________________
४४८
-
-
* युनिविकलश्रुतेरसाधकता* ज्ञत्वे मानमः युक्तिविरहे श्रुतिसहसस्याऽप्यकिचित्करत्वात् । न चेन्द्रियादिजन्यताऽभावेन तज्ज्ञाने नियतविषयताऽभावे सिदे तस्य सर्वज्ञत्वं सेत्स्यतीति वाच्यम्, इन्द्रियादिजन्यताऽभावेऽपि लाघवादिना तत्र नियतविषयताया एव सिम्देः । यादृच्छिकनियमकल्पनाया अप्रयोजकत्वात् ।
* जयलता च जायते ।। (मु.उप.१/५) । आदिपदेन 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोविधिज्ञाः षडन्तरङ्गाणि महेश्वरस्य' ।। ( ) इत्यादेः परिग्रहः । तस्य = ईश्वरपदप्रतिपाद्यस्य, सर्वज्ञत्वे मानमिति । अत्र प्रकरणकृत प्रतिविधत्ते- यक्तिविरहे श्रतिसहस्रस्याऽपि अकिञ्चित्करत्वात् । युक्तिमसहमानायाः श्रतेरप्रामाणिकत्वादिति न तत्सर्ववतत्वसिद्धिरित्यर्थः । एतेन त्वमेव सर्वज्ञः' (त्रि.वि.म.उप.१/१) इति त्रिपादविभूतिमहानार
नारायणोपनिषद्वचनं, 'सर्ववेद्यः सर्वज्ञः' (ना.परि.९/२०) इति नारदपरिवाजकोपनिषद्वचनं, 'सर्वविद् य' (श्वे.उप.६/१६) इति श्वेताश्वतरोपनिषद्वचनं च निरस्तम् ।
न चेति । अस्य 'वान्यमि'त्यनेनाऽन्वयः । इन्द्रियादिजन्यताऽभावेन = इन्द्रियादिनिष्ठजनकतानिरूपितजन्यताया || विरहेण, तज्ज्ञाने = महादेवसाक्षात्कारे नियतविषयताऽभावे = प्रतिनियतगोचरत्वविरहे सिद्धे, तज्ज्ञानस्य सर्वविषयकत्वसिद्धया तस्य = महादेवस्य सर्वज्ञत्वं सेत्स्यतीति । यदि हि तज्ज्ञानमिन्द्रियादिजन्यं स्यात्, तर्हि महत्त्वशून्यातीन्द्रियपदार्थविषयं न स्यात् । न चैवमस्ति । तज्ज्ञानस्येन्द्रियाद्यजन्यत्वात् । तदुक्तं नारदपरिवाजकोपनिषदि -> 'अपाणिपादो जवनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्याऽस्ति वेत्ता, तमाहुरयं पुरुषं महान्तम् ।। (९/१६) । प्रयोगस्त्येवं महेश्वरज्ञानं सर्वगोचरं, इन्द्रियाचजन्यत्वात्, व्यतिरेके अस्मदादिघटप्रत्यक्षमुदाहरणमिति पराकूतम् ।।
प्रकरणकारः तन्निराकरणायाऽऽह- इन्द्रियादिजन्यताऽभावेऽपि = इन्द्रियादिनिष्ठकारणतानिरूपितकार्यत्वाऽभावेऽपि, लाघवादिना आदिपदन हेत्वभाव-प्रमाणाभावादिग्रहः, तत्र = ईश्वरज्ञाने नियतविषयतायाः = उपादानमात्रनिष्ठविषयतानिरूपितविषयितायाः एव सिद्धेः । तत एव घटादिकार्यकर्तृत्वोपपत्तेः । तदुक्तं धर्मकीर्तिनाऽपि प्रमाणवार्तिके 'सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ।। (प्र.वा.१/३३) इति । एतेन महेशज्ञानं सविषयकं इन्द्रियाद्यजन्यत्वादिति प्रत्युक्तम्, यादृच्छिकनियमकल्पनायाः = यथाकथञ्चिद्व्याप्तिकल्पनायाः अप्रयोजकत्वात् = विपक्षबाधकतर्कशून्यत्वात् । एतेन जगद्वैचित्र्याऽन्यथानुपपत्त्या तस्य सर्वज्ञत्वसिद्धिरित्यपि प्रत्युक्तम्, तत्सार्वयं विनाऽपि जगद्वैचि-त्र्यस्य शुभाशुभकर्मपरिपाकवशेनोपपद्यमानत्वात् । तस्य सर्वज्ञत्वे तु विसंवादि-विगीतवेदादिप्रगेतृत्वं न स्यात् ।
किञ्च महेशज्ञानस्य सर्वविषयकत्वे विषयतासम्बन्धेन तत् गुणादावपि स्यात् । अतः तत्र घटादेरुत्पत्तिवारणाय समवायेन जन्यसन्मानं प्रति तादात्म्येन द्रव्यस्य कारणताऽपि स्वीकर्तव्या स्यात् । तस्य द्रव्यमात्रविषयकत्वे तु नोपदर्शितप्रधक्कारणताकल्पनाया आवश्यकत्वम्, तज्ज्ञानस्य विषयतासम्बन्धेन द्रव्यमात्रवृत्तित्वेनैवाइनतिप्रसङ्गादित्याशयेन प्रकरणकृदाह- तज्ज्ञानस्य
न चे. इनि । यदि नैयायिक की ओर से यह कहा जाय कि -> "यदि ईश्वर का ज्ञान इन्द्रिय आदि से जन्य होता तब तो उसमें नियत विषयता होती जैसे इन्द्रियजन्य ज्ञान में अतीन्द्रियगोचरता नहीं होती। मगर ईश्वर का ज्ञान तो नित्य है, इन्द्रियादि से अजन्य है, तब उसके ज्ञान में नियत विषयता कैसे होगी । अतः इन्द्रियादि से अनियम्य विषयताशाली ईश्वरप्रत्यक्ष सर्वविषयक ही मानना होगा, जिसके फल में ईश्वर सर्वज्ञ बन जायेगा" - तो यह भी नामुनासिब है, क्योंकि ईश्वरज्ञान इन्द्रियादि से अजन्य होने पर भी उसमें लाघव से नियत विषयता = वन्यमात्रविषयकत्व ही मानना उचित है, गुणादि. विषयकता की जगदीशप्रत्यक्ष में कल्पना करने में गौरव है । इन्द्रियादि से जन्यता में सर्वविषयकत्व की न्याप्ति की मनमानी कल्पना में कोई प्रयोजक तर्क नहीं है । ईश्वरज्ञान इन्द्रियादि से अजन्य होने पर भी सर्वविषयक न हो तो क्या दोष है ? इस समस्या का समाधान नैयायिक की ओर से नहीं बताया जा सकता। इसलिए इन्द्रियादिजन्यत्वविरह हेतु से ईश्वरीय ज्ञान में सर्व विषयकता की सिद्धि हो सकती नहीं है।
* ईश्वरज्ञान को गुणादिविषयक न मानने में लाया तज्ज्ञानस्य, इति । यहाँ यह शंका करना कि -> "ईश्वरज्ञान को सर्वविषयक न मान कर केवल द्वन्यविषयक मानने