Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 332
________________ ५२९ मध्यमस्याद्वादरहस्ये खण्डः २ - का.. * शुद्धेच्छाया रागत्वाऽयोगोपपादनम् * जणविबोहणद्वाए' इत्याद्याई स्वरसत: सङ्गच्छते । न चैवं मोक्षेऽप्यनजिघृक्षापत्ति:, जिननामकर्मोदयादिसाचिव्यादेव तत्प्रवृतेरित्यप्याहुः । इत्यधिक मत्कृताध्यात्ममतपरीक्षायाम् । ====जयलता * कथं वक्तृत्वमिति वाच्यम्, तामन्तरेणापि वक्तृत्वस्य सुप्तमत्तादिषूपलब्थेः । तत्रापि साऽस्तीति चेत् ? न, तथाप्रतीत्यभावात्, प्रबुद्धादाबुक्तस्मरणानुपलब्धेः, तथापि तत्कल्पनेऽतिप्रसङ्गात्, कातरविवक्षायां क्वचिच्छूरशब्दप्रयोगदर्शनात् । तत्राप्यन्तराले शूरविवक्षास्तीति चेत् ? न, प्रमाणाभावात् । तच्छन्दप्रयोगान्यथानुपपत्तेः प्रमाणत्वमिति चेत् ? न, सन्देहाऽनिवृत्तेः, अविवक्षापूर्वकत्वेऽपि विरोधाऽसिद्धेः । तदभाबे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेविरोधसिद्भिरिति चेत् ? न, अहेतुकत्वाऽसिद्धेः, तथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात् । तेषाञ्च तथाविधत्वस्याऽदृष्टादिनिबन्धनत्वात्, अन्यथा विवक्षाया अपि सदा भावेनोक्तदोषानतिवृत्तः, अमनस्कत्वेन च भगवत इच्छानुपपत्तिः, तथाबाग्योगस्य च चेष्टामात्रत्वात्, इच्छाया:सद्भावेऽपि शुद्धेच्छाया रागाऽयोगात्, तथालोकप्रतीतेरित्याधुक्तं श्रीहरिभद्रसूरचक्रवर्तिना सर्वसिद्धः । वाचस्पतिमिश्रेणापि न्यायकणिकायां -> 'न हीच्छामानं राग: किन्तु चित्तमलमात्मनो दर्शनावरणं अभूतगुणाभिनन्दनं | | रागमाचक्षते' - (न्या,क. पृ.८%) इत्यभ्यधायि । एतेन --> 'गेण्हदि णेव ण मुंचदि ण परं परिणमदि केवली भगवं । पेच्छदि समंतदो सो जागदि सव्वं गिरवसेसं ॥ -(प्र.सा.१/३२) इति प्रवचनसारवचनमपि परास्तम, सत्यपि ज्ञाने आत्मप्रदेश: कर्मादानवद् योगप्रदेदौर्च हिरा दानस्याऽप्युपपत्तेः । ध्वनिरूपा पारमेश्वरी वाक् तु न युक्ता कल्पयितुम्, ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञं श्रोतृभाषापरिणामवदक्षरपरिणामाच्योगात्, अव्यक्तैकरूपतया सत्याऽसत्यामृषादलद्वयनिष्पादकवाग्योगद्वयवैयर्थ्यात्, ‘अद्धमागहीए भासाए भासंति' ( ) इति सूत्रविरोधात्, नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनाऽपि परानुग्रहोपपत्तेः । ध्वनेरपि पौरुषेयतयाऽक्षररूप- ! तया तुल्ययोगक्षेमत्वात्, अन्यथा बाह्यमतप्रवेशाचे' त्यादिकं स्याद्वादकल्पलतातोश्वसेयम् । तत्त्वार्थवृत्तावपि -> 'इच्छां विना कथमुपदेशादी प्रवृत्तिस्तस्य ? इति तीर्थान्तरीयाशङ्का न श्रेयसी, जीवनयोनियत्नादिव्यावृत्तस्येव भगवद्यत्नव्यावृत्तस्यैव वैजात्यस्य यत्नगतस्येच्छाजन्यतावच्छेदकत्वात, एवं