________________
* अभेदवृत्तिप्राधान्य तदुपचारमीमांसा *
२८४ | नित्यत्वादीनां कालादिभिरभेदविवक्षायां हि एकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेनाऽनेक| धर्मरूपस्य तदात्मकतायनस्य वस्तुनः प्रतिपादनसम्भवाद् यौमपद्यम् ।
= = = = = ==* जयलता - --
समकालमनन्तधर्मप्रतिपादनासंभवात्सूत्रे 'योगपद्येने ति बक्तुं नाहतीत्याशङ्कायामाह - नित्यत्वादीनामिति । आदिशब्देन | सत्त्ववाच्यत्वादे हणम् । कालादिभिरिति । आदिपदेन आत्मरूपार्थ-सम्बन्धोपकार-गुणिदेश संसर्ग-शब्दानां ग्रहणम् । अभेदविवक्षायां = तादात्म्यार्पणायां सत्या, हि एकेनापि शब्देन सदादिरूपेण, एकधर्मप्रत्यायनमुखेन = सत्त्वाद्येकधर्मबोधनपरेण, अनेकधर्मरूपस्य = प्रमाणसिद्धानन्तधर्मस्वभावस्य तदात्मकतापत्रस्य = अनेकधर्मात्मकतामापन्नस्य सत: वस्तुनः प्रतिपादनसम्भवात् योगपद्यमिति । धर्मिमुखेन धय॑भित्रधर्माणामपि समकालं प्रतिपादनं सम्भवति । एतेनैकत्र युगपदनेकधर्मप्रतिपादनसम्भवे चतुर्थभङ्गो बिलीयेतेति प्रत्युक्तम्, धर्मिरूपेण तत्प्रतिपादनसम्भवेऽपि प्रातिस्विकरूपेण युगपत् तदसम्भवेन, अवक्तव्यत्वस्य न्याय्यत्वात् ।
अत्राऽभेदवृत्तिप्राधान्यतदुपचारी इत्थं बोद्धव्यौ । द्रव्यार्थिकनयेन सदादिपदस्य सत्ताद्यभिन्नानन्तधर्मात्मके वस्तुनि शक्ति| वर्तते । अतः सदादिपदघटितवाक्येन अनन्तधर्मात्मकवस्तुगोचरशाब्दबोधेन भाव्यम् । परन्तु पर्यायार्थिकनयेनाऽस्तित्व-नास्तित्वादिभेदोपस्थापिते सदादिपदघटितवाक्यजन्यबोधो दुर्घटः, तद्विषयबाधात् । तदा कालाद्यष्टकापेक्षयास्तित्वनास्तित्वादीनामभेदग्रह सति वस्तुन्यभिन्नत्वेन गृहीतानामनन्तानामस्तित्वनास्तित्वादिधर्माणां भेदाभावग्रहेण पर्यायादिवागृहीतचाधप्रतिरोधो भवति । स एका भेदवृत्तिप्राधान्यपदार्थः । ततोऽनन्त वात्मकवस्त्वपयोधः सुबटः । अभेदोपचारश्चाक्तार्थे लक्षणा । पर्यायार्थिकनयेनातद्ज्यावृत्तिलक्षणसनादावेव सदादिपदशक्तिः । तन्मतेऽन्यपर्यायेभ्यः सत्तादिपर्यायाणां भिन्नत्वात् सत्त्वाऽभिन्नानन्तधर्मात्मकवस्तुबोधो न भवितुमर्हति । सत्तादिमात्रे सदादिपदशक्तिग्रहे सत्त्वाभिन्नानन्तधर्मात्मकवस्तुबभोधयिशन्यथानुपपत्त्या तत्र सदादिपदलक्षणा भवति । अयमेवाऽभेदोपचारपदार्थः । तदुक्तं स्याद्वादकल्पलतायां → 'अभेदवृत्तिप्राधान्यं = द्रव्यार्थिकनयगृहीतसत्त्वाद्यनन्तधर्मात्मकवस्तुशक्तिकस्य सदादिपदस्य कालाद्यभेदविशेषप्रतिसन्धानेन पर्यायार्थिकनयपर्यालोचनप्रादुर्भवच्छश्यार्थबाधप्रतिरोधः । अभेदोपचारश्च पर्यायार्थिकनयगृहीतान्यापोहपर्यवसित्तसत्तादिमात्रशक्तिकस्य तात्पर्यानुपपन्या सदादिपदस्योक्तार्थे लक्षणा' - (स्था.क.ल.७/२३ -पृ.१७३) इति ।
