________________
४४० मध्यमस्याद्वादरहस्ये खण्डः २ . का.५ * अतिरिकेश्वरकल्पने गौरवम् *
न, अनेकेषु तेषु शरीरत्वकल्पनया महागौरवात, क्लुप्तपरमाण्वादिषु एव शरीरत्वकल्पनयोपपत्तौ अतिरिक्तशरीराऽकल्पने जीवात्मस्वेव नित्यकृत्यादिकल्पनया निर्वाहेतिरिक्तस्वराऽसिन्देर्वजलेपायमानत्वाच्च । ____ 'सर्गादौ' व्यवहारप्रयोजकतया ईश्वरसिन्दिः, प्रतिसर्ममनन्तानां मन्वादीनां कल्पने
---- -* जयलता * प्रकरणकृत् तन्मतमपास्यति नेति । अनेकेषु = अनन्तेषु, तेपु = परमाणुषु, शरीरत्वकल्पनया = चेष्टाश्रयत्वकल्पनया, महागौरवात् लाघवेनाऽतिरिक्तमेकं शरीरमभ्युपगन्तव्यम् । अतोऽनन्तपरमाणूनामीश्वरशरीरत्वकल्पनमयुक्तमित्यर्थः ।
ननु परमाणूनामनन्तत्वेऽपि प्रमाणसिद्धत्वेन क्लुप्तत्वात् परमाणुत्वस्य च पृथिवीत्वादिना सार्येण जातित्वाऽयोगात् चेष्टाश्रयत्वरूपं शरीरत्वमस्माभिः तत्रैवाऽभ्युपगम्यते । धर्मिकल्पनातो धर्मकल्पना लघीयसी'तिन्यायात नातिरिक्तशरीरकल्पनम् । अतिरिक्तस्यैकस्येशशरीरस्य महत्त्वे पाषाणान्तर्वर्तिभकशरीरोत्पादकत्वानुपपत्तिः, तस्य पाषाणप्रवेशाऽसम्भवात् । अणुत्वे तु दूरस्थकार्योत्पादकत्वानुपपत्तिः, तस्य तदसम्बद्भत्वादिति नैयायिका शङ्कायां प्रकरणकृदाह- क्लृप्तपरमाण्वादिष्विति । आदिशब्देन गगनपरिग्रहः, आकाशशरीरं ब्रह्म' ( ) इतिश्रूने: कैश्चित् 'आकाशः शिवशरीरमि' त्यभ्युपगमात् । एवकारेणा निरिक्तशरीरव्यवच्छेदः कृतः । शरीरत्वकल्पनया उपपत्ती = व्यणुकादिसमुत्पादसङ्गती सत्यां अतिरिक्तशरीराऽकल्पने = महेशस्याऽतिरिक्तस्य शरीरस्य नैयायिकेन अकल्पने, तु लाघवात् जीवात्मस्वेव नित्यकृत्यादिकल्पनया ब्रह्माण्डादिपतनप्रतिबन्धकधृत्यादेः निर्वाहे = निर्वाहसम्भवे अतिरिक्नेश्वराऽसिद्धेः वज्रलेपायमानत्वाचेति । एकस्याऽऽत्मनः सर्वदा:नेकशरीरधारकत्वादर्शनेन महेश्वरस्या सर्वदाऽनन्तशरीरधारित्वकल्पनाया अन्याय्यत्वाच ।
. किञ्च क्लुप्तपरमाण्वादिष्वेवेश्वरशरीरत्वकल्पने क्लृप्तघटादिस्वरूपेष्वेव संसर्गत्यकल्पनया समवायोऽपि स्वातन्त्र्येण परस्य कथं सिद्धयेत् ?
