Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 266
________________ -- ----- - - - - -- - ४६३ मध्यमरयाद्वादरहस्ये खण्टः २ - का.* अनेकान्तवादे भेदाभेदादिविरोधादिनिराकरणम ब्दयं विरुद्ध काऽसत्प्रमाणप्रसिद्धितः । विरूदवर्णयोगो हि दृष्टो मेचकतस्तुषु | ---.. .. .. :: : ----- -* जयलता *----- स्पधिारता नास्तीति वक्तुं युक्तम्। अध्यक्षविरोधात् । तस्मात्र सर्वधा भावानां विरोधी पटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः । यञ्चोक्तम् -> 'वैयधिकरण्यं स्यादिति' - तदप्यसत्यम्, निर्बाधं प्रत्यक्षबुद्धी भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोयधिकरण्यम्, रूपस्सयोरपि तासङ्गात् । उभयदोषोऽपि न घटते, प्रतीयमाने कथमुभयदोषो नाम ? नानादोषोऽपि न स्यात् । यथैव हि घटादो भेदोऽनुभूयते तथाऽभेदोऽपीति कथं नानात्वदोषः ? अत एव सङ्करन्यतिकरावर्षि न स्त: 1 भेदाभेदयोरेकस्मिन् पदार्थ स्वरूपेण प्रतीयमानत्वात् । पञ्चाक्तम् - 'अनवस्था स्यात्' तदप्यनुपपन्नम्, वस्तुन एवं भेदाभेदात्मकत्वाऽभ्युपगमात्, न पुनर्भेदाभेदयोर्धर्मयोः । पदार्थस्य तु भेदो धर्म एवाऽभेदस्तु धर्येवेति कथमनवस्था ? न चैकान्ताभ्युपगमो दोषाय, सम्यग्नयबिषयस्य भेदाभेदस्य च स्याद्वादिभिरभ्युपगतत्त्वात् । संशयोऽपि न युक्तः, भेदाभेदयो: स्वरूपेण प्रतीयमानत्वात्, एकस्मिन् भेदाभेदाऽप्रतीतो हि संशयो युक्तः, क्वचित् प्रदेशे स्थाणुपुरुषत्वाऽप्रतीतौ तत्संशयवत् । चलिता च प्रतीतिः संशयः । न चेयं चलिता । तथा दृष्टहानिरदृष्टकल्पना च न स्यात्, भेदाभेदात्मकस्य वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् । तत एवाभावोऽपि न युक्तः । यच्चोक्तं --> नानावस्तुधर्माऽपेक्षया' - इत्यादि, तदसत्यम्, न खलु नानावस्तुधर्मापेक्षयकस्याऽनेकान्तात्मकत्वमङ्गीक्रियते, येन सिद्धसाधनं स्यात, अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया । न च तत्र विरोधादिदोषानुषङ्गः, तस्य प्रागेव निराकृतत्वात् । यच्चोक्तम् - 'क्रमेणे'त्यादि न तद्युक्तम्, क्रमेणाऽक्रमेण चाऽनेकान्तस्याऽभ्युपगतत्वात् । क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षया चाऽक्रमेणेति । यहोक्तम्- 'अनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुपान्नानास्वभावैः वा ? इत्यादि, तत्र नैकेन स्वभावेन नानास्वभावः वा भिन्नवस्तु भिन्नान् स्वभावान् स्वतो व्याप्नुयादिति जैनो मन्यते, किं तर्हि ? स्वस्वकारणकलापादनेकस्वभावात्मक मतमिति । पञ्चोक्तम् - जलादेरप्यनलादिरूपता स्यादित्यादि-तदपीष्टमेव प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपतायाः पररूपापेक्षया चाप्रमाणरूपतायाः स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप: स्यात्, उक्तन्यायेन प्रमाणाप्रमाणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति । ___यबोक्तं -> 'सिद्धोऽप्यसिद्धः स्यादि'त्यादि - तदपीष्टमेव । असर्वज्ञरूपेण सर्वज्ञस्याऽप्यसर्वज्ञताया अभ्युपगतत्वादिति, प्रकारान्तरेण तस्याऽसर्वज्ञता न सम्भवत्येव, प्रमाणाधनादिति । यच्चोक्तम् -> येन प्रमाणेन सर्वस्याऽनेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यादित्यादि' - तत्रोन्यते, प्रमेयं हि द्विविधमचेतनं चेतनं च । तत्राऽचेतनं स्वपराध्यवसायविकलं न स्वस्यैकान्तरूपतामनेकान्तरूपताश्च परिच्छेत्तुमलम् । चेतनेन तत्राऽनेकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्या - ! प्यनेकान्तरूपतां परिच्छेदयितुं समर्थम् । न च तत्राऽपरं प्रमाणमपेक्ष्यते, येनाऽनवस्था स्यात् । तथा हि - चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत् स्वरूपापेक्षयात्मनो भावं पररूपापेक्षया चाऽभावं परिच्छिनत्ति, अन्यथा यथावदसड़कीर्णस्वरूपस्य ग्राहकं न स्यात । न चैबम, व्यावृत्ताज्यावृत्तस्वरूपस्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित् तत्रापि स्वदरागमाऽऽहितवासनावशादेकान्तसमारोपः, सोऽपि तस्य न्यायान्तरान्निराकर्तव्यः । तथाहि - धूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वम्, यथा साध्यान्तरं प्रत्यपि उतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते, तदा साध्यान्तरस्यापि तत एव सिद्भर्लिङ्गान्तरकल्पनावैफल्यं स्यात्, तत: सर्वस्याऽपि साध्यस्य सिद्धेरिति । उत्ताऽन्यथा तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणाऽनेकान्तरूपम्, तथा सर्व वस्तु स्वपरकार्यकरणसामर्थ्यासामर्थेनाऽनेकान्तरूपमस्तु, विशेषाभावादिति । यदप्युक्तम् -> 'बाधकं प्रमाणमस्ति, भेदाभेदी नैकाधिकरणावि' त्यादि - तदप्यनुपपन्नम्, पक्षस्य प्रत्यक्षेण बाध्यमान इत्यादि कैसे मानी जा सकती है ?" -निराकरण करने के लिए स्वयं मूलकार आचार्यदेवेश श्रीमद्जी 'द्वयं विरुद्धं...' इत्यादिरूप में ७वीं कारिका प्रदर्शित कर रहे हैं। कारिका का सामान्य अर्थ यह है कि नित्यत्व-अनित्यत्व आदि युगल धर्म परस्परविरुद्ध नहीं है, क्योंकि वे एक अधिकरण में रहते हैं। विरोधग्राहक प्रमाण प्रसिद्ध न होने से विरोध असिद्ध है, क्योंकि मेचक वस्तु = शबलवर्णवाली वस्तु में विरुद्ध वर्ण का योग प्रसिद्ध है ।

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370