________________
*** न्यायसिद्धान्तम अरीटीका शक्तिवादसंवादः *
४५२
पुष्करैः कृतं मीलितं यदभिरामताधिके' (काव्यप्रकाश ७/१८८) इत्यादी तथादर्शनात् । ननु सर्वमिदं सर्वज्ञसिद्धावेव शोभते, तत्रैव च किं मानं ? इति चेत् ?
जयलता *
तथादर्शनादिति । यत्तदो: नित्यसापेक्षत्वेऽपि प्रकृते यत्पदस्योत्तरवाक्योपात्तत्वेन न तच्छब्दस्याऽपेक्षेतिदर्शनादिति । तद्वदेवाऽत्रापि बोध्यम् । तदुक्तं प्रकरणकृतैव न्यायसिद्धान्तम अरीशब्दखण्डटीकायां तच्छब्दजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने यत्पदशक्तिः, उत्तरवाक्यस्थयत्पदेनाऽपि तत्पदाक्षेपात् अनाक्षेपे तत्र पृथक्शक्तिः । एवं यच्छब्दजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने तत्पदशक्ति: प्रक्रान्ताद्यर्थंकतत्पदेनापि यत्पदाक्षेपात् अनाक्षेपे तत्रापि पृथक्शक्ति: । अत एव मिभैरवान्तरवाक्योद्देश्यविषये तत्पदमित्युक्तम् । अत्रानाक्षेपपक्ष एव युक्त: 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' इत्यादी प्रथमपादजन्यबोधादेव यत्पदेनोद्देश्यबोधेऽनुपदमाह वाक्यार्थबोधात् । आक्षेपे तु पुनस्तत्पदयोगेन प्रथमपादजन्यबोधकल्पने गौरवात्' - (न्या. सि. मं.टी. पृ.२७) इति । अत्र कृतमितिपदोपस्थाप्यव्यापारस्य मीलितपदोपस्थाप्ये मीलनेऽभेदसम्बन्धेनान्वयो भवति । 'मीलनाsभिन्नव्यापारकतृणि पुष्कराणी' त्यन्वयबोध: | स्वापेचयाऽभिरामताधिके चन्द्रमसि उदयं प्राप्ते सति पुष्करैः = कमलैः यद् मीलितं तत् साधु कृतमित्युदाहरणार्थ: । गदाधरस्तु शक्तिवादे तच्छदजन्यप्रतिपत्तिपूर्वमपि तत्प्रतिपाद्यतया वक्तुरभिसन्धिः प्रकरणादिना सुग्रह इति न तच्छदजन्यप्रतीतेः यत्पदशक्तिग्रहेऽपेक्षा । इयञ्च व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकयच्छब्दस्य 'चैत्र: समागतो यस्तत्रावलोकित इत्यादी चैत्रादिदेनानुपस्थापितस्य यच्छब्देन बोवनात् । अत्र एवं 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' इत्यादी तत्पदाऽसत्त्वेऽपि न दोष:, पूर्वप्रक्रान्तस्य कृत पदोपस्थाप्यव्यापारस्यैवाऽभेदेन मीलनान्वयितया यच्छब्देन बोधनात् - (श. बा. पृ. २६० ) इति व्याचष्टे ।
इत्थञ्च गौतमीयाभिमते भवानीपतावेव मानाभावात् यथाकथञ्चित्तदभ्युपगमेऽपि तत्र सर्वज्ञत्वाऽसम्भवात् परेषां वचसि प्रामाण्याऽभ्युपगमस्य मोहविजृम्भितत्वात् मूलकारैः यथात्थ भगवन्नित्युक्त्या यज्जिनेन्द्रवचनेऽप्रामाण्यशङ्काकलङ्कलेशाऽसम्पर्कसूचनं कृतं तत्साध्विति
मीमांसकादिः शङ्कते - नन्विति । सर्व इदं = जिनेन्द्रवचनेऽप्रामाप्यलेशराहित्यसूचनादिकं सर्वज्ञसिद्धावेव शोभते । तत्र = सर्वज्ञे एव किं मानम् ? न तावत् प्रत्यक्षम् अनुपलब्धेः, नाऽप्यनुमानं लिङ्गाऽदर्शनात्, नाऽपि आगमः तेषां विभिन्नत्वात् नाप्युपमानं तत्सादृश्याऽज्ञानात्, नाप्यर्थापत्तिः तमृतेऽपि सर्वार्थोपपत्तेरित्यनुपलब्धिप्रमाणगोचरत्वं सर्वज्ञस्य । तदुक्तं लोकवार्तिके कुमारिलेन -> सर्वज्ञो दृश्यते तावत्रेदानीमस्मदादिभिः । दृष्टौ न चैकदेशोऽस्ति लिङ्ग वा योनुमापयेत् || अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते || अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः ? || सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता । कथं तदुभयं सिद्धचेत्, सिद्धमूलान्तरादृते ।। असर्वज्ञप्रणीतान्तु वचनान्मूलवर्जितात् । सर्वज्ञमवगच्छन्तः स्ववाक्यात् किं न जानते १॥ सर्वज्ञसदृशं
वे शब्द तथा तत् आदि शब्द की अपेक्षा रखते हैं । मगर जहाँ उत्तर वाक्य में या वाक्य के उत्तरार्ध में यथा, यत् आदि शब्द का ग्रहण किया जाता है, वहाँ तथा तत् आदि शब्द की अपेक्षा नहीं होती है। यहाँ 'यथा' शब्द का उत्तर वाक्य में ग्रहण किया गया है । अतः वह ' तथा ' शब्द की अपेक्षा नहीं रखता है । यह ठीक उसी तरह संगत होता है जैसे
'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' इस वाक्य के उत्तरार्ध में 'यत्' शब्द का ग्रहण होने से वह 'तत्' शब्द की अपेक्षा नहीं रखता है । उदाहरण वाक्य का अर्थ यह है कि 'अपनी अपेक्षा अधिक मनोहरता अभिरामतावाले चन्द्र का उदय होने पर कमलों ने जो मीलन ( बंद होने का काम किया वह बहुत अच्छा किया' । यहाँ उत्तरार्ध में 'यत्' शब्द का ग्रहण होने से 'तत्' शब्द अपेक्षित नहीं है । अतः न्यूनतादोष की शंका निराधार प्रतीत होती है। इसलिए मूलकार श्री ने कारिका के उत्तरार्ध में जो कहा है कि 'हे भगवंत 1 आपने जैसा पदार्थ का प्ररूपण किया है उसमें कोई दोष नहीं है' वह यथार्थ ही है
यह सिद्ध होता है ।
A
-
सर्वज्ञसिद्धि में प्रमाण
ननु स इति । यहाँ यह भी आक्षेप करना कि 'श्रीजिनेश्वर भगवंत के वचन में प्रामाण्य का अटूट विश्वास रखना तब उचित महसूस होना, यदि वह सर्वज्ञ हो, क्योंकि असर्वज्ञ के सभी वचन में नितांत प्रामाण्य नहीं माना जा सकता। मगर श्रीजिनेश्वर भगवंत की तो बात दूर रहो, इस जगत में कोई भी सर्वज्ञ ही नहीं हो सकता, क्योंकि सर्वज्ञता में कोई प्रमाण ही नहीं है । प्रत्यक्षादि प्रमाण से सर्वज्ञ की सिद्धि नहीं होने से श्रीजिनेश्वर भगवंत में सर्वज्ञता के दल