Page #1
--------------------------------------------------------------------------
________________
श्रीआत्मानन्द-ग्रन्थरत्नमाला - चतुस्त्रिंशं रत्नम् ( ३४ ) महोपाध्याय श्रीजिनमण्डन गणिविरचितः कुमारपालप्रबन्धः ।
न्यायाम्भोनिधिश्रीमद्विजयानन्दरिशिष्यप्रवर्तक श्रीमत्कान्तिविजय मुनिपुङ्गवशिष्यमुनिश्रीचतुरविजय संशोधितः ।
|म्भोनिधिश्रीमद्विजयानन्दसूरिप्रशिष्य श्रीमद्हंसविजय मुनिपुङ्गव शिष्यमुनिश्री दोलतविजयोपदिष्टअहिलपुर पत्तनवास्तव्य श्रीमालिज्ञातीयश्रेष्ठि- नथुचन्द्र-तनुज - लल्लुचन्द्र-द्रव्यसाहाय्येन प्रकाशयित्री - भावनगरस्था-श्रीजैन आत्मानन्दसभा |
इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभुवनदास गांधी सेक्रेटरी जैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीध्यां २३, तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । संवत्. २४४१
आत्मसंवत् १९.
विक्रमसंवत्. १९७१.
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jaina Atmananda Sabha, Bhavanagar.
Page #3
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ कुमारपालप्रबन्धप्रस्तावना ॥
- -- इह खल्वनादिजिनेन्द्रशासने जैनधर्मसमाराधनसमुपार्जितप्रबलपुण्यप्राप्तैहिकसुखसन्ततिसंभारभासुराः सदाचरणोपचीयमानकुन्देन्दुधवलकीर्तिकौमुदीधवलिताखिलदिग्वलयाः प्रचण्डभुजबलाकम्पितनिखिलभुवनाद्भुतसुभटवृन्दाः प्रतिपन्नपारमेश्वरीपञ्चव्रतीप्रतिपालनप्रचण्डपराक्रमपराजितपरीसहचमूचक्राः सुरासुरकृतातिघोरासह्योपसर्गवातैरपि सुपर्वपर्वतवत्स्थिरस्थामानो दृढधर्माणो गुणभूरयो भूरयो महात्मानोऽभूवन् , तेषां जगजनमनोरञ्जकान्यनेकानि चारुचरित्राणि पूर्वमहर्षिभी रचितानि परीवृत्त्यन्ते, परं प्रतिसमयहीयमानबुद्धिबलशरीरसामर्थ्यादिवैभवे करालकलिकालकवलीकृतसंख्यातीतसत्पुरुषेऽस्मिन्नवसर्पिणिकालेऽपि जिनशासनविशालविहायस्तलविभासनभास्कराः धर्मकर्मणि दृढनिश्चयाः सूरिशेखरा जावडभावडाभूविमलमन्त्रीश्वरप्रमुखाः श्रद्धालवश्चानेके संजाताः सन्तीति विदितमस्ति, तथाऽपि पूर्वोत्तमपुरुपानन्दकामदेवाद्याचरितश्राद्धधर्मादप्यतिशायिसम्यक्त्वमूलद्वादशव्रतपरिपालनदृढनिश्चयस्य संप्राप्तसमग्रगूजरावन्यवनिपालप्रभुत्वस्य निरतिचारचारुचारित्राचाराचरणचणश्रीमद्देवचन्द्राचार्यविनेयावतंसकलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्यसूरिपङ्गवप्रतिबोधितस्य परनारीसहोदरपरमार्हतराजर्षिविचारचतुरमुखसंप्राप्तबिरुदगरीष्ठस्य श्रीकुमारपालदेवस्य तथा श्रीमहेमचन्द्राचार्यस्यापि सद्भूतगुणोत्कीर्तनोत्पन्ननिरुपमभक्तिभरसमुल्लसितमानसैर्महोपाध्यायश्रीजिनमण्डनगणिभिः १ श्रीहे
JainEducation
For Private Personel Use Only
ww.jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
कुमारपाल
॥ १ ॥
मचन्द्राचार्यविरचित- प्राकृतसंस्कृतद्व्याश्रय- २ श्रीकुमारपाल भूपालसमनन्तरसंजातश्री अजयपालमन्त्रियशः पालकृत - मोहपराजयनाटक- ३ श्रीसोमप्रभाचार्यविरचित- कुमारपालप्रतिबोध ( हेमकुमारचरित्र ) - ४ श्रीप्रभाचन्द्राचार्यविरचितप्रभावक चरित्र - ५ श्रीमेरुतुङ्गाचार्यकृत-प्रबन्धचिन्तामणि - ६ श्रीसोमतिलकसूरिकृत- कुमारपालचरित्र - ७ श्रीराजशेखरसूरिकृत - चतुर्विंशतिप्रबन्ध-८ श्रीजयसिंहसूरिकृत- कुमारपालमहाकाव्य - ९ संवत् १४७५ मितवर्षलिखितकर्तृनामरहितकुमारपालप्रबन्ध - १० श्रीचारित्रसुन्दरगणिकृत - कुमारपाल चरित्रादिभ्य एकीकृत्यावच्छिन्न गुरुपारम्पर्येणागतं श्रुत्वा च विशेषार्थिनां हितहेतवे सिद्धराजजयसिंहाद्यनेकसत्पुरुषसद्भूतवृत्तान्तोपवर्धितः कुमारपालप्रबन्धनामाऽयं ग्रन्थो विरचित इति संभाव्यते ।
प्रबन्धस्यास्य निर्माणकालस्तु प्रबन्धावसानगतस्य -
"प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपद्यैर्नवैः कैश्चित्, कैश्चित् प्राक्तननिर्मितैः ॥ १ ॥
श्री सोमसुन्दर गुरोः, शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना, द्व्यङ्कमनु १४९२ प्रमितवत्सरे रुचिरः ॥ २ ॥ इति पद्यद्वयस्य निर्वर्णनेन वैक्रमीये द्विनवत्युत्तरचतुर्दशशतप्रमितवत्सरेऽस्य निर्माणकालः स्फुटमेवावगम्यते । अस्य प्रबन्धस्य प्रणेतारः कदाऽभूवन् ? इत्यादिविषयनिर्णयस्तु मुद्रितश्राद्धगुणविवरणप्रस्तावनातोऽवगन्तव्यः । अस्मिन् प्रबन्धे प्रबन्धकारैश्चापोत्कटवंश मौक्तिकवनराजजन्मारण्यपरिभ्रमणराज्यप्राप्तिनवीन राजधानिनिवेशादिकरणम्, चौलुक्यवंशीयमूलराजोत्पत्तिचामुण्डवल्लभसेनदुर्लभराजभीमदेव कर्णराजप्रभृतीनां वृत्तान्ताद्युपदर्शनम्, सिद्धराज -
प्रस्तावना.
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
**
*REENERASS
जन्मराज्यप्राप्तिमालवीयराजविग्रहादिनिरूपणम्, श्रीहेमचन्द्राचार्यजन्मदीक्षाग्रहणविद्याभ्याससूरिपदप्राप्तिविद्यासिद्धिसिद्धराजसमागमधर्मोपदेशनवीनव्याकरणकरणकुमारपालसमागमोदयनमन्त्रिसंबन्धकुमारपालसंरक्षणदेशाटनसिद्धराजमरणकुमारपालराज्यप्राप्तिराज्यव्यवस्थाकरणशाकम्भरीशपराजयकरणचन्द्रावतीशराज्योत्थापनादिस्वरूपम् , श्रीसोमेश्वरनवीनप्रासादकरणनियमधारणतद्यात्राप्रतिष्ठार्थप्रयाणकरणहेमाचार्यागमनसोमेश्वरसाक्षात्करणतत्त्वनिर्णयपत्तनागमनादिस्वरूपम् , श्रीहेमचन्द्राचार्यधर्मोपदेशश्रवणकुमारपालधर्मप्राप्तिदेवबोधिसंन्यास्यागमनेन्द्रजालोपदर्शनस्वाज्ञावर्तिजनपदामारिपटहोद्घोषणदेवतोपसर्गकृपासुन्दरीपाणिग्रहणश्राद्धद्वादशव्रताङ्गीकाररुदतीवित्तपरिहारजीर्णोद्धारनवीनप्रासादनिर्मापणतीर्थयात्रादिसुकृतनिरूपणम् , उदयनमन्त्रिसौराष्ट्रगमनतीर्थयात्राभिग्रहग्रहणरणरङ्गस्वर्गगमनाद्युपदर्शनम् , वाग्भटायदे-- वविहितात्यद्भुतसुकृतादिवर्णनम्, कुमारपालप्राच्यभवपृच्छातन्निर्णयकरणाद्यनेकसुकृतोद्भावनम्, श्रीमद्हेमचन्द्राचार्यसुगतिगमनकुमारपालवैराग्याजयपालदुष्टचेष्टितकुमारपालस्वर्गमनादिस्वरूपनिरूपणम् , इत्यादिका विषया अस्मिन् प्रबन्धेः सुप्रपञ्चं प्रपञ्चिताः सन्ति ।
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरप्रशिष्यश्रीमद्हसविजयमुनिपुङ्गवशिष्यमुनिश्रीदोलतविजयोपदिष्टश्रीमदणहिल्लपुरपत्तननिवासिना जिनपतिमतपरमश्रद्धासंशुद्धमानमानसेन विहितानेकसुकृतोपचीयमानामन्दपुण्यप्राग्भारेण श्रीमा-| लिज्ञातीयवेष्ठि-नथुचन्द्र-आत्मज-लल्लुचन्द्रेण स्वकीयश्रेयोनिमित्तं परोपकृतये चास्य प्रबन्धस्य मुद्रणोपयोगि परिपूर्णद्रव्यसाहाय्यं दत्तं तत्पशंसाहम् ।
Jain Education Intema
For Private
Personel Use Only
Page #6
--------------------------------------------------------------------------
________________
प्रस्तावना.
कुमारपाल
अस्य संशोधनसये पुस्तकानां पञ्चकं समासादितम् । तत्र द्वे पुस्तके प्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवसत्के । एक
सुरतनगरस्थसीमन्धरजिनप्रासादगतपुस्तकभाण्डागारसंबन्धि । एकं प्रज्ञानांसश्रीमद्वीरविजयमुनिसत्कम् । एकं श्रीमदण॥ २ ॥
हिल्लपुरपत्तनस्थतपगच्छीयपुस्तकभाण्डागरसत्कम् ।
__ एतत्पुस्तकपञ्चकाधारेण संशोधनकर्मणि साहाय्यमुपलभमानोऽहं पुस्तकसमर्पणोदाराणाममीषां महाशयानां महतीं परोदिपकृति स्मृतिगोचरतां नयामि ।
एतत्पुस्तकपञ्चकाधारण महता प्रयासेन संशोधितेऽप्यत्र प्रबन्धेऽस्मदृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र वचनाशुद्धिः। कृता जाता वा भवेत्तत्र संशोधनीयं करुणावरुणालयैर्विपश्चिदपश्चिमैरिति प्रार्थयते
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्यचन्द्रग्रंङ्केलाब्दे, वैशाखसितप्रतिपदि गुरुवारे। ।
प्रवर्तकश्रीकान्तिविजयविनेयपरमाणुः चतुरविजयेन पत्तननगरे प्रस्तावना दृब्धा ॥१॥
चतुरविजयो मुनिः।
KURSAIRAA*****
*
Jain Education Interational
For Private & Personel Use Only
Page #7
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरचरणकमलेभ्यो नमः ॥ महोपाध्यायश्रीजिनमण्डनगणिकृतः कुमारपालप्रबन्धः।
ACCUSAUTE
ॐ नमः श्रीमहावीरजिनेन्द्राय परात्मने । परब्रह्मस्वरूपाय जगदानन्ददायिने ॥१॥ सार्वाः सर्वेऽपि कुर्वन्तु करस्थाः सुखसंपदः । स्वनामस्थापनाद्रव्यभावैः पावितविष्टपाः ॥२॥ जीयात्स श्रीगुरुः सूर्यः सदाऽभ्युदयभासुरः । यस्य वाचःप्रभाः शश्वद्विश्वभासनलालसाः ॥३॥ सुमनःसुमनोभृङ्गी संगीतगुणवैभवा । सरस्वती जगन्माता पुनीयान्मे सरस्वतीम् ॥ ४ ॥ भूवासवा बभूवांसो भूयांसोऽपि प्रभावकाः। श्रावकाः श्रेणिकाद्याः श्रीजिनाज्ञापालकाः परम् ॥५॥ जगदत्यद्भुतामारिकारकत्वादिकैगुणैः । कुमारक्ष्मापतेः कोऽपि तुलां प्राप न भूपतिः ॥ ६ ॥ युग्मम् ॥
उक्तं च" आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरा-दब्दान्येव चतुर्दश प्रसृमरी मारि निवायौंजसा । कीर्तिस्तम्भनिभाँश्चतुर्दशशतीसंख्यान् विहारास्तथा, कृत्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम्" ॥१॥
KARALISASI
Jain Education Intematon
For Private
Personel Use Only
Page #8
--------------------------------------------------------------------------
________________
कुमारपाल
॥ १॥
तथा
"समुच्छिन्दन् मारिं समितिनिपुणः प्रास्तकुनयः, क्षमापालः श्रेयानहितविषयग्रामविजयी । विहारैर्भूभूषामकृत कृतबह्वर्थनिचय - श्चिरं हेमाचार्यप्रभुरथ कुमारो नरपतिः ॥ १ ॥” ततश्चौलुक्य वंशैक मौक्तिकस्य महौजसः । श्रीहेमचन्द्रसूरीन्द्रपदपद्मोपसेविनः ॥ ७ ॥ जिनकल्परसावेशोलासलासितचेतसः । कृपैकप्राणनाथस्य पेरार्हतशिरोमणेः ॥ ८ ॥ राज्ञः कुमारपालस्य स्वरसज्ञापुपूषया । संबन्धयोजनापूर्व प्रबन्धं वच्मि किंचन ॥ ९ ॥ त्रिभिर्विशेषकम् ॥ तत्र वंशाः षटूत्रिंशत् ३६, एवम् - इक्ष्वाकुवंश १ सूर्यवंश २ सोम ३ यादव ४ परमार ५ चाहमान ६ चौलुक्य ७ छिन्दक ८ सिलार ९ सैन्धव १० चापोत्कट ११ प्रतीहार १२ चन्दुक १३ राट १४ कूर्पट १५ शक १६ करट १७ पाल १८ करंक १९ वाउल २० चन्देल २१ उहिल्लपुत्र २२ पौलिक २३ मौरिक २४ मंकुयाणक २५ धान्यपालक २६ राजपालक २७ अमङ्ग २८ निकुम्भ २९ दधिलक्ष ३० तुरुदलियक ३१ हूण ३२ हरियड ३३ नट ३४ माप ३५ पोषर ३६ नामानः । तेषु चौलुक्यवंशे षटूत्रिंशलक्षग्रामाभिरामे कन्यकुब्जदेशे कल्याणकटकपुरे श्रीभूयडराजा राज्यं करोति । तेन राज्ञा स्वपुत्र्या महणलदेव्या गुर्जरधरित्री कञ्जुकपदे दत्ता । इतश्च गूर्जरत्रैकदेशे वढियारदेशे पञ्चासरग्रामे बहिष्प्रदेशे श्री| शीलसूरयः शकुनावलोकनार्थ प्राप्ताः । वनगहनमध्ये वृक्षशाखानिवद्धझोलिकं बालकमेकं दृष्ट्वा समीपस्थां तन्मातरमूचुः । १ "परमार्हतराजर्षेः" इत्यपि । २ "सर्वजीवानुकम्पिनः" इत्यपि ॥
प्रबन्धः ।
112 11
Page #9
--------------------------------------------------------------------------
________________
KARACHCCASEARS
भद्रे ! काऽसि त्वम् ? । तयोक्तम्, अहं राजपत्नी कन्यकुब्जीयश्रीभूयडराजभयेन चापोत्कटकुलकमलबन्धोरस्य पुत्रस्य गोपनार्थमत्र स्थिताऽस्मि । ततः श्रीसूरिभिरपराह्वेऽपि तद्वृक्षच्छायामनमितामालोक्य कोऽप्ययं महानरेश्वरो भावीति तत्स्वरूपं श्राद्धानामावेद्य प्रच्छन्नमानाय्य तस्य रक्षा कारिता । स च बालकः श्रीगुरुदत्तवनराजनामाऽष्टवार्षिको राजचिह्नः क्रीडन्नपरबालकासह्यतेजाः समभूत् । यतः
"पीऊण पाणियं सर-वरंमि पिढि न दिति सिहिडिंभा। होही जाण कलावो, पयइ चिअ साहए ताण ॥१॥"
ततः श्राद्धैर्मातुः समर्पितः सन् स चौरमातुलेन सह धाट्यादौ परिभ्रमन्नन्यदा काकरग्रामे धनिगृहे खात्रं दत्वा प्रविष्टो दधिभाण्डे करे पतिते भुक्तोऽहमति सर्व हित्वा गतः। प्रातस्तत्पुत्र्या श्रीदेव्या गोरसे हस्ताङ्गलिचिह्नानि घृत-| भृतानि दृष्ट्वा कोऽप्ययं महापुरुषो भाग्यवानिति तं बान्धवत्वेन प्रतिपद्य तं दृष्ट्वा भोक्ष्यामीति कृतप्रतिज्ञया तत्स्वरूपमाकर्ण्य रात्रौ समागतो वनराजो गुप्तवृत्त्या भोजनवस्त्रादिना सत्कृतो मम राज्याभिषेककाले त्वयैव भगिन्या तिलकः कार्यः, इति प्रतिज्ञाय गतः। अन्यदा वनराजेन क्वापि वने जाम्बाको वणिग् रुद्धः शरपञ्चकमध्यात् शरद्वयं भूमौ मुञ्चन् पृष्टः कारणं प्राह, यूयं त्रयो जनाः शरास्तु पञ्च तेन द्वाभ्यामधिकाभ्यां किं प्रयोजनमिति प्रोक्त कोऽप्ययं सत्त्वशालीश्वरः पुमान् मम राज्यकाले महामात्यो भावीति मुक्तो जाम्बाकः कृतप्रणामः किमपि शम्बलादिकं दत्वा गतः । एकदा गूर्जरत्रापञ्चकुलं षण्मासैरुद्राहितसुराष्ट्रमण्डलं चतुर्विंशति २४ लक्षहैमनाणकान् चतुःशत ४०० जात्यतुरङ्गमान् लात्वा व्याघुट्यमानं पथि वनराजेन हत्वा सर्व जगृहे । ततो वर्ष यावत् कालुंभारवने स्थितिं कृत्वा कन्यकुजराज्यस्थितिरुत्था-15
