________________
५२१ मध्यमस्याद्वादरहस्ये खण्डः २ - का.७ * अभिलाप्यले मीमांसा * पदात् सर्वत्र प्रवृत्ति: स्यात, सर्ववाचकस्य सर्वतादात्म्यादिति वाच्यम यत्रैव हि यत्पदस्य सङ्केतो गृह्यते तत्रैव तत्तादात्म्यापरिणतिरिति नियमात् । न च तत्तत्सहकेतग्रहस्य तत्तदर्धबोधं प्रत्येव हेतुताऽस्तु किं ततादात्म्यपरिणतिहेतुताकल्पनेनेति वाव्यम्, शब्दाननुविन्दस्याऽर्थस्याऽभानादित्यत्या विस्तरः ।
== =* जयलता * = पदात् सर्वत्र घटादी प्रवृत्तिः स्यात् ‘सर्वे शब्दाः सर्वार्थवाचका' इति नये सर्ववाचकस्य = सर्वार्थप्रतिपादकस्य पटादिपदस्य सर्वतादात्म्यात् = स्यात्सर्वार्थाभिन्नत्वात् । प्रवृत्तिश्चोपलक्षणं शाब्दबोधोत्पत्तेः । ततश्च प्रतिनियत्तशब्दात् प्रतिनियतार्थोपस्थिति - शाब्दबोधप्रवृत्तिप्रभृतयो विशीर्चेरन् । अतः तयोर्भेद एवं युक्त इति शङ्कादायः । तत्समाधानमाह - यत्रैव हि अर्थे यत्पदस्य सङ्केत्तो गृह्यते = ज्ञायते तत्रैव अर्थे तत्तादात्म्यपरिणतिः = तत्पदतादात्म्यपरिणाम इति नियमात् स्याद्वादिभिः । पटपदस्य पट एवं शक्तिग्रहात् पटार्थेन सह तादात्म्यं न घटाद्यर्थेन साकमिति न पटपदात् सर्वत्र शाब्दबोधादिप्रसङ्गः । यदि 'सर्वे सन्दाः सर्वार्थवाचका' इति नयानुरोधात् पटपदस्य घटे सङ्केतो गृह्यते तदा घटार्थेन सह पटपदस्य कथश्चित्तादात्म्यपरिणामाद् घटगोचरशाब्दबोधादिकमभिमतमेव । न चैवं चैत्रेण पटपदस्य घटे सङ्केतग्रहे मैत्रस्य पटपदाद् घटे प्रवृत्त्यादिप्रसङ्गः, पटपदस्य बटार्थतादात्म्यपरिणत्यड्गीकारादिति वाच्यम्. तत्र सङकेता ग्रहेण सामग्रीविरहादेव पटपदेन मैत्रस्य घटगोचरशान्दबोधादेरनापाद्यत्वात् । न चेति । शन्यमित्यनेनाऽन्वीयते । तत्तत्सङ्केतग्रहस्य = विवक्षितशब्दस्य विवक्षितार्थे सङ्केतग्रहस्य एक तत्तदर्थबोध = बिक्षितार्थगोचरशाब्दबोधं प्रति, एक्कारो भिन्नक्रमः स च योजित एव, हेतुताऽस्तु अवश्यक्लृप्तत्वात्, किं तत्तादात्म्यपरिणतिहेतुताकल्पनेन = शब्दार्थतादात्म्यपरिणामस्य कारणत्वकल्पनया सृतम्, अन्यथासिद्धत्वात् ।
समाधत्ते - शब्दाननुविद्धस्य = शब्दविनिर्मुक्तस्य अर्थस्य शान्दबोधे अभानात् 1 प्रयोगस्त्वेवम् - सर्वे भावा: शब्दमया; तदाकारानुस्यूतत्वात् । ये यदाकारानुस्यूतास्ते तन्मयाः यथा घटशराबोदञ्चनादयो मृदकारानुस्यूता मृण्मयाः । न चैवमपि शब्दार्थतादात्म्यमसिद्भमिति वाच्यम्, शब्दान्न कश्चिद्व्यतिरिच्यतेऽर्थः तत्यतीतादेव प्रतीयमानत्वात् । यत्यतीतावेब यातीयते न तत्ततो व्यतिरिच्यते, यथा शब्दस्य स्वरूपम् । शब्दप्रतीतायेव प्रतीयते चार्थः । तस्मात्तथा । तदुक्तं भर्तृहरिणा वाक्यपदीये -> 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुबद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ वायूपता चेद् व्युत्क्रामेत् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ।। (वा.प.का.१/१२३-१२४) न चैवं शब्दा. दैतमतप्रवेशासगात्रेदमभिधानं स्याद्रादिनां युक्तमिति वाच्यम्, अभिनिविष्टनयाभिप्रापरखण्डनेऽपरनयाश्रयणस्यापि शास्त्रार्थत्वात् ।
दान्तविरोध इति वाच्यम. सिद्धान्तेऽपि शब्दार्थयोः कथञ्चित्तादात्म्यस्याभिमतत्वात । इदमेवाभिप्रेत्य विशेषावश्यकभाष्येऽपि 'जेसु अनापसु तओ न नज्जए, नज्जए य नाणसु । किह तस्स ते न धम्मा वडस्स रूवाइधम्म ब्व' || (वि.आ. भा.श्लो. ४८५) इत्युक्तं सङ्गच्छते इति दिक् ।
उपसंहरति - इत्थश्चेति । श्रुतज्ञानेन तनिश्रितमतिज्ञानेन वा तत्तद्रूपेण तत्तदर्थान् प्रतिपादयत् सत् तत्तदर्थपरिणाम
हैं। - मगर यह शंका इसलिए निराधार है कि जिस शब्द का जिस अर्थ में संकेत गृहीत = ज्ञात होता है उसी अर्थ का तादात्म्य उस शब्द में होता है । घटपद का संकेत घट अर्थ में गृहीत होने से घटपद में कथंचित् घटतादात्म्य होता है । इसलिए उससे सभी अर्थ के बोध की या सभी अर्थ में प्रवृत्ति होने की आपत्ति नहीं आयेगी । यहाँ यह शंका करना कि -- तत् तत् अर्थ के चोध के प्रति तत् तत् में संकेतज्ञान को ही कारण मानना चाहिए, क्योंकि संकेतज्ञान के बिना किसी शब्द से अर्थबोध नहीं होता है । मगर अर्थबोध के प्रति शब्द-अर्थ के कथंचित् तादात्म्यपरिणाम को हेतु मानना आवश्यक नहीं है। शब्द-अर्थ में तादात्म्यपरिणाम नहीं होने पर भी शब्द से नियत अर्थ का शान्दबोध संकेतज्ञान के सहकार से हो नो क्या दोष है ?' -भी निराधार है, क्योंकि शब्द से अननुविद्ध = विनिमुक्न अर्थ का कभी भी भान नहीं होना है । घटशन्द कथंचित् घराभित्र नहीं होने पर घट अर्थ के ज्ञान के साथ घटशब्द का भी अवश्य भान नहीं होना चाहिए, अन्यथा पटादि शब्द का भी भान होना चाहिए । मगर घट अर्थ के साथ घटशब्द का ही अवश्य भान होता है। इसके अनुरोध से अर्थ में कथंचित् शब्दतादात्म्य मानना ही चाहिए । इस विषय का विस्तार से प्रतिपादन अन्यत्र द्रष्टव्य है'. ऐसा कह कर शब्द और अर्थ में कथंचित् तादात्म्य के विषय को प्रकरणकार तिलांजलि देते हैं ।
F केवली श्रुतविषयभूत अर्थ के ही प्रतिपादक है