________________
५०३ मध्यमस्याद्वादरहस्ये खण्डः २ - का.७ * जातेानव्यक्तिवृत्तिलोपपादनापाकरणे *
वेतत्वं जातेर्विक्ष्यति । भवतामेकस्य शब्दस्य यावदर्थवाचकत्तमित यावदव्यक्तिवृत्तित्वं जातेरेकदा तु न व्यवहियते । किञ्च, पटादी नष्टघटभेद इव जातावतीतानागतव्यक्तिसमवेतत्वं नाऽसम्भवदुक्तिकमिति चेत् ? न, समवायस्यैवाऽविश्वम्भावातिरिक्तस्याऽसिन्दः ।
* जयलता - व्यक्तिसमवेतत्वं = अतीतादिनिखिलघटादिव्यक्तिनिरूपित-समवायसम्बन्धावच्छिन्नवृनिलं, जातेः = घटत्वादिसामान्यस्य निर्वक्ष्यतीति न विशेष्यांशानुपपत्तिः ।
तथाप्येकस्मिन् काले कथं घटत्वादास्तीतादिसकलघटादिव्यक्तिसमवेतत्वन्यबहार: सङ्गच्छते ? इत्याशङ्कायां नैयायिक | आह - भवतां - स्याद्वादिनां एकस्य शब्दस्य यावदर्थवाचकत्त्वं = अतीतादिसर्वघटादिव्यक्तिवाचकत्वं इव यावद्व्यक्ति
वृत्तित्वं = अतीतादिसकलघटादिव्यक्तिनिरूपितसमवायावच्छिन्नवृत्तित्वं जातेः = घटत्वादिसामान्यस्य एकदा = एककालावच्छेदेन तु न व्यरहियते अस्माभिः, किन्तु कालभेदनैवेति शेषः । 'एकमेव घटत्वादिसामान्य पूर्वकालावच्छेदेनाऽतीतघटादिसमवेतं वर्तमानकालावच्छेदन साम्प्रतिकघटादिनिरूपितसमवायसंसर्गावच्छिन्नवृत्तितावत अनागतकालावच्छेदेन च भविष्यद्यदादिदृत्ति' इत्येवमेव प्रतिपाद्यते स्माभिः, घटत्वादेनित्यत्वात्, न तु वर्तमानकालावच्छेदेनाऽतीतादिघटवृत्ति' इति व्यपदिश्यते इति न काऽप्यनुपपत्तिगतिमीयदर्शने ।
ननु तथाप्यतीतादिव्यक्तिसमवेतत्वं घटत्वादेः कथं सम्भवति ! अतीतादिघटादिव्यक्तीनामसत्त्यात्, अन्यथा बन्ध्यापुत्रसमवेतत्वमपि तत्र सम्भवदुस्तिकं स्यात, असत्त्वा-विशेषादित्याकायामाह - किश्चेति । पटादी नष्टघटभेट इवेति । अतीतघटस्याऽसत्त्वेऽपि तनिष्ठप्रतियोगितानिरूपकभेदस्त पटादौ वर्तत एव, अन्यथा 'नष्टघटो न पटादिः' इतिप्रत्ययानुपपत्तेः । तथैव जाती = घटत्वादी अघि अतीतानागतव्यक्तिसमवेतत्वं नासम्भवदुक्तिकम् । न चैवं वन्ध्या पुत्रसमवेतत्वमपि जाती सम्भवदुक्तिकं स्यादिति वाच्यम्, तस्य कदाऽप्यसत्त्वात्, अतीतघटादेस्तु यदाकदाचित्सत्त्वादिति विशेषात् । ततश्च जातेरनेकसमवेतत्वं निरानाधमिति फलितमिति फक्किकार्थः ।
मलशथिल्यप्रदर्शनेन प्रकरणकार: तमपाकरोति - नेति । अनेकसमवेतत्वघटकीभूतस्य समवायस्यैव पराभिमतस्य अविष्वग्भावातिरिक्तस्य असिद्धेरिति । यदि अनुयोगि-प्रतियोगिव्यतिरिक्तः परेष्टः समवायः सिध्येत् तदा तद्गर्भितं अनेकसमवेतत्वं जाती सिध्येत् । परं स एव नास्ति, तब मानाभावस्य पूर्वमेव (पृष्ठ ४१-५१) विस्तरतः प्रतिपादितत्वात् । परिणामपरिणामिनोस्तु अपृथग्भावलक्षण एव सम्बन्धः । तस्येय समबायवाच्यत्वेऽस्माकं न कश्चिद्विरोधो नाम । परं स च नैकान्तनित्वो न वा सर्वथक एव, तस्य कश्चित्परिणामाश्नतिरेकात, परिणामानां कथञ्चिदनित्यत्वात् स्यादनेकत्वाच्च । अत एवातीतादिश्यक्त्यनुयोगिकत्वस्य कादाचित्कत्वेऽपि तदनुयोगिकसम्बन्धस्यैकत्वेन यावद्व्यक्तिवृत्तित्वं जाते!पपादयितुं शक्यते,
आधग्भावसम्बन्धस्य सर्वथैकत्वविरहात् । एतेन यावद्व्यक्तिवृत्तित्वं जातेरेकदा तु न व्यवह्रियत किन्तु कालभेदेनेति प्रत्युक्तम्, . अनित्यत्वेन यावत्कालं सामान्यस्याऽसत्त्वाचेति भावनीयम् ।
सम्बन्ध एक होने की वजह जाति में यावत् व्यक्ति समवेतत्व भी उपपन्न हो सकता है, यह आगे बताया जायेगा । दृसरी बात यह है कि आप स्याद्वादियों के मत में एक शब्द में एक ही काल में यावदर्थवाचकता की भाँति जाति में एक काल में यावत् व्यक्तिनिरूपित वृत्तित्व का व्यवहार भी नहीं होता है, किन्तु भिन्न-भिन्न काल की अपेक्षा अनेकसमवेतत्व का व्यवहार होता है । यहाँ यह भी ज्ञातव्य है कि विद्यमान पट में जैसे विनष्ट घट का भंद मुमकिन है, ठीक वैसे ही जाति में अतीतानागतव्यक्तिसमवेतत्व भी मुमकिन है । इसलिए याचव्यक्तिसमवेतत्व का जाति में प्रतिपादन करना नामुमकिन नहीं है । अत: 'नित्यत्वे सति अनेकसमवेतत्व' यह जातिलक्षण सुसंगत है - ' यह फलित होता है।
स्याद्वादी:- न सम, इति । ओ नैयायिक महाशय ! अब पछताये होत क्या जब चिडियाँ चुग गई खेत ! अविप्नग्भाव से अतिरिक्त समवाय नाम का सम्बन्ध ही असिद्ध है तो फिर समवायघटित अनेकसमवेतत्व भी जाति में कैसे उपपन्न होगा ? क्योंकि अनेकसमवेतत्व का अर्थ याबव्यक्तिनिरूपित समवायसम्बन्धावच्छिन्न वृत्तिता । उसका घटक समवाय असिद्ध होने से विशेप्यांश अनेकसमवेतत्व भी असिद्ध ही रहता है। फलतः नित्यत्वे सति अनेकसमवेतत्व भी जाति में नामुमकिन होगा।
* तुर्धमान उपाध्याय के मत का जिरासा *