ACCAKACCURACCORDCAS
For Private & Personel Use Only
Page #10
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाल पिता । ततो नवीनपुरनिवेशाय भूमि विलोकयता वनराजेनाणहिलो नाम गोपः प्राप्तः, तेन यत्र शशकेन श्वा त्रासितस्त
स्थानं दर्शितम्। ततस्तन्नाम्नाऽणहिलपुरं पत्तनं सकलवास्तुविद्याविचारपुरःसरप्राकारप्रतोलीपरिखाप्रासादविहारहर्म्यहस्ति॥२॥
शालातुरङ्गमशालाभाण्डागारकोष्ठागारायुधशालाराजसभाऽलंकारसभास्नानगृहभूमिगृहधर्मशालादानशालासत्रागारपानीयशालानाट्यगृहक्रीडनगृहशान्तिगृहशल्यशालाचन्द्रशालादिभिर्विशालं स्थापितम् । ततः पञ्चाशद्वर्षवयसो वनराजस्य राज्याभिषेकः श्रीपत्तने संवत् ८०२ वर्षे श्रीशीलगुणसूरिभिजैनमन्त्रै राज्यस्थापना कृता । तदा पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे, तस्या महाप्रसादः । जाम्बाकः सर्वराजकार्यक्षमो महामात्यः समभूत् । श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पञ्चासरग्रामे श्रीपार्श्वनाथप्रतिमालङ्कृतं निजाराधकमूर्तियुतं प्रासादमचीकरत् ।
गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । स्थापितं जैनमन्त्रैस्तु तद्वेषी नैव नन्दति ॥१॥ इति लोके प्रसिद्धिरभूत् । ततः षष्टि ६० वर्ष वनराजराज्यम् १, पञ्चत्रिंशद्वर्ष ३५ तत्पुत्रयोगराजराज्यम् २, पञ्चविंशतिवर्ष २५ क्षेमराजराज्यम् ३, एकोनत्रिंशद्वर्ष २९ भूयडराजराज्यम् ४, पञ्चविंशतिवर्ष २५ वैरसिंहराज्यम् ५, पञ्चदश-18
वर्ष १५ रत्नादित्यराज्यम् ६, सप्तवर्षे ७ सामन्तसिंहराज्यम् ७, एवं चापोत्कटकुले सप्त राजानोऽभूवन्।एवं वषाणि १९६।। है ततो दौहित्रसन्ताने चौलुक्यकुले राज्यं गतम् । कथं गतम् ? तथा चाह-कन्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः
कर्णादित्यः, तत्पुत्रश्चन्द्रादित्यः, तत्सुतः सोमादित्यः, तत्पुत्रो भुवनादित्यः, तस्य राज-बीज-दण्डक-नामानस्त्रयः पुत्राः। 18 तेषु प्रथमो राजकुमारः
Jain Educaton International
For Private & Personel Use Only
Page #11
--------------------------------------------------------------------------
________________
दीसइ विवहचरियं, जाणिजइ सुयणदुजणविसेसो । अप्पाणं च कलिज्जइ, हिंडिजइ तेण पुहवीए ॥१॥ इति विचार्य देशान्तरेषु परिभ्रमन् देवपत्तने सोमनाथयात्रां कृतवान् । तत्र च स्वमे त्वया पत्तने गत्वा सामन्तसिंहभगिनीलीलादेवीपाणिग्रहः कार्यः, इति सोमनाथवचसा श्रीपत्तने समायातः। सामन्तसिंहनृपं वाहकेली कुर्वन्तं दृष्ट्वाऽश्वघाते राज्ञा दत्ते राजकुमारोऽनवसरदत्तेन कशाघातेन पीडितो हाहेति शब्दमकरोत् । राज्ञा कारणं पृष्टोऽवदत् , देव ! | अश्वे कृतशोभनगतौ कशाघातो मम मर्माभिघातः संजातः। ततो राज्ञा तस्यार्पितोऽश्वः। तेन चावशिक्षाकुशलेन दर्शितं वाहकेली कौतुकम् । जातस्तयोः सदृशो योगः। यतः
"अश्वः शस्त्रं शास्त्र, वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ताः, भवन्त्ययोग्याश्च योग्याश्च ॥१॥" ततः सामन्तसिंहेन नृपेणाचारादिभिर्महत्कुलमाकलय्य____ "अभयंताण वि नजइ, माहप्पं सुपुरिसाण चरिएणं । किं बुलंति मणीओ, जाउ सहस्सेहिं घिप्पंति ॥१॥"
इति संचिन्त्य राजकुमारस्य महताग्रहेण लीलादेवीनाम्नी स्वभगिनी ददे । अन्यदा कालान्तरे साऽऽपन्नसत्त्वा जाता। तस्या अकाण्डमरणे सचिवैरुदरं विदार्य कर्षितमपत्यम् । मूलनक्षत्रे जातत्वान्मूलराजोऽयमिति नाम कृतम् । लोकेऽयो. निसंभवत्वेन च चमत्कारकारी । तजन्मतो राज्यादिवृद्धिं दृष्ट्वा मदमत्तेन सामन्तसिंहेन स राज्येऽभिषिच्यते, गतमदेन ते चोत्थाप्यते । तदादिचापोत्कटानां दानमुपहासाय जातं लोके । 'यदुत चाउडानीदाति' । एकदा मदमत्तेन स्थापितो
राज्ये मूलराजः । तेन च विकलोऽयं मातुलः, इति विनाशितो गृहीतं स्वयमेव राज्यम् । ९९८ वर्षे जातोराज्याभिषेकः।
-STOCCASSROOMSAMACANCY
Jan Education Intematonal
For Private 3 Personal Use Only
www.ainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
कुमारपाल
स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपालः स्वबलेन लापाकं नृपं जितवान् । तत्स्वरूपं यथा-परमारवंशे।
प्रबन्धः । कीर्तिराजसुता कामलता । शैशवे सखीभिः सह रममाणाऽन्धकारे प्रासादस्तम्भान्तरितं फूलहडाभिधं पशुपालं वृत्त्वा(ता)। ततः कतिपयैवर्षेः प्रधानवरेभ्यो दीयमाना पतिव्रता व्रतपालनाय तमेवोपथमे । तयोः पुत्रो लाषाकः । स च कच्छाधिपः सर्वतोऽप्यजेयः । एकादशकृत्वस्त्रासितमूलराजसैन्यः । एकदा कपिलकोटे स्थितो मूलराजेन रुद्धो द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्ये दिने निजकुलदैवतमनुस्मृत्य ततोऽवतीर्णदैवतकलया लापाको निजघ्ने । तस्याजौ भूप-18 तितस्य वातचलिते श्मश्रुणि पदं स्पृशन मूलराजस्तजनन्या पतिव्रतातीव्रतनिष्ठया लूतारोगेण भवदश्या विनश्यन्तु, इति शप्तः । मूलराजः पञ्चपञ्चाशद्वर्षाणि राज्यं कृत्वा एकदा सान्ध्यनीराजनानन्तरं ताम्बूले कृमिदर्शनाद्गजादिदानं दत्वा संन्यासपूर्व दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वाऽष्टादशप्रहरैः परलोकमगात् । ततो वर्षत्रयोदशं १३ चामुण्डराजराज्यम् । षण्मासान ६ वल्लभराजराज्यम् । एकादश वर्षाणि ११ षण्मासान् ६ दुर्लभराजराज्यम् । स स्वपुत्रं श्रीभीमं राज्ये न्यस्य स्वयं वैराग्यवान् तीर्थयात्रां कुर्वन् मालवके गतः। श्रीमुञ्जेन छत्रादिकं मुश्च युद्धं वा कुरु, इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कापटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः। भीमस्य वृद्धा राज्ञी वकुलदेवी तस्याः पुत्रः क्षेमराजः; द्वितीया उदयमती तस्याः सुतः कर्णदेवः । तौ परस्परं प्रीतिभाजौ यथा रामलक्ष्मणौ । अन्यदा कर्णमात्रा तोषितेन भीमेन लघोरपि कर्णस्य राज्यं प्रतिपन्नम् । द्विचत्वारिंशद्वर्षाणि राज्यं कृत्वा भीमे दिवं गते सति
॥
३
॥
26
in Education intentana
For Private & Personel Use Only
Page #13
--------------------------------------------------------------------------
________________
सौन्दर्यवर्यगाम्भीर्य-प्रज्ञाबुद्धिगुणोत्तमे । राजक्षमे क्षेमराजे कों, राज्यं न वाञ्छति ॥१॥
राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् ॥२॥ अथ भोगी कर्णः, इति लोके ख्यातस्य तस्यैका राज्ञी मयणल्लदेवी, तस्या एवं स्वरूपम् । यथा-कर्णाटदेशे जयकेशी राजा, तस्य सुता मयणल्लदेवी कुरूपा ।सा चान्यदा पितुः पार्श्वस्था सदसि सोमेश्वरयात्रिकैः सोमनाथयात्रास्वरूपे कथ्यमाने पूर्वभवमस्मार्षीत् । यदहं पूर्वभवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापने दत्वा सोमनाथयात्राकृते वजन्ती बाहुलोडनगरं प्राप्ता । तत्र तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना चाहमागामिभवेऽस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विपद्य राज्ञः सुता जाता। तदनु जातिस्मरणवती बाहुलोडकरमोचनाय गूर्जरेश्वर श्रीकर्ण वरं कामयमाना पितुः स्वरूपं निवेदितवती । जयकेशिराज्ञा श्रीकर्णाय दत्ता । स च तस्याः कुरूपतां निशम्य तस्यां मन्दादरोऽभूत् । जनकेनापि एतज्ज्ञात्वा स्वसुतायास्तस्मिन्नेव निर्बन्धपरतां च विज्ञाय तामेव स्वयंवरामेककोटिस्वर्णद्विसहस्रजात्यतुरङ्गमबहुप्रधानादिप्रौढसामय्या पत्तने प्राहिणोजयकेशिनृपः । अथ गुप्तवृत्त्या श्रीकर्णस्तस्यास्तादृक्कुरूपतां स्वयं विभाव्य तत्परिणयने निरादरोऽजनि । ततस्तया साक्षादिक्कन्याभिरिव मूर्तिमतीभिरष्टाभिः सखीभिः सह नृपतये खहत्याप्रदानाय राजद्वाराग्रेऽग्निप्रवेशमहः प्रारब्धः। अथ श्रीकणमात्रा श्रीउदयमतीराझ्या तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणत्यागसंकल्पश्चक्रे । यतः
"स्वापदि तथा महान्तो, न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु, प्रकम्पते भूः परव्यसने ॥१॥"
ACCCCCCCORDAR
in Educat
internet
Page #14
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥४॥
इति मातुः कदाग्रहादेवानिच्छुनापि श्रीकर्णेन सा परिणिन्ये।महाजनकृतमातुलकरणीया परिणीय परित्यक्ता दृग्मात्रेणापि न संभावयति । अन्यदा गीतगायनमातङ्गयाः सरूपाया राज्ञोऽभिलाषे सति मातङ्गीरूपं कारयित्वा सैव मयणल्लदेव्यमात्यैः श्रीमुञ्जालादिभिः सदृशवयोरूपवेषयुक्ता प्रेषिता। ततः पश्चात्तापेसद्भावे प्रोक्ते राजा हृष्टः। तत्कुक्षिसंभवो जयसिंहदेवः पुत्रो जातः। स त्रिवार्षिकः सन् राजसिंहासनं स्वयमलंचक्रे । राज्ञा पृष्टैनैमित्तिकैर्महामुहूर्तमधुनेति कथिते जयसिंहदेवस्य राज्याभिषेकः कृतः।। | पालयत्यन्यदा राज्यं जयसिंहे नरेश्वरे । चचाल देवयात्रायां कर्णः कर्ण इवापरः॥१॥ श्रीदेवपत्तनादयंग गव्यूतैः। सप्तभिः स्थितः। प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् ॥२॥ यथा पापक्षयं हारं चन्द्रादित्याख्यकुण्डले । श्रीतिलकमङ्गदं च परिधाय समाहितः॥३॥ यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः। भोक्ष्ये तदाऽशनं पानं ताम्बूलमपि नान्यथा ॥ ४ ॥ स्नात्वा प्रभासे श्रीकर्णो यदाऽयाचत भूषणम् । कोशाध्यक्षस्तदा स्माह नादिष्टं स्वामिभिस्ततः ॥५॥ आभरणं पत्तनेऽस्थाद्विषण्णश्च ततो नृपः। तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति ॥६॥ मा विषीद महाराज ! मन्त्रसिद्धिधरा यतः। मया सन्ति सहानीताः श्रीधनेश्वरसूरयः॥७॥ ततोऽभ्यर्थनया राज्ञस्तैरणहिल्लपत्तनात् । आकृष्टिमन्त्रेणाकृष्याभरणं तत्समर्पितम् ॥ ८॥ संपूर्णाभिग्रहो राजा प्राह सूरिवरं प्रति । युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् ॥ ९॥ गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् । रक्ष जीववधं राजन् ! नवरात्रद्वयेऽपि हि ॥१०॥ तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः। चकार वामनस्थल्यां सज्जनं दण्डनायकम् ॥ ११॥ ततो मदनपालेन विज्ञप्तः कर्ण
ततो नृपः। तदा मदनपालाख्यो कोशाध्यक्षस्तदा स्माह नादिष्ट वा पानं ताम्बूलमपि
मन्त्रसिद्धिधरा यतः । म
॥८॥सणीधनेश्वरसूरयः ॥ण्डलीकोऽब्रवीदिति गादिष्ट स्वामिभिस्ततः मलमपि
For Private & Personel Use Only
Page #15
--------------------------------------------------------------------------
________________
NAGAR
भूपतिः । सार्ध धनेश्वराचारारूढो रैवताचलम् ॥ १२॥ श्रीनेमिभवन जीर्ण वीक्ष्य काष्ठमयं ततः। सज्जनो गुरुणाRऽदिष्टो जीर्णोद्धारकृते कृती ॥ १३ ॥ सजनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः । चतुर्विधेन सडेन सार्द्ध राजानमन्वगात् ॥ १४ ॥ यतः"जिणभवणाई जे उद्धरंति भत्तीए सडिअपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥१॥"
अथवा"अप्पा उद्धरिउ च्चिअ, उद्धरिओ तेहिं तह य निअवंसो। अन्ने अ भविअसत्ता, अणुमोअंता य जिणभवणं ॥१॥ माणिक्यहेमरत्नाद्यैः, प्रासादान कारयन्ति ये । तेषां पुण्यैकमूतींनां, को वेद फलमुत्तमम् ? ॥२॥ काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ॥३॥"
युक्तमिदमुपदेशकथनं साधूनाम् । यतः"रायाअमच्चसिठ्ठीकुटुंबिए वावि देसणं काउं। जिण्णे य जिणाययणे, जिणकप्पी वावि कारवइ ॥ १॥"
तथा"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥"
जीर्णोद्धाराय विज्ञप्तः सजनेन नृपस्ततः । सुराष्ट्रोद्भाहितं दत्वाऽणहिल्लपुरमाययौ ॥ १५ ॥ अथ भद्रेश्वरसूरिः सजनेन सहाष्टमम् । तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनधीः ॥ १६ ॥प्रत्यक्षीभूय साऽप्यूचे युवाभ्यां किमहं स्मृता।
Page #16
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः
सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः॥१७॥ तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ॥१८॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकपस्थितानां पाथेयं धर्म एव यत् ॥१९॥
दीपेम्लायति तैलपूरणविधिस्तोयं दुमे शुष्यति, प्रावारो हिमसंगमे जलगृहं ग्रीष्मज्वरोजागरे ।
निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजं, धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥ १॥ ___ अम्बाऽनुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् ॥२०॥ ज्येष्ठस्य सितपञ्चम्यां शिरो. सोऽथ सज्जनः। अम्बादेवीवचः स्मृत्वा जातपञ्चत्वनिश्चयः ॥२१॥ आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पार्श्व संस्तारव्रतमग्रहीत् ॥ २२ ॥ दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः। दिवं जगाम पुत्रोऽस्य ध्वजारोपं व्यधापयत् ॥ २३ ॥ | अनावसरे श्रीकर्णराजो द्वयो राज्ञो कत्रावस्थानं युक्तमिति, आशापल्लीनिवासिनं प्रबलभुजबलशालिनं लक्षभि| लयुतमाशाकं भिल्लं जित्वा कर्णावतीं पुरी विधायकोनत्रिंश २९ वर्षाणि राज्यं कृत्वा पञ्चत्वमगात् । अत्रान्तरे परशुरामेणाचिन्ति । राजा जयसिंहनामा दण्डं सोधयिष्यति तदा किं भावीति विचिन्त्य तद्वामनस्थलीनिवासिव्यवहारिणामग्रे कथितम् । तैरपि तद्दण्डदानं प्रतिपन्नम् । ___ अथ पञ्चत्वमापन्ने कर्णदेवे महीपतौ । श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् ॥ २४ ॥ ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो बर्बरकश्चास्य सिद्धराजस्ततोऽभवत् ॥ २५ ॥
॥५॥
Jan Education
a
l
For Private
Personal Use Only
www.ainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
अथैकदा जयसिंहदेवो विजययात्रां कुर्वन् रैवताचलासन्नां वामनस्थली प्राप । तत्र परशुराममाकार्य दण्डमयाचत । दण्डाधिपेनोक्तम् , रैवताचलेऽभयस्थाने स्थापितोऽस्ति । ततो विप्रैर्लिङ्गाकारोऽयं गिरिरिति निषिद्धोऽपि श्रीकर्णदेवगमनं श्रुत्वा रैवते गतः। गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमि पूजयित्वा धर्मशालायामुपविश्य प्रासादरम्यतामालोक्योचे, धन्यौ मातापितरौ तस्य येनेदं कारितम् । अत्रावसरे परशुराम उवाच, राजन् ! पृथिव्यां श्रीकर्णदेवमयणलदेव्यौ धन्ये, ययोः सूनुर्भवान् । श्रीकर्णविहारोऽयं मत्पित्रा कारितो वर्षत्रयोदाहितव्ययेन। एवं यदि प्रासादेच्छा तदा प्रासादः। अथवा द्रव्येच्छा तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति । तन्निशम्य प्रमुदितो राजा भव्यं सजनेन कृतं, यदत्र कृत्यं भवति तत्सर्व कारयेत्यादिश्य द्वादशग्रामान देवपूजायै दत्वा शत्रुञ्जयं जगाम । आकृष्टख विनिषिद्धो रात्रौ समारुरोह । श्रीयुगादिदेवं पूजयित्वा स्तुत्वा द्वादशग्रामान् देवदाये दत्वा श्रीअणहिलपत्तने समागात् । क्रमेण मालवकादिदेशेषु निजाज्ञापटहं दापयित्वा श्रीजयसिंहदेवो राज्यं पालयति स्म । सिद्धचक्रवर्तिविरुदं जगत्प्रसिद्धं बभार । अथैकदा
श्रीपत्तनपुरीया ब्राह्मणा अष्टषष्टितीर्थेषु यात्रां कुर्वन्तो हिमाचलपर्वते गताः । तत्रौषधीग्रहणार्थं भ्रमद्भिदृष्टोऽचलनाथहै योगी । नत्वोपविष्टाः पृष्टा योगिना, कुतो वः समागमः। तैरुक्तम् , श्रीपत्तननगरात् । तदवसरे योगिपार्श्वस्थाभ्यां सि-3 सद्धिबुद्धिभ्यां योगिक्षुल्लिकाभ्यां पृष्टम् , तत्र को राजा । ब्राह्मणैरूचे, श्रीसिद्धचक्रवती जयसिंहदेवो राजा । सिद्धचक्रव-16
तिविरुदश्रवणमात्रादेव रुष्टे सिद्धिबुद्धी असहमाने राज्ञः परीक्षार्थ गगनाध्वना कदलीपत्रासने सभायामायाते । राज्ञा सपरिकरेणाभ्युत्थाय नमस्कृते, सौवर्णासने उपवेश्य पृष्टे, कुतः केन हेतुना भगवतीभ्यामद्य ममानुग्रहोऽकारि ? योगि
JainEducation international
For Private Personal use only
Page #18
--------------------------------------------------------------------------
________________
कुमारपाल
त कलाकौशलं शनः
दावासे राजा ।
किन दिने क्षीयते।पमा
नीभ्यामूचे, राजन् ! सिद्धचक्रवर्तिबिरुदं तव श्रुतं महदेतदत्र जगति तविलोक्यते, केन कलामन्त्रतन्त्रासनपवनधारणाऽ- |णिममहिमाद्यष्टमहासिद्धिप्रकर्षेण ख्याप्यतेऽप्रतिहतप्रचारम् , इति परीक्षार्थ हिमवतोऽत्रागमनमावयोर्जानीहि।राजाऽपि| निर्विषेणापि सर्पण कर्तव्या महती स्फटा । विषं भवतु वा मा वा स्फटाटोपो भयंकरः ॥१॥ । इति नीतिवित् कलाकौशलं शनैः शनैर्दर्शयिष्यते भवतीभ्यां, परं संप्रति उत्तारके गम्यतां स्वस्थीभूयतां च, इति शीतलबहुमानवचोभिरानन्द्य प्राहिणोत् कस्मिंश्चिदावासे राजा। किमुत्तरमत्र देयम् ? एते योगिन्यौ विकटे, अत्र किमप्यतिशायि कलादिदर्शनं विना न छुट्यते; विरुदं च याति, इति चिन्तातुरो दिने दिने क्षीयते। षण्मासा यत्तद्वचनविन्यासराजकार्यव्यग्रतादिनाऽतिवाहिताः । नगरेऽनेके कलाविदः, परं न स कोऽपि यो योगिनीव्याघ्रीमुखे तिष्ठति । सर्वः कोऽपि सुखे सखा दुर्घटे न कोऽपि । यतः| "सह परिजनेन विलसति, धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं, त्रिपुरजिता सह सुरैरमृतम् ॥१॥" __एकदा सान्तूसचिवेन दुर्बलत्वकारणं पृष्टः श्रीजयसिंहदेवः। सिद्धिबुद्धिसमागमादि सर्व वृत्तान्तमाह,मन्निन् ! किमत्रो-IX त्तरं दातव्यम् । एवं पत्तने सर्वत्र वार्ता विस्तृता, यदुत राजा संकटे पपात । अत्र राज्ये सर्वः कोऽपि निष्कलो राजवर्गः। अत्रावसरे हरिपालसाकरियाको गवाक्षस्थः पुत्रसजनेन पृष्टः । तात ! महत्संकटं राज्ञः, कथं निर्मेडको भावी ?। उक्तं हरिपालेन, एवंविधाः कुहेडकाः कर्णदेववारके बहवोऽपि मया निर्मेंडिताः, परमधुनाऽस्माकं राजकुले कोऽपि मानं न| दत्ते । राजाऽपि नटविटवेश्याप्रियो विलोकयिष्यते तटस्थैरेव कौतुकं, इत्येषा वार्ता गृहं ब्रजता सान्तूमन्त्रिणा श्रुता
Page #19
--------------------------------------------------------------------------
________________
गवाक्षाधः समायातेन । निवेदितं राज्ञः। प्रभाते वारत्रयं पृथक् पृथग् आकारितः। 'धर्मध्यानान्तरायो राजसेवा'इति विज्ञापितं राज्ञे । राजाऽपि ज्ञातबहुमानदानादिवृत्तान्तो मन्त्रिणमाकारणार्थ प्रहितवान् । मन्त्री सुखासनाधिरूढो गतो हरिपालगृहम् । सबहुमानमाकारितो वक्ति, देवपूजावसरे सांप्रतं साधर्मिकस्त्वमतिथीभूतो बान्धव एव । यतः___“ अतिथिश्चापवादी च, द्वावेतौ मम बान्धवौ । अतिथिः स्वर्गसोपान-मपवादी च पापहृत् ॥ १॥"
इत्युक्त्वा देवपूजां कारितो भोजितश्च, सत्कृत्य सार्द्ध गतो राज्ञः समीपे साकरिकहरिपालः । राज्ञोक्तम् , काकाऽद्य कल्ये सर्वावसरे नागम्यते । हरिपालः"सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति धर्मम् । आपद्गता यौवननिर्गताश्च, आर्ता नरा धर्मपरा भवन्ति॥१॥" ___ 'वृद्धा नारी पतिव्रता' इति न्यायादद्य काका कथयसि, अन्यदा नामापि न गृह्णासि । राजा पूर्ण हासेन, तथा कुरु यथा न याति मे नामेति । विज्ञप्तं हरिपालेन, देव ! दाप्यतामर्जुनचन्द्रहासलोहछुरिकामुष्टिः । दापिता राज्ञा । दिनान्यष्टावधिः । हरिपालेन स्वबुद्ध्या शर्कराफलकं चन्द्रहासलोहतुल्यं कृतम् । गजवल्लयाद्याकाराः प्रकटाः । प्रतिकोशः स्वर्णरत्नमयः सान्तूमन्त्रिणा कारितः। एवंप्रपञ्चेन शर्करामयीं छुरिकां कृत्वा राज्ञे निवेद्य प्रभाते सर्वराजन्यसमक्षमाकारिते योगिन्यौ । अद्य वादो योगिनीभिः सह भावीति मिलिताः सर्वेऽपि नागराः । अत्र प्रस्तावे सान्तूहरिपालाभ्यां समीपस्थिताभ्यां विज्ञप्तम् । देव ! सिद्धचक्रवर्तिन् ! योगिन्योबहुतरः कालो गतः, अद्य काऽप्यपूर्वा कला दर्यताम् , प्रतिकला च विलोक्यताम् , अद्य कौतुकं सभ्यानां पूर्यताम् , इति विज्ञप्तो राजा । भो योगिन्यौ ! कथ्यतां का का कला
For Private & Personel Use Only
Page #20
--------------------------------------------------------------------------
________________
कुमारपाल
MOREGORRECORRECORDC
ज्ञायते भवतीभ्यां को गुरुः? । ताभ्यामुक्तम् , अचलनाथ एव । राज्ञाऽप्युक्तं, ममापि स एव । एवं वार्ताप्रस्तावे प्रती-18 प्रवन्धः । हारः प्रणम्य देव! द्वारे कल्याणकटकाधीशप्रमाडिनृपमन्त्रिणः समायाताः सन्तीति को नियोगो देवस्य इति ? । प्राह राजा, शीघ्रमत्राकारय । प्रतीहारप्रवेशिता राज्ञा दत्तबहुमानाः प्रधानपुरुषाः प्राहुः, देव ! प्रमाडिनृपेण पोडश गजाः,
द्वादश रत्नादिभृतपेटाः, अन्यान्यपि बहुवस्तूनि प्राभृतीकृतानि सन्ति, तानि दिनत्रयेणात्रायास्यन्ति । वयं देवदर्शनो*त्कण्ठिताः पूर्वमागताः । एषा च चन्द्रहासलोहमयी क्षुरिका देवयोग्या वैरिक्षयकरी प्रहिता, इत्यभिधाय पट्टकूलसप्तविंटनकमध्यान्निष्काश्य राज्ञः करेऽर्पिता । कोशान्निष्काश्य विलोकिता, दर्शिता सभ्यानाम् । सान्तूहरिपालाभ्यां हस्ते कृत्वा विलोकिता । योगिनीभ्यां दृष्टा । राजा पुनः पुनः पश्यति । अहो ! कीदृग् लोहमयी, न क्वापि दृष्टैवंविधा क्षुरिका । अत्रान्तरे सान्तूहरिपालाभ्यां प्रोक्तम् , देव ? केयं राजलीला । अलं क्षुरिकाविलोकनेन । योगिनीभ्यां सह क्रियतामालापः । दर्शय सातिशयं कलाविशेषम् । राजा, हे भगवत्यौ, द्विसप्तति ७२ कलाः, गारुडविषापहाराग्निस्तम्भषट्त्रिंशदायुधश्रमजलोपरिचलनादिकलासु कां कलां दर्शयामि ? । मन्त्रिणोक्तम् , देव ! अपराः कलाः सर्वदा दृश्यन्ते, अद्य लोहभक्षणकौतुकं क्रियतामित्युक्ते, आनयतु महल्लोहसंकलम् । मन्त्री किमन्येन लोहेन, इयं क्षुरिकैव भक्ष्यताम् । लोको हाहेति करोति । राज्ञा योगिन्योः पश्यन्त्योभक्षितं फलकम् । यावता मुष्टिरायाता तावता धृतः करे मन्त्रिणा। मुच्यतां मुच्यतां देव ! दृष्टा कला । एतत्सारमयं तीक्ष्णं फलकं भक्षितम् । शेषं योगिनीभ्यां दीयताम् , विलोक्यते एतयोः कला । राजा, आः! उच्छिष्टं मुष्टिकं कथं दीयते ? । मन्त्री, धातुषु न च्छोतिर्लगति । राजा, तथाऽपि वारिणा प्रक्षाल्य
Page #21
--------------------------------------------------------------------------
________________
देयम् । मन्त्री सप्तकृत्वः प्रक्षाल्यार्पयति । योगिनीभ्यामुक्तम्, हे राजन् ! ईदृशशक्तियुक्तस्त्वमेव युक्ततममेव सिद्धचक्रवर्तिविरुदं तवेति चमत्कृते गते स्वस्थानं योगिन्यौ । लोकोऽपि विस्मितः । राज्ञो विरुदं सर्वत्र प्रसिद्धिमगात् । अथैकदा सिद्धराजो 'द्वादशो रुद्रः' इति विदितबिरुदो दिग्विजयं कुर्वन् मालवदेशराजधानीं धारां द्वादशवर्षैर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जयत् । यशःपटहो मृत्वा व्यन्तरोऽभूत् । मालवेन्द्रो नरवर्मा जीवन् गृहीतः । जयसिंहराज्ञः खड्गो द्वादशवर्षाणि निष्प्रत्याकारोऽस्थात् । नरवर्मचर्मघटितमेव प्रत्याकारं करोमीति प्रतिज्ञावशात्तस्य वितस्तिमात्रं चर्माङ्गिसत्कमुदतीतरत् । अत्रान्तरे प्रधानैर्विज्ञप्तम् राजन् ! 'राजा अवध्य एव' इति नीतिवचः, तस्मान्मोक्तुमर्होऽयम् । ततो मुक्तः स काष्ठपञ्जरे क्षिप्तः । नरवर्मचर्मान्यचर्माभ्यां राज्ञा निजकृपाणे प्रत्याकारः कारितः । तदनु निखिलदेशसाधनादनन्तं धनं संघटितम् । पत्तनसीमायां समायातः । तत्र सैन्यनिवेशः । सभायां वैदेशिकेन भट्टेन भणितम्, अहो ! सिद्धनृपतेः सभा मदनवर्मण इव मनोविस्मयजननीति । राज्ञा पृष्टः कोऽसौ मदनवर्मा नृपः ? । भट्टः प्राह, देव! पूर्वस्यां महोबकं नाम पत्तनं, तत्र राजा श्रीमदनवर्मा प्राज्ञस्त्यागी भोगी धर्मी नयी च । तस्य च राज्ञः पुरं सहस्रशो दृष्टमपि वर्णयितुं न शक्नोति कोऽपि । यदि मम वचोविश्वासो न स्यात्तदा कोऽपि विदुरो मन्त्री प्रेष्यते, स च विलोक्य राज्ञे विज्ञपयति इति श्रुत्वा मन्त्रिणं प्राहिणोत् । सह भट्टेन पण्मासान् यावद्विलोक्य पश्चादायातेन मन्त्रिणा विज्ञप्तम्, श्रीसिद्धभूप ! वयमितः प्रहितास्तत्र वसन्तोत्सवे प्राप्ताः । तत्र च वसन्तोत्सवे गीयन्ते वसन्तान्दोल कादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः । मकरध्वजभ्रान्तिकारिणो विलसन्ति लक्षशो युवानः ।
Page #22
--------------------------------------------------------------------------
________________
COM
प्रबन्धः ।
कुमारपाल
RCMCARRC
क्रियन्ते प्रतिरथ्यं छण्टनकानि यक्षकर्दमैः । प्रासादे प्रासादे संगीतकानि । देवे देवे महापूजाः । प्रतिगृहं सारा भोजनव्यापाराः। राज्ञः सत्रागारे तु कूरावस्रावणानि मुत्कलानि न मुच्यन्ते, किं तु गर्तायां निक्षिप्यन्ते, यदि मुच्यन्ते तदा सघण्टो हस्ती निमजति । राज्ञोऽश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कपूरचूणधूलिपोत्सवः । रात्री विपणीन् वणिजो न संवृण्वन्ति, उद्धाटान् विमुञ्चन्ति । प्रातरागत्योपविशन्ति । एवं नीतिः। व्यवसायोऽप्याचारमात्रेणैव लोकानां, तं विनाऽपि प्रकारान्तरैरपि सिद्धार्थत्वात् । राजा तु मया न दृष्टः । इदं तु श्रुतम् । नारीकुञ्जरः स सभायां कदापि नोपविशति, केवलं हसितललितानि प्रत्यक्ष इन्द्र इव तनोति । एवं मन्त्रिवचः श्रुत्वा सिद्धराजोऽमितसैन्यमहोबकं प्रति प्रतस्थे । तदासन्नकोशाष्टकप्रदेशे तस्थौ । क्षुभितो देशः । स्थानाच्चलितं महोबकपत्तनम् । प्रधानमदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृतो विज्ञप्तः, स्वामिन् ! गौर्जर: सिद्धराज उपनगरमायातोऽस्ति, स कथं निवर्तनीयः। मदनवर्मणा स्मित्वा भणितम्, सिद्धराजः सोऽयं यो धारायां द्वादशवर्षाणि विग्रहायास्थात् । कवाडी राजा वाच्यः स भवद्भियदि नो भुवं जिघृक्षसि तदा युद्धं करिष्यामः, अथार्थेन तृप्यसि तदाऽथ गृहाणेति । ततो यद्याचते स वराकस्तद्देयं भवद्भिः, न वयं धने दत्ते त्रुट्यामः, सोऽपि जीवतु चिरं वित्तार्थ कृछाणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचो लात्वा मन्त्रिणः स्थानमगुः । तावता सिद्धेशेन कथापितम् , दण्डं दत्थ । मन्त्रिभी राजवाक्यं दूतमुखेन भाणितम् , यद्यर्थमीहसे तदाऽर्थ लाहि, यदि भूमि तर्हि युद्ध्यामहे वयम् । मदनवर्मदेवाय ज्ञापितं भवदागमनम् । तेनास्मत्प्रभुणोक्तम् , कबाडीराजाऽर्थेन तर्पणीयः । स सिद्धराजा तल्लीलया विस्मितः षण्णवतिकोटीः कनकस्यायाचीत् । दत्तास्ताः
