________________
-
-
-
* केवलिना शब्दाप्रयोक्तृत्वमाशाम्बरमते * विससात एव मूहों निरित्वरा ध्वनयस्तत्तच्छब्दत्वेन परिणम्याऽविशेषं बोधयन्ति । न चैवमुपदेशादि तस्य नियतकालीनं न स्यादिति वाच्यम्, वैससिकस्यापि तस्य स्वभावतो नियतकाल एव भावाद, घनगर्जितादिवत् । उक्तञ्च -> 'ठाणणिसेज्जविहारा, घम्मुवदेसो य नियदिणा तेसिं । अरहताणं काले मायाचारी व्व इत्थीणं' ।। (प्र.सा.9/88) «- इत्याहुः ।
= =* जयलता * अभिष्वङ्गरूपत्वात् । तस्या विरहे कुतः प्रयत्नः । तदभावे च कुतः प्रवृत्तिः ? अतो न ते शब्दं प्रयुञ्जत इति सिद्धम् । 'केवलज्ञानिनां शब्दानयोक्तत्वे कथं तीर्थस्थापनादिकं सम्भवेत ? इत्याशङ्कायामाह - किन्विति । विससात एव = विससापरिणाममाश्रित्य, एवकारेण प्रायोगिकपरिणामव्यवच्छेदः कृतः, मूर्ध्नः = शिरस: नि:सरन्तः निरित्वराः = सातत्यशालिनः ध्वनयः, अनेन वर्णात्मकशब्दव्यवच्छेदः कृतः, तनच्छब्दत्वेन परिणम्याविशेष बोधयन्तीति । ततश्च केवलज्ञानिनः कण्ठताल्वाद्यभिघातादिद्वारा वर्णात्मकताब्दं नोत्पादयति । न च वैससिकध्वन्यात्मकशब्दानां वर्णात्मकशब्दत्वेन परिणतत्वस्याऽभ्युपगमे मृदङ्गादिध्वनीनामपि वर्णत्वेन परिणामापतेर्नेयं कल्पना युक्तेति वक्तव्यम्, तीर्थंकरनामकर्मोदयेनैव ध्वनीनां वर्णत्वेन परिणतत्वाऽङ्गीकारेगाऽनतिप्रसङ्गात् । एतेन ध्वनीनां वर्णत्वेन परिणतत्वकल्पनाया अप्रामाणिकत्वमपि प्रत्युक्तम्, अन्यथा श्वेतपटस्यापि अर्धमागधीभाषात्मिकायाः तीर्थकरदेशनाया तत्तच्छ्रोतृभाषात्वेन परिणामोऽपि नैव सङ्गच्छेत । न चेति । अस्य वाच्यमित्यनेनाऽन्वयः । एवं = भगवद्ध्वनीनां वैनसिकत्वेऽभ्युपगम्यमाने उपदेशादि = उपदेशस्थाननिषद्याविहारादिक तस्य = तीर्थकरस्य नियतकालीनं न स्यात् कदाचिद्रात्री क्वचिदिवा द्वितीयादिप्रहरेऽपि उपदेशविहारादिकं प्रसज्येतेति शङ्काझयः । आशाम्बरास्तन्निराकुर्वन्ति - चैनसिकस्य = विनसापरिणामजन्यस्य अपि तस्य उपदेशादेः स्वभावतः नियतकाल एव भावादिति । तच्छिरसोऽहर्निशं ध्वनीनां नि:सरणेऽपि तत्तच्छब्दत्वेन परिणामस्तु दिनप्रथमचरमपौरुष्योरेव भवति नियतिवशादिति न तीर्थंकरदेशनाया नयत्यव्याहतिरिति दिक्पटाभिप्रायः । उक्तार्थे संवादमावेदयन्ति - उक्तश्चेति । प्रवचनसारे कुन्दकुन्दस्वामिनेति शेषः । ठाणेत्यादि । नियतिपदेन ज्ञानेच्छादित्यवच्छेदः कृतः । काल इति नियतकाल इत्यर्थः । अत्र तत्त्वप्रदीपिकाकारः --> 'यथाहि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्वभावभूत एघ मायोपगुण्ठनागुण्ठितो व्यवहार: प्रवर्तते तथाहि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानमासनं विहरणं धर्मदेशना च स्वभावभूता एव प्रवर्तन्ते । अपि चाविरुद्धमेतदम्भोधरदृष्टान्तात् । यथा खल्बम्भोधराकारपरिणतानां पुद्गलानां गमनमवस्थानं गर्जनमम्बुवर्षश्च पुरुषप्रयत्नमन्तरेणापि दृश्यन्ते, तधा केवलिनां स्थानादयोऽबुद्धिपूर्विका एव दृश्यन्ते । अतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि केबलिनां क्रियाफलभूतबन्धसाधनानि न भवन्ति' «- (प्र.सा.१/४४ अ.टी.पृ.५१) इत्येवं व्याख्यातवान् ।
D
क्रम से केवली शब्द को उत्पन्न नहीं कर सकते, क्योंकि केवली को कोई इच्छा ही नहीं होती है । इच्छा रागस्वरूप है
और केवलज्ञानी वीतराग है। इस तरह जब केवलज्ञानी को इच्छा ही नहीं होती, तब स्वेष्टसाधनताज्ञान = अपनी इच्छा के विपपीभूत पदार्थ की साधनता का ज्ञान आदि कैसे मुमकिन हो सकता है ? इसलिए केवलज्ञानी भगवंत शब्द का प्रयोग नहीं करते हैं, किन्तु विससापरिणाम से केवलज्ञानी के मस्तक में से सतत = निरित्वर ध्वनि निकलती हैं, जो तत् तत् घटादिशब्द में परिणत हो कर घटादि तत् तत् अर्थ का शान्दबोध श्रोता को कराती हैं। यहाँ यह शंका हो कि -> 'यदि केवलज्ञानी के सिर से विससापरिणाम द्वारा ध्वनि निकलते हैं, तब तो केवलज्ञानी की देशना नियतकालीन नहीं होगी, मगर रात और दिन चलती रहेगी । मगर जैन आगम में तो कहा गया है कि तीर्थकर की देशना दिन के प्रथम और अन्तिम प्रहर में ही होती है । यह कैसे संगत होगा ?' - तो इसका समाधान यह है कि वे ध्वनि विनसापरिणामजन्य = वैनसिक होने पर भी नियत काल में ही उत्पन्न होती हैं, न कि रात और दिन २४ घंटों तक । यह ठीक उसी तरह संगत हो सकता है, जैसे आकाश में बादल की गर्जना विनसापरिणाम से उत्पन्न होती है, फिर भी सभी ऋतु में बादलगर्जना नहीं होती है, किन्तु बारिस के दिनों में यानी वर्षाऋतु में ही उत्पन्न होती है। सिम्रसापरिणाम से जन्य पदार्थ भी नियतकालीन हो सकते हैं । अतः तीर्थंकर का उपदेश दिन के प्रथम और चरम प्रहर (= दिन का चतुर्थ भाग) में मुमकिन है । इस विषय में प्रवचनसार ग्रन्थ में दिगम्बराचार्य कुंदकुद स्वामी ने कहा है कि 'अरिहंत भगवान का बैठना, विहार करना, धर्मोपदेश
देना इत्यादि नियति = स्वभाव से ही उचित काल में होता है। जैसे स्त्री में माया का आचार स्वभाव से होता है, न । १. स्थाननिषद्याविहारा धर्मोपदेशच नियत्या तेषां । अर्हतां काले मापाचार इव स्त्रीणाम् ।