________________
*मुक्तावलीकारमतप्रतिक्षेपः* | 'भूतले घटो नास्ती'त्यत्र 'भूतलावच्छिन्नकालसम्बन्धाश्रयत्वाभाववान घट' इत्येव बोधात्, अन्यथा घढवत्यपि भूतले 'घटो नास्तीतिधियः प्रामाण्याऽऽपत्तेः ।।
== = =* जयलता * =-....-= प्रकरणकृत्तन्निराकरोति -नेति । विपक्षबाधमुन्मूलयति - 'भूतले घटो नास्ती' त्यत्र वाक्ये, सप्तम्यर्थों जन्यत्वम्, अन्वयश्चास्य बोधे । 'भूतलावच्छिन्नकालसम्बन्धाश्रयत्वाभाववान् घट' इत्येव बोधादिति 1 एक्कारेण भूतलास्तित्वाभाववान् घट' इत्याकारकबोधस्य व्यवच्छेदः कृतः । विपक्षबाधमुपदर्शयति- अन्यथेति । तत्र तादृशशाब्दबोधानुपगम इत्यर्थः । अयं समाधानग्रन्धाशयः महानसादी घटसत्त्वे घटशून्यभूतलदशायां घटे महानसाद्यवच्छेदेन कालसंसर्गाश्रयत्वस्य सत्त्वेऽपि भूतलावच्छेदेन कालसंबन्धाधिकरणत्वं नास्तीति 'भूतले घटो नास्तीति वाक्यात् 'भूतलावच्छिन्नकालसम्बन्धाश्रयत्वाभाववान घट' इत्याकारक एव शाब्दबोध उदेतीति स्वीकर्तुं युज्यते. न तु 'घटत्वेन घटाभावो भूतलनिरूपितवृत्तित्वाश्रय' इत्याकारकः । न च शब्दाsबोधितकालसामान्यस्य प्रकारांशे भानमप्रामाणिकमिति वाच्यम्, कालपदस्याऽस्तिपदसमभिव्याहारबलेन वर्तमानकालपरत्वात्, अस्तिपदादेव वर्तमानकालसंसर्गाश्रयत्वरूपस्य वर्तमानकालीनत्वस्योपस्थिते प्रामाणिकगौरवमपि । न च तथापि 'भूतले न घट' इत्यत्र का गतिः ? इति वक्तव्यम्, 'यवान्यक्रियापदं न श्रूयते तवास्तिर्भवन्तीपरः प्रयुज्यते' (न्या.संग्र.प्र.६५) इति वैयाकरणन्यायेन अस्तिपदाऽध्याहारात्, अन्यथाऽऽख्यातपददिरहेग वाक्यात्वानापत्तिः स्यात् । यदि च परेण 'भूतले घटो नास्ती' त्यत्र 'घटाभावो भूतलनिष्ठाधिकरणतानिरूपिताधेयतावान' इति शाब्दबोध उपेयते, तदा परमतेऽत्यन्ताभावस्य नित्यत्वेन भूतले घटसत्वदशायामपि 'भूतले घटो नास्तीति प्रमीत्यापत्तिः स्यात् । न च कालविशेषविशिष्टाधिकरणस्यात्भावसम्बन्धत्वो-: एगमेऽपि घटवति भूतले घटात्यन्ताभावबुद्ध्यापत्तिः निराकर्तुं शक्या, परमते विशिष्टस्य शुद्धानतिरिक्तत्वात् कालस्य नित्यत्वेन - कत्वेन च विशेषाभावाच्च । अत एव विशिष्टातिरिक्तवादिसार्वभीममतानुज्ञायामपि न निस्तारः, अतिरिक्ताभावमङ्गीकृत्य कालविशेषविशिष्टाधिकरणस्य तत्संसर्गत्वकल्पनापेक्षया घटे भूतलावच्छेदेन कालसंसगानाश्रयत्वकल्पनाया एव युक्तत्वाच । एतेन 'घटकालस्य सम्बन्धाघटकत्वात् अत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः' (मुक्ता.पृ.१६३) इति विश्वनाथपञ्चाननभट्टवचनमपि प्रत्याख्यातम् ।
