________________
* आकाङ्क्षानुसारिवोधसमर्थनम्
भावाभावैकभावाऽभ्युपगमविमुचो नो वचो युज्यतेऽदों । यस्मादस्माकमेतद्व्दयमिह मिलितं सप्तधा धर्मशालि ॥19॥
ननु तथापि 'नास्ती'त्यत्राऽस्तित्वाभावस्येव 'नास्ती 'तिपदवाच्यत्वादिधर्मस्यापि घटादौ सम्भवाद् भङ्गानां सप्तसीमातिक्रम इति चेत् ? न, 'नास्ती 'त्यनेन प्रतिषेधकल्पनाऽवतीर्णप्रश्नोन्मग्नस्याऽस्तित्वाऽभावस्यैव आकाङ्क्षितत्वात् ।
* जयलता है
'घटे पटाद्यसत्त्वं नास्तीत्यत्र विप्रतिपत्तिर्भवितुं नार्हतीति भावः । तदेव पञ्चपश्चार्द्धनाऽऽह भावाभावेकभावाभ्युपगमविमुचः अस्तित्वनास्तित्वस्वभावशालिवस्तूपगमप्रतिक्षेपिणो भवतो नैयायिकादेः अदो वचः = 'एकान्तवाद एवं सार्वजनीन' इति वचनं नो युज्यते = नैव युज्यत इत्यर्थः, 'सर्वं वाक्य सावधारणमिति न्यायात् । हेतुमाह यस्मात् कारणात् एतद्द्वयं = भावाभावोभयं इह वस्तुनि मिलितं = कर्बुरितं सत् सप्तधा धर्मशालि भवति अस्माकं नये । यथा चैतत्तत्वं तत्तु प्रज्ञापितमेव पूर्वम् । प्रयोग एवम् पदास्तित्वं घटावृत्ति घटेतरवृत्तित्वात्, पटरूपवत् । न च द्रव्यत्वेन व्यभिचार उद्भावनीयः, एकमात्रवृत्तित्वे सतीति हेतोर्विशेषणात् । यदि च विशेषणविशेष्यभावे विनिगमनाविरह उद्भाव्यते परेण तदा 'पटनिष्ठास्तित्वं पटेतरवृत्ति पटमात्रवृत्तिप्रतियोगिकत्वात्, पटीयरूपाभाववदि' ति वक्तव्यम् ।
=
परः शङ्कते - नन्विति । तथापीति । अस्तित्वनास्तित्वयोरेकत्र समावेशेऽपि । 'नास्ती'त्यत्र = 'घटः स्यान्नास्ती' त्यादौ, अस्तित्वाभावस्येव 'नास्ती' तिपदवाच्यत्वादिधर्मस्यापि = 'नास्ती' तिपदनिष्ठवाचकतानिरूपितवाग्विषयत्वस्यापि घटादी धर्मिणि सम्भवाद् भङ्गानां सप्तसीमातिक्रमः इति । 'नास्ति' पदेन घटादावस्तित्वाभावस्येव तत्पदवाच्यत्वस्याऽपि भानसम्भवात् तस्य तत्र सत्त्वाचाऽष्टमभङ्गप्रसङ्गेन सप्तभङ्ग्यतिलङ्घनं दुर्निवारमिति शाशयः । प्रकरणकृत्तत्प्रत्याचष्टे नेति । 'घटः स्यान्नास्ती'। त्यत्र 'नास्ती' त्यनेन पदेन प्रतिषेधकल्पनावतीर्णप्रश्नोन्मनस्य = घटेऽस्तित्वधर्मनिषेधस्य कल्पनया विवक्षया अवतीर्णेन लब्धात्मलाभेन प्रश्नेन पर्यनुयोगेन उन्मनस्य जिज्ञासितस्य अस्तित्वाभावस्यैव आकाङ्क्षितत्वात् तस्यैव बोधों जायते न तु 'नास्ति' पदवाच्यत्वस्य । यथा 'घटो नीलो न वा ?' इति जिज्ञासायां 'घटोsनील' इति कथितं श्रोतुः घंटे नीलभेदस्यैव बोध उपजायते न त्वनीलपदवाच्यत्यस्याऽपि तस्यानाकाङ्क्षितत्वात् । तथा 