SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ * अनुमानसप्तकेन सर्वज्ञसाधनम् * दुरुदरं स्यात् किन्तु ज्ञानतदात्मानम् । आलेख्येऽपि स्वतदात्मैव पुरुषाद्याकारी भासते न तु पुरुषादितदात्मा । अत एव 'इदमालेख्यं पुरुषाकारवन तु करचरणादिमदि 'तिप्रतीतिनिर्वहतीति दिगम्बराः । वस्तुतो ज्ञानस्य सर्वविषयत्वं स्वभाव एव प्रदीपादेवि सर्वप्रकाशकत्वं, तस्य च ज्ञेयाकारशब्दाऽवाच्यत्वेऽपि न क्षतिरिति वदन्ति । (श्लो. १ संपूर्णः ) ॐ जयलता ज्ञानेऽभ्युपगम्यते ? इत्याशङ्कायामाह किन्तु ज्ञानतदात्मानं - ज्ञानाभित्र ज्ञेयाकारं ज्ञाने ब्रूम इत्यत्राऽप्यनुषज्यते । यदि | ज्ञेयात्मको ज्ञेयाकारो ज्ञाने स्वीक्रियेत तदा योगाचार मतप्रवेश- तत्प्रयुक्तदोषप्रसङ्गः स्यात् किन्तु ज्ञानात्मको ज्ञेयाकारी | ज्ञानेऽङ्गीक्रियत इति नातीतादिगोचरज्ञानाऽसम्भवी न वा ज्ञानाद्वैतमतप्रवेशप्रसङ्गः । पूर्वोक्तदृष्टान्तवैषम्यमाविष्करोति आलेख्येऽपि = प्रतिभाचित्रादावपि स्वतदात्मैव आलेख्यात्मक एव, पुरुषाद्याकारी भासते, न तु पुरुषादितदात्मा ज्ञेय| पुरुषादिस्वरूपः । अत्रैव किं विनिगमकं ? इत्याशङ्कायामाह अत एवेति । आलेख्यात्मकपुरुषाद्याकारस्यैवाऽऽलेख्ये मानादिति । इदं आलेख्यं प्रतिमादिकं पुरुषाकारवत् न तु करचरणादिमदि' तिप्रतीतिर्निर्वहतीति दिगम्बरा वदन्तीति शेषः । उक्तप्रतीतेरयोगव्यवच्छेदाऽन्ययोगव्यवच्छेदावगाहित्वादालेख्ये स्वात्मकः पुरुषाकारोऽवश्यमभ्युपगन्तव्यः पुरुषाद्यात्मकः पुरुषाद्याकारश्च व्यवच्छेद्य इति सिद्धी ज्ञानेऽपि ज्ञानात्मको ज्ञेयाकारः स्वीकार्य : ज्ञेयात्मकश्च शेषाकारो व्यवच्छेद्य इति सिद्धया क्षयीपशमादिना अतीतादिगोचरत्वमपि ज्ञाने सम्भवीति न ज्ञानस्य सर्वविषयकत्वमसिद्धमिति तेषामाकूतम् । - = ४५८ 1= ज्ञानस्य सर्वविषयकत्वं न ज्ञानावरणक्षयात् किन्तु ज्ञानस्वाभाव्यादेवेत्याशयेनाह वस्तुत इति । ज्ञानस्य सर्वविषयत्वं सर्वनिष्ठविषयतानिरूपितविषयिताशालित्वं स्वभाव एव, प्रदीपादेरिवेति । आदिपदेन सूर्यानलादिपरिग्रहः । यथा प्रदीपादिः स्वभावत एव सर्वप्रकाशक: तथापि कुड्यादिप्रतिबन्धके सति न व्यवहितान् प्रकाशयति तदपगमे तु तान् प्रकाशयत्येव तथैव ज्ञानमपि स्वभावत: सर्वविषयकं तथापि तत्तद्रोचरज्ञानावरणे प्रतिबन्धके सति न तत्तत्पदार्थान् गोचरीकरोति तद्विलये तु तान सर्वान् विषयीकरोत्येवेति नातीतादिविषयकत्वं ज्ञाने व्याहन्यत इति सर्वविषयकज्ञानाश्रये