________________
५६७ मध्यमस्याद्वादरहस्य खण्ड २ . का.७ ** दिगम्बरमतदूपणम् *
ता, वर्णमात्रं प्रत्येव पुरुषप्रयत्नस्य कारणत्वात् तं विना तदनुत्पत्तेः । न च रागविशिष्टवर्ण प्रत्येव तस्य हेतुता; अनन्तप्रवृत्तिकार्यतावच्छेदककोटौ रागविशिष्टत्वदानापेक्षया रामविशिष्टप्रवृत्तिं प्रत्येवेच्छाया हेतुत्वकल्पने लाघवात् । न च तत्तन्मोहविशिष्टत्वा
* जयलता * निरुक्तदिगम्बरमतमाहस्तयितुमपक्रमते - तचेति । वर्णमात्र प्रति = वर्णत्वावच्छिन्नं प्रति, तेन नाऽनुपदवक्ष्यमाणैवकारपदेन सह पौनरुक्त्यं, एवकारेण रागविशिष्टवर्णत्वावच्छिन्नं प्रतीत्यस्य व्यवच्छेदः कृतः । पुरुषप्रयत्नस्य = जीवयत्नस्य, तेन न स्यादिप्रयत्नजन्यशब्दे व्यतिरेकव्यभिचारः । यद्वा पुरुषपदं परिचायक, कारणतावच्छेदकं तु, प्रयत्नत्वमेव, लाघवात् । कारणत्वात् = अन्वयव्यतिरेकाभ्यां कारणत्वसिद्धेः, तं = प्रयत्नं बिना तदनुत्पत्तेः = वर्गोत्यादाइसम्भात् । स्वकारणतावच्छेदकावच्छिन्नमृते कार्यस्य सत्त्वाऽभ्युपगमे नित्यं सत्त्वप्रसङ्गात् । ननु रागविशिष्टदाब्दं प्रत्येव कृतेर्हेतुत्वमिति रागशून्यशब्दस्य प्रयत्नमृतेऽप्युत्पनौ दोषाभावादित्याशङ्का निराकरोति - न चेति । अत्र बाधकमावेदयति - अनन्तप्रवृत्तिकार्यतावच्छेदककोटी = अनन्तप्रयत्ननिष्ठकारणतानिरूपितायाः कार्यताया अवच्छेदकत्वशरीरे, रागविशिष्टत्वदानापेक्षया = सगवैशिष्टयस्य निवेशापेक्षया, रागविशिष्टप्रवृत्ति = रागविशिष्टप्रयत्नं प्रति एव इच्छाया = रागस्य हेतुत्वकल्पने प्रयत्नकार्यतावच्छेदकदेहे लाधवादिति । इदमुक्तं भवति - यदि प्रयत्नस्य कार्यता रागविशिष्टवर्ण इत्यङ्गीकारेण वीतरागवर्णस्य कण्ठताल्वाद्यभिधाताद्यनुकूलप्रयत्न विनवोपपादनेऽपि स्थानासन-विहार-चङ्गक्रमणानप्राण-रक्तभ्रमण-हस्तादिचालनादिक वीतरागस्य प्रयत्नं बिना नैवोत्पत्तु मर्हति, प्रयलस्व सत्कारणत्वासातदल्पत्यारोधिन वीतराग प्रयत्नस्वीकारे प्रयत्नादेव वर्णोत्पादसम्भवे किं रागविशिष्टवर्ण प्रति प्रयत्नस्य कारणताया: कल्पनेन, गौरवात् । अथ प्रयत्नत्वावच्छिन्नस्येच्छाजन्यत्वाऽवधारणानिरिच्छे भगवति न स्थानासनाद्यनुरोधात्प्रयत्न: स्वीक्रियते । न च तर्हि प्रयत्नं बिना कथं तदत्पत्तिः ? अन्यत्र स्थानासनादिकं प्रति प्रयत्नस्य कारणत्वावधारणेन व्यतिरकव्यभिचारप्रसङ्गादिति वाच्यम्, वीतरागस्थानासनविहाराद्यनुरोधेन रागविशिष्टस्थानासनविहारादिकं प्रत्येव यत्नस्य कारणत्वकल्पनादिति चेत् ? अहो : दिक्पटस्याऽभिनिवेशः । एवं रागविशिष्टत्वस्य प्रयत्ननिष्ठकारणतानिरूपिताऽनन्तकार्यतायाअवच्छेदकारीरे