-CACCORMA
Join Education International
For Private
Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
प्रधानैः सद्यः । देशः सुखं तस्थौ । प्रधान णितम् , कथं न प्रतिगच्छसि ? । सिद्धेशेन भाणितम् , मन्त्रिपुरहूतास्तं लीलानिधिं भवत्प्रभुं दिदृक्षे । तेऽपि मदनवर्मणमभणन् । अर्थेन तोषितः स क्लेशी राजा परं भणति, तं राजेन्द्रं द्रष्टुमीहे । ततो मदनेन भणितम् , एतु सः। ततः सैन्यं तथास्थं मुक्त्वा मितसैन्यस्तत्रोद्याने आयातः । यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराद्वहिर्योधलक्षास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथत् द्वाःस्थैः । आगम्यतां जनचतुष्केण सहेति राज्ञा ज्ञापितम् । आगतस्तथा सिद्धराजः । यावत्पश्यति काञ्चनतोरणानि सप्त द्वाराणि। ददर्श रजतमहारजतमयीर्वापीः, नानादेशभाषावेषविचक्षणा निस्सीमसौभाग्यधारिणीः स्त्रीश्च, पणववेणुवीणामृदङ्गादिकलासक्तं समग्रपरिजनम् । शुश्राव गीतानि । नन्दनाधिकमुद्यानं, हंससारसादीन् खगान्, हैमान्युपकरणानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागानङ्गरागान् , उत्तुङ्गपुष्पकरण्डांश्च, एवं पुरः पुरः पश्यन् अग्रतः साक्षादिव मदनं मधुरे वयसि वर्तमानं, मितरत्नमुक्ताफलाभरणं, सर्वाङ्गलक्षणं काञ्चनप्रभं, मधुरस्वरं, तामरसाक्षं, तुङ्गघोणं, उपचितगात्रं, मदनवर्माणमपश्यत् । मदनोऽप्यभ्येत्याश्लिष्य च हेमासनं दत्वा तमभाणीत् । सिद्धेन्द्र ! पुण्यमस्माकमद्य, येन त्वमतिथिः संपन्नः । सिद्धनृपः प्राह, हे राजन् ! आवर्जनावचनमिदं मिथ्या, यत्तु मन्त्रिणामग्रे कवाडीत्युक्तं तत्सत्यम् । मदनो जहास । राजन् ! केन विज्ञप्तमेतत् ? । सिद्धेशः प्राह, तव मन्त्रिभिः। कोऽभिप्रायो मन्निन्दने । मदनोऽप्याह, देव ! कलिरयं, स्वल्पमायुः, मिता राज्यश्रीः, तुच्छं बलम् , तत्रापि पुण्यै राज्यं लभ्यते, तदपि चेन्न भुज्यते, रुल्यते विदेशेषु तत्कथं न कर्बाटिकत्वम् ? । सत्यमेतदित्याह सिद्धेशः, धन्यस्त्वं यस्येत्थं शर्माणि, त्वयि दृष्टे सफलं जीवितमस्माकम् , चिरं राज्यं भुव इत्यु
-
-
-
For Private & Personel Use Only
Page #24
--------------------------------------------------------------------------
________________
कुमारपाल ॥ ९ ॥
क्त्वा तस्थौ । ततो मदनेनोत्थाय निजं देवतावसरकोशादि दर्शितम् । प्रेमाधिक्यमन्योन्यं जातम् । विंशत्यधिकशत१२० पात्राणि स्वाङ्गसेवकानि दत्तानि । ततः सिद्धेशः पत्तनमलञ्चकार । विंशत्यधिकशत १२० पात्रमध्यादर्द्ध मार्गे मृतं मार्दवात् शेषं पत्तने प्रापत् । अतः प्रोक्तं कविभिः—
" महोबकपुराधीशा - जितान्मदनवर्मणः । कोटीः पण्णवतिर्हेम्नां यस्तन्मानमिवाददे ॥ १ ॥ यः कासारमुदारवारिलहरीलीलाभिरभ्रंलिहं, साक्षात्पार्वणचन्द्रमण्डलमिव श्रीपत्तनेऽचीकरत् । तत्प्रान्ते च शिवाद्रिकान्तमनिलोद्वेल्लत्पताकाञ्चलं, कीर्तिस्तम्भमतिष्ठिपद्यश इव स्वं मूर्ततामाश्रितम् ॥ २ ॥ भुजौजसा पराजित्य दुष्टं बर्बरकं सुरम् । यः सिद्धचक्रवर्तीति, नामान्यन्मान्यमानशे ॥ ३ ॥ सिञ्चन्वात्सल्यकुल्याभि- छन्दन् रौद्रानुपद्रवान् । आरामिक इवारामं, स पालयति भूतलम् ॥ ४ ॥”
अथ श्रीमाचार्यस्वरूपं यथा
कौटिकगणे वज्रशाखायां चन्द्रगच्छे श्रीदत्तसूरयो विहरन्तो वागडदेशस्थवटपद्रपुरे प्रापुः । तत्र यशोभद्रनामा राजानकोऽस्ति । प्रकृत्या सदयहृदयः । सूरयोऽपि प्रासुके राजमन्दिरासन्ने क्वाप्युपाश्रये स्थिताः । ज्ञातसूर्यागमो यशोभद्रराजाऽन्यदा वन्दनाय गतः । योग्योऽयमिति ज्ञात्वा सूरिभिरूचे, इह मूलदेवकार्यटिकलब्धराज्यदशकापूर्णचन्द्रस्वम इव दुर्लभो मानुषो भवः । यथा
"वज्राकरः पुण्यरलै - नवी वा सुकृतार्जने । कामदः कामघटव - दुर्लभो नृभवो नृणाम् ॥ १ ॥ "
प्रवन्धः ।
॥९॥
Page #25
--------------------------------------------------------------------------
________________
तत्र च"धम्मत्थकाममुक्खा, इह पुरिसत्था हवंति पुरिसाणं । तत्थवि धम्मो सारो, जेण न धम्मं विणा इयरे ॥१॥
यत:"धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः। राज्यार्थिवपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तकि यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥१॥ धर्मस्य जननी जीव-दया मान्या सुरैरपि । तस्मात्तद्वैरिणी हिंसां, नाद्रियेत सुधीनरः॥२॥ दानं तपो देवपूजा, शीलं सत्यमथो जपः । सर्वमप्यफलं तस्य, यो हिंसां न परित्यजेत् ॥३॥
कण्टकेनापि संविद्धो देहो दूयेत निश्चितम् । तत्कथं शस्त्रसंघातर्हन्यते ही परो जनः॥४॥" इति श्रुत्वा यशोभद्रनृपो हे सद्गुरो! सत्यमेतत् , परं जीवदया गृहिणां सततारम्भिणां कुतः ? तथाऽपि निरपराधत्रसजीववधो मया वय॑ः, इति प्रतिज्ञाय श्रीगुरुन्नत्वा स्वस्थानं गतः । अन्यदा स नृपो वर्षाकाले खेटितक्षेत्राणि विलोकयितुं गतः। कर्मकरप्रज्वालितमूलतृणादिपुञ्जेषु गर्भिणी सर्पिणी दग्धा दृष्टा । पश्चात्तापपरो दध्यो___ “अहह इमो घरवासो, परिहरणिज्जो विवेकवंताणं । बहुजीवविणासयरा, आरंभा जत्थ कीरंति ॥१॥
पावाइदोगच्चनिबंधणाई, भोगस्थिणो जस्स कए कुणंति। अभिक्खणं तंपि असारमंगं, रोगा विलुपंति धुणं व कडं ॥२॥ विमोहिया जेण जणामणमि, हियाहियं किंपि न चिंतयंति । तं जोवणं झत्ति जरा कराला, दबग्गिजाल व वणं दहेई॥३॥
इमो घरवासो, पविणो जस्स कप कुणातयति । तं जोवणं झत्ति
For Private Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
कुमारपाल
11 20 11
किच्चं अकिच्चं च न जंमि पत्ते, पलोयए पीयसुरो व जीवो। पहुत्तणं तुट्टइ तं पणट्ठे, पुन्ने घणे सेलनईर व ||४||" इत्यादि ॥ ततः श्रावकामात्यसहित एकावलीहारभृत् डिण्डाणकस्थित श्रीदत्तगुरुपार्श्वे गतः । स्वपापमालोच्य हारेण श्रीवीरचैत्यं कारयित्वा व्रती जातः । दीक्षादिन एव पविकृतित्यागं कृत्वा एकान्तरोपवासकरणाभिग्रहं ललौ । कालेनाधीतसिद्धान्तो गीतार्थः सन् सूरिपदे स्थापितः श्रीगुरुभिः । बहुवर्षाणि पालितसंयमपर्यायः प्रान्ते त्रयोदशक्षपणैः स्वर्गतः । तत्पट्टे प्रद्युम्नसूरिः । तच्छिष्य श्रीगुणसेनसूरिः । तत्पट्टे श्रीदेवचन्द्रसूरय एकदा विहरन्तो धन्धूकपुरे प्रापुः । तत्र मोढवंशे चाचिगश्रेष्ठी, पाहिनी भार्या । तयाऽन्येद्युः स्वमे चिन्तामणिर्दृष्टः परं गुरुभ्यो दत्तः । तदा तत्रागतश्रीदेवचन्द्रगुरवः पृष्टाः स्वप्नफलम् । गुरुभिरूचे, पुत्रो भावी तव चिन्तामणितुल्यः परं स सूरिराट् जैनशासनभासको भविता, गुरूणां रत्नदानात् । इति गुरुवचः श्रुत्वा मुदिता पाहिनी तद्दिने गर्भं वभार । समये पुत्रजन्म ११४५ कार्तिक पूर्णिमा रात्रिरूपे ।
तदा वागशरीरासी- योनि भाव्येष तत्त्ववित् । जिनवज्जिनधर्मस्य, स्थापकः सूरिशेखरः ॥ १ ॥
जन्मोत्सवपूर्वं चाङ्गदेवेति नाम दत्तम् । क्रमेण पञ्चवार्षिको मात्रा मोढवसहिकायां देववन्दनायागतयाऽऽगतः । बालचापल्यस्वभावेन देवनमस्करणार्थमागतश्रीदेवचन्द्रगुरुनिषाद्यायां निषण्णः । तथा दृष्ट्वा गुरुभिरूचे, पाहिनीसुश्राविके ! स्मरसि स्वप्नविचारं पूर्वकथितं ?, संप्रति संवादसफलम् । बालकाङ्गलक्षणानि विलोक्य मातुरग्रेऽकथि । यद्ययं क्षत्रियकुले तदा सार्वभौमो नरेन्द्रः । यदि ब्राह्मणवणिक्कुले तदा महामात्यः । चेद्दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृतयुगमवतारयतीति । साऽपि पाहिनी गुरुवचोऽमृतोल्लासिता ससुता गृहं गता । गुरवोऽपि शालायामागत्य श्रीसङ्घमाकार्य
प्रवन्धः ।
1180 11
Page #27
--------------------------------------------------------------------------
________________
गताश्चाचिगश्रेष्ठिगृहे । चाचिगे ग्रामान्तरं गते पाहिन्या श्रीसको गृहागतः स्वागतकरणादिना तोषितः । मार्गितश्चाङ्गदेवः ।। हृष्टा पाहिनी हर्षाश्रूणि मुश्चती स्वां रत्नगी मन्यमानाऽपि चिन्तातुरा जाता । एकत एतत्पिता मिथ्यादृष्टिः, तादृशोऽपि ग्रामे नास्ति । एकतस्तु श्रीसङ्घो गृहागतः पुत्रं याचते । इति किं कर्तव्यं मयेति मूढचित्ता क्षणमभूत् । तदनु"कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ। त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः॥१॥"
तथा"उर्वी गुवीं तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योती रविहिमकरौ तौ च यस्यांहिपीठे ।
स प्रौढश्रीजिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घस्त्रिभुवनगुरुः कस्य न स्यान्न मान्यः॥१॥" ___ इति प्रत्युत्पन्नमतिर्माता श्रीसकेन समं श्रीगुरून् कल्पतरूनिव गृहागतान् ज्ञात्वाऽवसरज्ञा स्वजनानामनुमति लात्वा निजं पुत्रं श्रीगुरुभ्यो ददौ । ततः श्रीगुरुभिः श्रीसङ्घसमक्षं हे वत्स! तीर्थंकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिक
रनायकमहनीयां मुक्तिकान्तासंगमदूतीं दीक्षां त्वं लास्यसि ? इति प्रोक्ते स च कुमारः प्राग्भवचारित्रावरणीयकर्मक्षयोप६ शमेन संयमश्रवणमात्रसंजातपरमसंवेगः सहसा ॐ इत्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा
श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः । तत्रोदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानः, सकलसङ्घलोकमान्यः, संयमपरिणामधन्यः, वैनयिकादिगुणविज्ञो यावदास्ते । तावता ग्रामान्तरादागतश्चाचिगः पत्नीनिवेदितश्रीगुरुसङ्घागमपुत्रार्पणादिवृत्तान्तः पुत्रदर्शनावधिसंन्यस्तसमस्ताहारः कर्णावत्यां गतः । तत्र वन्दिता गुरवः । श्रुता धर्मदे
For Private & Personel Use Only
Page #28
--------------------------------------------------------------------------
________________
कुमारपाल ॥ ११ ॥
शना । सुतानुसारेणोपलक्ष्य विश्वक्षणतयाऽभाणि श्रीगुरुभिः
"कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन । अबाह्यमार्गे सुखसिन्धुमग्नं, लीनं परब्रह्मणि यस्य चेतः ॥ १ ॥ कलङ्कं कुरुते कश्चित्कुलेऽतिबिमले सुतः । धननाशकरः कश्चिद्व्यसनैः पुण्यनाशनैः ॥ २ ॥
पित्रोः संतापकः कोऽपि, यौवने प्रेयसीमुखः । बाल्येऽपि म्रियते कोऽपि स्यात् कोऽपि विकलेन्द्रियः ॥ ३ ॥ सर्वाङ्गसुन्दरः किंतु ज्ञानवान् गुणनीरधिः । श्रीजिनेन्द्रपथाध्वन्यः प्राप्यते पुण्यतः सुतः ॥ ४ ॥ " इति श्रीगुरुमुखादाकर्ण्य संजातप्रमोदः प्रसन्नश्वाचिगस्तत्र श्रीगुरुपादारविन्दनमस्यायै समायातेनोदयनमन्त्रिणा धर्मवान्धवधिया निजगृहे नीत्वा गुरुगौरवेण भोजयाञ्चक्रे । तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुकूलत्रयं द्रव्यलक्षत्रयं चोपनीय सभक्तिधामावर्जितश्चाचिगः सानन्दं मन्त्रिणमवादीत् । मन्त्रिन् ! क्षत्रियस्य मूल्येऽशीत्यधिकः सहस्रः १०८०, अवमूल्ये पञ्चाशदधिकानि सप्तदश शतानि १७५०, सामान्यस्यापि वणिजो नवनवतिगजेन्द्राः, एतावता नवनवतिर्लक्षा भवन्ति, त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे । अतो मत्सुतोऽनर्घ्यः, त्वदीया भक्तिस्त्वनर्घ्यतमा, तदस्य मूल्ये सा भक्तिरस्तु न तु मे द्रव्येण प्रयोजनम्, अस्पर्यमेतन्मम शिवनिर्माल्यमिव दत्तो मया पुत्रो भवताम्, इति चाचिगवचः श्रुत्वा प्रमुदितमना मन्त्री तं परिरभ्य साधु ! साधु ! युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच । त्वयाऽयं पुत्रो ममार्पितः परं योगिमर्कट इव सर्वेषामपि जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता । श्रीगुरूणां तु समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम् । ततः सो भवद्विचार एव प्रमाणं,
प्रबन्धः ।
॥ ११ ॥
Page #29
