________________
५१७ मध्यमस्याद्वादरहस्यं खण्डः २ का ७ अनभिलाप्यत्वे विकल्पञ्चकासहत्वाशङ्का
नापि गृहीततत्तदर्थनिरूपितस के तकपदद्बोध्यतावच्छेदकरूपवत्त्वं तत्, पटपदस्यापि घंटे सङ्केतग्रहसम्भवात् दोषानतिवृतेः । नापि गृहीततत्तदर्थनिरूपित - नियन्त्रित - सङ्केतकपदबोध्यतावच्छेदकरूपवत्वं, घंटे हि घटपदस्यैव सङ्केतः कोशादिना नियम्यते न तु पट* गयलता
प्रसङ्गस्य दुर्वारत्वमिति ननुवादिनोऽभिप्रायः ।
ननु 'सर्वे शब्दाः सर्वार्थवाचकाः सति तात्पर्ये' इति नयानुरोधात् घटत्वादेः पटपदशक्यतावच्छेदकत्वं काममभिमतम् । परं घटादौ वटादिपदसङकेत एव गृह्यते न तु पटपदनिष्ठसङ्केतोऽपि 'निरूपकतासम्बन्धेन घटादी घटादिपदसङ्केत एव वर्तते न तु पटपदसङ्केतोऽपीत्येवानुभवात् । ततश्च निरुक्तानभिलाप्यपदार्थव्यावृत्तमभिलाप्यत्वं न तत्तत्पदशक्यतावच्छेदकरूपत्वरूपं किन्तु गृहीततत्तदर्थनिरूपितसङ्केतकपदशक्यतावच्छेदकरूपवत्त्वस्वरूपमिति चतुर्थी विकल्प एव नः शरणमस्त्वित्युक्तौ ननुवादी तमपहस्तयितुं त्वरते नापि गृहीततत्तदर्धनिरूपितसङ्केतकपदवीध्यतावच्छेदकरूपवत्त्वं तत् विवक्षिताभिलाप्यत्वम् । गृहीतः = ज्ञातः तत्तदर्थैः निरूपितः सङ्केतः यस्मिन् पदे तस्य शक्यतावच्छेदकधर्मवत्त्वं विवक्षिताभिलाप्यत्वम् । तत्तदर्थानां विवक्षितसङ्केतनिरूपकत्वेन यदा तत्तदर्थनिरूपितः सङ्केत: पदे ज्ञायते तदा तादृशं पदं गृहीततनदर्थनिरूपितसङ्केतकं भवति । तादृशपदशक्यतावच्छेदकधर्मवत्त्वमभिलाप्यत्वमिति चतुर्थविकल्पतात्पर्यम् । तदयुक्तत्वं ननुवादी दर्शयति - पटपदस्यापि किमुत घटपदस्येत्यपिशब्दार्थः घटे सङ्केतग्रहसम्भवादिति । 'सर्वे शब्दाः सर्वार्थवाचका' इति नयाभिज्ञपुरुषस्य घटपदवत् पटपदमपि घटवाचकमिति ज्ञाने सति पटपदनिष्ठसङ्केतस्य घटनिरूपितत्वज्ञानात् घटस्य गृहीतघटलक्षणार्धनिरूपितसङ्केत कपटपदनिरूपितशक्यतावच्छेदकवटत्ववचेन तद्दोपानतिवृत्तेः पटपदापेक्षयाऽभिलाप्यत्वप्रसङ्गस्य दुर्वारवान चतुर्थी विकल्पोऽर्हतीति ननुवादिनोऽभिप्रायः ।
-
ननु पदपदनिष्ठसङ्केतस्य घटार्थनिरूपितत्वेऽपि न कोशादिनियन्त्रितत्वमिति तादृशसङ्क्ते नियन्त्रितत्वविशेषणदानादेवाऽतिप्रसङ्ग इति पञ्चमविकल्पस्यैव कक्षीकारोऽस्त्वित्याशङ्कां निराकर्तुमुपदर्शयति नापीति । अस्य वाच्यमित्यनेनाऽन्वयः । गृहीतेति । गृहीत: = ज्ञातः तत्तदर्धनिरूपितः कोशादिना नियन्त्रितश्च सङ्केतो यस्मिन् पदे तद्बोध्यतावच्छेदकरूपवत्त्वं = तन्निष्ठवाचकतानिरूपितवाच्यताया अवच्छेदकरूपवत्त्वं विवक्षिताभिलाप्यत्वम् । तत्तदर्शनरूपितत्वेन ज्ञातस्य सङ्केतस्य नियन्त्रितत्वेन विशेषणीयत्वे कथं घटस्य पटपदापेक्षयाऽभिलाप्यत्वदोषप्रच्युतिः ? इत्याशङ्कायामाह घटे हि घटपदस्यैव सङ्केतः कोशादिना नियम्यते न तु पटपदस्येति न प्रागुक्तदोष: = घटस्य पदपदापेक्षयाऽभिलाप्यत्वप्रसङ्गः, पटपदनिष्ठस्य
=
=
-
यहाँ यह कहा जाय कि "सर्व पद को सर्व अर्थ के वाचक मानने वाले विद्वानों के मतानुसार पटपदवाच्यतावच्छेदक धर्म भले घटत्त्व हो, मगर अभिलाप्यत्व को तत् तत् अर्ध से निरूपित संकेत का जिसमें ग्रहण ( = ज्ञान ) किया गया हैऐसे पद की बोध्यता के अवच्छेदक धर्मवत्त्वस्वरूप मानने में कोई दोष नहीं है, क्योंकि घट अर्थ में पटपदवाच्यतावच्छेदकीभूत घटत्व धर्म होने पर भी घट अर्ध में पट पद का संकेत गृहीत नहीं होने से घट अर्थ में गृहीत संकेतवाले पट पद की वाच्यता का अवच्छेदक धर्म घट में नहीं है । इस तरह विशेषणाभावप्रयुक्त विशिष्टाभाव घट में होने से घट को पटपद की अपेक्षा अभिलाप्य अभिलाप्यत्वधर्माला मानने का अनिष्ट प्रसंग नहीं है" ←
पटपद इति । तो यह भी अनुचित है, क्योंकि सर्व पद सर्व अर्थ के वाचक होने की वजह पुरुषविशेष को घट अर्थ में भी पटपद के संकेत का ज्ञान मुमकिन होने से घट अर्थ में ज्ञात संकेत वाले पटपद की बाच्यता का अवच्छेदक घटत्व धर्म घट अर्थ में अबाधित होने से घट को पटपद की अपेक्षा अभिलाप्य = अभिलाप्यत्वधर्मशाली मानने की आपत्ति ज्यों की त्यों बनी रहती है । यहाँ विशेषणाभावप्रयुक्त विशिष्टाभाव नहीं बताया जा सकता, क्योंकि पट अर्थ में ज्ञात संकेतवस्वरूप विशेषण पटपद में अबाधित है ।
=
यहाँ यह कहा जाय कि
"सब पद सर्व अर्थ के वाचक हैं, इस मत के अनुसार भले ही पुरुपविशेष को घट अर्थ में पटपद के संकेत का ज्ञान हो, मगर वह संकेत यादृच्छिक अपनी इच्छा से कल्पित है, न कि कोश, व्याकरण आदि से नियन्त्रित । इसलिए तत् तत् अर्थ से निरूपित कोशादि से नियन्त्रित एवं ज्ञात संकेत वाले पद की वाच्यता के अवच्छेदकी
भूत धर्मवत्त्व को अभिलाप्यत्व माना जा सकता है । घट अर्थ में पटपद का संकेत कोशादि से अनियन्त्रित होने की वजह