________________
४५९ मध्यमस्याद्वादरहस्ये खण्डः २ का. ५ * गुडशुण्ठीन्यायप्रदर्शनम्
ॐ नमः परमानन्दकलाकलितकेलये । श्रीशस्वेश्वरपार्श्वाय मत्प्रत्यूहनिवारिणे ॥9॥ पूर्वसूत्रितावष्टम्भाय दृष्टान्तमाहुः 'गुझे हो'ति ।
* जयलता
ज्ञानतारतम्यं क्वचिद्विश्रान्तं तर तमशब्दवाच्यत्वात् परिमाणतारतम्यवत् | ३ |, सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवत् |४|, अस्ति सर्वार्थसाक्षात्कारी अनुपदेशाऽलिङ्गाऽविसम्वादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् ॥५॥ ज्ञानं क्वचिदात्मनि प्रकर्षवत् स्वावरणान्युत्कर्षे सति प्रकाशकत्वात् ॥६। समस्ति समस्तवस्तु विस्तारगोचरं विशदं प्रत्यक्षदर्शनं, तगोचरानुमानप्रवृत्तेः ॥ -- इत्यादि ब्याचक्षते ।
'अर्धा हि न विज्ञाने स्वाकारमर्पयन्ति किन्तु ज्ञानमेवार्थग्राहकत्वेन परिणमति । तत्परिणामश्व वस्तुनोऽनेकस्वभावात्, अन्यथाऽर्थपरिच्छेदानुपपत्तेः । न चातीताद्यर्थग्रहणप्रसङ्गः तेषामसत्त्वादिति वाच्यम्, सर्वथा सत्त्वाऽनभ्युपगमात्. सतः सर्वथाऽसत्त्वाप्राप्तेरसतश्चोत्पादानापत्तेः तदा तेषां वर्तमानत्वमेव । वर्तमाना एव हि भावाः तथापरिणामेनाऽतीतादिव्यपदेशभाजो भवन्ति, अन्यथा वर्तमानस्याऽप्यनुपपत्तिरिति भूत-भवद्-भविष्यत्सकलपदार्थविस्तारबोधकः सर्वज्ञोऽपि सुव्यव स्थित' - इत्यपि प्राहुः ।
ज्ञानावृतिक्षयप्राप्तके वलालोकशालिने । नमोऽस्तु सततं तस्मै, कारुण्यके लिशालिने || १ || वक्ष्यमाणग्रन्थभूमिकामारचयति पूर्वसूत्रिताऽवष्टम्भायेति । यदा तु नित्याऽनित्यत्वरूपते' त्यादिपूर्वकारिको क्तार्थदाय, दृष्टान्तमाहुः श्रीहेमचन्द्रसूरय इति शेषः । निगदसिद्धोऽयं कण्ठ्योऽयमित्यर्थः । तथापि लेशतो व्याख्यायते यथैकाकी गुडः कफस्य = = कारणं स्यात्, हिरवधारणे, नागरं केवलं पित्तस्य कारणं निमित्तं स्यात् द्वयात्मनि द्वयोरेकीकरणन कृते गुडनागरभेषजे = गुडिकाविशेषे न दोषः अस्ति, प्रत्युत पुष्ट्यादिगुणः स्यात् । तदुक्तं भावप्रकाशे 'उन्मीलनी बुद्धिबलेन्द्रियाणां निर्मूलनी पित्तकफानिलानां (भा.प्र.प्र. खंड ) इति ।
क्षेमणो हेतु:
=
-
=
एतत्कारिकाव्याख्यानं स्याद्वादकल्पलतायाञ्चैवम् -> 'अथोक्तदोषनिवृत्तिर्न जात्यन्तरनिमित्ता किन्तु मिथोमाधुर्य-कटुकल्वोत्कर्ष हानिप्रयुक्तेति चेत् १ न द्वयोरेकतरबलवत्त्वे एवाऽन्याऽपकर्षसम्भवात् तन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्व । एतेनेतरेतरप्रवेशादेकतरगुणपरित्यागोऽपि निरस्तः, अन्यतरदोषापत्तेः अनुभवाधाव | अथ मिलितगुशुण्डीक्षादेन नैकं द्रव्यमारभ्यते, विजातीयानां द्रव्यानारम्भकत्वात्, गुडत्व - शुण्ठीत्वसङ्करप्रसङ्गात् किन्तु कारणविशेषोपनीतरसविशेषवद् गुडशुण्ठीश्रोदसमाजादेव धातुसाम्याद् गुणदोषनिवृत्ती इति चेत् ? समुदितगुडशुण्ठीद्रव्यस्याप्येकपरिणतिभत एवोपलम्भात्, धातुसाम्ये रसविशेषवद् द्रव्यविशेषस्याऽपि प्रयोजकत्वात् द्रव्यादिवैचित्र्यादाहारपर्याप्तिवैचित्र्योपपत्तेः, अनेकान्ते साङ्कर्याऽसम्भवात्, | नृसिंहवदुपपतेः । अथ समुदितगुडशुण्ठीद्रव्यं प्रत्येकगुडशुण्ठीभ्यां विभिन्नमेकस्वभावमेव द्रव्यान्तरं न तु मिथोऽभिव्याप्यावस्थितो भयस्वभावं जात्यन्तरमिति चेत् ? न तस्य द्रव्यान्तरत्वे विलक्षणमाधुर्यकटुकत्वाऽननुभवप्रसङ्गात् एकस्वभावले दोषद्रयापदामा हेतुत्वप्रसङ्गात् उभयजननैकस्वभावस्य चानेकत्वगर्भत्वेन सर्वकत्वायोगात् एकया शक्त्योभयकार्यजननेऽतिप्रसङ्गात् विभिन्नस्वभावानुभवाच्च । तस्माद् माधुर्य-कटुकत्वयोः परस्परानुवेधनिमित्तमे वो भयदो षनिवर्तकत्वमादरणीयम् ।
ननु जात्यन्तरत्वेऽपि प्रत्येकदोपनिवृत्तिरिति न नियमः, पृथकृस्निग्धोष्णयोः पित्तकफकारित्ववत् समुदितस्निग्धोष्णस्याऽपि भाषस्य तथात्वादिति चेत् ? न, माषे स्निग्धोष्णत्वयोर्जात्यन्तरात्मकत्वाऽभावात्, अन्योन्यानुवेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् । अत्र च स्निग्धोष्णत्वयोः गुआफले रक्तत्व- कृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात् जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि
ॐ नम, इति । इस तरह सर्वज्ञसिद्धिपर्यन्त निरूपण कर के पचम कारिका की व्याख्या व्याख्याकार ने पूर्ण की है 1 यहाँ मध्यमंगल करते हुए प्रकरणकार श्रीमद्जी कहते हैं कि मेरे विघ्नों का निवारण करने वाले और परमानन्द की कला से युक्त क्रीडा वाले श्रीशंखेश्वर पावनार्थ भगवंत को नमस्कार हो ।
-
-
* गुडशुण्ठीन्यायप्रदर्शन - श्लोक & **
-
पूर्व इति । वीतरागस्तोत्रकार श्रीमद् हेमचन्द्रसूरीश्वर महाराजा ने अष्टम प्रकाश की पाँचवी कारिका में जो कहा था कि- ' वस्तु नित्यानित्य हो तब कोई दोष नहीं है...' इत्यादि, उसका समर्थन करने के लिए ६ठ्ठी कारिका में उसके अनुरूप | दृष्टान्त को वे ही बताते हैं 'गुडो हि... ' इत्यादि कह कर । कारिका का अर्थ यह है कि अकेला गुड कफ का कारण होता