'घटः सर्वधाऽस्ति न वा ? इति बुभुत्सायां सत्यां 'घटः स्यान्नास्ती' त्युक्ते घटे कथञ्चिदस्तित्वाभावस्यैव भानं भवति न तु 'नास्ति' पदप्रतिपाद्यत्वस्यापि 'आकाङ्क्षितमेवाऽभिधीयतेऽवबुध्यते चे 'ति न्यायात् । ततोऽष्टमभङ्गानापातेन सप्तभयनतिक्रमात् 'सप्तधा धर्मशालि' इति सुष्ठुक्तमिति समाधानादायः । अथाऽवक्तव्यत्वं यदि धर्मान्तरं तर्हि वक्तव्यत्वमपि धर्मान्तरं स्यात् । तथा चाऽष्टमस्य वक्तव्यत्वधर्मस्य सद्भावेन तेन सहाष्टभङ्गी स्यान्न तु सप्तमङ्गीति चेत् ? न सामान्येन वक्तव्यत्वस्याऽतिरिक्तस्याऽभावात् । सत्त्वादिरूपेण तु वक्तव्यत्वं | प्रथमादिभङ्गान्तर्भूतम् । अस्तु वा वक्तव्यत्वं नाम कश्चनाऽतिरिक्तधर्मः तथापि बक्तव्यत्वाऽवक्तव्यत्वाभ्यां विधिप्रतिषेधकल्पना
=
२८०
-
ही हितकर है' युक्त नहीं होता है, क्योंकि भाव और अभाव अर्थात् सत्त्व और असत्व दोनों एक ही पदार्थ में संमिलित होते हैं । अस्तित्व और नास्तित्व से व्याप्त पदार्थमात्र सात प्रकार के धर्म से संपन्न - समृद्ध होता है । यह हमारे मत से पूर्वोक्त और उपर्युक्त युक्ति से सिद्ध होता है। इस बात को प्रकरणकार ने पय के द्वारा बताई है ।
* सप्तभङ्गी में आधिक्यदोषशंकानिरास
ननु त इति । यहाँ यह शङ्का हो सकती है कि "घटः स्यात् नास्ति इस द्वितीय भंग में जैसे 'नास्ति' पद से अस्तित्वाभाव धर्म का घट में बोध होता है, ठीक वैसे ही 'नास्ति' पदवाच्यत्व धर्म का भी भान होगा, क्योंकि घट में 'नास्ति' ऐसा जो शब्द है उसकी वाच्यता रहती है। इस तरह द्वितीय भंग से घट में अस्तित्वाभाव एवं नास्तिपदनिरूपितवाच्यता, इन दो धर्म का बोध होने की वजह सप्तभंगी के स्थान में अष्टभंगी प्रतिष्ठित हो जायेगी" - मगर यह शंका अयोग्य होने का कारण यह है कि 'घटः स्यात् नास्ति एव' इस द्वितीय भंग का उत्थापक जो प्रश्न है उसका आकार 'क्या घट सर्वथा असत् है या नहीं ?" यह है, जो कि घर में अस्तित्व के निषेध की कल्पना = विवक्षा से उपस्थित होता है। इस प्रश्न से घट में अस्तित्वाभाव धर्म का ही आक्षेप होता है, क्योंकि यह आकांक्षित = जिज्ञासित है । शाब्द व्यवहार में यह देखा जाता है कि जैसी जिज्ञासा होती हैं उसके अनुरूप ही प्रश्न किया जाता है। अभियुक्त पुरुष भी प्रश्न के अनुरूप ही उत्तर देता है और उससे श्रोता को जिज्ञासित धर्म का ही बोध होता है, न कि अन्य धर्म का । अतः प्रस्तुत में अस्तित्वाभाव