________________
* सप्तमङ्गीस्वरूपप्रकारानम् * | समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कित: सप्तधा वाक्प्रयोग: सप्तभङ्गीति सूत्रम् |
* जयलता एकत्रेति । प्रकृते 'एकत्र बस्तुनी' त्यत्र सप्तम्यर्थो विशेष्यत्वम् । “एकैकधर्मपर्यनुयोगवशादि' त्यत्र पञ्चम्यर्थः प्रयोज्यत्वम् । 'अविरोधेने' ति तृतीयार्थो वैशिष्ट्यरूपमवच्छिन्नत्वम् । “विधिनिषेधयो रित्यत्र सप्तम्यर्थः विषयत्वं, अन्वयश्च तस्य कल्पनापदार्थे । । 'कल्पनये' त्यत्र तृतीयार्थः प्रयोज्यत्वम् । 'म ति सप्तनिधः । मंग्लागा. पर्यापिसा बन्नारचयबोधे साकाङ्क्षत्वात् प्रकृते एक| वस्तुविषयककैकधर्मगोचरप्रश्नप्रयुक्ताविरुद्धव्यस्तसमस्तविधिनिषेधविषयककल्पनाप्रयुक्त-स्यात्पदलाञ्छितसप्तविधत्वपर्याप्तिमवचनप्रयोगः सप्तभङ्गीति श्रीवादिदेवसूरिसूत्रशब्दार्थः ।
___ अन श्रीरत्नप्रभाचार्यकृतव्याख्यालेश एवम् -> "एकत्र जीवादी वस्तुन्यककसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादि- .. बाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारः वचनविन्यासः सप्तभङ्गी विज्ञेया । भज्यन्ते भिद्यन्तेऽर्थाः यस्ते भङ्गाः = वचनप्रकाराः । ततः सप्तभङ्गाः समाहृताः सप्तभङ्गीति कथ्यते । नानावस्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनार्धमेकत्र वस्तुनीत्युपन्यस्तम् । एकत्राऽपि जीवादी वस्तुनि विधायमान-निषिध्यमानानन्तधर्मपालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनाथमकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्तेष्वपि हि धर्मेषु प्रतिधर्मं पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् तत्प्रतिवचनस्याऽपि सप्तविधत्वमेवोपपन्नमित्येककस्मिन् धर्मे एककेच सप्तभङ्गी साधीयसी । एवञ्चाउनन्तधर्मापेक्षया सप्तमङ्गीनामानन्त्यं यदायाति तदभिमतमेव । एतच्चाञ्ग्रे सूत्रत एव निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वाऽनुषङ्गभङ्गार्थमविरोधेनेत्युक्तम्" <- (प्र.न.त.. ४/१५ रत्ना.अव.)
