Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 267
________________ * सप्तमश्लोकान्वयदिग्दर्शनम् * अत्र एका = एकस्मिन् वस्तुनि व्यं न विरुदमिति न व्याख्येयं, विरुदपदस्यैवैकाधिकरणाऽवृत्त्यर्थकत्वेन 'एका' इत्यस्य पुनरनन्वयाऽऽपत्ते:, विरुध्दे एकवृत्तित्वस्य बाधात्, अविरुदे तु तस्याऽविरुदत्वपर्यवसितस्याऽपि तेन रूपेणाऽसिषाधिषितत्वात्, अविरुदत्वप्रकारिकाया एव सिषाधयिषायाः सत्त्वात् । == . .= * जयलवा *----........ त्वातोश्च कालात्ययापदिष्टत्वात, अनुष्योऽग्निद्रव्यत्वाज्जलवदित्यादिवदिति । भेदाभेदयार काधिकरणयन प्र तिभासनात् । न चाइनयोर्विरुद्धधर्मयोरपि सतो: कापि क्षतिरीक्ष्यते इति पर्यालोच्य स्तुतिकृदपि विरोधाभावमाह- ' दित्यादि । हिः = यस्मात् विरुद्भवर्णसम्बन्धो मेचकवस्तषु मिश्रवर्णपदार्थेषु दृष्टः, परं न नत्रैतद् दुषणकगघोषणान्यषणापि कर्तुं पार्यते । !! यदि तत्रापि वारिडेण्डेिमाडम्बरप्रचण्डपाण्डित्यपाटवनाट्यशील: प्रत्यक्षादिप्रमाणापपत्र कापि युक्ति: प्रस्मन्यत तदा वमप्यस्तु अनुष्णोऽग्निद्रव्यत्वात् जलवत् । अर्थतत्प्रत्यक्षबाधितपक्षानन्तरं निर्दिश्यमानत्वेन कालात्ययापदिष्टम् । आः ! परमबन्धा : पिब पीयूषयूषम्, वयमपि हस्तमुक्षिप्यवमेद वदामः - भेचकवस्तुवत्प्रत्यक्षोपपत्रेऽप्यनेकान्ते का कुयुक्तिनिरुक्तिप्रपञ्चचातुरी ? तस्माद् विरोधादिदृषणवारणगणाधर्षणीयः परां प्रौढरूढिं प्रपन्नोऽनेकान्तकेशरी' -(वी.स्तो.चि. पृ.७७/८१) इति तदीयव्याख्याप्रदर्शनमपि अनेन कृतं भवति । प्रकरणकृद् व्याख्यानयति - अत्रेति । प्रकृतकारिकायामिति । एकत्र = एकस्मिन् वस्तुनि द्वयं = नित्यत्वानित्यत्वादिद्वयं न विरुद्धं इति न व्याख्येयम् । कुतः ? इत्याह-विरुद्धपदस्यैव एकाधिकरणाऽवृत्यर्थकत्वेन - एकाधिकरणानिरूपितवृत्तित्वाभाववाचकत्वेन, 'एको' त्यस्य पदस्य अर्धस्य पुनः अनन्चयापत्तेः = कुत्राऽप्यन्वयासम्भवप्रसङ्गात् । 'विरुद्धपदार्थे एच तदन्चयोऽस्त्विति शङ्कायामाह - विरुद्ध = विरुद्धपदप्रतिपाद्ये एकाधिकरणनिरूपितवृतित्वशून्ये, ‘एको निपदार्थस्य एकवृत्तित्वस्य = एकाधिकरणनिरूपितवृत्तित्वस्य बाधात् न तत्र तदन्वयः सम्भवति, अन्यथा 'अनलवान् अनलाभाववानि' त्यादावपि तथान्वयबोधप्रसङ्गात् । ___ ननु न विरुद्धं = अविरुद्धम् । एकाधिकरणनिरूपितवृत्तित्वशून्यभिन्ने अविरुद्धपदप्रतिपाद्ये 'एकत्रे तिपदार्थस्य एकाधिकरणनिरूपितवृत्तित्वस्याऽविरुद्धत्वलक्षणस्य