________________
भ
* अर्पणाविशेषस्य महकारित्वोक्तिः *
२३२
यथा च सामान्यतः शब्दः सर्ववाचकोऽपि संकेतविशेषं सहकृत्याऽन्वयं बोधयति तथेयमपि अर्पणाविशेषसहकृत्वरी सतीति ।
* जयलवध s
| स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः | १७| स्यादवक्तव्यमेवेति युगपद् विधिनिषेधकल्पनया चतुर्थः || १८ | स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः | १९| स्यान्नास्त्यंव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः | २० | स्यादस्त्येव स्यानास्त्येव स्यादतव्यमेवेति क्रमतो विधिनिषेधकल्पनया | युगपद्विधिनिषेधकल्पनया च सप्तम इति । २१२ विधिप्रधान एव ध्वनिरिति न साधु | २२| निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः |२३| अप्राधान्येनैव ध्वनिस्तमभिधत्त इत्यप्यसारम् | २४| क्वचित्कदाचित्कथञ्चित्प्राधान्येनाञ्प्रतिपन्नस्य तस्वाऽप्रावान्यनुपपत्तेः | २५ | निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् | २६ | क्रमादुभयप्रधान एवायमित्यपि न साधीयः | २७| अस्य विधिनिषेधान्यतरप्रधानत्वाऽनुभवस्याऽप्यबाध्यमानत्वात् |२८| युगपद्विधिनिषेधात्मनोऽर्थस्याऽवाचक एवाऽसाविति च न चतुरस्रन् |२९| तस्तशब्देनका १० विश्वात्मनोऽर्थस्य बाचकः सन्नुभयात्मनी युगपदवाचक एवं स इत्येकान्ताऽपि | न कान्तः ॥३१ । निषेधात्मनः सह् द्वयात्मनश्चाऽर्थस्य वाचकत्वाऽवाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् निषेधात्मनस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवाऽयमित्यप्यवधारणं न रमणीयम् । ३३ । इतरथाऽपि संवेदनात् ३४ क्रमाक्रमान्यामु| भयस्वभावस्य भावस्य वाचकश्चाऽवाचकश्च ध्वनिनन्यिथेत्यपि मिध्या १३५ । विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः | ३६ | एकत्र वस्तुनि विधीयमान- निषिध्यमानाऽनन्तधर्माऽभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥३७॥ विधिनिषेध| प्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् |३८| प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव | सम्भवात् । ३९३ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् |४०| तस्या अपि सप्तविधत्वं सप्तचैव तत्सन्देहसमुत्पादात् ॥ ४६ ॥ तस्याऽपि सप्तप्रकारकत्वनियमः स्वगोवरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥ ४२ ॥ इति । प्रायशो व्याख्यात्तत्वात् सुगमत्वाच्च हतानि विव्रियन्ते ।
नतु ख्याद्वादे सर्वेषामनन्तधर्मात्मकत्वेन कुतः विशेषधर्मबोधः तदितरधर्मविनिमॅणि सतभायाऽपि भविष्यति । न हि मधुविषसंपृक्तमनं विषं परित्यज्य समधु शक्यं शिल्पिवरेणाऽपि भोक्तुमित्याशङ्कायामाह यथा चेति । सामान्यतः शब्दः एकोऽपि शब्दः सर्ववाचकोऽपि सर्वार्थवाचकोऽपि विशेषतः संकेतविशेषं सहकृत्य संकेतविशेषसाचिव्येन, अन्वयं बोधयति = सङ्केतितार्थविशेषविषयकान्वयबोधं जनयति । तथा इयं सप्तभङ्गी अपि अर्पणाविशेषसहकृत्वरी सती विवक्षाविशेष साहाय्या सती उपसर्जनानुपसर्जनभावेन क्रमाक्रमाभ्यां प्रातिस्विकधर्मगोचरबोधं जनयतीति शेषः । अयं भावः 'सर्वे | शब्दाः सर्वार्धवाचकाः सति तात्पर्ये' इतिप्रवादेनकस्याऽपि शब्दस्य सर्वार्धिवाचकत्वं निसबाधं तथापि प्रतिनियतसंकेतसामर्थ्यात् | प्रतिनियतार्थबोधं जनयति यथा गुर्जरादी चोरशब्दस्य तस्करे द्रविडादौ पुनरोदने प्रतिनियतसङ्केतवशात्प्रतीतिरुपजायते तथेयमपि सप्तभङ्गी एकेनाऽपि भङ्गेन स्यात्पदमहिम्नाऽशेषधर्मं प्रतिपादने समर्थाऽपि भजनाविशेषसहकारेण गौण मुख्यभावेन क्रमिकाक्रमिकविवक्षितधर्मोपरागेण वस्तु बोधयति ।
—
प्रयोग करने पर ही वह प्रमाणभूत है, न कि अल्प भंगवाली का ।
संकेत भी शाब्दबोध में सहकारी है
C
यथा च इति । यहाँ यह शंका हो कि 'स्यात्पदगर्भित सप्तभंगी से अनंतधर्मात्मक वस्तु के प्रतिनियत धर्म का बोध कैसे होगा ?" तो इसका समाधान यह है कि जैसे एक ही शब्द सर्वार्थ का वाचक होने पर भी जिस व्यक्ति ने जिस अर्थ में संकेत का ग्रहण किया है उस व्यक्ति के प्रति वह शब्द तादृश संकेतित अर्थ का ही बोधक होता है ठीक वैसे ही यह सप्तभंगी विवक्षाविशेष के सहकार से विवक्षा के अनुसार ही आपेक्षिक धर्म का बोध कराती है । यहाँ यह कहना कि "सप्तभंगी तो शब्दविशेष के समूहात्मक है । अतः सप्तभंगी के श्रवण से तो श्रोता को शाब्दबोध होता है । शाब्दबोध में तो शक्तिनियामक होती है, न कि इच्छा । यहाँ तो आपने विवक्षा के सहकार से आपेक्षिक धर्म का बोध होने का कहा है । मगर विवक्षा- अर्पणा भी इच्छाविशेषस्वरूप ही है । इच्छामात्र शाब्दबोध में नियामक नहीं होती है, तो इच्छाविशेषरूप अर्पणा भी कैसे शाब्दबोध में नियामक होगी " - भी ठीक नहीं है । इसका कारण यह है