SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ४६१ मध्यमस्याद्वादरहस्ये खण्डः २ - का.६ * स्याद्रादं प्रत्यकान्तवाद्याक्षेपाः * निगदसिन्दोऽयं श्लोक: ।। (श्लो. ६ संपूर्ण:) =--...... जयललताशक्तेः । एवं स्निग्धशक्त्याऽपि नोष्णशक्तिः प्रतिहन्तं शक्या । ततो पदि माष: स्निग्धोष्ण: कफपित्तकृत् स्यात् तदा किमनिष्टमापादितमस्माकम् ? यतः स्वभावभेदनिबन्धनमेतज्जात्यन्तरत्वं, न चात्र स्वभावभेद इति । 'शक्त्यपेक्षञ्च तत्कार्यमि'तीच्छता माषस्य कफपित्तकृत्त्वमुपलभ्य चित्रयोगिशक्तियोगित्वं स्वयमेव देवानाम्पियेणाऽभ्युपगतं भवतीति किमस्माकमेवमप्यनिष्टमजनि ? किञ्च, 'कुटुकाकटुक: पाके, वीhष्णश्चित्रको मतः । तदन्तीप्रभावात्तु विरेचयति सा नरम्' ।। तथा 'कषायमधुरं शाहि हात लघुदीपाम् : नियोग बाहिर हृद्यं, श्लेष्मपित्ताऽबिरोधि च ।। किश्चिदम्लं तु सङ्ग्राहि, किश्चिदम्लं भिनत्ति च । यथा कपित्य सङ्ग्राहि, भेदि चामलकं तधा || मूबोन्मिश्रा यन्त्रितात्मा हरिद्रा, सात्मीकुर्वन् हन्ति माषेन कुष्ठम् । तद्वत्पेयश्चित्रकः श्लक्ष्णपिष्टः, पिप्पल्येव पूर्ववन्मूत्रयुक्ता || इत्याद्यभिधीयते विद्वद्भिः । तथा च द्रव्यशक्तिवैचित्र्यं दृष्टमपलपितुमशक्यमेव" (उ.सि. पृ.१६५) इत्यादिकमिति भावनीयं सुधीभिः । षष्ठकारिकावतरणिकामवतारयति -> अथेति । विरोधशङ्कामिति । विरोधशङ्कानिरूपणं श्रीप्रभानन्दसूरिकृतविवरण चैवम - 'ननु नित्यानित्य-भेदाभेद-सत्त्वासत्त्व-सामान्यविशेषात्मकाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धर विरोधगन्धविधुरता धुरन्धरतां धारयति । तथाहि, . यदि भेदः तीभेदः कथं ? अभेदश्चेत्तर्हि भेदः कथं स्यादिति विरोध: श तथा यदि भेदस्याधिकरणं तभदस्य न भवेत्, अधाऽभेदस्य तर्हि भेदस्य न स्याच्छीतोष्णस्पर्शवत । न हि यदेव धूप-दहनादिकं शीतं मपलभ्यते. तथाप्रतीतेरमावादिति वैयधिकरण्यम २। यथा येन रूपेण भेदस्तेनाभेदोऽपि. येनाभेदस्तेन भेदोऽपि स्यात इति व्यतिकरः, 'परस्परविषयगमनं व्यतिकर' इतिवचनात् ३। तथा येन रूपेण भेदस्तेन भेदोऽभेदोऽपि, येन चाइभेदस्तेनाऽभेदो भेदो पीति सड़करः 'सर्वेषां युगपग्राप्तिः सङ्कर' इतिवचनात् । तथा येन रूपेण भेदस्तेन भेदाभेदः, येन चाइभेदस्तेनापि भेदाभेदोऽभ्युपगन्तव्यः, अन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषड्गात् । तथा च भेदाभेदावपि प्रत्येक भेदाभेदात्मको स्याताम् । तत्रापि प्रत्येक भेदाभेदात्मकत्वारिकल्पनायामनवस्था स्यात् । तथा केन रूपेण भेद: केन चाsभेद: ! इति संशय: (भेदाभेदात्मकत्वे वस्तुनो भेदात्मकमिदं भेदात्मक वा ? इति निर्णयाभावात् संशय:) ६) तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाइभ्युपगम्यते, अदृष्टश्च