ननुक्तभूतिबलेन गगनस्यैव तच्छरीरत्वमस्त्विति चेत् ? मैवम्, विभुद्रव्याणां परस्परसंयोगस्य त्वयाऽनुपगतत्वेन तस्य तच्छरीरत्वाः सम्भवात, असंयुक्तस्य शरीरत्वेऽतिप्रसङ्गात् । न च स्वसंयुक्तसंयोगेनेश्वरस्य गगनसम्बद्भत्वान्नाऽयं दोष इति वाच्यम् तथाप्यदृष्टाभावेन भगवतः शरीरपरिग्रहस्यैवाइसम्भवात्, अन्यथा प्रदर्शितसम्बन्धस्य कालादिसाधारण्येन कालादेरपि तच्छरीरत्वे विनिगमनाविरहात् । न च 'आकाशशरीरं ब्रह्म' - इति श्रुतेरेव विनिगमकत्वमिति वाच्यम्, युक्तिविरहे तस्या अकिञ्चित्करत्वात् । अस्तु वा तस्यां प्रामाण्यं यथाकथञ्चित्तधापि अन्याऽदृष्टेन गगनात्मकशरीरपरिग्रहे चैत्राऽदृष्टाकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् । न च प्राण्यदृष्टेन घटाद्युत्पत्तिवत् भगवतः तत्परिग्रहोऽपि सम्भवेदिति वाच्यम्, घटादावतधात्वेऽपि तदीयशरीरे तदीमाऽदृष्टत्वेनैव हेतुत्वात, अन्यथा मुक्तात्मनामपि तत्परिग्रहप्रसङ्गः, अविशेषात् । महादेवस्य तादृशशरीरपरिग्रहे नित्यसुखदुःखादेरपि स्वीकाराप्रसङ्गात् । न च निरवयवशरीरत्वान्न नित्यसुखादेः प्रसङ्ग इति वाच्यम्, एवं सति नित्यज्ञानादेरपि तत्र विलयप्रसङ्गात् । एतेनाऽदृष्टविरहेण न तत्र सुखाद्यापत्तिः, सुखादे: नित्यत्वे मानाभावादित्यपि प्रत्युक्तम्, ईन्द्रियादिविरहेण ज्ञानादेरण्यपलापप्रसङ्गात्, ज्ञानादेर्नित्यत्वे मानाभावादित्यस्यापि सुवचत्वात् । दृष्टेष्टातिलङ्घनेन स्वाधिष्ठातरि भोगाऽजनकशरीरप - रिग्रहे किं तस्य वेदादिप्रणयनेन ? सृतं वा तत्र नित्यज्ञानादिनेति दिक् ।
परः प्रकारान्तरेणेश्वरसिद्धिमाबंदयति - सदाविति । सुष्टे: प्रारम्भे व्यवहारप्रयोजकतया = घटादिव्यवहारं प्रति प्रयो
की कल्पना करने में महागीरच है । इसके अतिरिक्त यह भी ज्ञातव्य है कि क्लृप्त परमाणुओं में ही शरीरत्व की कल्पना करने से धृतिजनक कृति की उपपत्ति हो जाने से नैयायिक अतिरिक्त एक शरीर की कल्पना ईश्वर में नहीं करते हैं, क्योंकि ऐसा मानने में लाघव है; मगर हम स्याद्वादी यह कहते हैं कि यदि लाघवसहकार से ही नैयायिक महाशय ईश्वर के अतिरिक्त शरीर की, जो क्लृप्त - प्रमाणसिद्ध परमाणुओं से भिन्न हो, कल्पना नहीं करते हैं तब तो क्लुप्त = प्रमाण से उभयमत में सिद्ध जीवात्माओं में ही नित्य प्रयत्न आदि की कल्पना करना नैयायिक के लिए मुनासिब है। जीवात्माओं में नित्य प्रयत्न आदि की कल्पना करने से भी ब्रह्माण्डादिपतनप्रतिवन्धक धृति की उपपत्ति हो सकती है तब लायब तर्क से ईश्रर ही असिद्ध हो जायेगा, क्योंकि अतिरिक्त ईश्वर की कल्पना करने में भी गौरव ही है। इस तरह नैयायिक ज्यों ज्यों ईश्वर को सिद्ध करने का प्रयत्न करता है, त्यों त्यों ईश्वर की असिद्धि ही दृढ चमती है ।