________________
** बृहत्कल्पभाप्यनृत्यादिसंवादः
५१४
'पन्नवणिज्जा भावा अनंतभागो उ अणभिलप्पाणं' (बृ.क.भा. ९६४, वि. आ. भा. 989 ) ति । तेष्वेवेदमुभयमनुपपन्नमिति चेत् ? न तेषामनभिलाप्यपदेनैवाऽभिलाप्यत्वात् ।
ननु तर्हि किमीदृशानभिलाप्यव्यावृत्तमभिलाप्यत्वं ?
* जयलता
द्वावपि च राशी अनन्तौ परं महान परस्परं विशेषः । तथाहि प्रज्ञापनीया भावाः सर्वेऽपि समुदिताः सन्तोऽनभिलाप्यानां भावानां अनन्तभागो भवति, अनन्ततमे भागे वर्तत इति भावः - (बृ.क. भा. इ. पृ. ३०४ ) इति श्रीक्षेमकीर्त्याचार्यव्याख्या । प्रज्ञायन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के भावाः ? ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभवन -विमान-ग्रह-नक्षत्र - तारकार्केन्द्रादयः ते सर्वेऽपि मिलिताः । किं ? इत्याह अनन्ततम एव भागे वर्तन्ते । केषां ? अत्राहअनभिलाप्यानामर्थं पर्यायत्वेनाऽवचनगोश्वरतापन्नानामित्यर्थः । अनमिलाप्य वस्तुराशेरभिलाप्यपदार्थसार्थ: सर्वोऽप्यनन्ततम एव भागे वर्तत इत्यर्थः <- (वि. आ. भा. १४१ श्लो. ल्या पृ. ४५ ) इति श्रीमलधारिहेमचन्द्रसूरिव्याख्या विशेषावश्यकभाष्ये । यदि चैकत्रैवाऽभिलाप्यत्वाऽनभिलाप्यत्वसमावेशः स्यात् तर्हि अभिलाप्यानभिलाप्यभावाः परस्परं तुल्याः स्युः । परं अभिलाप्येभ्योऽनभिलाप्यभावानामनन्तगुणत्वेनाऽनभिलाप्यभावेषु केवलमनभिलाप्यत्वमेवाङ्गीकार्य, न तूभयं तत्त्वहानिप्रसङ्गात् । इत्थञ्च तेषु = अनभिलाप्यभावेषु एव इदमुभयं = अभिलाप्यत्वाऽनभिलाप्यत्वधर्मयुगलं अनुपपन्नम् । ततश्च सर्वत्र तयोरेकत्र समावेशी दुर्घट इति शङ्काशयः ।
प्रकरणकृत्तन्निराकरोति नेति । तेषां अनभिलाप्यभावानां अनभिलाप्यपदेनैवेति । एवकारार्थः प्रकृतेऽयोगव्यवच्छेदो बोध्यः । तेनाऽप्रज्ञापनीयाऽवाच्याऽवक्तव्या: निर्वचनीयाऽनाख्येयादिपदैस्तेषाभिलापेऽपि न क्षतिः । अभिलाप्यत्वादिति । अनभिलाप्यपदनिष्ठाभिलापकतानिरूपिताऽभिलाप्यत्वादनभिलाप्यभावेषूभयं नाऽनुपपन्नम् । न चैवं तेषामनभिलाप्यत्वं विरुद्भूयेत इति वाच्यम्. अनभिलाप्यातिरिक्तपदापेक्षयैव तेषामनभिलाप्यत्वाऽभ्युपगमात्, अनभिलाप्यातिरिक्तपदनिरूपितवाच्यत्वशून्यत्वस्यैवाऽनभिलाप्यपदप्रवृत्तिनिमित्तत्वात् । एतेन सर्वथाऽनभिलाप्यत्वैकान्तोऽपि परिहृतः, अनभिलाप्यानां स्पादनभिलाप्यत्वं, स्यादभिलाप्यत्वं स्यादुभयत्वं स्यादवक्तव्यत्वं स्यादनभिलाप्यत्वाऽवक्तव्यत्वं स्यादभिलाप्यत्वाऽवक्तव्यत्वं, व्यत्वमित्येवं सप्तभङ्ग्यव्याहतप्रसरादिति दिक् ।
स्यादुभयत्वाऽवक्त
अभिलाप्यत्वपदार्थं परीक्षितुमुपक्रमते नन्विति । 'वचनप्रामाण्यादि 'त्यन्तोऽयं प्रौढपूर्वपक्ष: । तर्हि अनभिलाप्यभावानामनभिलाप्यातिरिक्तपदाऽवाच्यत्वे सत्यनभिलाप्यपदवाच्यत्वाङ्गीकारे सति किं किंस्वरूपं ईदृशानभिलाप्यव्यावृत्तं अनभिलाप्यपदातिरिक्तपदनिरूपितवाच्यत्वाभावविशिष्टेभ्यो ऽनभिलाप्यपदनिरूपितवाच्यताश्रयेभ्योऽनभिलाप्यभावेभ्यो व्यावृत्तं अभिलाप्यत्वपदवाच्यं स्याद्वादिभिः स्वीक्रियते । इति मीमांसायां पदशक्तिविषयत्वरूपं तत् ? यद्वा पद
=
4
=
=
अभिलाप्यत्त्वं
एक ही द्रव्य में रह सकते हैं, तब तो अभिलाप्यभाव की अपेक्षा अनभिलाप्य = अनभिलाप्यत्वविशिष्ट भाव अनन्तगुण कैसे हो सकते ? दोनों समान ही होने चाहिए। अतः अभिलाप्य भाव की अपेक्षा अनन्तगुण अनभिलाप्य भावों में ही अभिलाप्यत्व और अनभिलाप्यत्व उभय अनुपपन्न हो जायेगा । इसलिए उनमें अनन्तगुण अधिक न्यूनभाव के प्रतिपादक जैन आगम से ही अभिलाप्यत्व और अनभिलाप्यत्व धर्म में विरोध सिद्ध होता है" तो यह भी ठीक नहीं है, क्योंकि अनभिलाप्य भावों का भी अनभिलाप्यपद से अभिलाप होने से उनमें भी अनभिलाप्यशब्द की अपेक्षा अभिलाप्यत्व रहता ही है, अन्यथा उनका प्रतिपादन अनभिलाप्य शब्द से कैसे हो सकता ? फिर भी उन्हें अनभिलाप्य कहने का तात्पर्य यह है कि वे अनभिलाप्य पद से भिन्न पद से अभिलाप्य नहीं होते हैं, केवल अनभिलाप्यपद से ही अभिलाप्य होते हैं । अतः अनभिलाप्य भावों में भी अभिलाप्यत्व और अनभिलाप्यत्व का विरोध नहीं है - यह सिद्ध होता है। शकर की मिठाश, गुड की मिठाश, आम के रस की मधुरता, मिठाई की मधुरता में भेद होने पर भी उनका शब्द से निर्वाचन नहीं किया जा सकता । इस दृष्टि से उनके 'बीच में भेद अनभिलाप्य कहा जाता है, इत्यादि दृष्टिकोण से जैन सिद्धान्त ग्रन्थों में अनभिलाप्य पदार्थ का निरूपण किया गया है, न कि अनभिलाप्यशब्द से भी वे अभिलाप्य = वाच्य नहीं है, इसकी अपेक्षा से । इस तरह अभिलाप्यत्व और अनभिलाप्यल का एक धर्मी में समावेश सिद्ध होने से वे परस्पर विरुद्ध नहीं है यह प्रकरणकार का गर्भित आशय है । पूर्वपक्ष - ननु त इति । यहाँ अभिलाप्यत्व को कहा गया है, जो प्रदर्शित अनभिलाप्यभाव से व्यावृत्त है, उसका स्वरूप क्या है ? क्या पदशक्तिविपयत्वस्वरूप अभिलाप्यत्व आपको अभिमत है ? यह तो नहीं माना जा सकता, क्योंकि
=
-