________________
३२८
* अंशांशिनोः कश्चिद्भदसमर्थनम् * अंशांशिनोः कथसिद्धदस्य च प्रत्यक्षसिन्दत्वात् । 'मूले वृक्षः कपिसंयोगी'त्यत्र हि 'मूलांश
=-=-=-----...-.. ---* जयलता *
नन्वेबमपि व्यभिचारो दर्निवारः, मन्दतमः संयोगावच्छेदकांशविषयकयोग्यतादशायां चक्षषा तदंशाग्रहे तदभिन्नत्वेनाऽवयविनोऽपि ग्रहादित्याशङ्का काह.. अंशांशिकोरिति । उपाध्यतिनो . . कथमिद्भेदस्य च = स्याद्भिन्नत्वस्य, हि प्रत्यक्षसिद्धत्वादिति । तदेव दर्शयति- मूल इति । अयं स्याद्वादिनोऽभिप्रायः, यत्रैकस्यैव घटस्थाढ़ मंदतमसि अर्द्धश्वालोके तत्र मन्दतमो:वच्छेदेन न घटद्रव्यस्य चाक्षुषं किन्तु तमःसंयोगावच्छेदकांशस्यैव चाक्षुषम् । यदि च तत्र घटभानमानुभविकं तदा तत् स्मृत्यनुमानादिरूपमवगन्तव्यम् । अत एबाऽऽलोकावच्छेदेन रक्तरूपवति तमोऽवच्छेदेन झ्यामरूपवति पटे आलोकाभिमुखचक्षुर्दशायां 'रक्तोऽयमि' त्यस्य देशापेक्षया प्रामाण्योपपत्तेः, अन्यथा यावदवयवचक्षुःसन्निकर्षस्य कुत्राऽप्यसम्भवेन अनेकतत्संयोगस्य चाऽतिप्रसञ्जकत्वेन न कदाऽपि रूपनिश्चयो भवेत् । द्विहस्तादिमात्रे पटेनावृतकहस्तावच्छेदेन महत्त्वग्रहोऽपि देशापेक्षयैव प्रमाणम् । अत एव आवरणाऽपगमे स्कन्धापेक्षया परिमाणे द्विहस्तत्वग्रहेऽपि तावदवच्छेदन हस्तत्वग्रहस्य नाडप्रामाण्यम्, देशस्कन्धभेदेनो भयोपपनेः । यदि चावयवद्वारा सर्वत्रवावयविनः प्रत्यक्षं भवत्येवेत्यङ्गीक्रियेत, तदा निखातघट्नुम्नदेशदर्शने 'किमयं घट आहोस्वित् इस्राव उदस्वित् कपालं यदुत कपालिका वा ?' इति संशयो न स्यात् । अतो यद्देशाभिमुखं चक्षुः तदंशस्यैव चाक्षुषमुपगन्तव्यम् । ततश्च मन्दतमःसंयुक्तावविविषयकयोग्यताविरह्समकालीन-मन्दतमःसंयोगावच्छेदकांशविषयक योग्यतादशायां चक्षुषांऽयाग्रहेऽप्यशिनोऽग्रहादेव न व्यतिरेकन्यभिचारावकाशः । इदञ्च भेदनयपुरस्कारेणोक्तं द्रष्टव्यम् । तेन नैकान्तवादप्रवेश इति ध्येयम ।
_अथवा प्रस्तुतशङ्का-समाधानबार्तासङ्गतिरेवं कार्या । तत्राऽयं नैयायिकाशयः योग्यताविशेषस्य तमःसंयुक्तद्राचाक्षुषकारणता | न युक्ता, एकावळेदेनालोकवतोपावच्छेदेन च तमःसंयोगवतो द्रव्यरन्य तमःसंयुक्तत्वेऽपि आलोकाभिमुखचक्षुषा ग्रहात्, | आलोकेनैव तदुपपत्ती तत्र योग्यतःविशेषकारणत्वस्य कल्पयितुमशक्यत्वेन व्यतिरेकन्यभिचारात् । अत्रेदं स्याद्वावादिसमाधानं, एवं, तमःसंयुक्तद्रव्यचाक्षुषोदयस्य चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगेनोपपादनेऽपि एकाबच्छेदेनालोकवतोपरबछेदन तमःसंयोगयतो द्रव्यस्य तमःसंयुक्तांशे चाक्षुषस्य