________________
* निन्यानित्यत्वस्य जात्यन्तरत्वावेदनम् * मिलितं, नाऽसत्, 'एकत्र प्रमाणप्रसिन्दित:' = एकत्वे प्रमाणपसिन्दरित्यर्थः । अयं भाव: नित्यानित्यत्वं हि नरसिंहत्वादिवज्जात्यन्तरं, समाविष्टप्रतीतिजननात् । न हि केवलनरत्वसिंहत्वाभ्यामेकनरसिंहप्रतीतिरिव केवलनित्यत्वाऽनित्यत्वाभ्यां संमिलितप्रतीतिरुपपादयितुं शक्यते । अथ नरसिंहत्वमेकव्यवक्तिवृत्ति न जात्यन्तरं जरत्वादिकमपि साहकभिया न
* जयलता लभ्यते । एकत्वे प्रमाणप्रसिद्धेः = एकत्वविषयकप्रमाणप्रसिद्धेरिति हेतुर्लभ्यते । न च पक्षतावच्छेदकीभूतविशिष्टरुद्धत्वावच्छिन्ने नित्यत्वाऽनित्यत्वादी हेतोरसत्त्वेन स्वरूपासिद्धिरिति वाच्यम्, तथापि एकत्वगोचरप्रसिद्भप्रमाणविषयत्वस्य हेतुत्वे दोषाऽभावात् । एतेन वैयधिकरण्यदोषोऽपि प्रत्याख्यातः । न चोदाहरणवैकल्यमाशङ्कनीयम्, नरसिंहत्वस्य तथात्वसम्भवात् । यथैकत्वगीनरप्रसिद्धप्रमाणविषयलेन नरसिंहलजातेल्स तथैन नत एन निन्यलाऽनित्यत्वादेरपि नासत्वमिति भावः । एतेन हेतुघटकीभूतप्रसिद्धत्वस्य प्रमाणविशेषणस्याऽसिद्धिरपि प्रत्युक्ता । वस्तुतस्तु प्रसिद्भत्वं परिचायके, न तु हेतुतावच्छेदकारीरे प्रविष्टमिति न ब्याप्यत्वाऽसिद्धेरवकाशः ।
प्रकृतमेव समर्थयति - अयं भाव इत्यादिना । प्रयोगस्त्वेवम् - नित्यत्वाइनित्यत्वं जात्यन्तरं समाविष्टप्रतीतिविषयत्वात्, नरसिंहत्ववत् । परस्परव्यामिश्रितप्रतीतिगोचरत्वेन नरसिंहत्वस्य जातिविशेषत्ववत् तत एव नित्यत्वाऽनित्यत्वस्यापि जात्यन्तरत्वमुपपत्स्यत इति भावः । स्वतन्त्रनित्यत्वाऽनित्यत्वाभ्यां नित्यानित्यत्वप्रकारप्रतीत्युपपत्तिमपाकरोति - न हीति । भिन्नावयबावच्छेदेन वृत्तिभ्यां नरवसिंहत्वाभ्यामेकत्र नरसिंहत्वप्रतीतेरुपपादनेऽपि प्रकृते नैवं सम्भवति, परस्परानुप्रविष्टत्वेन नित्यत्वानित्यत्वप्रतीते: । पृथग्देशावच्छेदेनाऽवस्थिताभ्यां नित्यत्वानित्यत्वाभ्यां मिथोऽनुरक्तनित्यत्वानित्यत्वप्रतीतरसम्भवात, सम्भवे वा भ्रमत्यापतेः । वस्तुतस्तु भिन्नदेशावच्छेदेन नित्यत्वानित्यत्ववृत्तित्वमपि नास्ति, किन्तु द्रव्यत्व-पर्यायत्वावच्छेदेनैव रामे ज्येष्ठराजपुत्रत्वविशिष्टशिष्टाचारपालकत्वावच्छेदेन राज्याधिकारित्व-पुरुषोत्तमत्ववत् । ततो न भिन्नदेशावस्थिताभ्यां ताभ्यां परस्परसम्मिलिननित्यत्वानित्यत्वप्रतीतिरुपपादयितुं शक्यते । एकदेशावच्छेदेनाऽवस्थितत्वात् । परस्परानुरक्तप्रत्ययजनकत्याच जात्यन्तरत्वकल्पनवाऽहंति, समुदितद्रव्यत्व-पर्यायत्वाभ्यां तन परः शकते - अथेति । 'चेदि' त्यनेनाऽस्याऽन्वयः । 'व्यक्तेरभेदस्तुल्यत्वं...' (किरणाव.) इत्युदयनबचनेनैक