त्वन्चयो न बाधितः । तथा च न ‘एको'त्यभिधानार्थस्याऽनन्वयप्रसङ्ग इत्याशङ्कायां प्रकरणकृदाह- अविरुद्धे = अविरुद्धपदार्थे तु तस्य = 'एकत्रे'तिपदार्थस्य, अविरुद्धत्वपर्यवसितस्य = एकाधिकरणनिष्ठाधारतानिरूपिताधेयत्वलक्षणाऽविरुद्धत्वपदार्थपर्यवसन्त्रस्य, अन्वययोग्यत्वे अपि तेन रूपेण = अविरुद्धपदार्थवृत्तित्वेन रूपेण, असिपाधयिपितत्वात् = साधयितुमनभिमतत्वात् । कुत इदमज्ञायि भवद्भिरित्याशङ्कायामाह् - अविरुद्धत्वप्रकारिकाया एव सिपाधयिपायाः सत्त्वादिति । इदमत्राऽभिसंहितम् - उद्देश्य-विधेयभावस्थले उद्देश्यतावच्छेदकधर्मविधेययोभिन्न- त्वमेव भवति, अन्यथा 'वहिमान वहिमानि' त्यादावप्युद्देश्यविधेयभावप्रसङ्गात् । सिषाधयिषायां प्रकारीभूतस्यैव विधयत्वनियमात प्रकते अविरुद्धत्वस्यैव बिधेयत्वमिति नाविरुद्धस्योद्देश्यत्वं भवितुमर्हति, उद्देश्यतावच्छेदकस्यैव विधेयत्वाऽऽपातात् । न चैवं भवति विधेयस्योद्देश्ये सिषाधयियितत्वेनोद्देश्यतावच्छेदकस्यापि तदभिन्नस्याऽसिद्धत्वप्रसङ्गात् । न ह्यप्रसिद्धमुद्दिश्य किञ्चिद् विधीयते प्रतिषिध्यते दा, बन्ध्यापुत्रमुद्दिश्य श्यामत्वादेरपि विधेयत्वादिप्रसङ्गात् । इत्थश्च 'एकत्रे'तिपदार्थस्याविरुद्धत्वफलितस्य न विरुद्धे न दाऽविरुद्धेऽन्वयो भवितुमर्हतीति तदनन्वयप्रसङ्गस्य दुर्वारत्वात् 'एकत्र दूर्य न विरुद्धमिति न * उद्देश्यतावरलेक और विधेश मिा होते हैं * अत्र. इति । यहाँ यह ज्ञातव्य है कि इस कारिका के पूर्वार्ध का ऐसा अर्थ नहीं लगाना कि 'एक वस्तु में दो धर्म विरुद्ध नहीं है, क्योंकि ऐसा व्याख्यान करने पर 'एकत्र' पद के अर्थ का कहीं भी अन्वय नहीं हो सकेगा। इसका कारण यह है कि 'एकत्र' पद का अर्थ है एकाधिकरणवृत्तित्व । इसका विरुद्ध'पद के अर्थ में तो अन्वय = सम्बन्ध नहीं हो सकता, क्योंकि विरुद्ध पद का अर्थ है एकाधिकरण में अवृत्ति । एक अधिकरण में नहीं रहने वाले पदार्थ में एक अधिकरण से निरूपित वृत्तिता = आधेयता अर्थ का सम्बन्ध बाधित होने से 'एकत्र' पदार्थ का विरुद्धपदार्थ में अन्वय नहीं हो सकेगा। यदि 'न विरुद्धं' का अर्थ अविरुद्ध कर के उसमें एकत्र' पदार्थ का अन्वय किया जाय तो वह भी मुनासिब नहीं है, क्योंकि यद्यपि 'एकत्र पदार्थ एकाधिकरणवृत्तित्व अविरुद्धत्व अर्थ में पर्यवसित - फलित होने से अविरुद्धपदार्थ में अन्वय योग्य है

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370