Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
2 मध्यमस्याद्रादरहस्ये खण्डः २
प्रतीत्या तयोः स्यादभेदसिद्धेः ।
अत्र किश्चिद्विचार्यते नन्वेवं कपालघटयोर्जन्यजनकभावो न स्यात्, अभेदे तदसम्भवात् । न च कथञ्चिद्भेदोऽप्यभ्युपगम्यत इति वाच्यम्, अवच्छेदकभेदं विनैकत्र भेदाभेदविशेषपणकृत --:: तवोऽवच्छेदकभेदेन वर्त्तते, | ज्ञायते च यथा संयोगाज्भावः, श्यामावच्छिन्नस्य तस्यैवाऽन्योन्याऽभावः तत्रैव रक्ताऽवच्छिन्ने, तदन्योन्याभावश्च श्यामावच्छेदेन । | तदिहापि नीलस्याऽन्योन्याभावो घटत्वावच्छेदेनेति नीलाद्घटस्य भेदोऽस्तु, अभेदस्तु नीलान्योन्याभावाऽभावरूपो घंटे न घटत्वा वच्छेदेनैव विरोधात्, एकावच्छेदेन भावाऽभावयोरेकत्रावृत्तेरज्ञानाच । नाप्यवच्छेदकान्तरेण घटत्वावच्छिन्ने घटे तदभावः, तदज्ञानेऽपि नीलो घट इत्यनुभवाच्चेति • चेत् ? अत्र वदन्ति न हि भेदाभेदो भेदविशिष्टाऽभेदो, अभेदविशिष्टभेदस्यापि सम्बन्धत्वे विनिगमकाभावात् किन्तु जात्यन्तररूप एव गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेन सिद्ध इति क्वावच्छेदकभेदानुपलब्धिबाध: ? एकान्तभेदेऽवयवेष्ववयवी किं भेदेन समवेयात्कात्स्न्येन वा ? नाssथोऽवयवातिरिक्तस्य तदेशस्याऽभावात् । न | द्वितीयः प्रत्यवयवसमवेतावयविबहुत्वप्रसङ्गात् ।
<
अथ समवाय एवं प्रागुक्तप्रतीतिनियामकत्वेन कल्प्यतामिति चेत् १ न तस्यैकत्वेऽतिप्रसङ्गात्, नानात्वे चैतस्यैव नामान्तरकरणात्, अतिरिक्तकल्पनायां गौरवात् । एतेन " समवायसम्बन्धेन जन्यभावत्वावच्छिन्नं प्रति संयोगत्वावच्छिन्नं प्रति वा द्रव्यस्य कारणत्वेन समवायसिद्धिः" इत्यपास्तम्, लाघवादुभेदाभेदसम्बन्धेन परिणामत्वावच्छिन्नं प्रति परिणामिनस्तत्त्वकल्पनाया एवोचितत्वात् । भेदाभेदस्य जातित्वेऽपि सम्बन्धत्वं प्रतीतिबलादेवाऽविरुद्धम् । ननु " नीलोत्पलं, प्रमेयाऽभिधेयमि"त्यादी कर्मधारयेऽभेदस्यैव संसर्गतया प्रदर्शनान्नाऽभेदातिरिक्तभेदाभेदसिद्धिरिति चेत् न, कथंचित्तस्य तदनतिरेकात् । इयांस्तु विशेषो यद् धर्म - धर्मिभावाऽपेक्षया द्वयोर्भेदाभेदः, प्रतिस्वं प्रातिस्विकरूपेण केवलाभेदो, गोत्वाश्वत्वादिना तु केवलभेद इति । न चैवमेकान्ताऽनुप्रवेशोऽभेदसम्भिन्नभेदवत्त्वेनैव तदपायात् ।
इत्थञ्चैतदवश्यमङ्गीकर्त्तव्यम्, कथमन्यथा स्याद्भिनं स्यादभित्रमित्यत्र स्यात्पदं नाऽनतिप्रयोजनमिति ध्येयम् । अथ भेदाभेदस्याऽभेदत्वे 'कपाले घट' इत्यादावाधाराधेयभावप्रतीतिर्न स्यादिति चेत् ? न भेदाभेदत्वेन तस्य वृत्तिनियामक - त्वात् । घटाभावे घटो नास्तीत्यादावपि घटाभावत्वेन धर्म- धर्मिभावविवक्षयैव निस्तार इति तत्त्वम् । वस्तुतः तत्तत्प्रतीतिमनुस्मृत्य तत्तत्प्रतियोगिकत्वविशिष्टत त्तत्सम्बन्धस्याऽऽधारतात्वं कल्प्यते, तेन रूपरसयोर्भेदाभेदसम्भवेऽप्याधाराऽऽधेयभावाऽभावेऽपि न क्षतिरिति ध्येयम् ।
