________________
३८७ मध्यमस्याहादरहस्ये खण्डः-२ का. * तमःसाधारणभनवजातिकल्पनसम्पतिः
स एव च भूतपदशक्यतावच्छेदकः । आकाशे भूतत्वव्यवहारस्तु भाक्त एव इति तमोऽवयवानां न द्रव्याराभकत्वमिति मतं वदयालम, तम:साधारणस्यापि तस्य कल्पयितुं शक्यत्वात्, मनसोऽनतिरिक्तत्वनये भूत-मर्तपदयोः पर्यायत्वापत्तेश्च ।।
= =* जयल(II * - -- वृत्तितया गगनादिव्यावृत्ता भूतत्त्वजाति: तादृशकारणतावच्छेदकतया सिध्यति । स -- भूतत्वाख्यो जातिविशेषः, एव च भूतपदशक्यतावच्छेदकः = भूतपदनिरूपितशक्तिविषयताया अबच्छेदक: भूतपदप्रवृत्तिनिमित्तमिति यावत् ।
नन्वेवं सति गगने भूतपदप्रयोगस्योन्मत्तप्रलापत्वं प्रसज्येत यतो भूतत्वलक्षणं भूतपदप्रवृत्तिनिमित्तं नास्ति भूतपदञ्च तत्र । व्यवहियत इत्याशङ्कायामाचक्षते - आकाशे भूतत्वव्यवहारस्तु भाक्तः = गौण इति । पृथिव्यादिषु चतुधैव भूतपदप्रयोगः मुख्यः, गगने तुमचरितः, चित्रगते गवि गोपदप्रयोगवत् । एतेन गगने भूतपदप्रयोगविषयतया भूतत्वसिद्धिः प्रत्युक्ता, माणबके पि सिंहत्वसिद्धिप्रसङ्गात् । इति = भूतत्वजाते: पृथिव्यादिषु चतुधैव वृत्तित्वात्, तमोऽवयवानां पृथिव्यादिचतुष्कबहिर्भूतानां न द्रव्यारम्भकत्वं = तमोद्रव्यसमवायिकारणत्वम् । यद्यपि एतन्मते तमसोऽद्रव्यत्वेन तमोऽवयवानामप्यसिद्धि: तथापि अभ्युपगमवादेन तमोऽययवानगीकृत्य तमसो द्रव्यत्वप्रतिषेधार्थमिदमुक्तमिति द्रष्टव्यम्, परप्रसिद्भानुबादेन प्रसङ्गापादनस्य प्रसिद्धत्वात् ।
तदपमतमिति । तदेव समर्धयति - तमःसाधारणस्यापि = पृथियादिषु चतुर्चिब तमस्थप्यनुगतस्य, तस्य = भूतत्वयाभिधानस्य जातिविशेषस्य, कल्पयितुं - अनुमातुं, शस्यत्वात् । प्रयोगस्त्वेवम् - समवायसम्बन्धावच्छिन्नद्रव्यनिष्ठकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्ना पृधिजलतेजोवायुतमोवृत्तिः समवायिकारणता किश्चिद्भर्मावच्छिन्ना कारणतात्वात् कपालनिष्ठघटकारणतावत् । दर्शितानुमानेन तमस्यपि भूतत्वजातिसिद्धी तमोऽवयवानां तमोद्रव्यारम्भकत्वं सुघटमिति भावः ।
यत्तूक्तं - 'पृथिव्यादिषु चतुर्वे भूतत्वारयो जातिविशेष' इति तत्राऽऽह - मनसोऽनतिरिक्तत्वनये = जीयानामणु. त्वमेव मनश्च न ततो भिन्नमिति तन्मते भूतमूर्नपदयाः पर्यायत्वापसेरिति । तत्समानार्धकपदान्तरेण तदर्थकथनात् भूतमूर्तपदयोः पर्यायत्वप्रसङ्गः । आकाशे भूतत्वजात्यनहगीकारात् मनसश्चातिरिक्तस्य विरहात भूतमूर्तपदाभ्यां पृथिव्यादिचतुष्कस्यैव प्रतिपादनात तत्पांयत्वं दुर्वारमित्यर्थः । नव्यनैयायिकैरपि अतिरिक्तं मनः नाभ्युपगम्यते, भातिका एव परमाणवो मनान्सि अनन्तधर्मिणामतिरिक्तायाश्च जाते; कल्पनापेक्षया क्लृप्तानामंत्र धर्मिणां ताद्रूप्येण हेतुत्वस्य युक्तत्वात, सुषुप्ती ज्ञानानुत्पत्तिनियमस्त्वदृष्टोपग्रहादिति तेषामभिप्रायात् । एतेन माध्यादिमतेऽस्त मनसोऽनतिरिक्तव्यम्, नैयायिकमते तु निरिक्तत्वाभ्युपगमान्न भूतमूर्तपदयोः पर्यायत्वापत्तिरिति प्रत्याख्यातम् । भूतमतपदा-पर्यायत्वोपपत्तयेऽपि मनसोऽनतिरिक्तत्वमतानुरोधेन गगने भूतत्वमुपगन्तव्यम् । एवञ्च पृधिचीजलतेजोवाय्वाकाशतमोद्रव्येषु भूतत्वं कल्पनामर्हति, सङ्कोचे मानाभावादित्यभिप्रायः ।
है । यद्यपि आकाश में भी भूतपद का प्रयोग होता है तथापि वह प्रयोग मुख्य नहीं है । आकाश में होने वाला भूतपद का प्रयोग गीण है । अतः आकाश में भूतत्व का व्यवहार भूतत्व जाति का साधक नहीं है। अन्धकार तो पृथ्वी आदि चतुष्टय से रहित है । अनः वह भूतत्वजाति से शून्य होता है। अतएव अन्धकार अवयवों से अन्धकार द्रव्य का आरम्भ नहीं हो सकता । द्रव्यसमवायिकारणतावच्छेदक जाति से रहित में समवाय सम्बन्ध से द्रव्य की उत्पत्ति कैसे हो सकती है? अतः अन्धकार को द्रव्यात्मक नहीं माना जा सकता' - किन्तु यह कथन भी अविचारितरमणीय है, क्योंकि तर्कशस्त्र चलने पर वह धराशायी हो जाता है । वह इस तरह द्रव्यसमवायिकारणतावच्छेदकविधया पृथ्वी आदि चार में साधारण = अनुगत भूतत्व जाति की कल्पना करने की अपेक्षा अन्धकार में भी साधारण = अनुगत भूतत्व जाति की कल्पना क्यों नहीं करते ? अन्धकार की वादबाकी करने की क्या जरूरत ? पृथ्वी आदि की भाँति अन्धकार में साधारण भूतत्व जाति की कल्पना करने से ही अन्धकार के अवयवों में अन्धकारात्मक द्रव्य की समवायिकारणता की उपपत्ति हो सकती है । अतः अन्धकार | को द्रव्य मामने में कोई दोष नहीं है । दूसरी बात यह है कि जो दार्शनिक मन को अतिरिक्त नहीं मानते हैं, किन्तु
आत्मा को ही अणु मान कर मन को अणु आत्मास्वरूप मानते हैं, उनके मतानुसार भूतपद और मूर्तपद पर्यायवाचक बन जायेंगे, क्योंकि आप पृथ्वी आदि चार को ही भूत मानते हैं और मन नाम की कोई स्वतन्त्र वस्तु को बे दार्शनिक नहीं मानते हैं। अतः भूतपद एवं मूर्तपद का वाच्या पृथ्वी आदि द्रव्यचतुष्क ही बनेगा । अतः भूतपद और मूर्तपद का प्रवृत्तिनिमित्न