थे कथं लक्षणा, शम्यतावच्छेदकरूपभेदे एव लक्षणास्वीकारात्, यथा जयतेः प्रकृष्टजये । तदाहुः "शक्यादन्येन रूपेण ज्ञाते भवति लक्षणे"ति ।
___ नैयायिकैकदेशिनस्तु - "भोगत्वं चाक्षुषादिसामग्रीप्रतिवध्यतावच्छेदककुक्षिप्रविष्टतया सिद्धो जातिविशेषः । न च स्वसम-|| वायिलौकिकविपयितया भोगान्यमानसप्रतिबन्धकतावच्छेदकीभूतसुखदःखवृत्तिजातिविशेषवदन्यज्ञानत्वादिकमेव मानासान्यसामग्रीप्रतिबध्यतावच्छेदकं, सुखदुःखवृत्तिजातिविशेषवत्प्रतिबध्यतावच्छेदकमपीदमेव तेन न तत्प्रविष्टतया भोगत्वसिद्धिरिति वाच्यं, अनया दिशा साक्षात्, सुखादिवृत्तिर्जातिः प्रतिबध्यतावच्छेदककोटी प्रवेश्या, साक्षात् मानसदृत्तिर्मोगत्वजातिर्वा स्वसमवायिलौकिक विषयतासम्बन्धेन प्रतिबन्धकतावच्छेदककोटी प्रवेश्येत्यन्न विनिगमकाभावात्, प्रागुम्तजातेनित्वपर्यन्तसम्बन्धेन प्रतिवध्यतावच्छेदकत्वप्रसंगाचे" त्याहुः । (तन्मते सुखदुःखयोरित्यस्य न पौनरुक्त्यम् ।)
अथ प्रकृतं प्रस्तुमः ।) 'अयं भावः . एकान्तनित्यः सनात्मा सुखदुःखे युगपद्भुञ्जीयात्, क्रमेण वा ? नायो, विरोधात् । न द्वितीयः स्वभावभेदेन सर्वथानित्यवहानेः । सुखदुःखानुभवकालेऽपि तत्स्वभावत्वमात्मनः कथमिति चेत् ? तस्य गुणरूपत्वात्। गुणगुणिनोश्च भेदाभेदस्य निपुणतरमुपपादितत्वादिति गृहाण । स्वभावो हि स्वदन्य-गुण-पर्यायाऽनुगतं स्वरूपास्तित्वं, तच्च सादृश्या(द)स्तित्वेनैकीभवतोऽप्यन्यस्माद्रेदप्रतीतिमाधत्ते ।
__ अथैवमपि ध्वंसाऽप्रतियोगित्वरूपं सर्वथा नित्यत्वमक्षतमेवेति चेत् ? न, ज्ञानत्वादिना तद्ध्वंसादात्मत्वादिना नेति तु प्रागेव प्रत्ययीपदाम । आत्मत्व-ज्ञानत्वयोरपि भेदे का प्रत्याशेति चेत् ? न, तथापि ज्ञानादिसाक्षाद्वत्तेनित्वादेरेव ध्वंसप्रतियोगितावच्छेदकत्वात् । आत्मत्वब्यापकत्वमपि तस्य न साक्षादिति न कोऽपि दोषः ।
इदमन ध्येयम् - यद्यपि यत्किञ्चिद्घटाऽन्यन्ताभाववत्यजायमानया घटाऽत्यंताभावप्रतीत्या तत्र घटत्वावच्छिन्नप्रतियोगिता सिध्यति, वसे तु नैवं, तथापि 'घटत्वेनायं ध्वस्तो न तु मृत्त्वेने त्यादिप्रतीत्या तत्र सा सिध्यति । अवच्छेदकता तु स्वरूपवि. शेषः । सा च कचिदतिप्रसक्तेऽपि धर्मे प्रतीतिबलात्कल्प्यत इति । प्राञ्चस्त . पूर्वाकारपरित्यागेनोत्तराकारपरिणतिरूपं.
१. विशिष्टवाचकपदानां सति विदोषणवाचकपदसमवधाने विदोष्यार्धभावपरत्वमिति न्यायात् । २. समाधने वापतेत्यादिना. ३, कोषद्वपान्तर्गती पाठी मध्यमवृत्तेोजिनी आवश्यकत्वात् । ४. 'अयं भग' पाठो नावश्यको नास्ति च मध्यवर्ती ।
-
-
-
-
-

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370