किञ्च भूतले घटो नास्ती'त्यत्र 'भूतलवृत्तिर्यटा भावे इत्येव शाब्दबोध उपयते तदा तस्य 'भूतले घटोऽस्तीतिवाक्यजन्यबोधेन साकं विरोधो नोएपद्येत, ग्राह्याभात्रा नवगाहित्वात् । न हि समानप्रकारका भावाऽनवगाहिज्ञानविरोधः कदापि सम्भवति, अन्यथा भूतले घटसत्त्वे ‘पटो नास्ती'त्यादेरपि विरोधप्रसङ्गात् । अतो 'भूतले घटोऽस्ती' तिवाक्यजो घटविशेष्यकभूतलवृत्तित्वप्रकारकबोधो 'भूतले घटो नास्तीतिवचनजन्यो भूतलवृत्तित्वप्रकारकघटनिष्ठप्रतियोगिताप्रकारका भावविशेष्यकधियं नव विरुन्ध्यात् । तथा च भूतले घटसत्त्वदशायामपि “भुतले घटो नास्ती'तिज्ञानस्य प्रामाण्यं वज्रलेपायितं स्यात् ।
किञ्च 'प्रतियोग्यभावान्चयो तुल्ययोगक्षमा' विति नियमेन 'चंबा न पचती' त्यादी चैत्रे आश्रयतासम्बन्धेन पाकानुकूलकृत्यभावान्वयवत् 'भूतले नास्ति घट' इत्यत्रापि त्वदुक्तरीत्यैव घटविशेष्यकः झाब्दबोधः सिध्यति, अन्यथा सुबन्तविशेष्यताकशाब्दबोधनियमोऽपि विशीर्येत । एतेन 'भूतले न घट' इत्यादी नञोऽभाववल्लाक्षणिकतया भाववता सममनुयोगिनोऽभेदान्वयबोध | एवापयत इति तत्र 'घटाभाववदभिन्न भूतलमि' त्येव बोध उपजायत इति प्रत्युक्तम्, तथा सति 'भूतले यट' इत्यादिवाक्यजन्यबोधे 'भूतले न घट' इत्यादिवाक्यजबीधस्याऽविरोधित्वापनेः सर्वत्रा भाववत एव नार्थतया मुख्याधपरस्य नजओ दुर्लभत्वापत्नेश्च । अनेन तादृालक्षणाया बन्ध्यास्तनन्धयप्रियतमात्वमुपदर्शितम् । न हि मुख्यार्थांभाचे सति शक्यसम्बन्धरूपा लक्षणा सम्भवति ।
उत्तरपक्ष :- न भूत, इति । जनाब ! सप्तभंगी के द्वितीय भंग से घटाभाव में अस्तित्व का विधान न मान कर घट में नास्तित्व का विधान मानने पर आपने जो आपत्ति बताई कि -> 'तर "भूतले घटो नास्ति' इस वाक्य से अधिकरणतावगाही आकांक्षा का शमन न होने से निराकांक्ष शान्दवाथ अनुपपन्न हो जायेगा' - वह ठीक नहीं है । इसका कारण यह है कि 'भूतले घटो नास्ति' इस वाक्य से जिस शाब्दबोध का उदय होता है उसका आकार हम यह मानते हैं कि . 'भूतलावच्छिन्न कालसंबंधाश्रयताशून्यः घटः । इसका विश्लेपण हिन्दी भाषा में न्याय की परिभाषा के अनुसार यह होगा कि अन्यत्र = पर्वत आदि में घट विद्यमान होने से वह पर्वतादि अवच्छेदेन कालसंबंध का आश्रय है, मगर भूतलावच्छेदेन वर्तमान काल के संबंध का अनाश्रय = आश्रयताऽभाववाला है। मतलब कि उक्त प्रतीति का विशेप्य घट ही है, न कि घटाभाव । यहाँ यह शंका करना कि > "आप भले ही 'भूतले घटो नास्ति' इस प्रतीति को घटविशेप्यक मानो मगर