________________
-
२७१ मध्यमस्याद्वादरहस्ये खण्डः २ . का.५
* एवकारार्थविचारः स बूमः प्रभाणं भवति भववच: किं सदप्यप्रमाणं, येन प्रामाण्यमुद्रा परपरिचयत: संकरोत्कीर्णकुक्षिः ।
==.. जयलता भाववान् शङ्घ' इत्यर्धबोध उपजायते । क्रियासङ्गतैवकारार्थश्चाऽत्यन्तायोगव्यवच्छेदः यथा 'सरोज नीलं भवत्येवे'त्यादी अत्यन्तायोगव्यवच्छेदैकदेशेऽत्यन्तायोगे नीलकर्तृकभवनक्रियाऽन्वयो भवति तथा सरोजत्वव्यापकस्वरूपसम्बन्धेन नीलकर्तृकोत्पत्तिप्रति - योगिकाभावान्चयः सरोजपदार्थे भवति । ततः सरोज नीलकर्तृकोत्पन्यभावप्रतियोगिकाभाववदिति शाब्दबोधः समपजायत इति प्राश्चो नैयायिकाः ।
नव्यास्तु एवकारस्य द्वयमेवार्थः अयोगन्यवच्छेदोऽन्ययोगव्यवच्छेदश्व, न त्वत्यन्तायोगव्यवच्छेदः, गौरवादिति यद्वा । अन्ययोगव्यवच्छेद एव वा तदर्थं इति वदन्ति ।
इतरे तु - एवकारस्याऽत्यन्ताभावोऽन्योन्याभावश्चार्थ इत्याहुः ।
सप्तभङ्गायाः सार्वत्रिकत्याऽन्यनुज्ञायामेवकारो निरर्थकः प्रसज्येत सार्थकत्वे वा एकान्तमतानुप्रवेश इति द्विपक्षी राक्षसी प्रत्यक्षीबोभनीतीति एकान्तवादिमतमेव विश्वकल्याणकरमिति परस्याशयः ||१||
साम्प्रतं प्रकरणकृत समाधत्ते - अत्र ब्रूमः इति । भववचः = भवानीपतिवचनं, किं प्रमाणं एवेति भवति ? 'शिववचनं प्रमाणमेव' इति भवितुं नार्हति । कस्माद्धेतो: ? इत्याशङ्कायामाह- अप्रमाणमपि सद् = भवनार्हम् । कथं ? इत्याकाणायामाह येनेति । परपरिचयतः = त्र्यधिकरणधर्मावच्छिन्ननतियोगितासंसर्गतः प्रामाण्यमुद्रा सङ्करोत्कीर्णकुक्षिः = अप्रामाण्यसायव्यामिश्रितगर्मा । अयं भावः 'उमापतिवचनं प्रमाणमेवे त्यत्र विशेषणसङ्गतैयकारसमभिव्याहारात् प्रमाणत्वाऽयोगव्यवच्छेदः नव्यमतेन प्रमाणान्ययोगव्यवच्छदावा भवतु, तथापि 'महशवचसि प्रत्यक्षत्वेन न मानत्वम्', 'त्रिलोचनवचनं प्रत्यक्षत्वेन न प्रमाणं' इति प्रतीत्या विशेषरूपेण सामान्याभावस्य प्रत्यक्षत्वनिष्ठतादात्म्यसम्बन्धावच्छिन्नावच्छेदकतानिरूपित-प्रमाणत्वनिष्ठप्रतियोगिताकाऽभावरूपस्य विशेषरूपेण सामान्यभेदस्य प्रत्यक्षत्वनिष्ठावछेदकतानिरूपितप्रमाणसामान्यनिष्ठ-तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपस्य वा सिद्धी न सर्वथा तव्यवच्छेदः शक्यः ।
___कि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताका भावस्य प्रामाणिकत्वान् प्रमाणत्वावच्छिन्नप्रतियोगिताकस्य घटाभावस्य परमेवरवचसि सत्त्वात्कथं तद्व्यवच्छेदः । न च प्रमाणत्वावच्छिन्नम्रमाणनिष्ठप्रतियोगिताकस्य सामान्यरूपेण विशेषाऽभावसत्त्वे वा ताशतत्सामान्यनिष्ठप्रतियोगिताकस्याऽभावस्य व्यवच्छेद्यत्वान्न दोष इति वाच्यम, प्रमाणत्वेन प्रमाण-घटोभयाऽभावस्य तधात्वात् । न च प्रमाणभाननिष्ठानियोगितोपादानान्नदोष इति वक्तव्यम, तथापि 'शङ्करवचोघटौ न मानम्' इति प्रतीतेः शङ्कर.
योघटोभयत्वायच्छेदेन तादृशप्रमाणत्वावच्छिन्न प्रतियोगिताकाभावस्य सत्त्वेन तद्व्यवच्छेदाइयोगात्, त्रिपुरारिवचनत्वावछिन्नाधिकरणताकस्य च तादृशाम्भावस्य सिद्धयसिद्धिपराहतत्वेन व्यवच्छेतुमशक्यत्वात् । ततः प्रामाण्याप्रामाण्ययोगिरीशवचनेऽपि सत्त्वमुपगन्तव्यमायुष्मतेति साङ्कर्यम् । तदनुपगमे चेश्वरवचसि प्रत्यक्षानुमानादिवृत्तिप्रामाण्याशतेन परकीयधर्मसत्त्वलक्षणं सायमिति तन्न गीर्वाणगुरुणापि निवारयितुं शक्यम् । ___ अत एव "त्वत्तीर्थंकरवचनं किं सत्यं ? आहोस्वेिदसत्यमिति : सत्यमेवेति न युक्तम्, एकान्तवादप्रसङ्गात् । अथाऽत्रापि
से प्रवृत्ति-निवृत्ति नहीं हो सकेगी, क्योंकि निश्चितप्रामाण्यवाला वचन ही प्रवर्तक हो सकता है । जिनवचन में अपेक्षा से अप्रामाण्य का ज्ञान प्रामाण्य निश्रय का विरोधी है । अतः जिनवचन से प्रवृत्ति आदि की उपपत्ति के लिए भी जैन को जिनवचन में सर्वधा प्रामाण्य मानना उचित है । अतएव सप्तभंगी स्यादाद अप्रामाणिक सिद्ध हो जायेगा । इसलिए सर्वत्र एकान्तवाद ही उचित है ।
* सगी शिववचन में भी अव्याहत - अनेकान्तवादी अनेकान्तवादी :- अत्र बू. इति । अरे ओ, एकान्तवादी ! जरा हमारा भी जवाब सुनियेगा । आपने अरिहंतवचन || के विषय में जो आक्षेप किया है वह शिववचन में भी समान है। 'क्या आपके शंकर का वचन प्रमाण ही है ?' इस प्रश्न के प्रत्युत्तर में यह तो नहीं कहा जा सकता कि . शंकर भगवान का वचन प्रमाण ही है', क्योंकि वह अप्रमाण भी है। इसका कारण यह है कि परपरिचय से यानी अन्यवृत्ति धर्म की अपेक्षा वह प्रमाण नहीं है 1 शिववचन में आगमत्वरूप धर्म से प्रमाणत्व होने पर भी प्रत्यक्षत्व, अनुमानत्व, घटत्व आदि स्वाऽवृत्ति ब्यधिकरण धर्म की अपेक्षा प्रामाण्य नहीं है।