--------------------------------------------------------------------------
________________
इति वदन् सकलश्रीसङ्घसमक्षं रत्नकरण्डमिव रक्षणीयम् , उदुम्बरपुष्पमिव दुर्लभं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणां । समर्पयामास । श्रीगुरुभिरमाणि
"धनधान्यस्य दातारः, सन्ति क्वचन केचन । पुत्रभिक्षाप्रदः कोऽपि, दुर्लभः पुण्यवान् पुमान् ॥१॥ धनधान्यादिसंपत्सु, लोके सारा च सन्ततिः। तत्रापि पुत्ररत्नं तु, तस्य दानं महत्तमम् ॥२॥ स्वर्गस्थाः पितरो वीक्ष्य, दीक्षितं जिनदीक्षया । मोक्षाभिलाषिणं पुत्रं, तृप्ताः स्युः स्वर्गिसंसदि ॥३॥"
महाभारतेऽप्यभाणि___ "तावद्धमन्ति संसारे, पितरः पिण्डकाविणः । यावत्कुले विशुद्धात्मा, यती पुत्रो न जायते ॥१॥"
इति श्रुत्वा प्रमुदितेन चाचिगेनोदयनमन्त्रिणा च प्रव्रज्यामहामहोत्सवः कारितः । सोमदेवमुनि म दत्तम् । श्रीविक्रमात् ११४५ श्रीहेमसूरीणां जन्म, ११५४ दीक्षा च । अथान्यदा नागपुरे धनदनाम्नः श्रेष्ठिनो गृहे प्रथमालिकार्थ गतः । तद्गृहे रब्बाभोजनं स्वर्णराशिं च दृष्ट्वाऽग्रगं वृद्धसाधुं प्राह, यथा कस्मादस्य गृहेऽसमञ्जसमीदृशं ? एकतः स्वर्णराशिभॊजने है तु रबा । स साधुरिति श्रुत्वोवाच, अभाग्यवशेनायं निर्धनो जातः निधानगतमपि स्वर्णमङ्गारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तम् , मया तु सुवर्णराशिददृशे । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूयाङ्गारकराशौ करो दापितः, तत्सर्व स्वर्ण जातम् । तत्प्रच्छादकः कश्चिद्भ्यन्तरः परब्रह्मतेजोऽसहिष्णुर्नष्टः । ततः संजातचमत्कारेण श्रेष्ठिना| श्रीसङ्ग्रेन च हेमचन्द्रनाम दापितम् । ततः शनैः शनैर्ज्ञानेन तपसा विनयादिगुणैर्वयसा च वर्धमानः निजौदार्यगाम्भीर्य
Jan Education Intematon
For Private
Personel Use Only
Page #30
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
द धैर्यवैनयिकादिगुणगणैरावर्जितश्रीगुरुगच्छश्रीसङ्घलोकः कदाचित् श्रीगुरूनापृच्छय युगादौ लोकोपकाराय परब्रह्ममयप
रमपुरुषप्रणीतमातृकाष्टादशलिपिविन्यासप्रकटनप्रवीणबाहयादिमूर्तिविलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचन्द्रः ।। ॥१२॥
ततः कियति मार्गेऽतिक्रान्ते सति मिथ्यात्वतमःकरालेऽस्मिन् कलिकालेऽस्य श्रीजैनशासनप्रभावकस्य महापुरुषस्य बह्वदापायसंकुले पथि मा भूभ्रमणप्रयासः, इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशीथे । अजिह्मपरब्रह्मवर्चसं पद्मासनासीनमधनिमीलितलोचनं समाधियोगस्वाधीनस्वान्तं ध्यानाधिरूढं श्रीहेमचन्द्रं दृष्ट्वा प्रोवाच
"रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले । भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् ॥१॥
संकल्पमात्रादपि सिद्धिकार्याः, वाञ्छन्ति तेनैव तथापि किंचित् ।
इच्छाविनाशेन यदस्ति सौख्यं, त एव जानन्ति गुरुप्रसादात् ॥२॥" तथाऽप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयवि-| द्यामन्त्रान् श्रीविद्याप्रवादसंवादसुन्दरान् साम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चा-1 दागताः । एकदा श्रीगुरूनापृच्छयान्यगच्छीयदेवेन्द्रसूरिमलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं प्रति प्रस्थिताः। खिल्लूरग्रामे च त्रयो जना गताः । तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्करणकृतार्तिर्यावद्रामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्रौ सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः स्वं रैवतके
For Private Personel Use Only
Page #31
--------------------------------------------------------------------------
________________
पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र स्थितानां सर्व भावीति गौडदेशे गमनं निषिध्य महौषधीरनेकान् मन्त्रान्नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वस्थानं जगाम । एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतु-18 देशीरात्रौ श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन साध्यते, ततः सिध्यति, याचितं | वरं दत्ते, नान्यथा। ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां परिमलाकर्षितभ्रमरकुलसंकुलामालोक्य पृष्टो रजकस्तैः, कस्या इयं शाटिकेति । सोऽवग् , ग्रामाध्यक्षपल्या इयम् । ततो गतास्तस्मिन् ग्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समायाति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याप्रमत्तत्वादिगुणान् दृष्ट्वा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरञ्जितस्वान्तः प्रमुदितः प्राह, यूयमनिच्छपरमेश्वराः किमपि कार्य मत्साध्यं समादिशन्तु । ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीरवेदिनं ज्ञात्वा प्राहुः, अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नान्यथा, तेन तव या पद्मिनी स्त्री वर्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरश्छेदस्त्वयैव विधेयः । इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना मनाम् विमृश्य चिन्तयाञ्चकार । एते तावन्महर्षयः समतृणमणिलोष्टकाञ्चनाः परब्रह्मसमाधिसाधकास्तर्खेतेषामिदं कार्य वर्य समर्यादमनया स्त्रिया चेद्भवति तदा तथाऽस्तु, किं बहुविचारेणेति विचिन्त्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां निभीकः स श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसान्निध्याः शुभध्यानधीरधियः श्रीरैवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना|
For Private Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
कुमारपाल
समीपस्थपद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वर-18 प्रबन्धः। नामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितवरं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, देवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः। मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवर इति त्रयाणां वरं दत्वा देवः स्वस्थानमगात् । प्रमुदितो ग्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाय देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्राम जगाम । अथ हेमचन्द्रमुनेस्तत्तद्देवतावरप्रदानविद्वत्तादिगुणसंपदारञ्जितश्रीगुरुसङ्घसाम्मत्येन नागपुरीयव्यवहारिणा धनदाख्येन संवत् ११६६ वर्षे महामहैराचार्यपदं कारितम् । हेमवत्कान्तिमत्त्वाच्चन्द्रवदाह्लादकत्वाच्च हेमचन्द्राचार्याः सर्वत्र प्रसिद्धाः । अन्येद्युः श्रीसिद्धराजो राजपाट्यां ब्रजन् श्रीहेमाचार्य दृष्टा चिन्तितवान्
"धर्मः किं मूर्तिमानेष, किमु साम्यसुधाम्बुधिः । मुनीन्द्रो नयनानन्दी, दृष्टोऽयं पापतापहृत् ॥१॥" हस्तिनं निरुद्ध्य यावत् किमपि ब्रूते राजा तावत्सूरय ऊचुः___"सिद्धराज! गजराजमुच्चकैः, कारय प्रसरमेतमग्रतः। संत्रसन्तु हरितां मतङ्गजा-स्तैः किमद्य भवतैव भूभृता ॥१॥" अनयोक्त्या चमत्कृतो मत्पार्श्व समागम्यं श्रीमद्भिः सदा, इत्यभिधाय जगाम स्वधाम राजा।
R ॥१३॥ ___महीनाथा महातीर्थ, महौषध्यो मुनीश्वराः । अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः॥१॥ इति विचिन्त्य सूरयोऽपि यथाऽवसरं राजसंसदि गत्वा राजानं रञ्जयामासुः । अथान्यदा संसारसागरतितीर्षः सिद्ध
For Private Personel Use Only
Page #33
--------------------------------------------------------------------------
________________
राजः सर्वदर्शनेषु स्वस्तुतिपरनिन्दापरेषु शुद्धधर्मादिजिज्ञासया श्रीहेमसूरीन् पप्रच्छ, को धर्मः संसारपारदः ? इति । सूरयोऽपि सर्वदर्शनाविसंवादेन पुराणोक्तं शङ्खाख्यानं वदन्ति स्म । यथा
शङ्खपुरे शङ्खश्रेष्ठी । यशोमती भार्या । कालेन तस्यां निःस्नेहोऽपरां स्त्रियमूढवान् । नवीनपत्नीवशीकृतो यशोमत्याः संमुखमपि न विलोकयति । दूना यशोमती चिन्तयति —
"फोडी नामु जु सीयली विसह जु महुरं नाम । सउ किहि नाम जु बहिनडी ए तिन्निवि खयजाउ ॥ १ ॥
वरं रङ्ककलत्रत्वं, वरं वैधव्यवेदना । वरं नरकवासो वा मा सपत्नीपराभवः ॥ २ ॥”
एकदा कंचिगौडदेशागतं कलावन्तं बहुभक्त्याऽऽवर्ज्य तत्पार्श्वे पुरुषपशुकरणक्षमं किंचिदौषधं गृहीत्वा भर्त्रे भोजनान्तर्दत्तवती । तेनौषधेन भुक्तमात्रेण शङ्खो वृषभोऽजनि । तदनु ज्ञाततद्वृत्तान्तैर्लोकैर्निन्द्यमाना तत्प्रतीकारमजानाना स्वं दुश्चरितं शोचयन्ती कदाचिन्मध्यंदिने दिनेश्वरखरतरकरनिकरप्रसरताप्यमानाऽपि शाङ्खलभूमिषु तं पतिवृषं चारयन्ती कस्याऽपि तरोस्तले विश्रान्ता निर्भरं विललाप । दैवात्तदा विमानाधिरूढो गौर्यान्वितः शिवो नभसा गच्छन् तद्विलापान् शुश्राव | गौर्याऽपि संजातकृपया पृष्टस्तद्दुःखकारणं प्राह शिवः, भवज्जातेर्विलसितमेतत्, यन्मर्त्योऽपि जातोऽनवान् । ततः स्वरूपं सर्व कथितम् । गौर्या प्रोक्तम्, तदौषधं किमप्यस्ति ? येनायं पुनः पुरुषो भवेत् । अतिनिर्बन्धे एतस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं निवेद्य जगामाग्रतो महेशः । ततश्च तदीश्वरवचनं श्रुत्वा यशोमत्याऽपि तदीयां छायां रेखाङ्कितां कृत्वा तन्मध्यवर्तिन औषधाङ्कुरानुच्छेद्य वृषभवदने सर्ववल्लीतृणादि क्षिप्तम् । अज्ञातस्वरूपे -
Page #34
--------------------------------------------------------------------------
________________
कुमारपाल
॥ १४ ॥
णापि तेनौषधाङ्करेण स वृषभो मनुष्यतां प्राप । हृष्टा च यशोमती लोकैर्वन्द्यमाना सुखभागजायत । तिरोधीयत दर्भाद्यैर्यथा दिव्यं तदौषधम् । तथाऽमुष्मिन् युगे सत्यो धर्मों धर्मान्तरैर्नृपः ॥ १ ॥ परं समग्रधर्माणां सेवनात्कस्यचित्क्वचित् । जायते शुद्धधर्माप्तिर्दर्भच्छन्नौषधाप्तिवत् ॥ २ ॥ तद्राजन् ! जीवदयासत्यवचनाद्यविसंवादेन सर्वधर्माराधनं क्रियते । इति श्री हेमाचार्योपदेशेन सभासदः श्रीसिद्ध नृपोऽपि हृष्टाः । अन्यदा राज्ञा पुनः पृष्टाः श्रीहेमसूरयः प्राहु:
" पात्रे दानं गुरुषु विनयः सर्वसत्त्वानुकम्पा, न्याय्या वृत्तिः परहितविधावादरः सर्वकालम् ।
कार्यो न श्रीमदपरिचयः संगतिः सत्सु सम्यक्, राजन् ! सेव्यो विशदमतिना सैप सामान्यधर्मः ॥ १ ॥
पुनः पात्रपरीक्षां भीमः -
"मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ १ ॥ "
युधिष्ठिरः प्राह
" सुखासेव्यं तपो भीम !, विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ॥ १ ॥” अर्जुनः
" श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोति युधिष्ठिर ! ॥ १ ॥ " द्वैपायनः
प्रबन्धः ।
॥ १४ ॥
Page #35
--------------------------------------------------------------------------
________________
"न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमिमे चोभे, तद्धि पात्रं प्रचक्ष्यते ॥१॥" इति महाभारतोक्तसंवादेन प्राहुः। अन्यदा सिद्धपुरे रुद्रमहालयप्रासादे निष्पद्यमाने आभूमन्त्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः। चतुर्दारेषु पित्तलमयश्रीजिनमूर्तीनां पादतलेषु नवग्रहान्मूर्तिमतो दृष्ट्वा पप्रच्छ, कोऽत्र विशेषः । श्रीहेमसूरिभिः प्रोचे, राजन् ! महेश्वरस्य भाले चन्द्रः, श्रीजिनेन्द्रस्य पादान्तेऽपि नवापि ग्रहा मूर्तिमन्तो भवन्तीति विशेषः। श्रीसिद्धराजो न मन्यते । ततो वास्तुविद्याविदः पृष्टाः । तत्र सामान्यलोकानां गृहद्वारं पञ्चशाख, राज्ञः सप्तशाख, रुद्रादिदेवानां नवशाख, श्रीजिनस्यैकविंशतिशाखं द्वारम् । अन्यदेवप्रासादे एक एव मण्डपः, अष्टोत्तरशतं मण्डपा जिनप्रासादे । चतुर्दारेषु प्रत्येक सप्तविंशतेः सप्तविंशतः सद्भावात् । जिनस्य छत्रत्रयं सिंहासनं पद्मासनं, पदाधो नव ग्रहाः। यदुक्तम्
"प्राकारमण्डपच्छत्र-पर्यङ्कासनपद्धहैः । निर्दोषदृष्टिमूर्त्या च, देवो नैव जिनात्परः ॥१॥
आदिशक्तिर्जिनेन्द्राणा-मासने गर्भसंस्थिता । सहजा कुलजा ध्याने, पद्महस्ता वरप्रदा ॥२॥" अन्यदेवानां चेत्कश्चित्कारयति सूत्रधारश्च करोति तदा द्वयोर्विघ्नमुत्पद्यते, नान्यथा, वास्तुविद्यासर्वज्ञभाषितत्वात् ।। एतदाकर्ण्य प्रमुदितः श्रीजयसिंहदेवः स्वयं श्रीराजविहारे सौवर्णकलशाधिरोपणादिकमकारयत् ।
महालयो महायात्रा महास्थानं महासरः। यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ॥१॥ अथैकदा श्रीहेमसूरयः सिद्धनृपोपरोधात्पत्तने चतुर्मासी स्थिताः । श्रीचतुर्मुखाख्यजिनालये श्रीनेमिचरित्रं व्याख्यान
