________________
* अभिनवदोषद्रयाविष्करणम् *
३३८
संयोगस्य सम्बन्धविद्यया निवेशाऽनिवेशाभ्यां महत्त्वोद्भूतरूपवत्त्वादिविशेषण- विशेष्यभावे च तद्दोषतादवस्थ्यात् । 'स्वावच्छेदकावच्छिन्ने 'त्यादिसम्बन्धेन तत्र तमःसंयोगस्य प्रतिबन्ध
गयलता
| देतद्दोषजालमुपेक्ष्य स्याद्वादी दोषान्तरमाह तथापीति । आत्मनिष्ठप्रत्यासत्त्या आलोकसंयोगस्य तद्धेतुत्वोपगमेऽपीति । संयोगस्य सम्बन्धविधया कारणतावच्छेदकसंसर्गरूपेण निवेशाऽनिवेशाभ्यामिति । अस्याग्रे 'तदोषत्तादवस्थ्यादि' त्यनेनाऽन्वयः | आलोकसंयोगस्य स्वावच्छेदकावच्छिन्नसंयोगवचक्षुः संयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेन तत्कारणत्वं यदुताऽलोकस्य स्वसंयोगावच्छेदकावच्छिन्नसंयोगवच्चक्षुः संयुक्तमनः प्रतियोगिकविजातीयसंयोगसम्बन्धेन तद्धेतुत्वं ? इत्यत्र कारणतावच्छेदकसम्बन्धकोटी संयोगस्य निवेशानिवेशाभ्यां विनिगमनाविरहदोषस्य तदवस्थत्वान्नालोकसंयोगस्याऽपि कारणत्वं सङ्गतिमङ्गति ।
=
-
नन्वस्त्वालोकस्यैवोपदर्शितसम्बन्धेन कारणत्वं कारणतावच्छेदकधर्मलाघवात् सम्बन्धगौरवस्य चादोषत्वात् । एवमप्यालोकस्य द्रव्यत्वसिद्धिरव्याहतेति नैयायिकाशङ्कायां स्याद्वादी गत्यन्तरेण विनिगमनाविरहदोषं दृढयति महत्त्वोद्भूतरूपवत्त्वादिविशेषण - विशेष्यभावे इति । आदिशब्देनाऽनभिभूतरूपवत्त्वग्रहणम् । तद्दोषत्तादवस्थ्यात् = विनिगमनाविरहप्रयुक्तगौरव| दोषस्य दुर्वारत्वात् । आलोकस्यैव दर्शितसंसर्गेण कारणत्वेऽपि कारणतावच्छेदकधर्मत्वमालीकत्वस्य न सम्भवति आलोकपरमाणु| नयनरश्मि - सुवर्णसंयुक्तस्य गाढान्धकारस्थद्रव्यस्य चाक्षुषत्वापत्तेः किन्तु महत्परिमाणोद्भूतानभिभूतरूपवदालोकत्वस्यैव तत्त्वं गौतमीयेन वक्तव्यम् । तच न सम्भवति, उद्भूतानभिभूतरूप महत्त्ववदालो कत्वस्याऽनभिभूतोद्भूतरूपमहत्त्ववदालोकत्वस्य महदन| भिभूतोद्भूतरूपवदालोकत्वस्य वा कारणतावच्छेदकधर्मले विनिगमनाविरहेण सर्वेषामेव तेषां तत्त्वप्रसङ्गेन महागौरवात् । ततो नालोकस्य कारणता साध्वीति स्याद्वाद्याशयः ।
आलोकस्य कारणत्वोपगमें न केवलं कारणतावच्छेदकधर्म-तत्सम्बन्धशरीरगौरवं किन्तु कार्यतावच्छेदकधर्मदेहगौरवमपि । समवायेन चाक्षुषत्वस्य तत्त्वेऽन्धकारचाक्षुषे व्यभिचारात् । तमोभिचानुषत्वस्य तथात्वे आलोकसंयोगाभावचाक्षुषे व्यभिचारात् । तमस्तद्व्याप्यभिचाक्षुषत्यस्य तथात्वे गौरवात् ।
