________________
*जन्यभावमात्रस्य ससमवायिकारणत्वाऽनियम: *
एतन्मते विजातीयसंयोगस्यापि जन्यद्रव्यं प्रति पृथकारणत्वाऽकल्पनाल्लाघवम् । जन्यभावमाप्रस्य ससमवायिकारणकत्वनियमस्त्वसिन्दः, सिन्दौ वा तत्र द्रव्यत्वेनैव तथात्वमस्त्विति
= = = ==* जयलता. * अत्रैव प्रकरणकार: स्वकीयमांसलमीमांसोन्मेषमाविर्भावयति - एतन्मत इति । स्वतन्त्रमते, विजातीयसंयोगस्यापि = द्रव्यारम्भकविलक्षण्यावयवसंयोगस्यापि, जन्यद्रव्यं = जन्यद्रव्यत्वावच्छिन्नं, प्रति पृथकारणत्वाऽकल्पनात् = अवयवविलक्षणसंयोगत्वेन रूपेण कारणत्वस्याऽनभ्युपगमात, लाघवं = कारणतावच्छेदकधर्मलाघवम् । जन्यद्रव्यं प्रति स्वावयवानां स्वावयबविजातीयसंयोगस्य च कारणत्वेऽपि कारणतावच्छेदकं न द्रव्यत्वादि विजातीयसंयोगत्वं वा किन्त्वेकत्वत्वमेव । समबायिकारणतावच्छेदकतावच्छेदकसम्बन्धाः स्वाश्रयसमवायो समवायिकारणतावच्छेदकताबच्छेदकसंसर्गश्च स्याश्रयसामानाधिकरण्यं एकत्वत्वस्य तेन सम्बन्धेन यथाक्रममवयवेष्ववयव विजातीयसंयोगे च वर्तमानत्वात् । सामानादिकरण्यमपि समवायेन बोध्यं, तेन न कोऽप्यतिप्रसङगः । समवापिकारणतावच्छेदकसम्बन्धः तादात्म्यसंसर्गोऽसमवायिकारणताबच्छेदकसम्बन्धश्च समवाय:, तेन न देशाऽनियमप्रसङ्ग । तथाहि द्रव्यारम्भकतावच्छेदक एकत्वनिष्ठो जातिविशेषः स्वाश्रयसमवायेन कपालादी वर्तते, कपालादेः स्वपदप्रतिपाद्यैकत्वत्वाश्रयैकत्वसड़ख्यासमवायित्वात, स्वाश्रयसामानाधिकरण्येन च कपालद्वयविलक्षणसंयोगादी वर्तते, तस्यैकत्वत्वाश्रयैकल्लसङ्ख्याधिकरणकपालादिसमवेतल्यात् । कपालादौ तादात्म्येन कपालादेः समवायेन कपालद्वयसंयोगादेश्च वर्तमानत्वात् तत्रैव समवायेन घटादेरूत्पत्ति: न त्वन्यजेत्येवं जन्यद्रव्योत्पादनियमसम्भवेनैकत्वत्वेन रूपेणैव समबायिकारणत्वमसमवापिकारणत्वञ्चति कारणतावच्छेदकधर्मलाघवमिति भावः ।।
ननु समवायेन जन्यद्रव्यत्वावच्छिन्न प्रति स्वाश्रयसमवायेनैकत्वत्वविशिष्टस्य तादात्म्येन समवायिकारणत्वं स्वाश्रयसामानाधिकरण्येनैकत्वत्वविशिष्टस्य च समनायेनाऽसमबायिकारणत्वमित्येवंकल्पना न युक्ता, स्वतन्त्रमते तादृशकत्वत्वस्याऽन्त्याचयविसमतेतैकत्वा समवेतत्वाऽभ्युपगमेनाऽन्त्यावविना घटादेः समवायिकारणत्वाऽसम्भवेन तद्गतगुणादेः ससमवायिकारणकत्वनियमो व्यान्येत । न चेदं दृष्टमिष्टं वा, जन्यभावमात्रस्य