________________
२९९ मध्यमस्याद्वादरहस्ये खण्डः २ - का.५ * स्याद्वादरत्नाकरसंवादः * | न चैवं शक्तिरन्तर्गडुरिति वाच्यम्, वाच्यवाचकभावप्रतिनियमाय तत्कल्पनमित्याधाकरे स्पष्टत्वात् ।
न च शब्दत्वेनेवाऽस्तु वाचकता प्रमेयत्वेन च वाध्यता, तथापि शब्दादेवाऽर्थबोधोऽर्थात्तु || न (तत्) कुत: ? इति पर्यनुयोगस्य वाच्यवाचकभावप्रतिनियामकशक्त्यनभ्युपगमे दुरुन्दर- |
-. --. ... . * ायलता .. -----..--....चिव्यात्सम्भवत्येव ।
ननु शक्तिरूपस्वाभाविक शब्दसम्बन्ध कल्पयित्वाप प्रातिस्थिकनमंत्रकारकप्रतीत्यन्यथाऽनुपपत्त्या तव्यञ्जकस्य सङ्केत - स्याऽवश्याऽऽश्रयणीयत्वे तु कृतं सर्वार्थगोचरप्रत्यकशब्दशक्तिकल्पनया, सङ्केतेनैव तदपक्षयात् । तत्परिकल्पने वा न कस्यचित्सङ्केतापेक्षा स्यात्, तन्मात्रेणैव शब्दस्याऽर्थप्रकाशकत्वोपपनेः । न चैवमस्ति; सङ्केतमपास्य विपश्चितोऽपि शब्दादर्थप्रतीतेरनुपपत्तेः । किञ्च क्वचिद्देशविशेष कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थमुत्सृज्य ततोऽर्थान्तरे प्रयुज्यते, यथा कुमारशब्दः पूर्वदेशे आश्विनमासे रूढः कर्कट्यादयः शब्दाश्च देशविशेष योन्यादिवाचकाः । यथेच्छं च शब्दः पुत्रादिषु नियुज्यते । स्वाभाविकसम्बन्धसद्भावे त्वेककार्थनियतत्वमेव सर्वदा वा सर्वार्थवाचकत्वं प्रसज्यतेति शक्तिकल्पनमनतिप्रयोजनमित्याशङ्कामपनोदयितुमुपदर्शयति - न चेति । वाच्यमित्यनेनाऽस्याऽन्ययः । एवं = सङ्केतकल्पनायाः अवश्यक्लुप्तत्त्वे, शक्तिः = सर्वार्धगोचरस्वाभाविकशब्दसम्बन्धः अन्तर्गडुः = निरर्थिका, सङ्केत्तेनैवाऽर्थसिद्धेः ।
दर्शितशङ्काया अश्रद्धेयत्वमाबिष्करोति - वाच्यवाचकभावप्रतिनियमायेति । अर्थस्य वाच्यत्वमेव, शब्दस्तु तद्वाचक एवेतिनियमायेति । तत्कल्पनं = स्वाभाविकशक्तिकल्पनम् । आकरे = स्याद्वादरत्नाकरे । तदुक्तं स्याद्वादरत्नाकरे 'सङ्केतबलादेव तत्र तदुपपत्तेरिति, तदसत्, सङ्केतो हि पुरुषाधीनवृत्तिः । न च पुरुषेच्छया वस्तुनियमोऽवकलप्यते, अन्यथा तदिच्छाया अन्याहतप्रसरत्वादर्थोऽपि किमिति वाचको न भवति शब्दश्च वाच्य; ? सुकरमेव हीदं वक्तुमस्य शब्दस्याऽयमों वाचकोऽस्य चाऽर्थस्याऽयं शब्दो वाच्य इति । न चैवमस्ति । किश्चेच्या वस्तुनियमेऽनिच्छतः पुरुषस्य न धूमादपि बढेः प्रतीतिः स्यात्, । इच्छतस्तु जलस्यापि ततः सा स्यात् । तत्र यथा धूमाग्न्योः नैसर्गिक वाऽविनाभावो नाम सम्बन्धः तत्प्रतिपत्तये चोपलम्भादिक निमित्तमाश्रीयते । एवं सांसिद्धिक एव शब्दार्थयोः शक्त्यात्मा सम्बन्धः, तत्यतीतये सङ्केतसमाश्रयणम् । 'शक्त्यभावेऽपि शब्दस्यैव वाचकत्वे योग्यत्वान्न वाच्यवाचकभावनयत्यमिति चेत् ? तर्हि किमिति कलहायसे ? भवताऽपि योग्यत्वशब्देन शक्तेरेव स्वीकारात्' (स्या रत्ना. ४/११) इति ।
परकीयशङ्कामपाकर्तुमुपदर्शयति - न चेति । तां निराकरोति - तथापीति । विभावितार्थमेवेति न पुनः तन्यते । एतद्विस्तरस्तु बुभुत्सुभिः 'स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इनि' (प्र.न.त.४/११) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रन्याख्याने स्याद्रादरत्नाकरे रत्नाकरावतारिकायाञ्च ज्ञातव्यः ।
बोध हो सकता है । यहाँ यह शंका भी नहीं करनी चाहिए कि -> "नियत अर्थ में नियन्त्रित संकेतविशेष से अर्थविशेष के बोध की कल्पना करने पर प्रत्येक पद में सर्वार्थविषयक शक्ति की कल्पना निरर्थक बन जायेगी । आशय यह है कि प्रत्येक पद में सर्वार्य विषयक शक्ति मानने पर भी अर्थविशेषविषयक शाब्दबोध की उपपत्ति के लिए संकेतविशेष की कल्पना आवश्यक ही है । तब तो अच्छा यही है कि प्रवृत्ति निवृत्ति आदि व्यवहार के जनक अर्थविशेषविषयक शाब्दबोध के नियामक संकेतविशेष की ही कल्पना की जाय । शक्ति की कल्पना अनावश्यक है।" - यह शंका अनुचित होने का कारण यह है कि शब्द और अर्थ में वाच्य-वाचकभाव का नियमन शक्ति के बिना अनुपपन है। शब्द में वाचकता है और अर्थ में वाच्यता है . यह तभी संगत हो सकता है, यदि शब्द में अर्थप्रतिपादक स्वाभाविक शक्ति का अंगीकार किया जाय । यह विषय स्याद्वादरत्नाकर ग्रन्थ में स्पष्टरूप से विवेचित है। यद्यपि शक्ति का, जो शब्दनिष्ठ है, अंगीकार किये बिना भी शब्दत्वाचच्छेदेन वाचकता और प्रमेयत्वावच्छेदेन वाच्यता का अंगीकार हो सकता है, तथापि शब्द से ही अर्थबोध क्यों होता है, अर्थ से शाब्द बोथ क्यों नहीं ? इस समस्या का समाधान शन्द में शक्ति की, जो वाच्य चारकभाव की नियामक है, कल्पना के चिना मिलना मुश्किल है। शब्द में अर्थप्रतिपादक स्वाभाविक योग्यता = शक्ति का स्वीकार करने पर ही यह कहा जा सकता है कि वाद ही अर्थरोधक है, क्योंकि उसीमें अर्थप्रतिपादक शक्ति रहती है । अर्थ में तादृश स्वाभाविक योग्यता न होने की वजह उससे अर्थबोध नहीं होता है । सकलादेश में कालादि आठ की अपेक्षा अभेदप्राधान्य का पूर्व में निरूपण