________________
५३२
* उपाथिभेदानित्यत्वानित्यवादीनामेकत्र समावेशः * भयादिना वा, विशिष्टाविशिष्टभेदं तु स्याव्दादिनो वयं न प्रतिक्षिपाम:, रूपविभाजकोपाधीनां पञ्चत्वानतिरेक एव तात्पर्यात् ।
= गयलता* पीतोभयादिना वा उपपद्यतेति शेषः । अत्र सामानाधिकरप्यं यद्वा वैशिष्ट्यं एकथमिवृत्तित्वं च समवायेनाऽपृथग्भावसंसर्गेण । वा ग्राह्यं, तन नातिप्रसङ्गः । यत्र केवलं पीतं रूपं तत्र न चित्रत्वप्रकारकप्रतीतिव्यवहारौं तत्रिमित्तीभूत | भावात । किन्त नीलविशिष्टपीतरूपादिकं तत्रैव चित्रत्वप्रतीतिव्यवहारी । अतो न चित्रत्वप्रतीतिव्यवहारान्यथानुपपत्त्या
अतिरिक्तचित्ररूपाङ्गीकार आवश्यकः । अब नीलस्य विशेषणत्वं पातरूपस्य विशेष्यत्वमिति गौणप्रधानभावः तथापि विशेषणविशेष्यभावे विनिगमनाविरहात्कल्पान्तरप्रदर्शनं-एकवृत्तिनीलपीतोभयादिना वेति । अत्र नीलस्य पीतरूपस्य च प्राधान्यम् । एकवृतित्वोपादानान्नाऽनेकवृत्तिनीलपीतादितः चित्रत्वप्रतीत्याद्यापत्तिः ।
वस्तुतस्तु चित्रत्वप्रतीत्यादिनिमित्तत्वं नीलविशिष्टपीतादेरेव न त्वेकर्मिनिरूपितवृत्तित्वविशिष्टनीलपीतोभयादेः, गौरवात् । न च विदोषणविशेश्यभावे विनिगमनाविरह इति वाच्यम्, तथापि तत्परिणत्यनतिरेकात् । न चैवं नीलरूपविशिष्टपीतरूपाश्रयीभूते | बटे पीतत्यप्रकारकप्पमित्याद्यापत्तिः, नीलविशिष्टपीतरूपस्या-पि पातरूपानतिरेकात्, 'विशिष्टं शुद्धानातिरिच्यत' इति नियमादिति वाज्यम्, विशिष्टस्य कथञ्चिच्छुद्धातिरिक्तत्वाऽभ्युपगमात्, सर्वथा तदभेदस्तु प्रतीत्यैव पराहत इत्याशयेनाऽऽह-विशिष्टाऽविशिष्ट - भदं = विशिष्टानुयोगिका विशिष्टप्रतियोगिककथविद्भेदं तु स्याद्रादिनो वयं न प्रतिक्षिपाम इति । नीलविशिष्टपीतरूपादे: पीतरूपादित: स्याद्भित्रत्वेन न चित्रघटे 'पीतोऽयमिति प्रमित्याद्यापत्तिरित्याशयः । न चैवमतिरिक्तचित्ररूपाङ्गीकार एवं नामान्तरण भवता कृत इति शिरोवेष्टनेन श्रोत्रग्रहणन्यायप्रसङ्ग इति वाच्यम्, नीलविशिष्टपीतरूपादेः पीतरूपादितः कश्चिदतिरेकऽपि तत्र पीतत्वाद्यतिरिक्तचित्रत्वजात्यनङ्गीकारादित्याशयेनाऽऽह- रूपविभाजकोपाधीनां = रूपत्वसाक्षाद्व्याप्यधर्माणां, पञ्चत्वाऽनतिरेक एव तात्पर्यादिति । चैत्रत्वस्य चैत्रे कथश्चित्तदतिरिक्तदण्डविशिष्टचैत्रे च वृनित्वमिव पीतत्वादीनां रूपत्वसाक्षाद्या यजातीनां पञ्चानां पीतादिवर्णेषु नीलविशिष्टपीतरूपादिषु च वृत्तित्वं न तु पीतादिषु पीतत्वादीनां नीलविशिष्टपीतादिषु च चित्रत्वस्य वृत्तित्वमित्यत्र स्याद्वादिनामस्माकमभिप्रायः । एतेन नीलविशिष्टपीतवर्णस्य रक्तरूपविशिष्टपीतवर्णस्य शुक्लवर्णविशिष्टपीतवर्णस्यत्यादीनां बहूनां पीतादितः कश्चिदतिरिक्तत्वकल्पनापेक्षयकस्य चित्ररूपस्यैव कल्पनं युक्तमित्यपि निरस्तम्, चित्रघटे 'नीलविशिष्टपीतरूपवान् घटः' इत्यादिप्रतीतेरनुपपत्तेश्च अवयवगतरूपादितः तदुपपादनस्य तु पूर्वमेव निरस्तत्वात् । न च रूपादीनामव्याप्यवृत्तित्वप्रसङ्ग इति वाच्यम्, इष्टत्वात् । न चैवं नानारूपवदवयवारब्धे घटे नीलकपालाद्यवच्छेदेन पीताद्युत्पत्तिवारणाय समवायेन नीलम्प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपातिरिक्तरूपत्वेन प्रतिबन्धकत्वमित्युक्तदिशा प्रतिबध्यप्रतिबन्धकभागाऽङ्गीकारे तदभावस्य कारणत्वस्यापि कल्पनीयतया गौरवापत्तिरिति वाच्यम, अवच्छेदकता
है या केवल पीतरूपयाला है उसमें 'नीलो घटः' या 'पीतो घटः' इत्याकारक व्यवहार होगा, न कि 'चित्रो घटः' इत्याकारक । मगर जिस घट के एक भाग में नीलं रूप और दूसरे भाग में पीत वर्ण होता है उसीमें 'चित्रोऽयं घटः' इत्याकारक व्यवहार होता है, क्योंकि उस घट में सामानाधिकरण्यसंबंध से नीलरूपविशिष्ट पीत रूप रहता है या एक अधिकरण में नीलपीत उभय वर्ण रहते हैं। वहीं चित्रत्वव्यवहार का निमित्त है, न कि नील, पीत आदि रूप से सर्वथा अतिरिक्त चित्र रूप । यहाँ यह शंका हो कि → 'विशिष्ट अविशिष्ट से तो अतिरिक्त होता नहीं है । अतः नीलरूपविशिष्ट पीत रूप भी शुद्ध पीत वर्ण से अतिरिक्त नहीं है । अतः नीलरूपविशिष्ट पीत रूप वाले घट में 'पीतो घटः' इत्याकारक व्यवहार भी होना चाहिए' - तो इसका समाधान यह है कि विशिष्ट और अविशिए के भेद का हम स्याद्वादी सर्वथा प्रतिक्षेप नहीं करते हैं मतलब कि विशिष्ट अविशिष्ट = शुद्ध से सर्वथा अनतिरिक्त = अभिन्न है-ऐसा हम नहीं मानते हैं। किन्तु विशिष्ट शुद्ध से कथंचित् अतिरिक्त = भिन्न भी होता है, ऐसा हम स्वीकार करते हैं। अतः नीलरूपविशिष्ट पीत वर्ण भी सर्वथा शुद्ध पीतवर्णस्वरूप नहीं है किन्तु शुद्ध पीत वर्ण से कथंचित् भिन्न है । 'पीतोऽयं घटः' इस व्यवहार में तो अविशिष्ट पीत वर्ण ही निमित्त होता है, न कि विशिष्ट पीतरूप । नीलरूपविशिष्ट पीन रूप वाले घट में पीतत्वज्यवहारनिमित्तभूत केवल पीत वर्ण नहीं होने से उसमें 'पीतोऽयं घटः' इत्याकारक व्यवहार की आपत्ति नहीं है। यहाँ यह भी नहीं कहा जा सकता कि -> "विशिष्ट भी यदि अविशिष्ट से भित्र है, तो फिर चित्र रूप को अतिरिक्त = नील-पीतादिरूप से भित्र मानने में स्यादादी को क्या हानि है ?' <- क्योंकि हम स्यावादियों का तात्पर्य यही है कि रूपविभाजक = रूपत्वसाक्षात्याप्य उपाधि - धर्म नीलत्व, पीतत्य आदि पाँच ही है, न कि चित्रत्वसहित ६। विशिष्टवर्ण से ही चित्रत्वप्रकारक प्रतीति एवं