उक्तरीत्या कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वाऽनन्तधर्मात्मकवस्तुप्रतिपादकं वचः सकलादेश इति भण्यते ।। तथाहि - 'स्यादस्त्येव बटः' इत्यत्र हि यादृशकालावच्छेदेन घटात्मके धर्मिणि अस्तित्वं वर्तते, तत्कालावच्छेदेन शेषानन्तधर्मा अपि घटे वर्तन्ते इति तेषामेककालावच्छिौकाधिकरगतात्यावच्छिन्ननिरूपकतानिरूपितवृत्तित्वं कालेनाइभेदवृत्तित्वम् । यदेवाऽ- || स्तित्वस्य घटगुणत्वं स्वरूपं तदेवानन्ताशेषगुणानामपि स्वरूपमिति घटगुणत्वत्वावच्छिन्नाधेयत्तानिरूपिताधिकरणतावत्त्वमात्मरूपेणाभेदवृत्तित्वम् २ । य एव घटद्रव्यलक्षणोऽर्थोऽस्तित्वस्याऽऽधार: स एवान्यधर्माणामयाधार इति एकाधिकरणनिरूपिताधेय| तारत्त्वमर्थेना भेदवृत्तित्वम् ३ | य पवाऽविष्यम्भावः तादात्म्यलक्षणोऽस्तित्वस्य सम्बन्धः स एवानन्तधर्माणामपीति एकसम्बन्ध
-..
जिज्ञासु वाचक यहाँ जयलता टीका पर अपनी निगाह डाल सकते हैं ।
नित्य, इति । वस्तु में रहे हुए नित्यत्वादि अनन्त थर्मों की कालादि की दृष्टि से अभेदविवक्षा हो तर एक ही काल में एक शब्द से अनन्त धर्मात्मक वस्तु का प्रतिपादन हो सकता है। जैसे 'नित्य आत्मा' इस वाक्य में नित्य शन्द यपि नित्यत्वलक्षण एक धर्म का ही बोधक है। मगर जिस काल में आत्मा में नित्यत्व धर्म रहता है, उसी कालावच्छेदेन अनित्यत्व, अस्तित्व, नास्तित्व, वाच्यत्व, अवाच्यत्व आदि अनन्त धर्म रहते हैं । ये सभी धर्म एककालावच्छेदेन आत्मवृत्ति होने के सबब परस्पर अभिन्न होते हैं । कालमूलक अभेदवृत्ति की वजह 'नित्य आत्मा' इस वाक्य से एक ही काल में नित्यत्वादि अनन्तधर्मात्मक | आत्मा का प्रतिपादन हो सकता है । जिस तरह एक ही काल में आत्मा की समग्रता का प्रतिपादन सकलादेश करता है,
उसी तरह एक काल में सब बस्तु की समग्रता का निरूपण सकलादेश के द्वारा मुमकिन है । मगर जब पर्यायार्थिक नय के पुरस्कार से आत्मवृत्ति नित्यत्व, अनित्यत्व, अस्तित्व, नास्तित्व आदि धर्मों में भेद की विवक्षा की जाती है, तब 'नित्य | आत्मा' इस वाक्य से एक काल में नित्यत्त्व, अनित्यत्व आदि आत्मधर्मों का भान नहीं हो सकता । किन्तु केवल नित्यत्व || धर्म का ही भान हो सकता है, क्योंकि 'सकृत् उच्चरितः शन्दः सकृदेव अर्थ गमयति' यह न्याय है । इस न्याय का अर्थ | यह है कि एक बार बोला गया शब्द सिर्फ एक बार ही अर्थ का बोधक होता है । एक शब्द में अनेक धर्म का बोध |! कराने की शक्ति एक काल में नहीं होती है जैसे 'घटोऽय' इस वाक्य में रहे हुए घटशब्द से पुरोवर्ती पदार्थ में घटत्व -
-
-.31