धिकत्वान्न नरसिंहत्वं जातिविशेषरूपमित्याशयन हेतगर्भविशेषणमखेनाऽऽह- नरसिंहत्वमेकव्यक्तिवृति न जात्यन्तरमिति । नृसिंहशरीरे हि न मनुष्यत्वं सिंहत्त्वं वाऽस्ति, एकैकमात्रस्वीकारे विनिगमकाभावात् उभयोः स्वीकारें च जातिसङ्करप्रसङ्गात, आंशिकत्वापाताच । किन्तु, तदीयमुखाद्यवयवेषु प्रसिद्धसिंहमुखाद्यवयववृत्तिजातिमत्त्वं तदीयोदरपादाय - वयवेषु च प्रसिद्धमानुषीयोदरपादादिवृत्तिजातिमत्त्वं स्वीक्रियते । तेश्चोभयजातीयैरवयवरारभ्यमाणे शरीरे नृसिंहत्वं जात्यन्तरं कल्यते । तच्च न संभवत्ति, एकन्यक्तिवृत्तिकत्वात् । अतो न तदनुरोधेन नित्यानित्यत्वस्य जात्यन्तरत्वकल्पना युक्तेत्यभिप्रायः । वस्तुत: नरत्वमपि न जातिस्वरूपं किम्पुन: नरसिंहत्वं ? इत्याशयेनाऽऽह- नरत्वादिकमपि पार्थिवजलीयादिशरीरवृत्तितया साङ्कर्यभिया न जातिरूपमभ्युपगम्यते । जलीयनरे पृथिवीत्वं नास्ति, नरत्वमस्ति, पृथिव्यां पृथिवीत्वमस्ति नरत्वं नास्ति, अस्मदादिषु तूभयमिति पृथियीत्यादिना साकारत्वस्य न जातित्वमिति फलितम् ।।
नित्यत्व और केवल अनित्यत्व से नित्यानित्यत्वप्रकारक संमिलितोभयविषयक प्रतीति उत्पन्न नहीं हो सकती है । इसलिए नित्यानित्यत्व को जात्यन्तरस्वरूप मानना आवश्यक है . यह फलित होता है । यहाँ यह शंका हो कि -> 'नरसिंहत्व के उदाहरण से नित्यानित्यत्व को जात्यन्तर = जातिविशेपस्वरूप सिद्ध नहीं किया जा सकता, क्योंकि नरसिंहत्त्व भी वस्तुतः एक व्यक्ति में ही रहने की वजह जातिविशेषरूप नहीं है। जातित्व के ६ दोष बाधक होते हैं, जिनमें व्यक्त्यभेद यानी एकव्यक्तिवृत्तित्व प्रथम जातिवाधक दोप है । गगनत्व की भाँति नरसिंहत्व भी केवल एक आधार में रहने से जातिविशेषरूप 1 नहीं माना जा सकता । दूसरी बात यह है कि नरव या सिंहत्य भी वस्तुतः जातिविशेषात्मक नहीं है, क्योंकि वैसा मानने पर पृथ्वीत्व आदि जाति के साध सांकर्य प्रसक्त होता है, जो जातिबाधक तृतीय दोष है । अतः नरसिंहत्व के दृष्टान्त से नित्यानित्यत्व को जातिविशेपात्मक नहीं माना जा सकता' -
= सांकर्य जातिषाधक नहीं है - स्यादादी -