-
नन्वेवमपि भवतु भगवान् भेदाभेदो जात्यंतररूप:, तथाप्यसावेकत्राऽन्योन्याभावतदभावप्रतीतिव्यंग्यः, तयोश्चै कत्रावच्छेदकभेदं ! विना प्रतीत्यनुपपत्तिरित्युक्तमेवेति चेत् ? न घटत्वद्रव्यत्वयोरेव तदवच्छेदकयोः सम्भवात् । यदवदाम स्तुती " एकत्रै" ति ॥ कश्चित्तु भेदोऽन्योन्याभावोऽभेदस्तु धर्मान्तरमित्यभ्युपैति । अत्र तादृशाभेदस्य व्यवहारानीपयिकत्वं यदाविश्चक्रे मणिकृता, तत्तुच्छम् प्रमेयमभिधेयमित्यादी तस्यैव शरणीकरणीयत्वात् ।
दिगम्बरमतानुयायिनस्तु भेदाभेदो भेदविशिष्टाऽभेद एव सम्बन्धता तु तयोरुभयत्वेन रूपेण । न चोभयत्वमपि एकविशिष्टापरत्वमिति विशेषणविशेष्यभावे विनिगमनाविरहः, अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात्तस्याऽतिरिक्तधर्मत्वात् । न च भेदाभेदयोरेकत्र विरोधः न हि वयं यत्र यस्य यो भेदः तत्र तस्य तदभावमेव ब्रूमहे किन्त्वन्यमेवेति । | तथाहि भेदो द्विविधः पृथक्त्वरूपोऽन्योन्याभावरूप । तत्र पृथक्त्वं प्रविभक्तप्रदेशत्वरूपमन्योन्याभावस्त्वतद्भाव इति
यत्तु पृथकृत्त्वमन्योन्याभाव एव इत्यभिदधे दीधितिकृता, तन्न, एवं सति घटः पटात्पृथगितिवद्वपात्पृथगित्यपि प्रमीयेत । यदवोचाम श्रीपूज्यलेखे 'अण्णं घडाउ" त्ति । तथा चान्योन्याभावादपि पृथक्त्वस्य भेदाभेद एवेति तत्त्वम् । न चैवमनवस्था, प्रामाणिकत्वात् । तत्र घटपटादीनां नैतदन्यत्तराभाव इति केवलभेदः तेषां भेदत्वावच्छिन्नाऽभावासंवलितत्वात् । प्रतिस्वं ! प्रातिस्विकरूपेणोभयाभावात्केवलाऽभेदो, अवयवावयव्यादीनां त्वतद्भावसत्त्वेऽपि पार्थक्याभावात् भेदाभेद इति ।
-
* लघुस्याद्वादरहस्य
अत्रेदमस्माकमाभाति - प्रविभक्तप्रदेशत्वमित्यत्र बहुब्रीह्याश्रयणे परमाणवः कुतोऽपि न पृथग्भवेयुः । एवं कर्मधारयाश्रयणे देशस्कन्धयोरपि स एव दोषः । स्कन्धाश्रितपरमाणूनामेव प्रदेशत्वसंज्ञया तदनाश्रितपरमाणूनाञ्च कुतोऽपि न पृथक्त्वं घटेत । । किञ्च - प्रदेशेषु किं प्रविभक्तत्वं ? न तावदन्यत्वं, एकद्रव्यस्यैव प्रदेशानां तादृशत्वात् । नापि पृथक्त्वं, तस्य प्रवि| भक्तस्कन्धकत्वरूपतयाऽन्योन्याश्रयात् । तथाहि प्रदेशानां प्रविभक्तत्वसिद्धौ प्रविभक्तप्रदेशत्वरूपं स्कन्धानां पार्थक्यं सिध्यति,
.
१. एक वृत्ती हि विरोधभाजीर्वेषामवच्छेदकभेदयाचा । द्रष्यत्वपर्यायत्तयोविभेदं विजानतां सा कथमस्तु वस्तु ॥ इति मध्यमस्याद्वादरहस्ये । २. अण्णं घडाउ रूवं ण पोत्ति विसारदाण त्रहारो । भेदा उणो पुढत्तं भिज्जदि त्रवहारवाणं ॥ इति मध्यमं । (अन्य घटात् रूपं न पृथगिति विशारदानां व्यवहार: । भेदात्पुनः पृथकत्वं भिद्यते व्यवहारबाधन)

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370