Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 256
________________ ४५३ मध्यमस्याद्वादरहस्ये खण्डः २ . का.५ *सर्वज्ञसिद्धी प्रमाणम् * शा, तुल्यायामप्यध्ययनादिसामन्यां समानाभ्यासशालिनोः व्दयोरपे बुन्दौ तारतम्यदर्शनात् विचित्रज्ञानं प्रति विचित्रज्ञानावरणकर्मक्षयोपशमस्य प्रतिबन्धकाभावविधया कारणता कल्यते । न चाऽदृष्टविशेषस्यैव तथात्वमस्तु किमनेन ? इति वाध्यम्, सति प्रतिबन्धकेऽदृष्टसहसस्याकिश्चित्करत्वात, अदृष्टवैजात्यस्याऽनन्यथासिन्दत्वादेश्च कल्पने गौरवात, * जयलता * कश्चिद्यदि पश्येम सम्प्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ उपदेशो हि बुद्धादेर्धर्माऽधर्मादिगोचरः । अन्यथाऽप्युपपद्येत सर्वज्ञो यदि नाऽभवत् ।। सजाजीय प्रमाणैनु न गातीपाइलम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ।। प्रमाणपञ्चकं यत्र वस्तरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राऽभावप्रमाणता ॥ (मी.श्लो.वा.) इति । तस्मानास्ति सर्वज्ञ इति न जिनेन्द्रबचने सर्वज्ञप्रणीतत्वमूलकं प्रामाण्यं संघटेतेति पूर्वपक्षसक्षेपः । अत्र यद्यपि शक्यते एवं प्रतिविधातुं यदुत -> 'स्वसम्बन्धि यदीदं स्याद् व्यभिचारि पयोनिघे: । अम्भःकुम्भादिसङ्ख्यानैः सद्भिरज्ञायमानकैः ॥ सर्वसम्बन्धि तद्वोद्धं किश्चिद्बोधैः न शक्यते । सर्वबोधोऽस्ति चेत् ? कश्चित्तद्बोद्धा किं निषिध्यते ।। सर्वसम्बन्धि सर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभि: वेद्यमत्यक्षवाददृष्टवत् । नानुमानादलिङ्गत्वात् क्वार्थापत्त्युपमागतिः । सर्वज्ञस्याऽन्यथाभावसादृश्यानुपपत्तितः ।। सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यञ्च कथं मीमांसकस्य तत् । नापि वाच्यं त्वयैवं तदभावोऽनुपलब्धितः । प्रसाध्यते यतस्तस्य सर्वत्र ह्यप्रवृत्तितः ।। गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषामक्षानपेक्षया ।। तेघामशेषनृज्ञाने स्मृते तज्ज्ञापके क्षणे । जायेत नास्तिताज्ञानं मानसं तत्र नाऽन्यथा ।। न चाऽशेषनरज्ञानं सकृत्साक्षादुपेयते । न क्रमादन्यसन्तानप्रत्यक्षत्वाऽनभीष्टितः । यदा च क्वचिदेकत्र भवेत्तन्नास्तितागतिः । नैवान्यत्र तदा साऽस्ति क्यैवं सर्वज्ञनास्तिता । <- तथापि प्रकारान्तरेण प्रकरणकृत् समाधत्ते - शृष्विति । तल्यायामप्यध्ययनादिसामग्रयामिति । आदिपदेनाऽध्यापक-पुस्तकादिपरिग्रहः । तथापि तुल्यमभ्यासमर्वतोर्विज्ञानतारतम्यमुपपद्यतेत्याह - समानाऽभ्यासशालिनोरिति । बुद्धी तारम्यदर्शनादिति । यदि ज्ञानं प्रति ज्ञानावरणकर्मणः प्रतिबन्धकत्वं न स्वीक्रियेत तदा प्रदर्शितज्ञानवैचित्र्यं नोपपद्येत । तदन्यथाऽनुपपत्त्या ज्ञानावरणस्य कर्मणः ज्ञान प्रति प्रतिबन्धकत्वमुन्नीयते । न चैवमस्मदादीनामिदानी ज्ञानमेव नोपजायेत, ज्ञानावरणकर्मसत्त्वादिति वाच्यम्, विचित्रज्ञानोत्पादाऽन्यथान्नुपपत्त्या विचित्रज्ञानाबरणक्षयोपशमस्प प्रतिबन्धकाभावविधया विचित्रज्ञानं प्रति कारणत्वमनुमीयते । न चाऽवधारणशक्त्यादिवैचित्र्यादेव ज्ञानतारतम्योपपत्तिरिति वाच्यम्, तद्वैचित्र्यस्याऽपि ज्ञानावरणक्षयोपशमवैचित्र्यप्रयोज्यत्वात्, 'तरेतोरस्तु किं तेन ?' इतिन्यायेन ज्ञानावरणकर्मक्षयोपशमवैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुत्वौचित्यात् । ननु विचित्रज्ञानं प्रति विचित्रज्ञानावरणक्षयोपशमस्य हेतुत्वाऽपेक्षया अदृष्टविशेषस्यैव तत्त्वौचित्यात्, कारणतावच्छेदकधर्मलाघबादिति शकामपाकर्तुमुपक्रमते न चेति । 'वाच्यमि' त्यनेनाऽन्वयः । अदृष्टविशेषस्यैवेति । एवकारेण ज्ञानाबरणकर्मक्षयोपशमव्यवच्छेदः कृतः । तथात्वं = तद्धेतुत्वं, अस्तु, किं = अलं, अनेन = ज्ञानावरणकर्मक्षयोपशमकल्पनेन, अदृष्टे ज्ञानावरणत्वाख्यविशेषधर्म कल्पयित्वा तत्क्षयोपशमे प्रतिबन्धकाइभावविधया तत्कारणत्वकल्पने गौरवादिति लाघवात् अदृष्टविशेषस्यैव तथात्वौचित्यादिति शङ्काशपः ।। __ प्रकरणकृत् तनिरासे हेतूनाह - सति प्रतिबन्धके अदृष्टसहस्रस्य अकिञ्चित्करत्वात् = ज्ञानजननेऽसमर्थत्वात्, पर उसके सभी वचन में प्रामाण्य का निश्चय करना भी असंगत है' -निराधार है, क्योंकि सर्वज्ञ की सिद्धि में अनुमानादि प्रमाण विद्यमान है। आप कान खोल कर सुनो, समकक्ष अभ्यास वाले दो व्यक्ति के पास अध्ययन, अध्यापक, पुस्तक, परिश्रम, पाउपरावर्तन, लेखन आदि बाह्य सामग्री समान होने पर भी उनकी बुद्धि में तरतमभाव होता है । एक की बुद्धि तेज होती है, तो दूसरे की मन्द । ज्ञान की बाह्य सामग्री समान होने पर भी उनके ज्ञान में विचित्रता क्यों ? फल में वैचित्र्य होने की वजह सामग्री में भी वैचित्र्य का अभ्युपगम करना आवश्यक है। बाह्य सामग्री तो समान होने से अभ्यन्तर सामग्री में ही वैचित्र्य मानना होगा । वह होगा ज्ञानावरणकर्म के क्षयोपशम में वैचित्र्य । प्राज्ञ व्यक्ति के ज्ञानावरण कर्म का क्षयोपशम अधिक एवं उसकी अपेक्षा मंद बुद्धिवाले के ज्ञानावरण कर्म का क्षयोपशम न्यून है - ऐसा ही मानना होगा । मतलब कि ज्ञान के प्रति ज्ञानावरण कर्म को प्रतिबन्धक और उसके विलय (क्षयोपशमादि) को प्रतिबन्धकाभाव के स्वरूप में ज्ञान के प्रति कारण मानना होगा । ऐसा होने पर ही ज्ञानप्राप्ति की बाह्य सामग्री समान होने पर भी ज्ञानावरण कर्म ---3D

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370