________________
२९५ मध्यमस्यानादरहस्ये खण्डः ६ . का. * शक्यतावच्छेदकेऽपि शक्तिसमर्थनम् *
जधैवं शक्यतावच्छेदकेऽपि शक्तिर्न स्यात्, यदधविशिष्टशक्तिग्रहस्तेन रूपेणोपस्थितिः || । शाब्दबोधश्चेति नियमादेव शक्यतावच्छेदकबोधसम्भवादिति चेत् ? न, शक्यतावच्छेदकेऽपि शक्तरबाधादित्याहुः । अा वतते - प्रकरणादीनामननुगतानां नाऽविशेषबोधे शक्त: सहकारित्वं,
= ==* जयलता * शाब्दबोधौ प्रति हेतुत्वादेव लक्ष्यतावच्छेदके तीरत्वादौ गंगापदशक्यप्रवाहसंयुक्तसमवायरूपलक्षणा न स्वीक्रियते, तीरत्ववृत्नितादृशसमवायस्य प्रयोजनविरहेण ससाणत्वानुपगमादिनि भारः ।
ननु यद्भर्मविशिष्टे लक्षणाप्रतिसन्धानं तद्धर्मविशिष्टस्यैवोपस्थितिः शाब्दबोधश्चेति नियमवत् यद्धर्मविशिष्टे शक्तिग्रहः तद्धर्मविशिष्टस्यैवोपस्थितिः शाब्दबोधश्चेति नियमस्याऽप्यनिराकार्यत्वेन वटत्वादौ शक्यत्वावच्छेदके घटादिपदशक्तिस्वीकारोऽप्रामाणिकः स्यात, घटत्वादेररि घटपदजन्यप्रतीतिविषयत्वात, अवच्छेदकतासम्बन्धेन घटपदनिरूपितशक्तिमत्त्वाच तस्यापि घटादिपदार्थत्वेन तादृशशाब्दबोधविषयत्वसम्भवादित्याशङ्कां निराकर्तुमाह- न चेति । इति चेदित्यनेनास्याऽन्वयः । एवं = वृत्तिज्ञान-स्मरणशाब्दबोधानां समानप्रकारकत्वेन कार्यकारणभावस्वीकारे, शक्यतावच्छेदकेऽपि, अपिशब्देन लक्ष्यतावच्छेदकसमुच्चयः, शक्तिः = पदमुख्यवृत्तिः, न स्यात् = न सम्भवेत् । अत्र हेतुमाह- यद्धर्मविशिष्टशक्तिग्रहः = घटत्वादिलक्षणयद्धर्मावच्छित्रे शक्तिप्रतिसन्धानं, तेन रूपेण = घटत्वादिरूपेण, वटादेः उपस्थितिः = स्मृतिः शान्दबोधवेति नियमादेव घटत्वादिप्रकारकस्मरणशाब्दबोधोदयेन शक्यतावच्छेदकबोधसम्भवात् = घटत्वादिशाब्दबोधाऽवश्यंभावात्, विशेषणज्ञानमृते विशिष्टबोधाऽसम्भवात् ।
नन्यः तन्निराकरोति-नेति । प्रदर्शितशङ्काऽपाकरण हेतुमाह - शक्यतावच्छेदकेऽपि - घटत्वादावपि, शक्तेः = घटादिपदशक्तेः, स्वविषयत्वसम्बन्धेन अबाधात् = अव्याहतत्वादिति, अन्यथा यबृत्तित्वेन वृत्तिग्रहः तद्वृत्तित्वेनोपस्थितिशाब्दबोधी भवत इति नियमस्यापि सुवचत्वाद् घटादाबपि शक्तिर्न स्यात् । किञ्च, शक्यतावच्छेदके शक्त्यस्वीकारे पृथिवीपदात् कदाचिदष्टद्रव्याऽतिरिक्तद्रव्यत्वेन, कदाचित् गन्धवत्त्वेन कदाचित्पृथिवीत्वेन च शाब्दबोध आपद्येत । पृथिवी पृथिवीपदाक्ये तिवत् अष्टद्रव्यातिरिक्तद्रव्यं गन्धबद्वा पृथिवीपदशक्यमित्याकारकस्य शक्तिज्ञानस्य सम्भवात् तीरं गङ्गातीर वा प्रवाहसंयोगवदिति लक्षणाग्रहेण शक्तिग्रहस्य तुल्ययोगक्षेमत्वात् । तथा