भेदाभेदात्मकं परिकल्प्यत इति दृष्टहानिरदृष्टकल्पना च स्यात् ७-८। तथा च परपरिकल्पितस्य वस्तुनो भाव एवं युक्तः । कि, कि नानावस्तुधर्मापेक्षया सर्वमनेकान्तात्मकं उत तन्निरपेक्षतया प्रत्येक सर्व वस्त्विति ? प्रथमपने सिद्धसाध्यता, द्वितीयपक्षेऽपि विरोधादिर्दोष: ५। किञ्च, किं क्रमेण सर्वमनेकान्तात्मकमभ्युपगम्यते योगपद्येन या ! प्रथमरक्षे सिद्धसाध्यता, द्वितीयपक्षे तु स एच दोष इति १०। किञ्च, अनेकधर्मान् वस्तु किमेकेन स्वभावेन मानास्वभावळ व्याप्नुयादिति ? योकेन तदा तेषामेकत्वं वस्तुनो वा नानात्वं स्यात्, एकस्यैकत्र(१)प्रबेशादिति । अथ नानास्यभावस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्याप्नुयात् नानास्वभावैर्चा ? । यद्येकेन तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्यात् । अथ नानास्वभावस्तर्हि तानपि किमेकेन स्वभावेन नानास्वभावैर्वा च्याप्नुयादित्यादि सर्वं वक्तव्यं, अनवस्था च ११। किश्च यदि सर्व वस्त्वनेकान्तात्मकमभ्युपगम्यते, तर्हि जलादेरयनलादिरूपता, अनलादेर्वा जलादिरूपता भवेत् । तथा च जलाद्यर्थिनो जलादावनलाद्यनिश्चानलादी प्रवृनिर्न स्यात्, अन्योन्यविरुद्धधर्मस्यापि सद्भावात् । को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाऽविवक्षितार्थक्रियाकारिरूपमुपलभमानो विवक्षितार्थक्रियार्थी तत्र प्रवर्नेत प्रेक्षापूर्वकारी ? न चैवम् । विवक्षितार्थे विवक्षितार्धक्रियाकारिण्येव विवक्षितार्थ क्रियार्थिनः प्रवृत्तिदर्शनात् १२। किञ्च प्रमाणमष्यप्रमाणं अप्रमाण प्रमाणं वा भवेत् । तथा च सर्वजनप्रसिद्धप्रमाणाऽप्रमाणव्यवहारबिलोपो भवेत् १३। शिश्च सर्वज्ञोऽप्यसर्वज्ञः स्यात् १४३ किञ्च सिद्भस्याप्यसिद्धत्वं स्यात् १५। किञ्च येन प्रमाणेन सर्वस्याउनेकान्तरूपता प्रसाध्यते, तस्य कुतो नैकान्तरूपतासिद्धिः ? यदि स्वतः, तर्हि सर्वस्यापि तथा भविष्यति, किं प्रमाणपरिकल्पनया ? अथ परतस्नीनवस्था १६। किञ्चानेकान्तबाधकं प्रमाणमस्ति । तथाहि - भेदाभेदादिको धर्मों नेकाधिकरणो परस्परविरुद्धधर्मत्वात, शीतोष्णस्पर्शवदिति । तस्मादेकान्तरूपमेव वरिवति स्थितम्' - (दी.स्तो.वि. पृ.७५/७७) जनक होता है। ठीक वैसे ही पदार्थ को केवल नित्य या केवल अनित्य मानने पर जो अर्थक्रियाकारित्वाऽसम्भव आदि दोष प्रसक्त होते हैं, वे वस्तु को नित्यानित्योभयात्मक मानने पर प्रसक्त नहीं होते हैं। इस तरह अनेकान्तवाद का समर्थन मुड शुण्ठीउभयात्मक औषधविदोप आदि लोकप्रसिद्ध उदाहरण से भी किया जा सकता है। यद्यपि प्रकरणकार श्रीमद्जी ने इस कारिका
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy