________________
४५५ मध्यमस्याद्वादरहरये खण्डः २ का ५
* अष्टसहस्रीविवरणसंवादः *
न चाsप्रयोजकत्वं, मूलोच्छेदे कार्योच्छेदाऽवश्यम्भावात् । क्षयश्च स्वसमानाधिकरणतज्जातीयपर्यायप्रागभावाऽकालीन: तत्पर्यायध्वंसो
* जयलता
हानिरतिशायिनी सा क्वचिन्निः शेषा भवति यथा कनकपाषाणादौ किकालिकादिबहिरन्त मंलहानिरिति प्रयोगोऽत्र द्रष्टव्यः । | अत्रातिशायिनीलमाश्रयभेदव्यापारप्रयुक्ताऽल्पाऽल्पतर- बहु- बहुतरप्रतियोगित्वम् - ( ( अ.स.वि.प्र.९२ ) इति । एतेन यत्राऽप्यतिशयो दृष्ट:, स स्वार्धानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टी स्यान्न रूपे श्रोत्रवृत्तिता । येऽपि सातिशया दृष्टा: प्रज्ञामेधादिभिनराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रामन्नतिशेते परान्नरान् ॥ एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धि: शब्दाऽपशब्दयी | प्रकृष्टतेन नक्षत्रतियोगि चन्द्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति । तथा वेदेतिहासादिज्ञानातिशयवानपि । न स्वर्ग देवताऽपूर्व प्रत्यक्षीकरणे क्षमः || दशहस्तान्तरं व्योम्नि यो नामोल्लुत्य गच्छति । न च योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ ( मी.ओ. वा. ) इति कुमारिलप्रलापः परास्त: । तदुक्तं योगबिन्दीज्ञां ज्ञेये कथमज्ञः स्वादसति प्रतिबन्धने । दाह्येऽदिहको न स्यादसति प्रतिबन्धने || <- (४३२) इति । इतरसकल कारणसमवधानेऽसति प्रतिबन्धक कार्यात्यादस्य न्याय्यत्वादित्याशयेन प्रकृतं प्रयोजकत्वशङ्कामपास्यति न चाऽप्रयोजकत्वमिति । अस्तु ज्ञानावरणक्षय: मास्तु सकलार्थविषयः साक्षात्कार:, तर्हि को दोष: ? इत्यप्रयोजकत्वं प्रकृते नास्तीत्यर्थः । कुतः १ इत्याह- मूलोच्छेदे यावत्प्रतिबन्धकात्यन्तक्षये, कार्योच्छेदाऽवश्यम्भावात् प्रतिबन्धकीभूतज्ञानावरणकार्यभूताऽज्ञानत्वावच्छिन्नध्वंसस्याऽवश्यम्भावनियमात् । अत एवाक्षानपेक्षा यथाऽञ्जनादिसंस्कृतचक्षुष आलोकाऽनपेक्षा । अक्षापेक्षा | हि ज्ञाने विषयस्पष्टत्वार्थम् । तच संपूर्णज्ञाने ज्ञानावरणक्षयादेवेति तस्याऽक्षानपेक्षत्वेऽपि न क्षतिः । विशदतरकार्य - सिद्धावप्रतीयमानमपि कारणं कल्पनीयं न पुनरप्रतीयमानकल्पना भयात्कार्यवैशद्यमपह्नोतुमुचितम्, अन्यथाऽतिप्रसङ्गात् । एतेन 'न प्रत्यक्षं चक्षुरादिजन्म तावत्सवर्धिषु तेषां विषयनियमात् किञ्चिदेव हि वर्तमान सम्बद्धञ्च तद्विषयो न सर्वेऽर्था' (वि.वि. १.८२ ) इति विधिविवेककृद्वचनमपि प्रत्युक्तम्, अनुक्तोपालम्भदानात् ।
क्षयपदार्थ प्ररूपयति-क्षयश्चेति । स्वसमानाधिकरणतज्जातीयपर्यायप्रागभावाऽकालीनः तत्पर्यायध्वंस इति । स्वसमानाधिकरणो यः स्वप्रतियोगिजातीयपर्यायप्रतियोगिकप्रागभावः तत्कालीनभिन्नः पर्यायविशेषप्रतियोगिको ध्वंसः क्षय इत्यर्थः । पर्यायविशेषध्वंस: क्षय इत्युक्ती तु अस्मदादीनामपि सर्वज्ञत्वाऽऽपत्तिः, प्रतिसमयमस्मदादिषु ज्ञानावरणकर्मणां नश्यमानत्वात् । अतः 'स्वप्रतियोगिजातीयपर्यायप्रागभावाऽकालीने 'त्युक्तम् । तेन यत्किश्चित्प्रतियोगिकप्रागभावाऽकालीनत्वमादायाऽपि नातिप्रसङ्गः । तथापि त्रयोदशादिगुणस्थानवर्निनि ज्ञानावरणध्वंसेऽव्याप्तिः, अन्यजीववृत्तिज्ञानावरणप्रागभावसमानकाळीनत्वादित्यतः 'स्वसमानाधिकरण' इति प्रागभावविशेषणम् । स्वपदेन तादृशध्वंसस्योपादानम् । यदि च परण गौरवमुद्भाव्यते
होगा, उसका ज्ञान सर्वार्थगोचर होगा । यहाँ यह शंका नहीं करनी चाहिए कि 'ज्ञानावरण कर्म का संपूर्ण क्षय हो तो भी क्या ? इससे ज्ञान में सर्वार्थविपयकता कैसे सिद्ध हो सकती है ?" - क्योंकि ज्ञानावरण कर्म ज्ञान का प्रतिबन्धक है । उसका आंशिक उच्छेद होने पर आंशिक ज्ञान होता है तो उसका संपूर्ण उच्छेद होने पर संपूर्ण ज्ञान भी जरूर होना चाहिए, तनिक भी अज्ञान की तब संभावना नहीं है, क्योंकि अज्ञान ज्ञानावरण का कार्य होने से ज्ञानावरण कर्म का मूलतः उच्छेद होने पर उसके कार्य अज्ञान का भी संपूर्ण उच्छेद हो ही जायेगा । बिना कारण कार्य कैसे अपना स्थान पा सकता है ? इसलिए ज्ञानावरण कर्म के संपूर्ण ह्रास से होने वाले ज्ञान को सर्वविपयक मानना आवश्यक है ।
* क्षयपदार्थप्ररूपणा
क्षयश्व इति । केवल ज्ञान के कारणीभूत ज्ञानावरणकर्मक्षय का स्वरूप बताते हुए प्रकरणकार श्रीमद्जी कहते हैं कि पर्यायविशेष का ध्वंस क्षय है । मगर वह ध्वंस अपने अधिकरण में रहने वाले स्वप्रतियोगिसजातीयप्रतियोगिक प्रागभाव का समानकालीन नहीं होना चाहिए । अभी हमारी आत्मा में जो ज्ञानावरण कर्म का ध्वंस होता है, वह ज्ञानावरणकर्मप्रतियोगिक प्रागभाव का, जो हमारी आत्मा में रहता है, समानकालीन है, न कि भित्रकालीन । अतः प्रदर्शित ज्ञानावरणकर्मक्षय का