च लक्षणया यत्किञ्चिदेकधर्मावच्छिन्नविषयक एव शाब्दबोध इति यथा न नियमस्तथा शक्यार्थविषयकशाब्दबोधेऽपि नियमो न स्यात् । दशक्यतावच्छेदके शक्तिस्वीकारे तु पृथिवीपदात्पृथिवीत्वेनैव शाब्दबोध इति नियम उपपद्यते । पृथिवीपदस्य पृथिवीत्वपृधिव्योरेव शक्ततया शक्त्या शक्यार्थस्यैव शाब्दबोधे भानमिति नियमेन च तदुपपादनसम्भवात् । इत्थमेव 'शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते' इत्यस्यापि नियमस्योपपत्तिरिति नव्यनैयायिकाशयः ।।
प्रधमविकल्पमङ्गीकृत्य नव्यमतं पराकर्तुं परिशीलितं पन्धानमाविष्कुर्वन्ति- अत्र वदन्तीति । यत्तावदुक्तं 'नानार्थकपदस्य प्रकरणादिना यत्र शक्तिर्नियम्यते तस्यैव बोधनियमेन नानार्थकपदानानार्थानां युगपदबोधनिर्वाहादि ति (पृ.२९२) तन्निराकुर्वन्तिप्रकरणादीनामिति । अननुगतानामिति । विशेषणमुखेनाऽयं हेतु निर्देशः । नेत्यस्य व्यवहितान्वयः । प्रयोगश्चात्रैवम् - प्रकरणा
वस्तु की उपस्थिति (= स्मरण) और शान्दवोध होता है, इस नियम का प्रदर्शन किया जाता है; ठीक वैसे ही यह भी कहा जा सकता है कि - "जिस धर्म से विशिष्ट वस्तु में पदाक्ति का ग्रह होता है उसी धर्म से विशिष्ट का पद से स्मरण एवं शान्दबोध होता है, यह नियम है। इसका अंगीकार करने पर तो शक्यतावच्छेदक धर्म में भी पदशक्ति न हो सकेगी, क्योंकि शक्यतावच्छेदकधर्मविशिष्ट में शक्तिग्रह होने से शक्यतावच्छेदक से विशिष्ट का शान्द बोध होगा, जिसके विशेषणरूप से शक्यतावच्छेदक का भी भान अनायास ही हो जायेगा, क्योंकि विशेषण के ज्ञान के बिना विशेप्य का भान नहीं होता है । इस तरह शक्यतावच्छेदक में शक्ति का स्वीकार न करने पर भी उसका भान हो सकता है, तब क्यों उसमें पदशक्ति की कल्पना का गौरव किया जाय ?" -तो इसका समाधान यह है कि पदजन्यप्रतीति का विषय होने की वजह शक्यतावच्छेदक में भी शक्ति अबाधित है। जिस पद से जिस अर्थ का अवश्य भान होता हो, उस अर्थ में उस पद की शक्ति का होना आवश्यक है, अन्यथा शक्ति का नियमन ही दर्घट हो जायेगा । घटपद से घटत्वविशिष्ट का भान होता है। अतः घटत्व और उसके आश्रय यट में घटपद की शक्ति का होना जरूरी है। अतः शक्य की भाँति शक्यतावच्छेदक में भी स्वविपयत्वसंबन्ध से शक्ति अवश्य रहती है . यह सिद्ध होता है। निष्कर्ष :- 'सकुश्चरित...' न्याय अप्रामाणिक है।
* 'मकृदुचरित...' न्याय प्रामाणिक है - स्यादादी * उत्तरपक्ष :- अत्र वद. इति । नव्य नैयायिक के उपदर्शित वक्तव्य की समालोचना करते हुए श्रीमद्जी कहते हैं कि