चक्षुःसंयोगावच्छेदकानिछन्नालोकसंयोगेनोपपादयितुमशक्यत्वात, तयारमदभिमतयोग्यताविशेषस्यैवाइवल्याश्रयणीयत्वात्, तमःसंयुक्तांशगोचरचा पत्तस्यैव योग्यताविशेषकार्यतावच्छेदकत्वेन व्यतिरकन्यभिचाराऽ. योगात । न चाऽवयवाञ्वयवितादात्म्यपक्षे तमःसंयुक्तचाक्षुषे दर्शिताला कसंयोगस्य कारणता तमःसंयुक्तांशचाक्षुषे च तस्याऽकारणता कथं स्यादिति वक्तव्यम् , देश-स्कंधयोः कश्चिद्भेदस्य प्रत्यक्षसिद्धत्वेन सर्वथातादात्म्यस्य बाधात् । दृष्टो हि 'मूले वृक्षः कपिसंयोगी'त्यत्र 'मूलांशवृक्षः कपिसंयोगी'त्याकारिका प्रमा । न हि तबाउभेदवादिनाऽपि वृक्षे कपिसंयोगाऽपृथग्भावभानं वक्तुं युज्यते, अन्यथा तदानीं 'शावायां वृक्षः कपिसंयोगी' त्यस्याऽपि प्रामाण्यं स्यात् । न चैवमस्ति, मूले एव कपिसंयोगतादात्म्यसत्त्चात्, न तु शाखायाम् । ततश्च तमःसंयुक्तांशचाक्षुषे योग्यताविशेषस्य न व्यभिचारित्वमिति फलितम् ।
ननु, स एव नयनाभिमुखभागे एकत्र पटाद्यावृतो द्रव्यांशो यदा नयनपराङ्मुखभागे तमःसंयोगवान् नयनाभिमुखानाबृतभागे चालोकसंयोगवान् तदा तचाक्षुष प्रति तु आलोकसंयोगावच्छेदकाऽवच्छिन्नस्य चक्षुःसंयोगस्यैव हेतुत्वं युक्तं न तु
अंश में तमःसंयुक्त द्रव्य का चाक्षुष प्रत्यक्ष होने से व्यतिरेक व्यभिचार अनिराकार्य है" -तो यह ठीक नहीं है। इसका कारण यह है कि तमःसंयुक्त अंश के चाक्षुष के लिए तो योग्यताविशेष की अपेक्षा जरूर रहती है। अमुक भाग में आलोक एवं अमुक भाग में अन्धकार से संयुक्त द्रव्य के आलोकवाले भाग का चाक्षुष भले आलोकसंयोग से हो जाये मगर आलोकसंयोगशून्य अन्धकारवाले भाग के चाक्षुष के लिए तो योग्यताविशेप को ही कारण माना जा सकता है । अतः व्यतिरेक व्यभिचार निरवकाश है। यहाँ यह प्रश्न करना कि > 'एक ही द्रव्य के चाक्षुष में आलोक की कारणता एवं अकारणता कैसे हो सकती है?
-नामुनासिब है, क्योंकि अवयव और अवयवी में कथंचिद्भेद प्रत्यक्ष प्रमाण से सिद्ध है। अतः आलोकवाले भाग के चाक्षुष के प्रति आलोक की कारणता एवं आलोकशून्य भाग के चाक्षुष के प्रति आलोक की अकारणता हो सकती है। अतः तमःसंयुक्त अंश के चाक्षुष के प्रति योग्यताविशेष की कारणता अबाधित है। अंश-अंशी में भेद प्रत्यक्षसिद्ध है इसका यह दृष्टान्त है कि 'मूले वृक्षः कपिसंयोगी' इस वाक्य से 'भूलांशवृक्ष कपिसंयोग वाला है ऐसा प्रमात्मक शान्दवोध होता है, क्योंकि मूलावयव में ही कपिसंयोग का अपृथग्भाव है, न कि संपूर्ण वृक्षात्मक अवयवी में । इसलिए मूल (= जड़) एवं वृक्ष में कथंचितभेद मानना आवश्यक है । इस परिस्थिति में तमःसंयुक्त द्रव्यांश के प्रति योग्यताविशेष को कारण मानना मुनासिब ही है।