Jain Education international
Page #36
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपालयन्ति । तत्र च
सुधोपमवचस्तोमा-ऽऽकृष्टमानसवासनाः । शुश्रूषवः समायान्ति, तत्र दर्शनिनोऽखिलाः॥१॥ ॥१५॥
तत्र च पाण्डवाधिकारे पाण्डवानां प्रव्रज्या श्रीशत्रुञ्जये मुक्तिगमनादि श्रीप्रभुभिः सदसि व्याख्यातं श्रुत्वा विप्रा मत्सराध्माताः श्रीजयसिंहनृपाग्रे इदं प्रोचुः, हे राजन् ! एते श्वेताम्बराः शूद्रा यत्तन्मृषाभाषिणो व्याख्यापर्षदि समग्रदर्शनसमक्ष पाण्डवानां श्रीभारते श्रीकेदारगमनशम्भूपासनादिप्रोक्तमुत्थापयन्ति । एवं चानौचित्याचारप्ररूपणेन धर्मद्वे |षिणो राज्ञा निवारणीया एवेति विप्रोक्तं श्रुत्वा राज्ञोक्तम् , भो विप्राः! न हि नृपाः सहसाऽमृश्यविधायिनः स्युः । हेमसूरयोऽपि मुनीश्वराः सर्वसंगत्यागिनो न हि प्राणान्तेऽपि मृषा वदन्ति, परं प्रातराकार्य ज्ञास्यते । ___ एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि । आजुहाव ततो राजा हेमचन्द्रमुनीश्वरम् ॥१॥ राज्ञा समग्रसामन्तराजगुरुपुरोहितादिप्रत्यक्षं पाण्डवानां मुक्तिगमनादिस्वरूपं पृष्टम् ।
सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः। हिमादिगमनं तेषां महाभारतमध्यतः॥१॥ परमेतन्निजानीमो ये नः शास्त्रेषु वर्णिताः। त एव व्यासशास्त्रेऽपि संकीर्त्यन्तेऽथवाऽपरे ॥२॥
राजाह तेऽपि बहवः पूर्व जाताः कथं मुने! । अथोवाच गुरुस्तत्र श्रूयतामुत्तरं नृप!॥३॥ भारते युद्धं कुर्वता गाङ्गेयेन स्वपरिच्छदाग्रे एवमुक्तम्, प्राणमुक्तौ मम तनुसंस्कारस्तत्र कार्यः, यत्र कोऽपि प्राग्दग्धो| स्यात् । तत:
in Education Intematon
For Private Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
विधाय न्यायसंग्राम मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाव्यास्य ययुर्गिरौ ॥१॥ यावता तत्र शृङ्गे देहसंस्कारं कुर्वन्ति तावता व्योमवाणी प्रादुरभूदेवम् । तथाहि___ "अत्र भीष्मशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं तु, कर्णसंख्या न विद्यते ॥१॥"
श्रीराजन् ! एतद्भारतवाक्यं ज्ञात्वाऽस्माभिः पाण्डवानां मुक्तिर्व्याख्याता । शत्रुञ्जये नाशिक्यपुरे चन्द्रप्रभप्रासादे च। तेषां मूर्तयश्च सन्ति । एवं सति केऽपि जैनाः पाण्डवा बभूवुः । एतद्धेमसूरिवचः श्रुत्वा राज्ञा प्रोक्तम् , भो विप्राः! वदतात्रोत्तरम् । अयं जैनर्षिः सत्यवादी, भवन्तस्तु मिथ्याभिमानाद्यत्तत्पलापिन एव । ततो राज्ञा श्रीसूरयः पूजिताः स्वस्थानमलङ्कार्षः । लोके महती प्रभावनाऽभूत् ।
इत्थं स्वगोभिर्जयसिंहदेव-संदेहसंदोहतमांस्यपास्यन् । उज्जम्भयन् जैनमताम्बुजन्म, श्रीहेमसूरिःशुशुभेस भास्वान् ॥१॥ एकदा कर्णमेरुप्रासादादलमानेन राज्ञा रात्रौ कस्यापि धनिनो गृहे बहून् दीपान् दृष्ट्वा तद्धेतुं जिज्ञासुना प्रातराकार्य पृष्टः श्रेष्ठी । त्वद्हे केन हेतुना बहवो दीपाः? । तेनोक्तम् , देव! मम गृहे चतुरशीतिलक्षाः स्वर्णस्य सन्ति, एकैकलक्षस्यैकैको दीपो दीप्यते । एतदाकर्ण्य राज्ञा प्रजावत्सलतया अग्ने विश्वासः। यतः| "पासा १ वेसा २ अग्गि ३ जल ४, ठग ५ ठक्कुर ६ सोनार ७।ए दस न हुई अप्पणां, मंकड ८ बडूअ९ बिडाल १०॥१॥"
इति प्रोच्य षोडशलक्षान् स्वकोशाद्दापयित्वा स धनी कोटीध्वजः कृतः । श्रीसिद्धराजस्य द्रविणस्यैका कोटिः द्र प्रतिवर्ष पुण्यव्यये । येन राज्ञा स्वमातुः श्रीमयणल्लदेव्याः पुण्यव्यये बाहलोडग्रामे यात्रिकलोककरो द्वासप्ततिलक्ष
For Private & Personel Use Only
Page #38
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः
।
प्रमितो मुक्तः । यतः___ "अकरे करकर्ता च, गोसहस्रवधः कृतः। प्रवृत्तकरविच्छेदे, गवां कोटिफलं भवेत् ॥१॥"
एकदा श्रीसिद्धराजो मालवकं विजित्य पत्तनमायातः, अनेकैः कविभिरनेकधा स्तूयमानः श्रीप्रभुभिरपि धर्मप्रभावक-15 त्वादेवमुपश्लोकि__ भूमि कामगवि! स्वगोमयरसैरासिञ्च रत्नाकरा, मुक्ताः! स्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव ।
धृत्वा कल्पतरोदलानि सरलैदिग्वारणास्तोरणा-न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥१॥ अस्मिन् काव्ये निष्प्रपञ्चं प्रपश्यमानेऽत्यद्भुतार्थचातुरीचमत्कृतो नृपतिः सूरि प्रशंसन् कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्तेत्यभिहिते राजाह, किमिदम् । श्रीहेमसूरिः, पुरा श्रीवीरजिनेन्द्रस्य पुरः शैशवे यद्व्याख्यातं तजैनेन्द्रं व्याकरणं वयमधीयीमहि । नृपतिरुवाच, पुरातनं मुक्त्वा कमप्यासन्नं कर्तारं ब्रूत । गुरुः, यदि सिद्धराजः सहायीभवति तदा नवीनं पश्चाङ्गं व्याकरणं रचयामः । प्रतिपन्नं तद्राज्ञा। तदा हैमाचार्यैरुक्तम् , राजन् काश्मीरदेशे प्रवराख्यपुरे श्रीभारतीकोशे आद्यव्याकरणाष्टकप्रतयः सन्ति । ताश्च भारती प्रसाद्यात्रानाय्य च समर्पय येन व्याकरणं निष्पद्यते । तदनु राज्ञा प्रधानास्तत्र प्रहितास्तैराराधिता भारती
* __ समादिक्षत्ततस्तुष्टा, निजाधिष्ठायकान् गिरा । मम प्रसादवित्तः श्री हेमचन्द्रसिताम्बरः ॥१॥ पुंरूपा द्वितीया मम मूर्तिरयं गुरुः, अतः प्रतयः समर्प्यताम् । ततः कोशाधिकारिभिरर्पिताः । प्रतीगृहीत्वा प्रधानाः
॥१६॥
Jain Education Intematon
For Private Personal use only
Page #39
--------------------------------------------------------------------------
________________
पत्तनं प्राप्ताः । सर्व शारदोक्तं राज्ञे विज्ञपयामासुः ।
तदाकर्ण्य चमत्कार, धारयन् वसुधाधिपः । उवाच धन्यो सद्देशो-ऽहं च यत्रेदृशः कृती ॥१॥ व्याकरणप्रतयश्च श्रीसूरिभ्यः समर्पिताः । तथा बहुदेशेभ्योऽष्टादशव्याकरणानि समानीयार्पितानि गुरुभ्यः । तैरपि सर्वव्याकरणान्यवगाह्य सारं च समादाय वर्षेण पञ्चाङ्गं नवीनं सपादलक्षमितं श्रीसिद्धहेमचन्द्राभिधानं निर्माय श्रीराजवाह्यकुम्भिकुम्भे पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरैवींज्यमानं नृपसभायां समानीय समग्रविद्वत्समक्षं वाचयित्वा राज्ञा कृतपूजोपचारं स्वसरस्वतीकोशे स्थापितम् । अत्रान्तरे श्रीहेमसूरेमहिमानमसहिष्णुभिाह्मणैर्नृपो विज्ञप्तः, हे सिद्धराज!व्याकरणमिदं शुद्धाशुद्धत्वपरीक्षां विना कृतं न राज्ञः सरस्वतीकोशे स्थापितुं युक्तम् । शुद्धादिपरीक्षा तदा स्याद्यदा काश्मीरदेशे चन्द्रकान्तश्रीब्राह्मीमूर्तेः पुरः स्थितजलकुण्डे क्षिप्यते। कुण्डाच्च यद्यक्लिन्नो निर्गच्छति पुस्तकस्तदा ज्ञायते शुद्धोऽयम् । इति विप्रैर्विप्रतारितःसंशयाकुलः प्रधानान् विदुषश्च व्याकरणपुस्तकं दत्वा काश्मीरदेशे प्रहितवान् । तेच तत्र गत्वा तत्रत्यनृपविद्वत्समक्षं सरस्वतीकुण्डमध्ये मुक्तः घटिकाद्वयम् । श्रीशारदानुभावात् कलिकालसर्वज्ञहेमसूरिप्रणीतत्वेन च परमशुद्धिमत्वाद् यथास्थितोऽक्लिन्न एव निर्गतः लोके महाविस्मयश्च । ततस्तत्रत्यनृपसत्कृताः प्रधानाः पश्चादाययुः । राज्ञोऽग्रे जलमध्यपुस्तकप्रक्षेपादिवृत्तान्तः सर्वोऽप्यकथि । ततो राज्ञा विस्मितहृष्टहृदयेन लेखकशतत्रयं मेलयित्वा वर्षत्रयं यावत्
श्रीहेमचन्द्रव्याकरणप्रतयो लेखिताः, अष्टादशदेशेषु च सर्वाध्येतृणां भणनभाणनाय प्रहिताश्च । ततो राजाज्ञया सर्वः ६ कोऽपि पठति पाठयति च ।
Join Education International
For Private Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
॥१७॥
भ्रातः! संवृणु पाणिनिप्रलपितं कातन्त्रकन्थाकथां, मा काषीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् ।
कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः॥१॥ एवं सिद्धराज धर्माभिमुखं कृत्वा सर्वत्र विहारार्थिनोऽपि देवतादेशवशेन श्रीहेमाचार्याः पत्तन एव प्रायस्तस्थुः । यदुक्तम्
"निच्चं सहावउ च्चिय, समग्गलोओवयारकयचित्तो । सो देवयाइवुत्तो, विहरतो विवहदेसेसु ॥१॥ गुजरविसयं मुत्तुं, मा कुणसु विहारमन्नदेसेसु । काहिसि परोवयारं, जेणित्थ ठिओ तुमं गुरुयं ॥२॥ तो तीए वयणेणं, देसंतरविहरणाओ विणियत्तो। चिट्ठइ इहेव एसो, पडिबोहंतो भवियवग्गं ॥३॥ बुहजणचूडामणिणो, भुवणपसिद्धस्स सिद्धरायस्स । संसयपएसु सबे-सु पुच्छणिज्जो इमो जाओ ॥४॥ एयस्स देसणं निसुणि-ऊणं मिच्छत्तमोहियमईवि । जयसिंहनिवो जाओ, जिणिंदधम्माणुरत्तमणो ॥५॥ जयसिंहदेववयणा-उ निम्मियं सिद्धहेमवागरणं । नीसेससद्दलक्खण-निहाणमिमिणा मुणिंदेणं ॥६॥ अमओवमेयवाणी-विलासमेयं अपिच्छमाणस्स । आसि खणपि न तित्ती, चित्ते जयसिंहदेवस्स ॥ ७ ॥” इत्यादि ॥3
अथ कुमारपालस्वरूपं यथाअथ दधिस्थलीपुर्या श्रीभीमदेवसुतक्षेमराजस्तत्सुतो देवप्रसादस्तद्भूः श्रीत्रिभुवनपालः । भार्या कश्मीरदेवी । तस्या गर्भे समुत्पन्ने एवं दोहदः
"आसमुद्रक्षितेस्त्राणं, प्राणिनामभयार्पणम् । व्यसनानां निषेधं च, साऽकाङ्क्षच्छुभगर्भतः ॥१॥"
॥१७॥
Jan Education Intematon
For Private Personal use only
www.janelibrary.org
Page #41
--------------------------------------------------------------------------
________________
क्रमेण पूर्णे दोहदे सुतो जातः । कुमार इव तेजस्वी क्षितिं पालयिष्यतीति पितृभ्यां कुमारपाल इति नाम कृतम् । क्रमेण शस्त्रशास्त्रपारीणः । क्रमेण च महीपालकीर्तिपालौ सुतावपरौ जातौ । सुता प्रेमलदेवी श्रीजयसिंहदेवतुरङ्गमाध्यक्षेण कृष्णदेवेन परिणीता । द्वितीया देवलदेवी शाकम्भरीपुरीशाणोराजेन परिणीता । श्रीकुमारपालोऽपि पितृभ्यां भोप-15 लदेवीं राजकन्यां विवाहितः। ____ एवं कुमारपालादिपुत्रैर्धाजिष्णुवैभवः । त्रिभिस्त्रिभुवनपालभूपस्त्रिभुवनेऽभवत् ॥ १॥ एकदा श्रीजयसिंहनृपसेवायै श्रीकुमारपालः पत्तने गतः। तत्र भूपसदसि सिंहासनोपविष्टा राज्ञोऽग्रे श्रीहेमाचार्या दृष्टाः। एते कलाब्धयो राज्ञो मान्या जैना मुनीश्वराः। एषां दर्शनतो नूनं पुण्यराशिः समुल्लसेत् ॥ १॥ चेतसीति विचित्यागात् पौषधागारमेकदा । गुणगोष्ठ्या प्रवृत्तायां तत्राचार्यान् स पृष्टवान् ॥ २॥ गुणेषु को गुणः पुंसामग्रणीः सक-18 लेष्विह । वाचं वाचंयमाधीशस्तत एवं तमूचिवान् ॥ ३॥ सत्त्वमेकमहं मन्ये गुणेषु निखिलेष्वपि । परदारसहोदर्यावर्जितं सार्वभौमति ॥ ४॥ यतः
"सत्त्वं सर्वगुणौघमस्तकमणिः सत्त्वं जयश्रीप्रदं, सत्त्वं सर्वपदार्थसिद्धिविधये लोकोत्तरा कामधुक् । द्वात्रिंशद्वरलक्षणाधिकमिदं ख्यातं च सल्लक्षणं, सत्त्वं सत्त्ववति प्रतिष्ठिततमा सर्वा पुमर्थस्थितिः॥१॥"
यद्वा"प्रयातु लक्ष्मीश्चपलस्वभावा, गुणा विवेकप्रमुखाः प्रयान्तु ।प्राणाश्च गच्छन्तु कृतप्रयाणा,मायातु सत्त्वं तु नृणां कदाचित्॥१॥
For Private & Personel Use Only
Page #42
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाला एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवतु किं बहुभिः प्रसूतैः ?।
चन्द्रः प्रकाशयति दिग्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥२॥ ॥१८॥
सत्तसरीरह आयतउं दैवाइत्ती रिद्धि । कंतडा साहस न छंडीइ जीहं साहस तीहं सिद्धि ॥ ३ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधि-विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाऽप्याजौ रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥४॥ रथस्य कं चक्रं भुजगयमिताः सप्त तुरगा, निरालम्बो मार्गश्चरणविकलः सारथिरपि । रवियत्येवान्तं प्रतिदिनमपारस्य नभसः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥५॥ हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो ?, दीपे प्रज्वलति प्रणश्यति तमः किं दीपमात्रं तमः ? । वजेणाभिहताः पतन्ति गिरयः किं वज्रमात्रा नगाः?, तेजो यस्य विराजते स बलवान् स्थूलेषु का प्रत्ययः? ॥६॥ मनस्विभिः सदा भाव्यं, सत्त्वोद्योगपरायणः । दुःसाध्यान्यपि कार्याणि, यतः सिध्यन्ति सत्त्वतः॥७॥ यथाऽर्जुनाय लङ्कायां, नीत्वा सत्त्वाधिकश्रिये । सत्त्वेनावर्जितः स्वर्ण, कौमारं हनुमान् ददौ ॥ ८॥" तथाहिहस्तिनापुगरं स्वस्तिरम्यमस्ति प्रसिद्धिभृत् । कुरुक्षेत्रे पवित्रात्मा तत्र राजा युधिष्ठिरः॥१॥ पुण्यश्लोकतया सत्यवाचा च विदितोदयः । तेनान्यदा राजसूयाभिधः प्रारभ्यताध्वरः ॥२॥ तदा कुमारमानेतुमर्जुनं प्रहितोऽर्जुनः। प्रस्थितो रथमास्थाय लङ्कां प्रत्यविलम्वतः॥३॥निर्विबन्धं सेतुबन्धमिन्द्रसूर्यावदाययौ । तावद्रथः स्थिरीभूतः पदमेकं न गच्छति ॥४॥
CARE
For Private & Personel Use Only
Page #43