'प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गी'ति दिगम्बरीयलक्षणम् ।
प्रकरणकारो न्यायविशारदस्तु अष्टसहस्रीतात्पर्यविवरणे -> "एकत्र वस्तुनि सत्त्वाऽसत्त्वादिसप्तधर्मप्रकारकशाब्दबोधजनकता. पर्याप्त्यधिकरणं वाक्यं सप्तभङ्गीति लक्षणतात्पर्यम् । विरोधस्फूर्ती वाक्यस्याऽबोधकत्देनैव ‘अविरोधेने' त्यस्य गतार्थत्वात् । प्रश्नस्य च क्वाचित्कल्वाच्छिष्यजिज्ञासयेव क्वचिद् गुरोर्जिज्ञापयिषयैव सप्तभङ्गीप्रयोगसङ्गतेः 'प्रश्नवशादित्यस्याऽपि लक्षणे प्रवेशात् । नानावस्तुनि सत्त्वाऽसत्त्वादिचोधकवाक्येऽतिप्रसङ्गवारणाय 'एकत्र वस्तुनी' ति । एकत्र रूपरसादिधर्मसप्तकबोधकेऽतिप्रसङ्गवारणाय 'सत्त्वाऽसत्त्वादी'ति । खण्डवाक्ये तद्वारणाय पर्याप्तिः । प्रमाणसप्तभङ्गीवनयसप्तभङ्गचा अपि लक्ष्यत्वान्न तवाडतिव्याप्तिः । प्रमाणनयसप्तभङ्गयोः पृथक् पृथक् लक्ष्यत्वे तु सकलादेशत्व-विकलादेशत्वे विशेषणे देये । एकत्र बस्तुन्येकपर्यायनिरूपितविधिनिषेधकल्पनामूलसप्तधर्मप्रकारकोद्देश्यशाब्दबोधजनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गी, धर्मिणो देशसर्वभेदेनैकद्विबहुवचनान्ततया चरमपदोन्नीत्या बहुभेदसम्भवेऽपि फलीभूतबोथे सप्तधर्मप्रकारकोद्देश्यताया अक्षतत्वान्नाऽव्याप्तिरित्यपि केचित्'' <- (अ.स.वि.परि. १।श्लो. १४/पृ.१८६) इति विवृतवान् । ___ सप्तभङ्गीतरङ्गिणीकार आशाम्बरो चिमलदासस्तु "प्राश्निकप्रश्नज्ञानप्रयोज्यत्वे सति, एकवस्तुविशेष्यकाऽविरुद्धविधिप्रति
<- तो इसका समाधान देने के लिए व्याख्याकार श्रीमद्जी प्रमाणनयतत्त्वालाकालंकार शास्त्र के सूत्र को बताते हैं । इस सूत्र का अर्थ यह है कि - एक ही वस्तु में एक-एक धर्मसंबंधी प्रश्न के सबस, प्रत्यक्षादि प्रमाण का विरोध न हो इस तरह, पृथक् या स्वतंत्र विधि-निषेध की कल्पना से स्यात् पद से युक्त सात प्रकार के बचनप्रयोग के समूह को सप्तभंगी कहते हैं । पाठकों की सुगमता के लिए यहाँ एक ही स्थल पर सात भंग का संक्षेप से निरूपण किया जाता है। (१) घट में कथंचित् = द्रव्यत्व की अपेक्षा नित्यत्व है, (२) कथंचित् = पर्यायत्व की अपेक्षा अनित्यत्व है, (३) क्रमशः द्रव्यत्त्व-पर्यायत्व की अपेक्षा स्यानित्यत्वाऽनित्यत्व है, (४) एक की काल में द्रव्यत्व-पर्यायत्व की अपेक्षा से विचार करने पर घट में 'स्यात्अबक्तव्यत्व धर्म रहना है (५) द्रव्यत्व की अपेक्षा और द्रव्यत्व-पर्यायत्वोभय की अपेक्षा घट में स्याद् नित्यत्व और स्याद् अवक्तव्यत्व धर्म रहता है, (६) पर्यापत्व की अपेक्षा और द्रव्यत्व-पर्यायत्वोभय की अपेक्षा घट में स्याद् अनित्यत्व और स्यात् अवक्तव्यत्व धर्म रहता है (७) क्रमशः पृथक पृथक् द्रव्यत्व और पर्यायत्व नथा युगपत् द्रव्यत्व-पर्यायत्वोभय की अपेक्षा घट में स्याद् नित्यत्व, स्यात् अनित्यत्व और स्याद् अवक्तव्यत्व धर्म रहता है । जिसे इन . धर्मों के विपय में संशय होता है कि - घट सर्वथा नित्य ही होगा ? या अनित्य भी इत्यादि, उस पुरुष को घट में रहे हुए इन ७ धर्मों को जानने की इच्छा उत्पत्र होती है । यह तो स्वाभाविक ही है कि जिस पुरुष को जिन धर्मों की जिज्ञासा होती है वह या तो स्वयं विचारविमर्श कर के