________________
* खण्डशः शक्तिविचार: * || तत्र च खण्डश: शक्तिलक्षणा वेत्यन्यदेतत् ।
- * जयलता * अभावपदार्थोऽत्राऽसम्भवो बोध्यः, अयोगव्यवच्छेदस्येति गम्यते । न चाऽत्र सम्बन्धाभावलक्षणाऽयोगैकदेशसम्बन्धेऽन्वितस्याऽभिधेयपदार्थकदेशस्याऽभिोगलाण प्रतिगोणिस्तरावधेनः भरेच त्, लडाऽपि स्वप्रतियोगितयाऽभावान्तरेऽन्वयात्, 'प्रमेयं स्वरूपसम्बन्धेन अभिधेयत्वसम्बन्धाभावाभावयदि ति बोध उपगन्तुं शक्यः; अभिधेयत्वस्याऽभिधाविषयत्वरूपस्य केवलान्वयित्वेन तदभावाऽप्रसिद्धेः, असतोऽनिषेधात् । न च तत्र विशेष्यवृत्तिभेदप्रतियोगिज्ञानावच्छेदकत्वस्य तत्त्वेऽपि अन्यत्र अयोगव्यवच्छेदस्यैव तत्त्वमिति वक्तव्यम्, शक्तिद्वयकल्पने गौरवात् । ततश्च लाघवेनाऽपि सर्वत्र विशेषणसमभिव्याहृतैवकारस्य विशेष्यनिष्ठभेदप्रति|योगितावच्छेदकत्वाभाव ण्वार्थः। 'घटो नीलघटो न भवति. द्रव्यं न घट' इत्यादिवत 'प्रमेयं न द्रव्यं' इति प्रतीत्या प्रमेयवृत्ति भेदनिरूपितप्रतियोगिताया अवच्छेदकत्वं द्रव्यत्वादौ तदभावश्वाऽभिधेयत्वे इति प्रमेयनिष्ठभेदीयप्रतियोगितावच्छेदकत्वशून्याऽभिधेयत्ववदि'त्युक्तस्थले बोध इत्यङ्गीकारान दोषः ।
ननु अभिधेयत्वे भेदीयप्रतियोगितावच्छेदकत्वस्य सत्त्वे प्रमेयवृत्तिभेदप्रतियोगितावच्छेदकत्वनिषेधो घटामश्चेत्, प्रसक्तस्यैव प्रतिषेधात् । न चैवं प्रकृते सम्भवः; अभिधेयत्वस्य केवलान्वयित्वेनाऽभिधेयभिन्नस्याऽप्रसिद्धेः । ततो न दर्शितार्थे विशेषणसङ्गतैवकारशक्तिः, अन्यथा 'वृक्षः संयोगी एवे' त्यत्र विशेष्यदृत्तिव्याप्यवृत्त्यत्यन्ताभावाऽप्रतियोगित्वसम्भवेन विशेष्यनिष्ठभेदप्रतियोगितानवच्छेदकत्वकल्पानुसरणवैयर्थ्यप्रसङ्ग इत्याशङ्कायामाह- तत्र च खण्डशः शक्तिरिति । 'पटो न घटाभिधेय' इति प्रतीत्या अभिधेयत्वे भेदप्रतियोगितावच्छेदकत्वस्य प्रसिद्धेः प्रमेयत्वावच्छिन्नवृत्तिभेदप्रतियोगितावच्छेदकत्वव्यवच्छेदस्य युक्तत्वादिति तत्तद्विशेषणसङ्गतैबकारस्य तत्तद्विशेष्यवृत्तिभेदप्रतियोगितावच्छेदकत्वे व्यवच्छेदे च शक्तिरिति खण्डशः शक्तिकल्पने दोषाभावात् । अत एव द्वितीयकल्पानुसरणमपि सङ्गच्छते; संयोगेऽखण्डस्य वृक्षवृत्तिव्याप्यवृत्त्यत्यन्ताभावाऽप्रतियोगित्वस्य सत्त्वेऽपि खण्डशः तदसम्भवात्. तादृशप्रतियोगित्वस्य तत्रा प्रसिद्धत्वेन तनिषेधाऽयोगादित्युक्तत्वात् ।