--------------------------------------------------------------------------
________________
यो वायुवेगादधिकं चलत्यस्खलितः सदा । स चस्खले रथः केन मामकीनो मनस्विना ? ॥ ५॥ जिज्ञासुः स्खलने हेतु रथादुदतरत्ततः । अग्रतः पार्श्वतश्चापि पाषाणाद्यं व्यलोकत ॥ ६॥ व्याघातसदृशं किंचिद्यावदने न पश्यति । रथं च परितस्तावदभ्रामाभ्रान्तलोचनः॥७॥ ततो रथं परावृत्य स्थितस्तेनातिकोमलः । मृणालतन्तुवत्सूक्ष्मस्तन्तुरेको निरैक्ष्यत ॥८॥ अर्जुनो विस्मयस्मेरश्चिन्तयामास चेतसि । अहो! मम रथोऽनेन तन्तुना स्थापितः कथम् ? ॥९॥
ततस्तदेनं रुष्टात्मा प्राजनेन जघान सः। नोच्छिन्नस्तेन घातेन स तन्तुर्घनसंहतिः॥१०॥ स दोभा नोटितुं लग्नस्ततः है सोद्यममानसः । नो कराभ्यामपि परं शक्यते खण्डितुं यदा ॥११॥ तदा शस्त्रेण तीक्ष्णेन बलेन दृढमाहतः। भग्नं
शस्त्रं परं तन्तुस्तस्थावच्छिन्न एव सः॥ १२ ॥ युग्मम् ॥ यावत्त्वालोकते तन्तोर्मूलमुन्मूलनं चिकीः । तावदेकं स्फुरत्पुच्छमुन्दुरं दृष्टवानसौ ॥ १३ ॥ वेष्टयित्वा रथं तत्र पुच्छान्निर्गततन्तुना । स्थितं तमिन्द्रसूः प्रोचे कस्त्वमाखो! महाबलः? ॥ १४ ॥ कथं रथः स्वमार्गेण गच्छन्मे स्खलितस्त्वया । स्वं रूपं प्रकटीकृत्य कथ्यतां कारणादिकम् ॥ १५॥ कापि नोन्दुरमात्रेण स्खल्यते कस्यचिद्रथः। परं प्रभावो देवादेरवश्यं संभवी ह्ययम् ॥ १६ ॥ यतः
“ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाधौं वीर! तरन्ति वानरभटान संस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥१॥" इत्यर्जुनवचः श्रुत्वा मूषकस्तरक्षणादपि । त्यक्त्वा तद्रूपमकरोद्रूपं हनुमतः स्फुटम् ॥ १७ ॥ स प्राह पाण्डवश्रेष्ठ ! शृणु सर्वं यथास्थितम् । अहं पवनपुत्रोऽस्मि रामदेवस्य सेवकः ॥ १८ ॥ यदा जहे सती सीता रावणेन दुरात्मना ।
For Private & Personel Use Only
Page #44
--------------------------------------------------------------------------
________________
कुमारपाल
॥ १९ ॥
RECRUCRACCROCOCCC
तदाऽयमुपलैः सेतुबन्धो व्यरचि वानरः॥ १९ ॥ ससैन्यो राघवोऽनेन समुद्रमुदलवयत् । प्राप्य लङ्कापुरी नीतः पौल-16 प्रवन्धः। स्त्यः प्रेतसद्मनि ॥ २०॥ लङ्काधिपत्ये संस्थाप्य विभीषणमुदारधीः। सीतासमन्वितो रामः स्वां पुरी जग्मिवान् यदा ॥ २१॥ तदाऽहं रक्षको ह्यत्र कृतो रामेण भूभुजा । मा गच्छन्मानवः कोऽपि पथाऽनेनेति हेतुना ॥ २२ ॥ त्वद्रथोऽयं मयाऽस्थापि ततोऽर्जुनयशोऽर्जुन ! । वृथा प्रयास मा कार्कीलङ्कागमनहेतवे ॥ २३ ॥ इत्युक्तिं मारुतेः श्रुत्वा सत्त्वाख्यः प्राह पाण्डवः । सत्यमुक्तं महाभाग ! त्वया कपिकुलोत्तम ! ॥२४॥ परं तथाऽपि गन्तव्यं लङ्कायां स्वर्णहेतवे । ऋषीणां दक्षिणाद्यर्थमध्वरे तद्विलोक्यते ॥ २५ ॥ तवापि सुकृतस्यास्य विभागो भविता कपे!। यतः प्राप्यत पुण्यांशः कृतानुमतिकारितैः ॥ २६ ॥ यतः"कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः। साहाय्य कर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति॥१॥" | महासत्त्वैः समारब्धं कार्य केन विहन्यते ? । येन केनाप्युपायेन तत्सिद्धिं नेयमेव तैः ॥ २७ ॥ अनेन वचसा क्रुद्धस्तदाह पवनात्मजः। अहो! पाण्डवकोटीर! गर्वस्ते खर्वसंस्थितिः॥ २८ ॥ श्रीरामोऽनेन मार्गेण गतो नाप्यपरो नरः। गच्छ त्वमन्यमार्गेण शक्नोषि यदि पाण्डव! ॥२९॥ प्राहार्जुनः प्रयास्यामि त्वं मार्गस्यास्य रक्षकः । क्षेत्रपो हि निज क्षेत्रं पाति नो सकलं जगत् ॥ ३०॥ ततोऽर्जुनेन कोदण्डं कुण्डलीकृत्य मार्गणैः । सेतुबन्धो नवश्चके वज्रपद्या विजित्वरः ॥ ३१ ॥ पावनिर्मानिनां मान्यस्तं सेतुं वीक्ष्य विस्मितः। पश्यामि दृढतामस्येत्यवोचत् पाण्डवं प्रति ॥ ३२॥ विलोकयेत्यनुज्ञातः साक्षादिन्द्रभुवा ततः। सप्ततालप्रमं रूपं चक्रे वक्रमनाः कपिः॥ ३३ ॥ सेतोरुपरि वेगेन पपातोड्डीय
en Education tema
For Private Personal use only
Page #45
--------------------------------------------------------------------------
________________
भूरिशः । शिलायामिव न क्वापि तत्राभूत्प्रणतिर्मनाक् ॥ ३४ ॥ तद्भाणकौशलं वीक्ष्य वीक्षापन्नः सविस्मयः। साधु साधु महासत्त्वेत्यवदद्वानराग्रणीः ॥ ३५ ॥ तव कार्य सुवर्णेन लङ्कायां गमनेन वा । इत्युक्ते काञ्चनेनेति प्रत्युवाच शचीशभूः ॥ ३६॥ ततोऽसौ हनुमान् सम्यक् सत्त्वेनावर्जितः क्षणात् । अर्पयामास कौमारं स्वर्णमानीय कोटिशः॥ ३७॥ तट्टहीत्वा पुरं प्राप स्वकीयमथ पाण्डुसूः। तेन स्वर्णेन सकलं क्रतुकार्यमजायत ॥ ३८ ॥ एवं निस्सीमसत्त्वोद्यल्लीलासंवलितैर्गुणैः । सिद्धिं समीहितार्थस्य प्रविलोक्य विवेकिभिः॥ ३९ ॥ सत्त्वप्रगुणिता शुद्धगुणद्धिवर्धितोदया । अर्जुनीयाऽर्जुनेनेव पुरुषार्थप्रसिद्धये ॥४०॥ युग्मम् ॥ | सत्त्वमपि परनारीसहोदरबतसमुज्जीवितमेव लोकोत्तमपुरुषप्रतिष्ठाहेतुः। केवलसत्त्वमात्रं सिंहशरभादीनामिव विवेकविकलत्वेन पशुपुरुषकारावहम् । अतः पुरुषेण स्वात्मनःप्रतिष्ठाधर्मजयादिवृद्धये परनारीपराङ्मुखत्वमेव सेवनीयम् । यतः
"तावल्लोकविलोचनामृतरसस्तावन्मनोवल्लभ-स्तावद्धर्ममहत्त्वसत्यविलसत्कीर्तिप्रतिष्ठास्पदम् । तावद्भूमिपतिप्रसादभवनं तावच्च सौभाग्यभूर्यावन्नो परदारसंगरसिको लोके भवेन्मानवः ॥१॥"
तथा"परिहरत पराङ्गनाभिषङ्गं यदि बत !जीवितमस्ति वल्लभं वा हरि हरि हरिणीदृशो निमित्तं दश दशकन्धरमौलयो लुठन्ति ॥१॥
तथा च"लङ्का यस्य पुरी त्रिकूटशिखरे भ्राता स कुम्भश्रवाः, उद्वेलः परिखाम्बुधिः स जगतो जेताङ्गभूरिन्द्रजित् ।
For Private & Personel Use Only
Page #46
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
॥२०॥
-
अन्यस्त्रीपु रिरंसयाऽद्भुतमहाविद्यासहस्रोर्जितः, सोऽपि प्राप गतप्रतापविभवो लकेश्वरस्तां दशाम् ॥१॥ स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ २॥ परदारैः परकाव्य-बहुमानं स्वीकृतैर्विधत्ते यः। निन्द्योऽलं कापुरुषः, स्यादेष समस्तकविहीनः ॥३॥"
मुग्धा अपि पठन्ति"जे परदारपरम्मुह ते वुच्चई नरसीह । जे परिरंभई पररमणि तांह फुसिज्जइ लीह ॥१॥ अप्परं धूलिहिं मेली सयणह दीधर छार । पगि पगि माथा ढंकणउं जिणि जोई परदार ॥२॥"
तथा" द्वे अकार्ये कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥१॥" . विष्णुपाचे कर्णयाचा“मा मतिः परदारेषु, परद्रव्येषु मा मतिः । परापवादिनी जिह्वा, मा भूदेव कदाचन ॥१॥ मातृवत्परदारान् ये, संपश्यन्ते नरोत्तमाः । न ते यान्ति विशांश्रेष्ठ!, कदाचिद्यमयातनाम् ॥२॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव-स्तेन वैश्य ! धरा धृता ॥३॥
तस्माद्धान्वितैस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥४॥ पद्मपुराणे सीताहरणसमयेऽरण्यलब्धकुण्डलायुपलक्षणपृच्छायां रामाग्रे लक्ष्मणः
॥२०॥
Page #47
--------------------------------------------------------------------------
________________
" कुण्डले नाभिजानामि नाभिजानामि कङ्कणे । नूपुरे त्वभिजानामि, नित्यं पादाजवन्दनात् ॥१॥
__ तथा चात्रैवं पुराणोक्तिः, देवानां रूपद्वयम् । यथा- “एकं तु स्थावरं ज्ञेयं, द्वितीयं जङ्गमं पुनः । स्थावरं जलरूपेण, जङ्गमं देवतामयम् ॥१॥
एकदा गङ्गा जङ्गमरूपेण स्वर्गता । तदवसरे सभामध्यगतेन्द्रण कार्यव्यग्रेण प्रतिपत्तिर्न कृता । जाह्नवी पश्चाद्वजन्ती देवैदृष्टा, इन्द्रायाकथि । तेन पृष्ठौ गत्वा पादयोलगित्वा सम्मान्य च पश्चादानीय सिंहासने निवेश्य पृष्टा । हे मातः! कथं पश्चाद्गच्छसि ? । गङ्गा प्राह
" वदनं नैव सानन्दं, नासनं न च भाषणम् । न कार्यवादप्रष्टव्यं तस्य पार्चे गतेन किम् ? ॥१॥ वदनं यस्य सानन्दमासनं चैव भाषणम् । प्रष्टव्यं कार्यवादस्य, गम्यते तस्य संनिधौ ॥२॥
माणिणि माणविवजिय, किं किजइ अमिएण । वरि विस पिज्जइ माणसिउँ ट्रॅपि मरिजइ जेण॥३॥" इति गङ्गोक्तं श्रुत्वा सुरेन्द्रः प्राह, एषा जगत्रयजनजनितहत्याकोटिसहस्रधारिणी कथमम्बा शुद्धिं यास्यति ? इति चिन्तातुरेण मया प्रतिपत्त्यादिकं नाकारि । यतः
"ब्रह्मस्त्रीभ्रूणगोमातृ-पितृवन्धुसुतस्य च । ये कुर्वन्ति वधं पापाः, परदाररतास्तथा ॥१॥
ते सर्वे तव पानीयस्नानपानपरायणाः । वेगाद्भवन्ति निष्पापाः, लोकोक्तिरिति वर्तते ॥२॥" इन्द्रेणोक्त गङ्गा प्राह, अहं विष्णुपादोदकी विष्णुपादरजःप्रक्षालनपरा । अतो विष्णुपादस्पृष्टं जलं पवित्रमेव भावि ।
Jan Education Internal
For Private
Personal use only
Page #48
--------------------------------------------------------------------------
________________
कुमारपाल
॥२१॥
इन्द्रः, भ्रान्ताऽसि मातः!। येन विष्णुनाऽष्टादशाक्षौहिण्यः संहारिताः, द्वात्रिंशल्लक्षणपुरुषरक्तवलिच्छलमुत्पाव्य घटो-18 प्रवन्धः । कचो भीमपुत्रो हतः, स युद्धविलोकश्रद्धालुर्मस्तकमात्रेण स्तम्भे स्थापितः, युद्धान्ते पृच्छा, सुदर्शनेन रिपुशिरछेदं कुर्वन् हरिदृष्टो मया, इत्युत्तरम् । एवं हत्याहतस्य हरेः पादधावने कथं शुद्धिः? । गङ्गा प्राह, महेशमूर्धनि वासेन नैर्मल्यम् । इन्द्रः, ब्रह्मणः पञ्चमं शिरो गर्दभस्वरेण यथा तथा भाषमाणं यश्चिच्छेदे, तत्पापशुद्ध्यर्थ त्वं शिरसि धृताऽसि । एवं ब्रह्मकमण्डलुनिवासोऽपि न नैर्मल्यहेतुः, यः स्वसुतां सरस्वती कामयते तस्य संसर्गोऽपि त्याज्यः। यतः
“महत्सेवा द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सगिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥१॥” इति । एवमिन्द्रोक्तं विचार्य गङ्गा प्रोचुषी । तर्हि 'परदारपरद्रव्य' इति । गुणगरिष्ठपुरुषरत्नपादप्रक्षालनयेति । यदाह
"परदारपरद्रव्यापरद्रोहपराङ्मुखः। गङ्गा प्राह कदाऽऽगत्य, मामयं पावयिष्यति ॥१॥ निष्पापाऽहं भविष्यामि तस्य पापं न विद्यते । तस्मिन् सर्वगुणोत्कृष्टे, मत्पापं न लगिष्यति ॥२॥
अग्निना शुद्ध्यते धातुर्नाग्निः श्यामलतां व्रजेत् । तथा सुरेन्द्र ! मत्पापं, गमिष्यत्यंहियोगतः॥३॥" इत्यादि श्रीहेमसूरिपाचे श्रुत्वा चेतसि चमत्कृतः शुभोदकसंपर्कवशात् श्रीगुरुपार्थे परनारीसहोदरव्रतं गृहीतवान्
॥२१॥ कुमारपालनृपः। तथा
"प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराऽभ्युदयजननी याति स्फातिं यथा गुणपद्धतिः।
For Private Personel Use Only
Page #49
--------------------------------------------------------------------------
________________
कलयति परां वृद्धिं धर्मः कुकर्महतिक्षमः, कुशलजनने न्याय्ये कार्य तथा पथि वर्तनम् ॥ १ ॥ ” एवमुपदेशामृतं निपीय यथास्थानं जगाम कुमारपालः । कतिचिद्दिनानि पत्तने श्रीजयसिंहदेव सेवां विधाय दधिस्थलीं प्राप्तः सुखेन राज्यं भुनक्ति ॥
अथ श्रीसिद्धराजस्य राज्यं पालयतः सतः । भूयांसोऽपि सुखेने युर्वासरा इव वत्सराः ॥ १ ॥ परं गृहस्थधर्मद्रोः फलं नापत्यमाप सः । सशल्य इव तेनान्तर्महतीमधृतिं दधौ ॥ २ ॥ दध्यौ च मेऽभवन्मूर्ध्नि पठितंकरणी जरा । पुत्रं नाद्यापि पश्यामि निष्पुण्य इव शेवधिम् ॥ ३ ॥ लोकेऽपि —
“ नभो दिनेशेन नयेन विक्रमो, वनं मृगेन्द्रेण निशीथमिन्दुना ।
प्रतापलक्ष्मीर्बलकान्तिशालिना, विना न पुत्रेण विभाति नः कुलम् ॥ १ ॥”
चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचपि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशी - मपि ॥ ४ ॥ विना स्तम्भं यथा गेहं यथा देहो विनात्मना । तरुर्यथा विना मूलं विना पुत्रं कुलं पतेत् ॥ ५ ॥
इत्यादि ध्यात्वा विधिपूर्वक हरिवंशपुराणश्रवणानेक देवतोपयाचितादिमिथ्योपचारान् कृतवान् परं पुत्रप्राप्तिर्नाभवत्, भाग्याधीनत्वात् फलप्राप्तेः । तदनु हेमाचार्यान् सहाकार्य श्रीतीर्थयात्रार्थं प्रस्थितः श्रीजयसिंहदेवः । मार्गे हेमाचार्य पादचारिणं दृष्ट्वा सुखासनाधिरोहार्थं प्रार्थितवान् ॥
गुरुर्जगदिवान् राजन् ! यतीनां नैव युज्यते । परपीडाकरत्वेन वाहनाद्यधिरोहणम् ॥ १ ॥ पद्भ्यां गलदुपानप -
Page #50
--------------------------------------------------------------------------
________________
स
प्रवन्धः
।
कुमारपाल यां संचरन्ते दिवाब ये । चारित्रिणस्त एव स्युन परे यानयायिनः ॥२॥
इति यानानादानतो दूनो नृपः पठितमूर्खा एव भवन्तो देहरक्षितो धर्मः इत्याद्यपि न विन्दन्तीति कोपादुक्त्वाs॥२२॥
ग्रतो ययौ । हेमाचार्योऽपि निरादरावज्ञां ज्ञात्वा मार्गे दिनत्रयं राज्ञो न मिलितः। तुर्ये दिने सूरयो रुष्टा इति विचिन्त्य प्रसादनार्थ पटकुटी प्राप ।
