________________
* वादमहार्णवे घटे खण्डवपर्यायाभ्युपगमः *
अथ कृतिमत्त्वेनैव घटत्वाद्यवच्छिन्नं प्रति हेतुत्वं, स्वकृतिविशेष्यत्वथ कारणतावच्छेदकसम्बन्धः, तत्र दण्डादेरपि स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन हेतुत्वाच्च नातिप्रसङ्ग इति चेत् ? न, आत्मत्वादिनापि तथात्वे स्वप्रत्यक्षविशेष्यत्वादेश्व सम्बन्धत्वे विनि* जयलता
वस्तुतस्त्वत्राऽस्माभिः तत्र घटेऽखण्डत्वपर्यायनिवृत्तौ खण्डत्वपर्याय एवं स्वीक्रियते । युक्तञ्चैतत्, प्रत्यभिज्ञोपपत्तेः, तत्र सादृश्यादिदोषेण भ्रमत्वकल्पने गौरवात् । अत एव पाकेनाऽपि नान्यघटोत्पत्तिः, विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादेः द्रव्यस्य कथञ्चिदविनाशेऽप्युत्पत्तिसम्भवादिति व्यक्तं बाद महार्णवे ।
ननु कृतिमतः कुलालादेर्न स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन घटत्वाद्यवच्छिन्नं प्रति हेतुत्वं गौरवात्, किन्तु स्वकृति - विशेष्यत्वसम्बन्धेनैव । खण्डवाद्युत्पत्तिसमये कुलालादेः स्वकृतिविशेष्यतासम्बन्धेन कार्याधिकरणेऽसत्त्वात्तत्कारणतयेश्वरसिद्धिः, 'लाघवतर्कादिना नित्यस्य व्यापकस्यैकस्पेश्वरस्य स्वकृतिविशेष्यतासंसर्गेण कार्याधिकरणे सत्त्वेन प्रकृतकार्य कारणभावोपपत्तेरितीश्वरवादिमतमुपदर्शयति- अधेति । 'चेदित्यनेनाऽस्यान्वयः । कृतिमत्त्वेनैवेति । एवकारेण कृतित्वादेर्व्यवच्छेदः कृतः । समवायेन घटत्वाद्यवच्छिन्नं प्रति हेतुत्वं स्वकृतिविशेष्यत्वच कारणतावच्छेदकसम्बन्धः कृतिमनिष्ठ कृतिमत्त्वावच्छिन्नकारणताया अवच्छेदकः संसर्गः स्वपदेन कृतिमतः कुलालादेर्ग्रहणम् । कपालेषु तदीयकृतिनिरूपितविशेष्यतायाः सत्त्वेन तेन सम्बन्धेन कुलालादेः तत्र सत्त्वं समवायेन च बटोऽपि तत्रैवोत्पद्यत इतिकार्य कारणभावसङ्गतिः । खण्डघटाद्युत्पत्तिस्थले कारणतावच्छेदकीभूतसम्बन्धघटकस्वपदेन कुलालादेर्ग्रहणं न सम्भवति, खण्डघटादिसमवायिकारणी भूतकपालादी कुलालादिकृतेर्विशेष्यत्वविरहात् । अतः तत्र स्वपदेनाऽस्मदादिविलक्षणपुरुषधौरेयस्य ग्रहणात् खण्डघटादिकर्तृत्वेनेश्वरसिद्धिरित्यभिप्रायः परस्य ।
-
४३६
I
ननु खण्डघटादेः कर्तृत्वेनेश्वरसिद्धावपि दण्डादिकं विनैव तदुत्पत्तेर्व्यतिरेकव्यभिचारस्य दुर्वारत्वमित्याशङ्कायामीश्वरवादी गदति तत्रेति । घटत्वाद्यवखिने दण्डादेरपि आदिपदेन चक्रचीवरादिग्रहणम्, स्वप्रयोज्यविजातीयसंयोगसम्बन्धेनेति । अनेन स्वजन्यभ्रमिवत्त्वसम्बन्धादेर्व्यवच्छेदः कृतः । हेतुत्वाच नातिप्रसङ्गः = न व्यतिरेकव्यभिचारावकाशः । पूर्वकपालतद्विजातीयसंयोग| सत्त्वं नूतनकपाल-तद्विलक्षणसंयोगानुत्पादात् खण्डघटजनकयोः नवीनकपाल-तद्विजातीयसंयोगयोः पूर्वकपाल-तद्विलक्षणसंयोगनाशजन्यत्वं तयोश्च नाशयोः स्वप्रतियोगिजन्यत्वं तत्प्रतियोगिनोश्च दण्डादिजन्यत्वमिति खण्डघटजनककपालद्वयविजातीयसंयोगस्य कपालनिष्ठस्य पूर्वदण्डादिप्रयोज्यत्वम् । अतः समवायेन खण्डघटं प्रति स्वप्रयोज्यविजातीयसंयोगवत्त्वसम्बन्धेन नवीनकपालवृत्तेः दण्ड- चक्रादेर्हेतुत्वमव्याहतमेवेति न व्यतिरेकव्यभिचारावकाशः । अत एव खण्डघटं प्रतीश्वरकृतेरित्रेश्वरीयदण्ड-चक्रादिकल्पनमप्यनावश्यकमिति महेश्वरवादिनो नव्यनैयायिकस्याकूतम् ।
प्रकरणकृत्तन्निराकुरुते- नेति । आत्मत्वादिनाऽपीति । आदिपदेन प्रत्यक्षवत्त्वादेर्ग्रहणम् । तथात्वे प्रति हेतुत्वे, स्वप्रत्यक्षविशेष्यत्वादेवेति । आदिपदेन स्वचिकीर्षाविशेष्यत्वादेः परिग्रहः । सम्बन्धत्वे
=
= घटत्वाद्यवच्छिभं कारणतावच्छेदक
कृतित्वेन कारणता का स्वीकार मुनासिब
अथ कृ. इति । यदि यहाँ यह कहा जाय कि “घटत्वावच्छिन का कारणतावच्छेदक धर्म कृतिमत्त्व ही है, मगर चैत्रीय कृति से मैत्रीय घट की उत्पत्ति के अतिप्रसङ्ग का वारण करने के लिए स्वकृतिविशेष्यता का कारणतावच्छेदकसम्बन्धविधया ग्रहण किया जाता है। स्वपद से चैत्रादि का ग्रहण करने पर स्वकृति की विशेष्यता कपाल में आयेगी, जिसमें समवाय संबंध से चैत्रीय घट उत्पन्न होता है । इस तरह दण्डादि भी घट के प्रति स्वप्रयोज्यविजातीयसंयोग सम्बन्ध से हेतु है । दण्ड भ्रमिक्रिया के द्वारा कपालद्वयविजातीयसंयोग को, जो घट का असमबायी कारण है, उत्पन्न करता है । अतः कपालद्वयविजातीयसंयोग दण्ड से प्रयोज्य बनता है, जो समवाय सम्बन्ध से कपाल में रहता है । अतः दण्ड आदि भी स्वप्रयोज्यविजातीयसंयोगसम्बन्ध से कपाल में रहेगा जहाँ समवाय सम्बन्ध से, जो घटनिष्ठ कार्यता का अवच्छेदक नियामक सम्बन्ध है, घट उत्पन्न होता है । इस तरह दण्ड आदि में भी घटकारणता सिद्ध होती है और खण्ड पट की कृतिनिष्टकारणता के अवच्छेदक सम्बन्ध के घटक स्वपद से ईश्वर का ही ग्रहण किया जा सकता है । इस तरह ईश्वर की सिद्धि की जा सकती है" <
न आ. इति । तो यह वक्तव्य भी निराधार है, क्योंकि घटत्वाद्यवच्छिन्न के प्रति स्वकृतिविशेप्यतासम्बन्ध से कृति को कारण मानना या स्वप्रत्यक्षविशेष्यतासम्बन्ध से आत्मा को हेतु मानना ? इस विषय में कोई विनिगमक नहीं है । आत्मत्वेन आत्मा भी स्वप्रत्यक्षविशेष्यतासम्बन्ध से कपाल में रह सकता है, क्योंकि स्व आत्मा के कपालप्रत्यक्ष की विशेष्यता कपाल