________________
* स्यावादकल्पलता-नयरहस्प-धर्मसङ्ग्रहणीवृत्त्यादिसंवादः * गुडो हि कफहेतुः स्यात्, नागरं पित्तकारणम् । ब्दयात्मजि न दोषोऽस्ति, मुडनागरभेषजे ॥६॥
= =ॐ जयलता = च दाडिमे श्लेष्मपित्तोभयदोषाऽकारित्वमिष्टमेव, “स्निग्धोष्णं हृद्यं, श्लेष्मपित्तविरोधि च' इति वैद्यकवचनादिति ।
इदमिह तत्त्वम् । तद्भेदस्य तदेकत्वाऽभावादिनियतत्वेऽपि जात्यन्तरानात्मकस्यैव विलक्षणस्य तस्य तधात्वात्, विलक्षणगुडत्वस्य कफकारितानियतत्वात्र दोषः । एतेन मया भेदसामान्ये तनियमः कल्पनीयः त्वया तु जात्यन्तराऽनात्मके तत्रेति गौरवमिति निरस्तम्, प्रातिस्विकरूपेणैव तनियमोपपत्तेरिति दिगिति - (स्या.क.ल.स्त.७, श्लो.४८) बर्त्तते इति ध्येयम् ।
तदक्तं नयरहस्येऽपि -> 'एकैकपक्षोक्तदोषापतिस्तु जात्यन्तरत्वाऽभ्युपगमान्निरसनीया । दष्टा हि वैकल्यपरिहारेण तत्प्रयुक्तायाः परस्पराऽनुवेधेन जात्यन्तरमापनस्य गुडशुण्ठीद्रव्यस्य कफपित्तदोषकारिताया निवृत्तिः । 'नेयं जात्यन्तरनिमित्ता किन्तु मिधा माधुर्यकटुकत्वोत्कर्षहानिनयुक्ते'ति चेत् ? न, योरेकतरबलवत्त्व एवाऽन्याऽपकर्षसम्भवात्, तन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्च । एतेन इतरेतरप्रवेशादेकतरगुणपरित्यागीऽपि निरस्तः; अन्यतरदोषापत्तेः, अनुभवबाधाच्च । अथ समुदितगुडशुण्ठीद्रव्यं प्रत्येकगुडशुण्ठीभ्यां विभित्रमेकस्वभावमेव द्रव्यान्तरं न तु मिथोऽभिव्याप्याऽवस्थितोभयस्वभावं जात्यन्तरमिति | चेत् ? न, तस्य द्रव्यान्तरत्वे विलक्षणमाधुर्यकटुकत्वाननुभवप्रसङ्गात्, एकस्वभावत्वे दोषद्वयोपशमाऽहेतुत्वप्रसङ्गात् । उभयजननकस्वभावस्य चाऽनेकत्वगर्भत्वेन सर्वथैकत्वाऽयोगात्, एकया शक्त्योभयकार्यजननेऽतिप्रसङ्गात्, विभिन्मस्वभावानुभवाच्च । तस्मान्माधुर्य-कटुकत्वयोः परस्परानुवेधनिमित्तमेवोभयदोषनिवर्तकत्वमित्यादरणीयम् ।
___ ननु जात्यन्तरत्वेऽपि प्रत्येकदोषनिवृत्तिरिति नैकान्तः, पृथक् स्निग्धोष्णयोः कफपित्तविकारित्ववत् समुदितस्निग्धोष्णस्यापि माषस्य तथात्वादिति चेत् ? न, माषे स्निग्धोष्णत्वयोः जात्यन्तरात्मकत्वाऽभावात, अन्योन्यानुवेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् । अत्र च स्निग्धोष्णल्वयोर्गुआफले रक्तत्वकृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात्, जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि च दाडिमे शेष्मपित्तोभयदोषाकारित्वमिष्टमेव, 'स्निग्धोष्णं दाडिमें रम्यं, श्लेष्मपित्तविरोधि चेति वचनादिति सम्प्रदायः । यद्यपि जात्यन्तरत्वं न प्रत्येककार्याकारित्वेन नियतं भेदाभेदेन भेदाभेदत्र्यवहारात् तथापि विभिन्नधर्मयोरभिव्याप्य समावेश एवोक्तनिदर्शनम्' - (न.