सर्वज्ञत्वं सिध्यत्येव । तस्य - सर्वविषयकत्वस्वभावस्य च ज्ञेयाकारशब्दाऽवाच्यत्वेऽपि न क्षतिरिति । अत्र 'ज्ञेयाकारशब्दवाच्यत्वेऽपि' इति यद्वा 'ज्ञेयाकारशब्दाद्वाच्यत्वेऽपीति शुद्धः पाठः स्यादिति सम्भाव्यते । तादृशज्ञानस्वभाव एव दिगम्बरैः ज्ञेयाकारशब्देन प्रतिपाद्यते तदा न दोष इत्यर्थः । ज्ञानस्य सर्वविषयकत्वस्वभावानभ्युपगमे तु 'तादृशो ज्ञेयाकारः कथं ज्ञाने एव न तु कृत्यादी ?' इत्यत्र विनिगमनाविरहात् तादृशस्वभावानङ्गीकारे तु 'ज्ञेयाकारो ज्ञानतदात्मको न तु कृत्यादि तदात्मक' इत्यस्य दिक्पटे: वक्तुमशक्यत्वादित्याशयः । प्रास्तु सर्वज्ञत्वसाधनार्थं अस्ति सर्वज्ञः सुनिश्चिताऽसम्भवद्बाधकप्रमाणत्वात् सुखादिवत् |१| कश्विदात्मा सकलार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यद् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत् तत्साक्षात्कारि, यथाऽपगततिमिरादिप्रतिबन्धलोचनं रूपसाक्षात्कारि, सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धश्च कश्चिदात्मा तस्मात् सकलार्थसाक्षात्कारी । न चाऽयं विशेषणाऽसिद्ध हेतु:, आगम द्वारेणा दोषार्थग्रहणस्वभावस्यात्मनि प्रसिद्धत्वात् |२| = तरह उपपन्न होता है जैसे चित्रादि में चित्रात्मक पुरुषाकार रहता है। चित्र में भी पुरुषतदात्मक पुरुषाऽभिन्न ऐसा पुरुषाकार नहीं प्रतीत होता है, किन्तु चित्रतदात्मक प्रतिमा से अभित्र पुरुषाकार का भान होता है। अतएव 'यह चित्र पुरुषाकारवाला है, न कि कर चरणादिवाला' इस प्रतीति का निर्वाह होता है। इसलिए चित्रादि में स्वात्मक पुरुषाग्राकार को अप्रामाणिक नहीं माना जा सकता, किन्तु पुरुषात्मक पुरुपाकार को, जिसका हम चित्र में स्वीकार नहीं करते हैं, ही अप्रामाणिक माना जा सकता है ऐसा दिगम्बरसम्प्रदाय है । H वस्तुतो. इति । वस्तुस्थिति का जब विचार किया जाय तब तो जैसे प्रदीपादि का सर्वप्रकाशकत्व स्वभाव है, ठीक वैसे ही ज्ञान का सर्वविषयकत्व स्वभाव ही है। प्रदीप का ऐसा स्वभाव नहीं है कि वह घट का प्रकाशक हो और पट का प्रकाशक न हो। इसी तरह ज्ञान भी स्वभावतः सर्ववस्तुविषयक होता है। ज्ञान के सर्वविषयप्रकाशकत्व स्वभाव को ज्ञेयाकार शब्द से वाच्य माना जाय तो भी कोई क्षति नहीं है । अतः ज्ञानावरणक्षय से अनीतादिसर्वार्थगोचर ज्ञान की कल्पना करने में कोई दोष नहीं है ऐसा भी विद्वानों का मन्तव्य है ।
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy