Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 290
________________ ४८७ मध्यमस्याद्वादरहस्ये खण्डः २ का ७ * मुक्तावली - मञ्जूषा - दिनकरीयवृत्त्यादिसंवादः राम, पटादेरपि कथचिद्घट] सादृश्यव्यवहारात् । तद्वाचकानां इवादिपदानां शक्तिस्तु भेदे वृत्तित्वे धर्मे च खण्डश एवेति लाघवाच्चन्द्रादिपदसमभिव्याहाराच्च चन्द्रादिभिनत्वलाभ: । * जयलता तन = प्राचीननैयायिकोक्तं न सम्यक् । हेतुमाह- पटादेरपि कथविघटसादृश्यव्यवहारादिति । 'घट इव पटादिरपि रूपवानिति व्यवहारप्रसिद्धरिति । ततश्चासाधारणविशेषणस्याऽयुक्तत्वमिति फलितम् । मुक्तावलीकारस्तु सादृश्यमपि न पदार्थान्तरं किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, यथा चन्द्रभिन्नत्वे सति ! चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृदयमित्याह - (मुक्ता. का. २ पृ. ७२) । ' अत्र भूयस्त्वं न विवक्षितं, एकधर्मेण | सादृश्यानुपपतेः भूयानतिशयितः तात्पर्यविषय इति' - (मुक्ता.मं.पू.७३) मञ्जूपाकारो व्याचष्टे | महादेवस्तु -> 'तद्भिन्नत्वे सतीति इदश्च सादृश्यनिरूपकेऽतिव्याप्तिवारणाय । अनुयोगितासम्बन्धविवक्षणे तु न देयमेव । तद्गतभूयो धर्मवत्त्वमिति । तत्राऽसाधारण्येन विद्यमाना ये भूयांसो धर्मास्तद्वत्त्वमित्यर्थः ' ← (मुक्ता. दि. पृ. ७२ ) इति व्याख्यातवान् । अब रामरुद्रस्तु -> यद्यपि घटभेदपटभेदादयो भूयांसो धर्मास्तत्र सम्भवन्त्येव, गोत्वाश्वत्वयोर्नित्यत्वरूपकधर्ममादाय सादृश्यमङ्गीकृत्यैवोक्तमिति भूयस्त्वोपादानमसङ्गतमेव तथापि प्रायां भूयधर्मेरव सादृश्यप्रतीतिरितितात्पर्यविषयार्थकमेव प्रकृते भूयः पदमिति ध्येयम् । 'नरोऽयं सिंहसदृश' इत्यादी तु घटभिन्नत्वादिर्न तात्पर्यविषयः किन्तु पराक्रमः । तस्यापि तथात्वे त्विष्टापत्तेः । तस्मादसाधारण्ये - नेत्यपि न देयम् । यथा घटो वाच्यस्तथा पटोऽपीति व्यवहाराच' <- (मुक्ता.रा.प्र.७२) इति प्रोक्तवान् । केचित्तु तद्गतत्वं न लक्षणे प्रचिन्तु चन्द्रभिनत् सति चन्द्रश्यमिति रीत्या विशिष्यैव धर्माणां लक्षणे प्रवेशः । ते च धर्मा उपमानसाधारणा ग्राह्याः । तेन चन्द्रभिन्नत्वे सति केशादिमत्त्वं न चन्द्रसादृश्यमिति स्फोरणाय तद्गतत्वोत्कीर्तनमित्याहुः | तद्वाचकानां = साहृदयवाचकानां इवादिपदानां आदिना तुल्यादिग्रहः, शक्तिस्तु भेदे वृत्तित्वे धर्मे च खण्डश एव, न तु चन्द्रादिभिन्नत्वविशिष्टचन्द्रादिवृत्त्याह्लादकत्वादिधर्मवत्त्वलक्षणसादृश्येऽखण्डा शक्तिः महागौरवात् । ' तर्हि मुखादाँ चन्द्रादिभेदः कथं प्रतीयेत ? तत्प्रतीती वा घटादेरपि भेदः किं न प्रतीयेत ?' इत्याशङ्काया गाह- लाघवात् उपस्थितिकृतलाघवात्, चन्द्रादिपदसमभिव्याहाराच चन्द्रादिवाचकपदसान्निध्याच्च चन्द्रादिभिन्नत्वलाभः भेदे चन्द्रादिप्रतियोगिकत्वबोधः । इत्थमेव चन्द्रादिनिरूपितत्वस्य वृत्तित्वे लाभ: । तात्पर्य सहकारेणाह्लादकत्व - तेजस्वित्वादिधर्मबोधः । = = अथैवं सति 'चन्द्र इव मुखमाह्लादकमिति वाक्ये पोनरुक्त्यप्रसङ्गः, आह्लादकत्वरयेवपदेनैव लब्धत्वादिति चेत् ? अत्र पट्टाभिरामः ' इवपदेन साधारणधर्मत्वेनैवाह्लादकत्वबोधनेन पौनरुक्त्याभावात् । अयं तु विशेषः यत्र विशिष्य साधारणधर्मवाचकपदसमभिव्याहारोऽस्ति तत्र साधारणधर्मत्वेनैवाह्लादकत्वमिवादिर्बोधयति । यत्र तु स नास्ति सति तात्पर्ये आह्लादकत्वत्वेनैव बोधः, अन्यदा तु साधारणधर्मत्वेनैबाह्लादकत्वादिर्बोध्यते' (मुक्ता.मं.पृ.७५ ) इति समाधत्ते । आह्लादकपदं तात्पर्यग्राहकमिति न पुनरुक्तिरित्यन्ये । = भी रूपवाला होने से रूप की अपेक्षा 'घट इव पट:' इत्यादि वाक्य का प्रयोग तो लोक में होता ही है । अतः अनेक असाधारण धर्म का सादृश्यलक्षण में प्रवेश करने से अव्याप्ति- नामक दोष का प्रसंग भी प्राचीन नैयायिक के मत में दुर्वार बन जायेगा । इषादिशब्द की खंडशः शक्ति नैयायिक तद्रा इति । उपर्युक्त मीमांसा से यह फलित होता है कि सादृश्य तन्नित्वे सति तद्वृत्तिधर्मवत्त्वस्वरूप है । इस सादृश्य के बाचक इव, तुल्य, सदृश आदि शब्दों की शक्ति सादृश्य के घटक भेद (= भिन्नत्व), वृत्ति और धर्म में खण्डश: है । यहाँ इस शंका का कि > "यदि भेद, वृत्ति और धर्म इन तीनों में इव आदि शब्द की खंडशः शक्ति मानी जाय तो 'मुखं चन्द्र इव' इत्यादि स्थलों में मुख में शब्द का भान हो सकेगा, मगर चन्द्रादि के भेद का ज्ञान कैसे हो सकेगा ? क्योंकि चन्द्रादिप्रतियोगिक भेद में इवपद की शक्ति का स्वीकार नहीं किया गया है" - समाधान यह है कि उपस्थितिकृत लाघव से एवं चन्द्रादिपद के समभिव्याहार से मुख में चन्द्रादिप्रतियोगिक भेद का लाभ हो सकता है । यहाँ मुख में घटादिप्रतियोगिक भेद का भान नहीं हो सकता है, क्योंकि तब घटादि की उपस्थिति = ज्ञान नहीं है, एवं तद्वाचक पद का सानिध्य भी नहीं है ।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370