प्रवेशे मानाभावात्, व्यर्थगौरवाच, तदपेक्षया लाघवेन रागविशिष्टप्रयत्नं प्रत्येवेच्छाया: कारणत्वं कल्पयितुमर्हति । न चैवमपि तवेच्छानिरूपितकार्यतावच्छेदककोटी रागविशिष्टत्वनिवेशगौरवमध्याह्तमेवेति वाच्यम्, मयेच्छानिरूपिताया: प्रयत्ननिष्ठाया एकस्या एवं कार्यताया अवच्छेदकत्वशरीरे रागवैशिष्टयस्य निवेशात् त्वया तु प्रयत्ननिरूपितायाः स्थानासनविहारचक्रामणवर्णादिनिष्ठाया अनन्तायाः कार्यताया अवच्छेदकलकुक्षौ रागविशिष्टत्वस्य प्रवेशात्तव इत्या प्रयत्नकार्यतायां सङ्कोचे मानाभावेन प्रयत्नमृते वीतरागदेशनादिकं नैव भवितुमर्हतीति स्थितम् ।
ननु तिष्ठासालक्षणमोहविशिष्टस्थितिक्रियां प्रति तिष्ठासालक्षगमोहस्य कारणत्वं, जिगमिषाविशिष्टगमनक्रिया प्रति जिगमिषास्वरूपमोहस्य हेतुत्वं, त्रुभोधयिषात्मकमोहविशिष्टशब्द प्रति बुभोधयिषालक्षणमोहस्य निमित्तत्वमित्येवमेवान्वयन्यतिरेकाभ्यां कार्यकारणभावकल्पनमर्हति । ततश्च बीतमोहानां भगवतां न शब्दप्रयोक्तृत्वमित्याशाम्बराशामपाकर्तुमुपक्रमते - न चेति । अस्य 'वाच्यमित्यनेनान्वयः । 'तसन्मोहे त्यादिकं भावितमेव । प्रकरणकारः समाधत्ते - तथापीति । बुभोधयिषा-जिगमिषातिष्टासादितत्तन्मोहविशिष्टत्वावच्छिन्नवर्णबिहारस्थानासनादिकं प्रति बुभोधयिषा-जिगमिषा-तिष्ठासादितत्तन्मोहत्वेन कारणत्वाकि छा से, ठीक वैसे ही' । अत: केवली शब्द का प्रयोग नहीं करते हैं । यह फलित होता है ।
दिगम्बरमतनिराकरण तन्न. इति । श्वेताम्बरशिरोमणि प्रकरणकार श्रीमद्जी उपर्युक्त दिगम्बर मान्यता के खिलाफ यह कहते हैं कि → 'केवली भगवंत के मस्तक में से निरित्वर ध्वनियौं निकलती हैं....' इत्यादि दिगम्बर आम्नाय अप्रामाणिक है, क्योंकि जीवप्रयत्न वर्णमात्र के प्रति ही कारण होता है, न कि रागविशिष्ट वर्ण के प्रति । जीव प्रयत्न करता है, तब वर्ण - शब्द उत्पन्न होते हैं, और वर्णानुकूल प्रयत्न के विरह में शब्द उत्पन्न नहीं होते हैं। इस तरह अन्चय-व्यतिरेक से शन्दमात्र के प्रति ही जीव का प्रयत्न कारण होता है, न कि रागविशिष्ट वर्ण के प्रति ही, क्योंकि जीवप्रयत्न को रागविशिए वर्ण का कारण मानने पर प्रवृत्ति का कार्यतावच्छेदक धर्म रागविशिष्टवान्दत्व बनने की वजह अनंत प्रवृत्ति की कार्यता की अवच्छेदककुक्षि में रागविशिष्टत्व का अधिक प्रवेश होता है। इसकी अपेक्षा यही मुनासिब है कि इच्छा को ही रागविशिष्ट प्रवृत्ति के प्रति प्रयत्न के द्वारा कारण माना जाय, क्योंकि इस पक्ष में प्रवृत्ति की कार्यतावच्छेदककुक्षि में लापन होता है। यहाँ यह कथन हो