किञ्च येन सम्बन्धेनालोकसंयोगस्य तत्कारणत्वं तेनैव सम्बन्धेन तमः संयोगस्य प्रतिबन्धकत्वमपि त्वयाऽवश्यमभ्युपेयम्, अन्यथा यंत्रकस्यैव पटस्यार्द्ध तमसि अर्द्धञ्चालोके तत्र स्थले उभयावच्छेदेन चक्षुः संयोगे सति नयनाभिमुखाखिलपटचाक्षुषमापद्येत । इत्थञ्च तस्य प्रतिबन्धकत्वाऽभ्युपगमस्यावश्यकत्वे सिद्धं प्रतिबन्धका भावस्य कारणत्वेन तव कारणान्तरकल्पनागौर| वापत्तिः । वस्तुत एवमबश्यक्लृप्तनियतपूर्ववर्त्तिनः नमः संयोगाभावादेव कार्यसम्भवे आलोकसंयोगस्याऽन्यथासिद्धत्वमित्याशयेन स्याद्राचाह 'स्वावच्छेदकावच्छिन्ने' त्यादिसम्बन्धेनेति । स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुः संयुक्त मनः प्रतियोगिकविजातीयसंयोगसम्बन्धेनेति । स्वपदेन तमः संयोगस्य ग्रहणम् । शेषं पूर्ववद्भावनीयम् । तत्र = तमस्तद्व्याप्यभित्रीयलौकिकविष
आलोकसंयोग को स्वावच्छेदकावच्छिन्नसंयोगवचक्षुः संयुक्तमनः प्रतियोगिक विजातीयसंयोग संबन्ध से कारण माना जाय या आलोक को स्वसंयोगावच्छेदकावच्छिन्नसंयोगवश्चक्षुः संयुक्तमनः प्रतियोगिक विजातीयसंयोग सम्बन्ध से कारण माना जाय ? इन दो पक्ष । में से एक भी पक्ष की समर्थक युक्ति नहीं है। मतलब कि संयोग का कारणशरीर में प्रवेश किया जाय या कारणतावच्छेदकसम्बन्धदेह में निवेश किया जाय ? इसका निश्चायक तर्क न होने से 'आलोकसंयोग ही दर्शित आत्मनिष्ठप्रत्यासत्ति से कारण है' यह नैयायिक प्रतिपादन असंगत है । दूसरी बात यह है कि आलोक को लाघवसहकार से 'स्वसंयोगावच्छेदक...' इत्यादि सम्बन्ध से कारण मान भी लिया जाय तो भी आलोकसामान्य तो कारण नहीं माना जा सकता, क्योंकि आलोकपरमाणु, तप्तजलस्थ आलोक, सुवर्णात्मक आलोक होने पर भी तत्संयुक्त द्रव्य का बाप नहीं होता है। इसलिए महद्भूतानभिभूतरूपवदालोक को ही चानुपकारण मानना होगा। मगर यहाँ कारणतावच्छेदक धर्म महदुद्धृतअनभिभूतरूपवदालोकत्व है या उद्भूताऽनभिभूतरूपमहत्त्ववदालीकत्व है या अनभिभूतोद्भूतरूप महत्त्ववदालोकत्वादि है ? इस समस्या का कोई समाधान नहीं होने से सभी का चाक्षुपकारणतावच्छेदक-धर्मविधया स्वीकार करना होगा, जिसकी वजह कार्य कारणभाव में अत्यन्त गौरव होगा । इस तरह | आलोकसंयोगकारणतावादी के पक्ष में उपर्युक्त विनिगमनाविरह दोष ज्यों का त्यों बना रहने से आलोकसंयोग को चाक्षुषकारण नहीं माना जा सकता ।
अन्धकार में द्रव्यत्वसिद्धि
स्वाब. इति । इसके अतिरिक्त यह भी ज्ञातव्य है कि जैसे आलोकसंयोग को स्वावच्छेदकावच्छिन्न संयोगवच्चक्षुः संयुक्तमनः