________________
* महेशशरीरविमर्शः *
सति शरीरस्याऽपि धृतित्वावच्छिन्नं प्रति हेतुतावधारणात् तादृशशरीरस्याऽपि सिध्दयापत्तेः ! अथ अस्तु परमाणूनामेवेश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वमिति चेत् ?
मयलता कै
| शरीरस्यापि अन्वयव्यतिरेकाभ्यां समवायेन श्रुतित्वावच्छिन्नं प्रति हेतुतावधारणात् महेश्वरे तादृशशरीरस्यापि श्रुतिनिष्ठजन्यतानिरूपितजनकताविशिष्टशरीरस्यापि सिद्ध्यापतेः अन्यथा अर्धवैशप्रसङ्गात् । एतेन विशेषान्वय - व्यतिरेकाभ्यां कर्तृत्वेन कार्यसामान्ये पत्र हेतुहत्यारा बाध इत्यपि प्रत्युक्तम् शरीरचेष्टयोरप्यन्वयव्यतिरेकाभ्यां कार्यसामान्यहेतुत्वात्तयोरपि नित्ययोगीश्वरे प्रसक्तेः ।
किश्च प्रवृत्तिविशेषे चिकीर्षान्चय- व्यतिरेकाविव प्रवृत्तिविशेषे द्वेषान्वयव्यतिरेकावपि दृष्टौ दुःखद्वेषेण तत्साधनद्वेषं तन्नाशानुकूलप्रवृत्तेः कण्टकादी दर्शनात् । न च जिहासयैव द्वेषान्यथासिद्धिरिति वक्तव्यम्, तद्धेतोरस्तु किं तेन ? इति न्यायेन द्वेषस्य तद्धेतुत्वौचित्यात्, अन्यथा द्वेषपदार्थ एव न स्यात्, 'द्वेष्मी' त्यनुभवे क्वचिदनिष्ठसाधनताज्ञानस्य क्वचिच्चाऽनिष्टत्वज्ञानस्यैव द्वेषपदेना तथाऽभिलापात् । एवञ्च कार्यसामान्ये द्वेषस्याऽपि हेतुत्वसिद्धी नित्यद्वेषोऽपि महेशे सिद्धयेत् । अथ' द्वेषवतः संसारित्वप्रसङ्ग' इति चेत् । चिकीर्षावितोऽपि किं न सः १ न च ' द्वेष चिकीर्षयोस्तत्र समानविषयत्वे करणाकरणप्रसङ्गः, भिन्नविषयत्वं च तत्कार्यं न कुर्यादेव, इति बाधकाद् द्वेषकल्पना त्यज्यते' इति वाच्यम्, एवमुत्तरकालोपस्थितबाधकेन तद्भाश्रोपगमे नित्यज्ञानादिकल्पनागौरवादिबाधकेन महेश्वरस्यापि त्यागप्रसङ्गात् ।
ननु प्रदर्शितरीत्या घटादेः कुलालादिचेष्टायाश्चाऽन्वयव्यतिरेकाभ्यां हेतुत्वसिद्धी 'यद्विशेषयो' रित्यादिन्यायेन कार्यत्वावच्छिन्नं प्रति चेष्टान हेतुत्वावश्यकत्वात् द्व्यणुकाद्युत्पत्तिपूर्वं चेष्टानुरोधेन महेशे नित्यशरीरमप्यभ्युपगम्यत एव चेष्टाश्रयत्वस्यैव शरीरत्वात् । न चेश्वरेऽतिरिक्तशरीरकल्पनागौरवम्, क्लृप्तपरमाणूनामेव तच्छरीरत्वाऽभ्युपगमात् । एवश्वेश्वरकृतिजन्यचेष्टावद्भिः परमाणुभिरेव तच्छरीरभूतः तत्तत्कार्याणामुत्यत्तिः, परमाणुक्रियायां चेष्टात्वरूपवैजात्याऽङ्गीकारात् शरीरलक्षणेऽन्त्याऽवयविवाsनिवेशाच न परमाणूनां शरीरत्वाऽनुपपत्तिरित्याशयवतामुदयनानुयायिनां मत निराकर्तुमावेदयति अथेति । 'चेदि'त्यनेनाऽस्याऽन्वयः । अस्तु परमाणूनामेवेति । एवकारेणाऽतिरिक्तशरीरप्रतिषेधः कृतः । ईश्वरप्रयत्नाधीनचेष्टावतां ईश्वरवृत्तिकृतिजन्यचेष्टाश्रयणाम् । ईश्वरसम्बन्धस्य सर्वेष्वेव परमाणुषु अविशेषेणैव सत्त्वात् 'इदमेवेशशरीरमिति नियमाध्योगात्कल्पनान्तरमाह- सर्वेषामेव वेति । 'परमाणूनामि' त्यत्रानुवर्तते । केचित्तु 'परमाणव एव प्रयत्नवदीश्वरात्मसंयोगाधीनचेष्टावन्त ईश्वरस्य शरीराणी' ति वदन्ति । 'वायुपरमाणव एव नित्यक्रियावन्तस्तच्छरीराणि अत एव तेषां सदागतिमत्त्वमित्यपरे ।
"
=
-
->
=
मुनासिव है'
=
=
नत्र इति । भी इसलिए मान्य नहीं किया जा सकता कि जैसे अम्बय व्यतिरेक से धृतिमात्र धृतित्वावच्छिन यावत् धृति के प्रति प्रयत्न में कारणता सिद्ध है, ठीक वैसे ही शरीर में भी तत्कारणता प्रसिद्ध है । आत्मा बिभु होने पर भी यत्र तत्र धृति उत्पन्न नहीं होती है, किन्तु संयोगादि से जहाँ शरीर होता है वहीं समवाय से विलक्षणसंयोगात्मक धृति उत्पन्न होती है । चैत्रीय शरीर भूतल में होने पर पर्वतस्थ पद में धृति उत्पन्न नहीं होती है । चैत्रशरीरसंयुक्त घट में ही वृति उत्पन्न होती है । घटादि के साथ शरीर साक्षात् सम्बद्ध हो या परम्परा से वह अलग बात है । इस तरह धृतिमात्र के प्रति अन्वयव्यतिरेक से शरीर में कारणता सिद्ध होने से ईश्वर में धृतिजनक कृति की भाँति शरीर की भी कल्पना करनी होगी। ऐसा होने पर ईश्वर शरीरी हो जायेगा और लाघव सहकार से वह शरीर भी नित्य मानना होगा।
परमाणु ईश्वरशरीर नहीं हो सकते - स्याद्वादी
अथ अ. इति । यहाँ नैयायिक का यह वक्तव्य कि -> "ईश्वर में नित्य कृति की भाँति नित्य शरीर का भी हम अंगीकार करते ही हैं । नित्य परमाणुओं को छोड़ कर ईश्वर का अन्य शरीर क्या हो सकता है ? नित्य परमाणुओं को ईश्वरशरीर मानने का कारण यह है कि ईश्वर के प्रयत्न के अनुसार ही नित्य परमाणुओं में चेष्टा उत्पन्न होती है। आत्मप्रयत्न के अनुसार जिसमें चेष्टा उत्पन्न हो उसे ही शरीर कहते हैं। अतः नित्य परमाणुओं में शरीर का लक्षण भी मुमकिन होने से शरीरलक्षणानुसार उन्हें ईश्वरशरीर मानने में कोई दोष नहीं है । ईश्वरीयप्रयत्नानुसार चेष्टा करने वाले परमाणुओं को या सभी परमाणुओं को हम ईश्वरशरीर मानते हैं" - भी इसलिए नामुनासिब है कि अनन्त परमाणुओं में ईश्वरीयशरीरत्व