हि जन्यत्वविशेषणगौरवमपि परिहृतं भवति । पुद्गलग्रहणनिसर्गादिप्रवृत्ती मोहोदयस्यैव हेतुत्वमिति क्षीणमोहस्योपदेशादिकं नैयतिकमेवेति नग्नाटवचनं तु न श्रद्धेयम, मोहोदयस्याऽप्यन्वयन्यतिरेकाभ्यामारम्भादिप्रवृत्तिविशेष एव हेतुत्वात्, अन्यथा गुरुविनयस्वाध्यायाध्ययनदानादिप्रवृत्तीनामपि मोहजन्यत्वापत्तेः, नियतानियते सर्वत्र कार्ये व्यवस्थिते भगवचेष्टाया: केवलनियतत्ववचनस्याऽनागमिकल्लाच्च । इच्छां विना न प्रवृत्तिः प्रवृत्ति विना च न चेष्टेति निश्चेष्टतैवं तस्य प्रसज्येत, विलक्षणचेष्टायामेव प्रवृत्तिहेतुरित्यभ्युपगच्छंश्च विलक्षणकृतावेवेच्छा हेतुरिति निरीहप्रवृत्तिं भगवतः कुतो नाऽभ्युपगच्छेदिति' - (त.यशो.टी. कारिका-१०) प्रतिपादितम् । एतेन भगवतः शब्दप्रयोक्तृ वे कर्मचन्धप्रसङ्ग इत्यपि प्रत्युक्तम्, केवलं प्रयत्नस्य कर्मबन्धाजनकत्वात्, कर्मबन्धकारणीभूतरागादिपरिणामस्य विलयेन तदापादनस्य नियुक्तिकत्वात् । तदुक्तं प्रवचनसारे -> परिणामादो बंधो परिणामो रागदोसमोहजुदो' «- (प्र.सा.२/८८) इति । मत्कृताध्यात्मपरीक्षायामिति । तत्र 'एयं सहाववाणी कह जुना जेण तेसि वयजोगो । हेऊ दव्वसुअस्सा पओअग्णं कम्मखवणा य' ॥ (अ.म.प.लो.९९) इति गाथायां विस्तरेणाऽनक्षरभगवद्राणीनिराकरणं कृतं ततोऽबसेयम् । हैं । अतः मोहल्यावृत्त अनुग्रहविषयक इच्छा एवं शब्दप्रयोक्तृत्व सर्वज्ञ भगवंत में मानने चाहिए । यहाँ यह नहीं कहना चाहिए कि -> 'यदि केवलज्ञानी भगवंतों में भन्य जीवों के प्रतिबोध की अनुजिघृक्षा = अनुग्रहइच्छा जैसे १३वे गुणस्थानक में होती है, ठीक वैसे ही मोक्ष में भी वह जरूर होनी चाहिए । तब तो भगवंत जैसे अघाति कर्म की उपस्थिति में भव्य जीवों के प्रतिरोधार्थ देशना देते हैं, ठीक वैसे ही मोक्ष में जाने के बाद भी प्रतिदिन धर्मदेशना करते रहेंगे, क्योंकि तब भी भव्य जीवों के अनुग्रह की इच्छा रहती है एवं अप्रतिबोधित भव्य जीव भी इस लोक में सदा होते ही हैं -- | पह कथन अयुक्त होने का कारण यह है कि केवली भगन में मोश्नावस्था के दौरान भी भव्य जीवों के अनुग्रह की इच्छा तो होती ही है, मगर तदर्थ धर्मदेशनारूप प्रवृत्ति के लिए तीर्थंकर नामकर्म का उदय आदि भी सहकारी कारण है । उसके सहकार से ही तीर्थकर भगवंत धर्मदेशनास्वरूप प्रवृत्ति करते हैं। मोक्षाचस्था में कर्ममात्र का अभाव होने से तीर्धकरनाम कर्म का उदय ही नहीं होता है, तर मोक्षदशा में धर्मदेशना का आपादन कैसे किया जा सकता है ? केवल एक कारण १, दृश्यनां स्याद्रादकर पलताया दशमस्तबकस्य ६४ नमश्लोकस्य १८ नमश्लोकस्य च त्र्यारत्र्या ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370