ससमवायिकारणकत्वनियमात्, अन्यथा घटादेरपि कपालादिकमृते उत्पत्तिप्रसङ्गादित्याशङ्कायामाह - जन्यभावमात्रस्य = जन्यत्त्वे सति भावत्वावच्छिन्नस्य, ससमवायिकारणकत्वनियमस्तु असिद्धः = विपक्षबाधकतर्कशून्यः अप्रसिद्धोनम्युपगतो वेति । कपालनाशोत्तरं घटनाशात् तदुत्तरं तद्गतगुणादिनाशात् जन्य- । भावस्य समवायिकारणं बिना क्षरमेकमवस्थितिप्रसिद्धः, असमवायिकारणनाशस्य हेतुत्वमते च कपालादिनाशोत्तरमसमवायिकारणनाशे सत्येव घटादिनाशाऽभ्युपगमेन निरधिकरणस्य घटादेः क्षणद्वयमवस्थितिप्रसिद्धेः तदेव बहुतरक्षणमपि निरधिकरणस्य जन्यभावस्या ध्वस्थाने बाधका भावान्न तादृशनियमोऽभ्युपेयत इति भावः ।
___ अभ्युपगम्याह - सिद्धौ वेति । तत्र -- जन्यभावत्वावच्छिन्नस्य ससमवायिकारणकननियमे । द्रव्यत्वेनैवेति । जन्यद्रव्यत्वेन, पवकारेण जन्यभावत्वत्र्यवच्छंदः कृतः । ततश्च जन्यद्रव्यत्वावच्छिनस्य तथात्वं = ससमवायिकारणकत्वमित्येव नियम:
-
:
--
द्रव्यारम्भकतावच्छेदक जातिविशेप का ब्याप्य मानने में लाघच ही विनिगमक , पक्षपाती है" <- ऐसा विचारविमर्श करने पर तो स्वतन्त्रमत ही युक्तिसंगत है, ऐसा नव्य नैयायिकों का कथन है ।
स्वतन्त्रमत में लायव * तन्मते, इति । प्रकरणकार स्वतन्त्रमत के प्रति अपने विचार को व्यक्त करते हुए कहते है कि । स्वतन्त्रमत में अवयवविजातीयसंयोग की बिजातीयसंयोगत्वेन पृथक् कारणता की कल्पना अनावश्यक है, क्योंकि एकत्वत्वविशेष जाति ही असमवायिकरणतावच्छेदक भी हो सकती है। कपालादि अवयव में चिजातीयसंयोगस्वरूप च्यासमवायिकारण रहता है और वहाँ एकत्वत्वविशेष का आनय एकत्व गुण भी रहता है। अत: विजातीय संयोग में तादृश एकत्वत्वजातिविशेष स्वाश्रयसामानाधिकरण्यसम्बन्ध से रह सकती है। स्व एकत्वत्वविशेप, उसके आश्रय एकत्व गुण का सामानाधिकरण्य विजातीयसंयोग में रहता है। अत: एकत्वत्वविशेष को द्रव्यारम्भकतावच्छेदक मानने में लायव है । यद्यपि अन्त्याचयविगत एकत्वसंख्या में द्रव्यारम्भकता. अवच्छेदक जाति नहीं रहती है। अतः स्वाश्रयसमवायसम्बन्ध से एकत्वत्वविशेप के आश्रय को समचायिकारण मानने पर अंत्यावयी घटादि समवायिकारण नहीं बन सकते । अतः घटादिगत गुण, क्रिया में ससमवायिकारणकत्व = समवायिकारणजन्यत्व या समवायिकारणसहितत्व अनुपपत्र बन जायेगा। नियम तो यह है कि जन्य भावमात्र ससमरायिकारणक ही होता है। इस