२. पृ.२९) इत्यादिकम् ।
तदुक्तं धर्मसङ्ग्रहणीवृत्ती --> "न गुडगुण्ठ्योर्माधुर्यं कुटुकल्वाननुविद्धं कटुकत्वं वा माधुर्यादेकान्ततः पृथग्भूतं । नाप्यनयोरेकरूपता किन्वितरेतरानवेधतो जात्यन्तरमिदम । अतः तदपभोगात कफादिदोषाभावः, अन्यथा केवलगुडगुण्ठ्यपभोगादिवतदुभयोपभोगादपि कफ-पित्तलक्षणदोषद्वयप्रवृद्धिः प्रसज्येत, स्वस्वभावानपगमात् । स्यादेतत् -> नैवेदं जात्यन्तरं, किं तर्हि ? माधुर्येण कुटुकल्वोत्कर्षहानिराधीयते कटुकत्वेन च माधुर्योत्कर्षहानिः । अतस्तत्र पित्तादिदोषाभाव इति ५तदप्ययुक्तम, उभयोर्मन्दतापत्तायपि तदुपभोगान्मन्दपित्तादिदोषसम्भवापने: । एतेन-इतरेतरप्रवेशतोऽन्यतरेकमाधुर्याद्यभ्युपगमोऽपि निरस्तो द्रष्टव्यः, तत्राप्येकतरदोषापत्तेः । अनुभवबाधा चैवं प्रसज्यते, यतोऽनुभूयते तत्राऽविगानेन माधुर्यं कटुत्वञ्चेति ।
अथोच्यते - प्रत्येकं गुडशुण्ठिभ्यामन्यैव एकरूपा जाति: गुशुण्ठिः कफपित्तलक्षणदोषद्वयोपशमनस्वभावा जन्यते । ततो | नेदमु भयात्मकं जात्यन्तरमिति । तदक्तं - 'तन्मूलमन्यदेवेदं गुडनागरसंज्ञितमिति' - तदप्यश्लीलम्, एकान्तकस्वभावायास्तस्याः कफ-पित्तलक्षणदोषद्वयोपशमकारित्वाऽयोगात । सा हि गडशष्ठिरेकतरस्मिन कफोपशमे पित्नोपशमे वा कात्स्न्येनोपयुक्ता सती कथमन्यत्रोपयुज्येत ? स्वभावान्तराभावात् । अथ इत्यम्भूत एव तस्या एकः स्वभावो येनोभयमुपशमयति तेनाऽयमदोष इति चेत् ? न, इत्थं चित्रतागर्भस्य स्वस्वभावस्य सर्वथैकत्वायोगात्, अन्यथाऽतिप्रसङ्गतो वस्तुव्यवस्थाविलोपप्रसङ्गात् । अतस्तत्र स्वभावनानात्वमवश्यमुररीकर्तव्यम् । तच्चानुभूयमानमा भुर्यकटुकत्वगुणेतरेतरानुवेधनिमित्तम्, अन्यथा माधुर्यकटुकत्वयोः स्वस्वभावानपगमेन स्वस्वकफादिदोषकारितापत्तेः' - (गा.३४१-पृ.२०७/८) इत्यादिकम् ।
___ तदुक्तं चन्द्रसेनसूरिभिरप्युत्पादादिसिद्धिप्रकरणे -> 'गुडनागरे गुडमाधुर्यशक्ति गरतीव्रताशक्त्या प्रतिहन्यते, नागरतीव्रताशक्तिश्वेतश्या । ततः प्रत्येकारिणतद्रव्यद्वयापेक्षया तदन्योन्यानुरन्धे गुडनागरसज्ञितं जात्यन्तरं तदुपतिष्ठते । जात्यन्तरात्मकत्वे च तस्य नज्जन्मा दोषो न भवति । भाषे तु स्निग्धशक्ति!ष्णशक्त्या प्रतिहन्यते, शीतशक्त्यैव विरोधोपलम्भादुष्ण
है और अकेली शुंठी भी पित्त को उत्पन्न करती है, मगर गुड-शुण्ठी के मिश्रण से बना हुआ औषय, जो उभयात्मक है, न तो कफ को उत्पन्न करता है और न तो पिन को, रल्कि दोनों दोष का निराकरण कर के बल, आरोग्य आदि का
-
-