बहिःस्थितेन श्रीसिद्धक्ष्माभृता सूरिक्षित । काञ्जिकेन समं भक्ष्यं भुञ्जानः सपरिच्छदः॥१॥ | ततो विप्रवचांसि यथातथाप्रलपितानि विसंवादास्पदानि ज्ञात्वा सूरयः पादयोर्लगित्वा प्रसादिताः, ममागः
क्षम्यतां, जडोऽस्मीत्यादि । ततः श्रीहेमाचार्यसहितः शत्रुञ्जये यात्रां कृत्वा द्वादश ग्रामान् देवदाये दत्त्वा, तथैव रैवतके हनेमिजिनं प्रणनाम । तत्र तीर्थे
अस्मिंस्तीर्थे नृपेणापि नोपवेष्टव्यमासने । मञ्चे न शेयं भुक्तौ च न धार्याऽड्डुणिकाऽग्रतः॥१॥ __ प्रसवो न स्त्रिया कार्यो मथनीयं च नो दधि । प्रतिपाल्या व्यवस्थेयं धर्मास्थाधारिभिर्तृभिः ॥२॥
इति व्यवस्थां कृत्वा देवपत्तने सोमेश्वरं नत्वा कोटीनारिपुरं प्राप । तत्राम्बां भक्त्याऽभ्यर्च्य सुतप्राप्त्यर्थं श्रीहेमाचार्याः प्रयुक्ताः, श्रीपूज्यैर्विशेषतपः कृत्वा विलोकनीयं, श्रीअम्बा च प्रष्टव्या, यदुत मम पुत्रो भावी न वा ? मम च राज्ये को भावी ? इति । ततस्त्रिभिरुपोषणैरम्बामाराध्य निर्णय पृष्ट्वा च राज्ञोऽग्रे कथितम्
अपत्यं नास्ति ते राजन् ! कृतैरौपायिकैरपि । यस्तु त्वामनु भूमीभुग भावी तमवधारय ॥१॥
॥२२॥
Join Education International
For Private Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
कर्णदेवाग्रजक्षेमराजपुत्रः पवित्रधीः । देवप्रसाद इत्यासीद्दधिस्थल्यां कृतस्थितिः॥२॥ तत्पुत्रस्त्रिभुवनपालः, तस्य पुत्राः कुमारपालमहीपालकीर्तिपालाः । तेषु__कुमारपालस्त्वद्राज्ये भविता विश्वविश्रुतः। यः संप्रतिरिवावन्यां जैन धर्म तनिष्यति ॥३॥
इति सूरिवचसा वजाहत इव यात्रापवित्रात्मा पत्तनमाजगाम । अथाम्बादेशसंवादचिकीर्गणकानिमान् पप्रच्छ । तेऽपि तात्कालिकलग्नवलादम्बोक्तानुसार्येव प्रोचुः । तदनु कस्यापि पुरोधसो वचसा सोमनाथमारिराधयिषुः पादचारेण कापोती वृत्तिं कुर्वाणो गङ्गोदककुम्पकावानीय केदारपुत्रवद्देवपत्तनं गतः। प्रभासे स्नात्वा व्यहमुपोषितो भोगपूजादिभिः सोमनाथमतोपयत् । ततः प्रत्यक्षीभूतः शम्भुः पुत्रार्थ प्रार्थितः॥
ध्यात्वा सोमेश्वरोऽवोचत्तव नास्त्येव सन्ततिः। राज्याहस्तु पुराऽप्यस्ति कुमार स्फारविक्रमः ॥१॥ पुनः प्रोचे नृपो दीनस्त्वं श्रुतोऽभीष्टदायकः। दत्से न पुत्रमप्येकं कीदृक् तेऽभीष्टदातृता ॥२॥
ततः पुत्राप्तियोग्यता नास्ति तवेत्युक्त्वा तिरोहितो देवः।। एवं गाङ्गोदकैनैकभोगैस्तुष्टे महेश्वरे । इष्टं नाप नृपः क्वापि भाग्यायत्ता हि सिद्धयः॥१॥ यतः
"नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः ।
फलं कर्मायत्तं यदि किममरैः ? किं च विधिना?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥१॥" इत्यादि ध्यात्वा खेदमेदुरः पत्तनं प्राप्तः। तदनु राज्याहे कुमारं यदि मारयामि तदा कदाचित् सोमेशो राज्यपाल
For Private & Personel Use Only
Page #52
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल नाय मम सुतं दद्यादिति मिथ्याकल्पनां मनसि विधाय कुमारपालं प्रति विद्वेषः । यतः
“नाकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥१॥" ॥ २३ ॥
यद्वा“ मृगमीनसजनानां, तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः, निष्कारणवैरिणो जगति ॥१॥" पित्रादीन् घातयित्वा कुमारं घातयिष्यामीति धिया प्रच्छन्नघातकान् प्रेषयित्वा त्रिभुवनपालं घातयामास । कुमारपालोऽपि पितुरोर्ध्वदेहिकं विधाय घातकारणं जिज्ञासुः पत्तने गत्वा राजवर्गीयान् रहः पृष्टवान् । केनाप्याप्तेन घातहेतो निवेदिते निविण्णश्चिन्तयामास । धिग् राज्यं यत्कृते मूढैवीरभोगीणवाहवः । पितृभ्रातृतनूजाद्या विध्वंस्यन्ते विरोधिवत् ॥१॥
भोजराजकाव्यस्य सस्मार । यथा"मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते ! नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥१॥” इति। रिपवन्ति परे किञ्चित्प्रतिपद्यैव कारणम् । दैववत्तद्विनवायं सिद्धराजो दुराशयः॥२॥
यावदेष मां न घातयति तावत्परिवारं क्वापि मुक्त्वा कालक्षेपं करोमीति संचिन्त्य स्वसृपतेः कृष्णदेवस्य पार्चे गतः। दिस्वाभिप्रायः प्रकाशितः। ततः कृष्णदेवः प्राह
MAHASCAMCALCCC
SOMERE
For Private
Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
विधौ वक्रे स्थिते मूर्ध्नि मन्ये सोऽपि महेश्वरः। भिक्षयात्मभरिर्जज्ञे का कथाऽन्यस्य देहिनः॥१॥ यावता विधिः प्रसीदति तावता देशान्तरे गम्यते वेषान्तरेण प्रच्छन्नवृत्त्या । अत्रत्यं राजसूत्रं त्वां ज्ञापयिष्यामि चरैरिति विचार्य श्रीकुमारपालः स्वस्थानं भेजे । समाधिना हृष्टचित्तवृत्तिश्च । अथ
“त्यजेदेकं कुलस्यार्थे, ग्रामस्याथै कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत्॥१॥" ___“जीवन्नरो भद्रशतानि पश्यति" इति नीतिवित् कुमारो दधिस्थल्यादौ भोपलदेप्रियां भ्रात्राद्यं च मुक्त्वा जटाधारीभूय प्रच्छन्नं भूमौ वभ्राम । एकदा राजसूत्रजिज्ञासया पत्तने समागात् । कर्णमेरुप्रासादे द्वात्रिंशद्भरटकमध्ये मिलितः।
श्रीजयसिंहदेवेन वधाय सर्वत्र मृग्यमाणस्तद्भटैरुपलक्ष्य ज्ञापितो राज्ञः । राज्ञा भरटका भोजनार्थ निमन्त्रिताः। मध्याह्ने | 13/राजा तेषामनुक्रमेण पादौ प्रक्षालयन् ऊद्धरेखाच्छत्रमत्स्यादिलक्षणः कुमारं ज्ञात्वा भोजनानन्तरं घात्य इति संचिन्त्य
धौतपोतसमाकर्षणार्थ कोशे गतः । कुमारोऽपि राज्ञो मुखच्छायाकुरदृष्ट्यादिना दुष्टत्वं जानन् भोजनार्थ निषण्णोऽर्द्धभुक्तौ वान्तिव्याजान्निर्गत्य केनाप्यस्खलित आलिगकुम्भकृगृहे गतः । तेन भाण्डसंचयमध्ये प्रक्षिप्य रक्षितः । पृष्ठायातराजपुरुषविलोक्यमानो न लब्धः। गता भटाः।रात्रौ तत्र कुम्भकृता सह मैत्री जाता। यतो यो व्यसने उपकारी स मित्रम्।यथा
" अर्थेन किं कृपणहस्तमुपागतेन ?, शास्त्रेण किं बहुशठाचरणाश्रितेन ।
रूपेण किं गुणपराक्रमवर्जितेन ?, मित्रेण किं व्यसनकालमनागतेन ? ॥१॥" राजाऽपि धौतपोतप्रदानावसरे कुमारमदृष्ट्वा कोपकरालम् सेनान्यमादिष्टवान् । यथा कुमारं जीवन्तमत्रानय, नो
-
For Private & Personel Use Only
Page #54
--------------------------------------------------------------------------
________________
कुमारपाल
॥२४॥
तश्चतुर्दिक्षु तं विलबाह, भो भद्र ! दृष्टो कण्टकार्दूयमानोऽपि कोऽपि सकृपस्तमिति
चेत्त्वां तत्पदे नेष्यामीति । ततः सेनानीस्तद्धरणार्थ निर्गतः। कुमारोऽपि रात्रिमतिक्रम्य प्रातर्नष्टः । दैवयोगात्पृष्ठौ लग्नः।
प्रवन्धः । सेनानी। रजःपूरहयेहषितभटहक्कादिभिस्त्रासितो भयभ्रान्तः कम्प्रकायोऽये नश्यन् बदरीवणे तत्पत्राण्येकत्र कुर्वाणं हालिकं प्रेक्ष्य प्राह, भोः सत्पुरुष ! रक्ष रक्ष मामितो भयादिति । हालिकोऽपि सकृपस्तमिति ब्रुवन्तं तत्र पत्रराशौ क्षिप्वा कण्टकभरैराच्छादितवान् । कुमारोऽपि तैः कण्टकाग्रैर्दूयमानोऽपि निमीलितदृग्द्वन्द्वो मृतवत् स्थितः । तावता पृष्ठौ । सेनानीः प्राप्तः सन् प्राह, भो भद्र ! दृष्टो युवाऽत्रैको गच्छन् ? । सोऽपि स्वकर्मव्यग्रेण मया कोऽपि न दृष्ट इत्याह । ततश्चतुर्दिक्षु तं विलोक्य विलोक्य श्रान्ताः सैनिकाः । सेनानीरपि कुन्ताग्रेण पत्रराशिं विलोक्य पश्चाद्गत्वा राज्ञे सर्वम-3 कथयत् । राजाऽपि यः क्वश्चित्कुमारप्रवृत्तिमानेता तस्य वाञ्छितं दास्यामीति कथयित्वा सर्वत्र स्वभटान् प्रेषीत् । कुमारोऽपि रात्रौ हालिकेन कर्षितः कण्टकक्षतसर्वाङ्गरुधिरक्लिन्नो जीवन्मृत इव हालिकं प्राह
रक्षित्वा मामितः कष्टाकिं नैवोपकृतं त्वया ?। उपकारेषु यन्मुख्य प्राणिनः प्राणरक्षणम् ॥१॥ "क्षेत्रं रक्षति चञ्चा, सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्, नरेण किं निरुपकारेण ? ॥१॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन । विभाति कायः करुणापराणां, परोपकारेण न चन्दनेन ॥२॥ दो पुरिसे धरउ धरा, अहवा दोहिंपि धारिया धरणी । उवयारे जस्स मई उवयरियं जो न फुसेइ ॥३॥" जीवदातुर्भवतोऽहमनृणः स्यां न यद्यपि । तथाऽप्युपकरिष्यामि समये त्वां स्वबन्धुवत् ॥२॥
सा॥२४॥ इत्युक्त्वा भीमसिंहेति संज्ञा तस्यावधार्य जटा भद्राकृत्य दधिस्थली प्रति प्रस्थितः । पथि तरुच्छायायां विश्रान्तो
Join Education International
Page #55
--------------------------------------------------------------------------
________________
मूषक रूप्यमुद्रां बिलादाकर्षन्तं दृष्टवान् । कियतीरेष कर्षयतीति यावत्पश्यति तावतैकविंशतिमुद्राः कर्षिताः, तदुपरि नृत्यं कृत्वाऽऽसित्वा शयित्वा च मुद्रामेकामादाय बिलेऽविशत् । कुमारोऽपि मनस्येवं ध्यातवान्
“नो भोगो न गृहादिकार्यकरणं नो राजदेयं किमप्यन्यस्यापि न सत्कृतिर्न सुकृतं सत्तीर्थयात्रादिकम् ।।
यद्गृहन्ति तथाऽपि लोलुपधियः शूच्याननाद्या धनं, तन्मन्ये भुवनैकमोहनमहो! नास्मात्परं किंचन ॥१॥" __ततः समुत्थाय शेषा विंशतिमुद्रा गृहीताः। उन्दुरोऽपि बिलान्निर्गतस्ता अपश्यन् हृदयस्फोटं मृतः। तं मृतं दृष्ट्वा कुमारः खिन्नस्तच्छोकशङ्कव्याकुलमना अचिन्तयत्
धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१॥
भवतु तेन धनेन सुखेन वा, यदपहत्य परं प्रणिपत्य वा । उभयलोकहिताशयशालिनां, विपद एव वरं नतु संपदः ॥२॥18 ततः पुरो व्रजन् कयाऽपीभ्यपुत्र्या पितुहं ब्रजन्त्या पथि पाथेयाभावादिनत्रयक्षुत्क्षामकुक्षिातृवात्सल्यात्कुमारः शालिकरम्बेन भोजितः । तदौचित्येन हृष्टः प्राह
करचलुअपाणिएणवि, अवसरदिन्नेण मुच्छिओ जीयइ । पच्छा मुआण सुंदरि!, घडसयदिन्नेण किं तेण? ॥१॥ जं अवसरे न हूअं, दाणं विणओ सुभासियं वयणं । पच्छा गयकालेणं, अवसररहिएण किं तेण? ॥२॥ पश्य शलाकावसरे, तृणाय भूपैः प्रसार्यते स्वकरः । अनवसरे गुणवानपि, हृदयादुत्तार्यते हारः॥३॥ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्रामः, औचित्यपरिवर्जितः ॥ ४॥
Page #56
--------------------------------------------------------------------------
________________
कुमारपाल
॥ २५ ॥
तत उम्बराग्रामवास्तव्यदेवसिंहसुतां देवश्रीनाम्नीं तां स्वोपकारिणीं ज्ञात्वा मम राज्योत्सवे त्वया भग्नि ! तिलकः कार्य इत्युदीर्य दधिस्थलीं गतः । तत्र पूर्वागतराड्भटसंकेतेन सैन्यैर्वेष्टितायां दधिस्थल्यां कुमारो नंष्ट्वा सज्जनकुलालकृते|ष्टिकापाकमध्ये स्थितः । सज्जनोऽपि तदन्तिके स्थितः सर्वत इष्टिकाव्रातैर्वेष्टयति । कुमारो निरुच्छ्रासो जीवन् मृत इव स्थितः । सैन्यं सर्वत्र विलोक्य पश्चाद्गतम् । रात्रौ वोसिरिविप्रः पूर्वमित्रं मिलितः, सज्जनगृहे वोसिरिं सज्जनं च प्राह कुमारः
केचिन्नाम्ना गुणैः केचिद्भूयांसः सन्ति सज्जनाः । द्विधा पुनस्त्वमेवैकः, सज्जनोऽस्यधुना ननु ॥ १ ॥
अद्यापि जयसिंहदेवः प्रतिकूलदैववन्नानुकूलः, तद् भोः सज्जन ! मत्कुटुम्बमितोऽवन्तीं नय । अहं तु वोसिरिणा | देशान्तरं श्रये इति मन्त्रयतां तेषां सज्जनपितरौ रात्रिजागरोद्विग्नौ प्रोचतुः, रे सज्जन ! किमयं तव चित्रकूटपट्टिकां, रे वोसिरे ! तुभ्यं लाटदेशं च दास्यति ? यदुत मुधा जागर्यया रात्रिं नयत इति श्रुत्वा कुमारः शकुनग्रन्थिं वा चिन्तितवान्दारिद्र्यमेव दौर्भाग्यं देहिनां यदधिष्ठितः । जल्पन्नपि जनोऽन्येषां भवत्यरिरिवाप्रियः ॥ १ ॥
गुणज्ञोऽपि कृतज्ञोऽपि, कुलीनोऽपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः ॥ २ ॥
ततः सज्जनेन सह कुटुम्बमवन्तीं प्रेष्य स्वयं वेषान्तरेण देशान्तरेऽगमत् । क्वापि ग्रामे प्रथमदिनजातलङ्घनो द्वितीयदिने क्षुधितो वोसिरिं प्राह, अद्य भोजनोपायश्चिन्त्यताम् । द्विजोऽप्याह, अद्य जननी भोजनदात्री । कुमारः, का जननी ? । वोसिरिः
प्रतिदिन मयललभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! । नृपनमनि ! नरकतारणि!, भगवति ! भिक्षे ! नमस्तुभ्यम् ॥१॥
प्रबन्धः ।
॥ २५ ॥
Page #57
--------------------------------------------------------------------------
________________
इत्याह । ततो वोसिरिनामे गत्वा करम्भनिभृतं कुम्भं वस्त्रेणाच्छाद्य पृथग् भिक्षां गृहीत्वाऽऽयातः । मिलित्वा भुक्तो।। लिएकत्र मठे सुप्तौ । कुमारे द्विषद्भीत्या कूटनिद्रां कुर्वाणे वोसिरिरुत्थाय कुम्भतः करम्भं लात्वा भुङ्क्ते स्म । चौलुक्यस्तथा
वीक्ष्य दध्यौ, विप्राः स्वभावतोऽपि भुक्तेर्न तृप्यन्ति, स्वार्थमिदमन्नं छन्नं स्थापितमभूत् , रङ्कोऽयमिति क्षणान्तरे उत्थिते कुमारे प्राह विप्रः, यदि बुभुक्षा स्यात्तदा भुज्यतामयं करम्बकः । राज्ञा भाषितः, पूर्वमेकाकिना कस्माद्भक्षितः ? । विप्रोