________________
२७९ मध्यमस्याद्वादरहस्ये खण्डः २ का. ५ * विस्तरत एवकारार्थमीमांसा *
'प्रमेयवृत्तिभेदप्रतियोगितानवच्छेदकत्वबोधः स्वारसिकश्चेत् ?" तदाऽस्तु तत्र तस्य लक्षजैव । शक्तिस्तु लाघवादयोगे (? दन्यस्मिन्) व्यवच्छेदे च खण्डश एवेति युक्तमुत्पश्यामः । अस्तित्वं यत्पादो न तदिह कलशे, यद्घटे तत्तु बाढम् । रूपं तस्यैत कुम्भे न भवति हि यथेत्यत्र नो नो विवादः ।
* जयलता
स्माद्वाग्राह प्रमेयेति । तदा = तर्हि, तत्र प्रमेयनिष्ठ भेदप्रतियोगितानवच्छेदकत्वविशिष्ट वाच्यत्वप्रकारकशाब्दबोधाङ्गीकारे इति यावत् । तत्र = प्रमेयवृत्तिभेदीय प्रतियोगितानवच्छेदकत्वे, तस्य = वाच्यपदसङ्गतैवकारस्य, लक्षणैवेति । ननु लक्षणाया जघन्यद्वृत्तित्वात् तत्र शक्तिरेव युक्तेत्याशङ्कायां स्याद्वाद्याह शक्तिस्त्विति । विशेषणसंगतैवकारशक्तिस्त्विति । लाघवात् अयोगे व्यवच्छेदे च खण्डश एवेति । विशेष्यवृत्तिभेदप्रतियोगितानवच्छेदकत्वे विशेषणसंगतैवकारस्य शक्तत्वापगमापेक्षया खण्डशः संबन्धाभावलक्षणे ज् योगेऽभावरूपे व्यवच्छेदे चैव शक्तत्वाङ्गीकारी लाघवायुक्त इत्यर्थ: 1
नन्वत्र 'अन्यस्मिन्' इत्येव पाठः युक्तः, 'घटः स त्वसन्नि' तिबोधस्य 'घटः सन्नेवे 'ति वाक्यात् प्रकरणकारेणोपगमात् । 'न त्यसन्नि’त्यस्य सद्भिन्नभेदवानित्येव स्वारसिकबोधाभ्युपगमात् । अयोगे व्यवच्छेदे च खण्डशः शक्त्यङ्गीकारे तु तत्र 'घट सत्त्वसंसर्गाभावाभाववान्' इति यद्वा 'घटः सत्त्वाभाववभेदवान्' इत्येव बोधः स्यात् । तथा चानुभवविरोधः । न हि 'न पर्वतोऽसंयोगी' त्यत्र 'पर्वतः संयोगाभाववद्भिन्नः' इति बोध उदेति किन्तु 'पर्वतः संयोगिभिन्नभेदवानि' त्येव । 'घटः सन्नेवे 'त्यत्र अन्य व्यवच्छेदश्चैवकारार्थ इत्युपगमे तु समभिव्याहृतप्रातिपदिकार्थस्यैवकारोपस्थितेऽन्यपदार्थेऽन्वयात् 'घटः सन् न सदन्य' इति बोध उपपद्येतेति । किञ्चैवं विशेषणविशेष्यक्रियात्रितयसङ्गतैवकारदाक्तिरप्यनुगता स्यात्, 'शङ्खः पाण्डुर बेति ‘शङ्खः पाण्डुरः न पाण्डुरान्प:', 'पार्थं एव धनुर्धर' इति अत्र 'पार्थो धनुर्धरः पार्थान्यो न धनुर्धरः', 'सरोजं नीलं भवत्येवे' त्यत्र 'सरोजं नीलकर्तृकोत्पत्तिमद् नीलकर्तृकोत्पत्तिमदन्यद् न' इत्युपपत्तेः । अयोगे व्यवच्छेदे च विशेष्यसमभिव्याहृतै वकारशक्तिर्न संभवति । न चात्र पार्थो धनुर्धरः पार्थत्व सम्बन्धाभाववान् न धनुर्धर इति बोध उपगन्तुमहर्तीति वक्तव्यम्, अननुभवात्, गौरवाच्चेति अन्यो व्यवच्छेदचैवकारार्थ इति चेत् १ न, 'घटः सन्न त्वसनि 'त्यत्र 'घटः घटत्वावच्छिन्नसत्त्ववान् न तु घटत्वा वच्छिन्नसत्त्वाभाववानित्येव बोधोपगमात् इत्थमेवाग्रिमग्रन्थसङ्गतेः । अन्यपदार्थे तच्छक्त्यभ्युपगमे तु 'प्रमेयं वाच्यमेवे 'त्यत्र 'लक्षणाप्रतिपादनानुपपत्तिरित्यादिकं विभावनीयमवहितमानसैः ।
प्रस्तुतमीमांसाफलितं पद्येन प्रकरणकृदाह अस्तित्वमिति । तदूव्याख्यालेशस्त्वेवम् - इह = जगति यत् अस्तित्वं = सत्त्वं पदादी धर्मिणि वर्तते, तत् पटादिनिष्ठाऽस्तित्वं कलशे घटेन अस्ति । यत् अस्तित्वं घटे वर्तते तत् अस्तित्वं निःशङ्कं कलशपदवाच्येऽस्त्येव । एतत्कथं सङ्गच्छेत ? इत्याशङ्कायामाह यथा हि तस्य पटादेः रूपं = तु नीलादि स्वरूपं वा पटत्वादिकं कुम्भे नैव भवति । यथा 'घंटे पटादिरूपं न भवति तथा पटादिसत्त्वमपि । यथा घटे घटरूपमेव भवति तथा त्वमेव । यथा 'घंटे पटादिरूपं नास्तीत्यत्र नः - अस्माकं विवादः विप्रतिपत्तिर्नास्ति, तथैव भवतामपि
=
-
-
-
-
-> “प्रमेयं वाच्यमंत्र इस वाक्य से 'प्रमेयं स्ववृत्तिभेदप्रतियोगितानवच्छेदकवाच्यत्ववत्' इत्याकारक बोध होता है। यह सर्वजनविदित होने से वाच्यपदसंगत एवकार का अर्थ प्रमेयवृत्तिभेदप्रतियोगितानवच्छेदकत्व है, जो कि वाच्यत्व में रहता है । एवकारार्थ का वाच्यत्व में और वाच्यत्व का प्रमेयात्मक विशेष्यार्थ में अन्वय होने से उपर्युक्त बोध सम्पन्न हो सकता है" - तो स्याद्वादी की ओर से यह कहा जा सकता है कि “यदि 'प्रमेयं वाच्यमेन' इस वाक्य से एबकार से यदि प्रमेयवृत्तिभेदनिरूपितप्रतियोगितानवच्छेदकता का वाच्यत्व में स्वरसवाही बोध होता हो, तब उस अर्थ में वाच्यपदसंगत एवकार की लक्षणा ही माननी चाहिए, न कि शक्ति, क्योंकि तादृश गुरुभूत अर्थ में शक्ति मानने पर गौरव दोष प्रसक्त होता है । एवकार की शक्ति तो लाघवसहकार से अयोग और व्यवच्छेद = अभाव में खण्डशः ही माननी चाहिए । यह हमें (महोपाध्यायजी को) युक्तिसंगत लगता है।
इस विचारविमर्श से यह फलित होता है कि 'घटः सन् एव' इस वाक्य से या तो प्रत्यक्ष से पट आदि पदार्थ में जो अस्तित्व = सत्ता है, वह कलश (= घट) में नहीं रहता है, मगर घट में जो अस्तित्व है वह तो घटपदवाच्य अर्थ में हैं ही इस विषय में कोई सन्देह नहीं है। यह उसी तरह संगत होता है जैसे पट का ही रूप (अथवा स्वरूप पटत्वादि) घट में नहीं होता है, मगर पद का रूप ( अथवा स्वरूप घटत्वादि) तो घट में होता ही है । इस विषय में हमारा कोई विवाद नहीं है । भावाभावैकस्वभाववाली वस्तु के स्वीकार को छोड़ने वाले हे नैयायिक ! आपका यह वचन कि 'एकान्तवाद