________________
* केवलिनि शेषज्ञानचतुष्कसद्भावमीमांसा
भगवत: श्रुतज्ञानाऽसम्भवाद् यथाश्रुताऽर्थानुपपत्तेः, तत्र क्षायिकश्रुतज्ञानादिसत्त्वपक्षस्याऽनभ्युपगमात्, अन्यथोपयोगव्दयमात्राभिधानविरोधात् । तथा च भगवान् सर्वमर्थं संविदानोऽपि
* जयलता
इत्यादिना । अन्यथा = श्रुतज्ञानपदस्य वाम्योगे लक्षणाया अनङ्गीकारे, भगवतः केवलज्ञानिनः 'नट्ठम्मि उ छाउमत्थिए नागे' ( आ.नि. ५३९) इति वचनेन श्रुतज्ञानाऽसम्भवात् यथाश्रुतार्थानुपपत्तेः = श्रुतज्ञानपदशक्यार्थान्वयानुपपत्तेः ।
I
=
ननु सन्त्येव मतिश्रुतादिज्ञानान्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि न तदानीं विवक्ष्यन्ते यथा सूर्योदये नक्षत्रादीनि । उक्तञ्च 'अन्ने आभिणिबोहियणाणाईणि वि जिगस्स विज्जति । अफलाणि सूरुदए जहेब नक्खत्तमाईणि || ( ) इति । न चार्थक्रियाकारित्या नावा तेषामसत्त्वमाशङ्कनीयम् मत्यादानां स्वस्वावरणक्षयोपशमभावेऽपि अभिव्यज्यमानानां नि:शेषतः स्वस्वावरणक्षये सद्भावस्य सुतरां न्याय्यत्वात् चारित्रपरिणामदानादिलब्धिप्रभृतिवत् । अत एव श्रुतज्ञानपदलक्षणाया अन्याय्यत्वम्, तस्या जघन्यवृत्तित्वात् । उक्तञ्च 'आवरणदेसविगमे जाई विज्जति मसुयाईणि । आवरणसब्बविगमे, कह ताईं हुति जीवस ? || ( ) इति । इत्थमेव केवलज्ञानविज्ञेयार्थानां श्रुतज्ञानेन प्रकाशनमप्युपपद्यते श्रुतकेवलज्ञानो भयनिरूपितविषयताश्रयाणां निरूपणोपपत्तेः श्रुतज्ञानस्यैव मुखरत्वात् । अत एव विशेषावश्यकभाष्यवृत्तिकृतां मत्यवधिमनः पर्यवकेवलज्ञानविषयाणामनभिलाप्यत्वप्रतिपादनमपि सङ्गच्छते, श्रुतविषयतानाक्रान्तामेव सतां मत्यादिज्ञानविषयाणामनभिलाप्यत्वाऽभिप्रायादित्याशङ्कायां प्रकरणकृदाह तत्र केवलज्ञानिनि, क्षायिकश्रुतज्ञानादिसत्त्वपक्षस्य सिद्धान्तपक्षे अनभ्युपगमादिति । यथा भास्करस्याऽतिसमुन्नतघनाघनश्यामघनपटलान्तरितस्यापान्तरालावस्थितकटाद्यावरणप्रविष्टः प्रकाशो घटादीन् प्रकाशयति तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्याऽपान्तरालमतिज्ञानावरणादिक्षयोपशमविवरविनिर्गतः प्रकाशो जीबादीन् प्रकाशयति । यथा सकलघनपढलकटाद्यावरणापगमे तथाविधः प्रकाशी भास्करस्याऽस्पष्टरूपो न भवति किन्तु सर्वात्मना स्फुटरूपोऽभ्य एव तथेहापि सकलकेवलज्ञानावरणमनः पर्यवज्ञानावरणादिविलये न तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति किन्तु सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एव । तदुक्तं 'कटविवरागयकिरणा मेहंतरियस्स जह दिसस्स । कडमेहावगमे न हुंति जह तह इमाईपि ॥ ( ) इति । आवश्यक निर्युक्तावपि 'नद्रुम्मि उ छाउमत्थिए नाणे' (आ. नि. ५३५.) इति प्रोक्तम् । न च सामानाधिकरण्यावच्छिन्नस्वपूर्ववर्तितासम्बन्धेन केवलस्यैव स्वसमानाधिकरणगुणनाशकत्वे ज्ञानचतुष्टयवत् शमादीनामपि नाशप्रसङ्गः, स्वसमानाधिकरणज्ञानचतुष्कनाशत्वस्य केवलकार्यतावच्छेदकत्वे स्वसमानाधिकरणशमादिनाशत्वेन विनिगमनाविरहादिति वाच्यम्, केबलिनि क्षायोपशमिकाणां शमादीनामनभ्युपगमात् । न च केवलिनि क्षायिकशमादिवत् क्षायिकमत्यादिप्रसङ्ग इति वाच्यम्, केवलज्ञानावरणस्य मत्यादिहेतुत्वेन केवलिनि तदापादनाऽयोगात् । इदमेवाभिप्रेत्य तत्त्वार्थटीकायामपि -> केवलज्ञानव्यावृत्त - ज्ञानत्वव्याप्यजात्यवच्छिन्नं प्रति केवलज्ञानावरणस्यैव हेतुत्वात्, केवलज्ञानत्वाच्छित्रे च लाघबाद् ज्ञानावरणक्षयत्वेनैव हेतुत्वात् ज्ञानावरणपश्चकपादेकं केवलज्ञानमेवोत्पद्यते न मत्यादीनि इति तैः साहित्यं न केवलज्ञानस्ये' <- (त.सू. अ. १ सू. ११ ) ति । ज्ञानबिन्दी अपि मन्दप्रकाशे आवरणस्य हेतुत्वं समर्थितम् । मत्यादीनां क्षायोपशमिकत्वादपि न कृत्स्नज्ञानावरणविलये उत्पत्तिः सङ्गतिमङ्गति ।
अव विवक्षाधकमाह अन्यथा = केवलज्ञानिनि क्षायिकश्रुतादिसत्त्वे, उपयोगद्वयमात्राभिधानविरोधात् = केवलज्ञानिनि केवलज्ञानकेवलदर्शनलक्षणोपयोगद्वयमेव केवल्यवस्थापेक्षया, एककाले त्वेक एव तदन्यतरलक्षण उपयोग इति सिद्धान्त
तत्र इति । उपर्युक्त वक्तव्य अप्रामाणिक होने का कारण यह है कि सिद्धान्त जैनागम के अनुसार 'केवलज्ञानी में क्षायिक श्रुतज्ञान आदि होते हैं इस मत का स्वीकार किया गया नहीं है । इसका कारण यह है कि सिद्धान्त में 'जीव को एक समय में एक ही उपयोग होता है, न कि दो उपयोग' ऐसा निरूपण किया गया है । यदि केवलज्ञानी में क्षायिक केवलज्ञान की भाँति क्षायिक श्रुत ज्ञान भी माना जाय तो एक समय में दो उपयोग की आपत्ति आयेगी । 'केवली अवस्था के दौरान भिन्न समयावच्छेदेन केवल ज्ञान और केवल दर्शन दो ही उपयोग होते हैं। इस सिद्धान्त का भी केवली में क्षायिक श्रुत ज्ञान मानने पर विरोध होगा, क्योंकि तब केवली अवस्था के बाद क्षायिक श्रुतज्ञान, केवलज्ञान और केवलदर्शन, इन तीन उपयोग के स्वीकार की आपत्ति आयेगी । इसलिए 'केवलज्ञानी भगवंत वचनयोगस्वरूप श्रुत ज्ञान से केवलज्ञानज्ञेय पदार्थ का निरूपण करते हैं। यही अर्थघटन करना मुनासिव है । इस तरह वचनयोग से देशना देना का मतलब यही हुआ विशेषावश्यकभाष्यस्य १३० तमलोकस्य मलधारवृत्तिः ।
५.
-
५२४
=