Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 294
________________ ४९१ मध्यमस्याद्वादरहस्ये खण्ड २ का ७ * घटे घटसादृश्यप्रसङ्गनिराकरणम् बोध्यः । समीचीन श्वाऽयमेव पक्षः पूर्वत्र 'घटो न घटसदृश:' इतिबोधानापत्तेः । घटत्वादावपि पढत्वात्यन्ताभावादिरूपघटभेदवैशिष्ट्याद् घटे घटसादृश्यं कथं नेति चेत् ? तादृशघटभेदस्य घटे सत्त्वेऽपि घटभेदत्वावच्छिन्नाधिकरणताया अभावात्, अन्यथा * जयलता सम्बन्धः बोध्यः । पदात्मके एकस्मिन्नेवाधिकरणे घटभेदस्य घटवृत्तिद्रव्यत्वादिधर्मस्य च सत्त्वात् स्वसामानाधिकरण्येन घटभिन्नत्वविशिष्ट घटवृत्तिधर्मस्य प्रसिद्धिः । इत्थञ्च विशिष्टवैशिष्ट्यावगाहिशाब्दबोधाऽङ्गीकारेऽपि न क्षतिः; अभावप्रतियोगिनो पक्षे प्रसिद्धेस्तत्प्रतियोगिता भावस्य निरपलपनीयत्वात् । समीचीनत्र अयमेव = अनन्तरोक्त एव पक्षः । ' एकत्र द्रयमिति रीत्या पूर्वप्रदर्शितप्रकारेणान्वयबोधस्वीकर्तृप्रथमपक्षस्यैवकारेण व्यवच्छेदः कृतः । तस्याऽसमीचीनत्वे हेतुमाविष्कुर्वन्तिपूर्वत्र = 'पटे घटभिन्नत्वस्य घटवृत्तिघटत्वधर्माभावस्य चैकत्र द्वयमितिन्यायेनाऽन्वयबोधाऽङ्गीकर्तृपूर्विले पक्षे, 'घटो न घटसदृश' इतिबोधानापत्तेः = उपमेये घंटे घटभिन्नत्वस्य घटवृत्तिधर्माभावस्य च बाधेन 'घटी न घटसदृश' इत्याकारकशाब्दबोधस्यानुपपत्तेः । न च घटो न घटसदृश इतिशाब्दबोधानापत्तेरिष्टत्वमिति वाच्यम्, उपमाया उपमानोपमेयभेदनियतत्वात् । अत एव पटमुद्दिश्य 'अयं सदृश' इति मुग्धेनोक्ते घटं विद्वान् 'अयं घटएव न तु घटसदृश' इति प्रयुङ्क्ते । न हि चैत्रः कदापि 'अहं चैत्रसदृशः' इति प्रयुङ्क्ते, किन्तु 'अहं चैत्र' इत्येवमेव स्वपरिचयं दत्ते । न च प्रकृतकल्पे कथं 'घटो न घटसदृश' इति बुद्धिः सङ्गच्छेतेति शङ्कनीयम्, घटे घटत्वीयसंसर्गेण घटत्वस्य सत्त्वेऽपि सामानाधिकरण्यसम्बन्धेन घटभित्रत्वविशिष्टघटवृत्ति = धर्मस्य घटत्वप्रतियोगिकसम्बन्धेनाऽसत्त्वात्, घटे घटभेदस्याऽसम्भवात् । इत्थञ्च विशेषणाभावप्रयुक्तविशिष्टाभावस्य घटत्वप्रतियोगिकसम्बन्धावच्छिन्नप्रतियोगिताकस्य सत्त्वेन 'घटो न घटसदृश' इतिबुद्धयुपपत्तेः । ननु घटत्वादावपि सामानाधिकरण्येन पटत्वात्यन्ताभावादिरूपघटभेदवैशिष्ट्यात् तादृशघट भेदविशिष्टघटत्वस्य घटवृत्तित्वात् घटे घटसादृश्यं कथं न भवति ? अयं शाशय: 'पटत्यात्यन्ताभावो न घट:' इत्यादिप्रतीत्या घटभेदः पटत्वात्यन्ताभावाद्यात्मकः सिध्यति, अभावाधिकरणका भावस्याधिकरणात्मकत्वात् । पटत्त्वात्यन्ताभावादेर्घवृत्तित्वेन तदभिन्नत्वेन घटभेदस्यापि बटवृत्तित्वात् घटत्वादेः सामानाधिकरण्येन पटत्वात्यन्ताभावाद्यात्मकघटभेदविशिष्टत्वम् । इत्थञ्च पटत्वात्यन्ताभावादिस्वरूपघटभेदविशिष्टघटवृत्तिघटत्वधर्मस्य घटत्वीयसम्बन्धेन घटवृत्तित्वसिद्ध घटभिन्नत्वविशिष्टघटत्वलक्षणघटसादृश्यं घटे निराबाधमिति 'घटो न घटसदृश' इतिबुद्धयनापत्तेरिष्टत्वान्नैकत्र द्वयमितिन्यायेन 'पटो न घटसदृश' इत्यत्र घटभिन्नत्व-घटत्वाभावयोः पटे वयस्यायुक्तत्वमिति निहिताशयो ननुवादिनः । घटे घटसादृश्याभावं समर्धयति तादृशघटभेदस्य = पदत्वात्यन्ताभावादिस्वरूपस्य बटभेदस्य घटे उपमेये सत्त्वेऽपि घटभेदत्वावच्छिन्नाधिकरणतायाः = घट्रभेदत्वावच्छिन्नाऽऽधेयतानिरूपिताधिकरणतायाः पटत्वात्यन्ताभावादी सत्त्वेन घटे अभावादिति । यथा 'घटध्वंसे घटो नास्तीतिप्रतीत्या सिध्यतो घटध्वंसाधिकरणकस्य घटात्यन्ताभावस्य लाघवेन घटध्वंसात्मकत्वेऽपि घटध्वंसवति कपाले प्राचीननैयायिकमतानुसारेण घटध्वंसत्वावच्छिन्नाधेयतानिरूपितैवाऽधिकरणता, न तु घटात्यन्ताभावत्वावच्छिन्नाधेयतानिरूपिताऽपि घटध्वंसस्य घटध्वंसत्वेनैव रूपेण कपाले सत्त्वात् न तु घटात्यन्ताभावत्वेनापि रूपेण तथैव उपमेय घट में घटभेद और घटवृत्तिधर्माभाव दोनों नहीं रहते हैं । * घर में घरमेद की शंका का परिहार ननु च इति । यहाँ यह शंका हो कि “घट में सामानाधिकरण्यसम्बन्ध से घटभेदविशिष्टघटल घटसादृश्य तो रहता है, क्योंकि घटवृत्ति घटत्व धर्म में सामानाधिकरण्यसम्बन्ध से घटभेदविशिष्टत्व अबाधित है। वह इस तरह 'पटत्वात्यन्ताभावो न घट:' इस प्रतीति से घटभेद पदत्वात्यन्ताभाव में रहता है यह सिद्ध होता है । नैयायिकमतानुसार अभाव में रहने वाला अभाव अधिकरणीभूत अभावस्वरूप होने से पदत्वात्यन्ताभावाधिकरणक घटभेद पदत्वाऽत्यन्ताभावात्मक सिद्ध होता है। घट में पटत्वात्यन्ताभाव के रहने से तत्स्वरूप घटभेद भी रह जायेगा। एक ही घट में घटत्व एवं पटत्वाभावस्वरूप घटभेद के रहने से घटत्व सामानाधिकरण्य सम्बन्ध से पटत्वाभावस्वरूपघटभेदविशिष्ट होगा । इस तरह घट में तादृशघटभेदविशिष्टघटत्त्व रहता है, जो घटसादृश्यात्मक है । अत: 'घटो न घटसदृश:' इत्याकारक बुद्धि की अनुपपत्ति इष्टापत्ति है । घट में घटसदृश्य सिद्ध होने पर 'घट घटसदृश नहीं है' यह कैसे माना जा सकता है ?" - तो यह भी नामुनासिब है, क्योंकि घट में पटत्वात्यन्ताभावस्वरूप घटभेद रहने पर भी घटभेदत्वावच्छिन्नाधिकरणता P =

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370