नन्वेवं शक्तिद्वयकल्पने गौरवमच्याहतमिति निन्दामि च पिबामि चेति न्यायापात इत्याशङ्कायामाह- लक्षणा चेति । व्यवच्छेदे एवं शक्तिः, समभिव्याहारादिबलोपस्थिते विशेष्यवृत्तिभेदप्रतियोगिताबच्छेदकत्वे लक्षणेत्यर्थः । न चैवं लक्ष्य- शक्ययोः एवकारार्थयोः परस्परमनन्बयप्रसङ्ग इत्यारेकणीयम्, 'एवपदप्रयोज्यलक्ष्यार्थनिष्ठविषयतानिरूपितशक्यार्थनिष्ठविषयतासम्बन्धेन शाब्दबोधं | प्रति एवपदनिष्ठशक्तिज्ञानजन्योपस्थितिः बिशेष्यतासम्बन्धेन कारणमिति कार्यकारणभारलब्धात्मलाभायाः 'एवपदप्रयोज्यलक्ष्यार्थनिष्ठविषयतानिरूपितशक्याविषयता एवपदप्रयोज्या भवती तिव्युत्पत्तर्महिम्ना तयोः परस्परमन्वयात् । अत एव घटपदस्य नीले लक्षणामङ्गीकृत्य 'नीलो घटो न शक्ल' इति तात्पर्येण 'घटो न शक्लः' इत्यस्याऽनापत्तेः ।।
निराकरण करने के लिए नव्य नैयायिक कहते हैं कि - विशेषणसंगत एवकार का अर्थ अयोगव्यवच्छेद तो नहीं हो सकता, क्योंकि 'प्रमेयं अभिधेयं एवं' इत्यादि स्थल में अयोगव्यवच्छेद अर्थ अप्रसिद्ध है। वह इस तरह समझा जा सकता है। 'प्रमेयं अभिधेयं एवं' यहाँ विशेप्य है प्रमेयपदार्थ और विशेषण है अभिधेयपदार्थ । अयोगव्यवच्छेद के घटकीभूत अयोग का मतलब है सम्बन्धाभाव और व्यवच्छेद का मतलब है अभाव या निषेध । अयोग के एकदेवा सम्बन्ध में अभिधेयत्व का, जो अभिधेयशन्दार्थ का एक देश है, अन्वय करने पर 'अभिधेयं एवं' का अर्थ होगा अभिधेयत्वसंसर्गाभाव का अभाव । उसकर स्वरूपसम्बन्ध से प्रमेयपदार्थ में अन्वय होने से उक्त वाक्य का अर्थ होता है 'प्रमेयं अभिधेयत्वसंसर्गाभावभाववत् अर्थात् प्रमेयपदार्थ में अभिधेयत्व का सम्बन्धाभाव नहीं है । मगर यह नहीं माना जा सकता, क्योंकि सभी चीज-वस्तु अभिधेय यानी अभिधा = शब्द का विषय होने की बजह कोई भी चीज अभिधेयत्व = अभिधाविषयत्व के संसर्ग से शून्य नहीं है। मतलब कि अभिधेयत्वसंसर्गाभाव कहीं भी प्रसिद्ध नहीं है। निपेय उसीका हो सकता है जो वस्तु अन्यत्र विद्यमान हो, सत् हो, प्रसिद्ध हो । अभिधेयत्वसंसर्गाभाव सर्वथा अप्रसिद्ध होने से उसका निषेध नहीं हो सकता, क्योंकि अप्रसिद्धप्रतियोगिक निषेध नहीं होता है। अतः 'प्रमेयपदार्थ अभिधेयत्वसंसर्गाभावाऽभाववान है' यह अर्थ असंगत है। इस असंगति की बजद्द विशेषणसंगत एवकार का अर्थ अयोगव्यवच्छेद नहीं माना जा सकता । प्रदर्शित अर्थ में एवकार की खंडशः = पृथक् शक्ति मानी जाय या लक्षणा ? इस विषय में हमारा कोई आग्रह नहीं है।
* जयनैयायिक मतानुसार 'घटः सत् एवं' वाक्य का अर्थ *