Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 262
________________ ४५९ मध्यमस्याद्वादरहस्ये खण्डः २ का. ५ * गुडशुण्ठीन्यायप्रदर्शनम् ॐ नमः परमानन्दकलाकलितकेलये । श्रीशस्वेश्वरपार्श्वाय मत्प्रत्यूहनिवारिणे ॥9॥ पूर्वसूत्रितावष्टम्भाय दृष्टान्तमाहुः 'गुझे हो'ति । * जयलता ज्ञानतारतम्यं क्वचिद्विश्रान्तं तर तमशब्दवाच्यत्वात् परिमाणतारतम्यवत् | ३ |, सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवत् |४|, अस्ति सर्वार्थसाक्षात्कारी अनुपदेशाऽलिङ्‌गाऽविसम्वादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् ॥५॥ ज्ञानं क्वचिदात्मनि प्रकर्षवत् स्वावरणान्युत्कर्षे सति प्रकाशकत्वात् ॥६। समस्ति समस्तवस्तु विस्तारगोचरं विशदं प्रत्यक्षदर्शनं, तगोचरानुमानप्रवृत्तेः ॥ -- इत्यादि ब्याचक्षते । 'अर्धा हि न विज्ञाने स्वाकारमर्पयन्ति किन्तु ज्ञानमेवार्थग्राहकत्वेन परिणमति । तत्परिणामश्व वस्तुनोऽनेकस्वभावात्, अन्यथाऽर्थपरिच्छेदानुपपत्तेः । न चातीताद्यर्थग्रहणप्रसङ्गः तेषामसत्त्वादिति वाच्यम्, सर्वथा सत्त्वाऽनभ्युपगमात्. सतः सर्वथाऽसत्त्वाप्राप्तेरसतश्चोत्पादानापत्तेः तदा तेषां वर्तमानत्वमेव । वर्तमाना एव हि भावाः तथापरिणामेनाऽतीतादिव्यपदेशभाजो भवन्ति, अन्यथा वर्तमानस्याऽप्यनुपपत्तिरिति भूत-भवद्-भविष्यत्सकलपदार्थविस्तारबोधकः सर्वज्ञोऽपि सुव्यव स्थित' - इत्यपि प्राहुः । ज्ञानावृतिक्षयप्राप्तके वलालोकशालिने । नमोऽस्तु सततं तस्मै, कारुण्यके लिशालिने || १ || वक्ष्यमाणग्रन्थभूमिकामारचयति पूर्वसूत्रिताऽवष्टम्भायेति । यदा तु नित्याऽनित्यत्वरूपते' त्यादिपूर्वकारिको क्तार्थदाय, दृष्टान्तमाहुः श्रीहेमचन्द्रसूरय इति शेषः । निगदसिद्धोऽयं कण्ठ्योऽयमित्यर्थः । तथापि लेशतो व्याख्यायते यथैकाकी गुडः कफस्य = = कारणं स्यात्, हिरवधारणे, नागरं केवलं पित्तस्य कारणं निमित्तं स्यात् द्वयात्मनि द्वयोरेकीकरणन कृते गुडनागरभेषजे = गुडिकाविशेषे न दोषः अस्ति, प्रत्युत पुष्ट्यादिगुणः स्यात् । तदुक्तं भावप्रकाशे 'उन्मीलनी बुद्धिबलेन्द्रियाणां निर्मूलनी पित्तकफानिलानां (भा.प्र.प्र. खंड ) इति । क्षेमणो हेतु: = - = एतत्कारिकाव्याख्यानं स्याद्वादकल्पलतायाञ्चैवम् -> 'अथोक्तदोषनिवृत्तिर्न जात्यन्तरनिमित्ता किन्तु मिथोमाधुर्य-कटुकल्वोत्कर्ष हानिप्रयुक्तेति चेत् १ न द्वयोरेकतरबलवत्त्वे एवाऽन्याऽपकर्षसम्भवात् तन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्व । एतेनेतरेतरप्रवेशादेकतरगुणपरित्यागोऽपि निरस्तः, अन्यतरदोषापत्तेः अनुभवाधाव | अथ मिलितगुशुण्डीक्षादेन नैकं द्रव्यमारभ्यते, विजातीयानां द्रव्यानारम्भकत्वात्, गुडत्व - शुण्ठीत्वसङ्करप्रसङ्गात् किन्तु कारणविशेषोपनीतरसविशेषवद् गुडशुण्ठीश्रोदसमाजादेव धातुसाम्याद् गुणदोषनिवृत्ती इति चेत् ? समुदितगुडशुण्ठीद्रव्यस्याप्येकपरिणतिभत एवोपलम्भात्, धातुसाम्ये रसविशेषवद् द्रव्यविशेषस्याऽपि प्रयोजकत्वात् द्रव्यादिवैचित्र्यादाहारपर्याप्तिवैचित्र्योपपत्तेः, अनेकान्ते साङ्कर्याऽसम्भवात्, | नृसिंहवदुपपतेः । अथ समुदितगुडशुण्ठीद्रव्यं प्रत्येकगुडशुण्ठीभ्यां विभिन्नमेकस्वभावमेव द्रव्यान्तरं न तु मिथोऽभिव्याप्यावस्थितो भयस्वभावं जात्यन्तरमिति चेत् ? न तस्य द्रव्यान्तरत्वे विलक्षणमाधुर्यकटुकत्वाऽननुभवप्रसङ्गात् एकस्वभावले दोषद्रयापदामा हेतुत्वप्रसङ्गात् उभयजननैकस्वभावस्य चानेकत्वगर्भत्वेन सर्वकत्वायोगात् एकया शक्त्योभयकार्यजननेऽतिप्रसङ्गात् विभिन्नस्वभावानुभवाच्च । तस्माद् माधुर्य-कटुकत्वयोः परस्परानुवेधनिमित्तमे वो भयदो षनिवर्तकत्वमादरणीयम् । ननु जात्यन्तरत्वेऽपि प्रत्येकदोपनिवृत्तिरिति न नियमः, पृथकृस्निग्धोष्णयोः पित्तकफकारित्ववत् समुदितस्निग्धोष्णस्याऽपि भाषस्य तथात्वादिति चेत् ? न, माषे स्निग्धोष्णत्वयोर्जात्यन्तरात्मकत्वाऽभावात्, अन्योन्यानुवेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् । अत्र च स्निग्धोष्णत्वयोः गुआफले रक्तत्व- कृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात् जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि ॐ नम, इति । इस तरह सर्वज्ञसिद्धिपर्यन्त निरूपण कर के पचम कारिका की व्याख्या व्याख्याकार ने पूर्ण की है 1 यहाँ मध्यमंगल करते हुए प्रकरणकार श्रीमद्जी कहते हैं कि मेरे विघ्नों का निवारण करने वाले और परमानन्द की कला से युक्त क्रीडा वाले श्रीशंखेश्वर पावनार्थ भगवंत को नमस्कार हो । - - * गुडशुण्ठीन्यायप्रदर्शन - श्लोक & ** - पूर्व इति । वीतरागस्तोत्रकार श्रीमद् हेमचन्द्रसूरीश्वर महाराजा ने अष्टम प्रकाश की पाँचवी कारिका में जो कहा था कि- ' वस्तु नित्यानित्य हो तब कोई दोष नहीं है...' इत्यादि, उसका समर्थन करने के लिए ६ठ्ठी कारिका में उसके अनुरूप | दृष्टान्त को वे ही बताते हैं 'गुडो हि... ' इत्यादि कह कर । कारिका का अर्थ यह है कि अकेला गुड कफ का कारण होता

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370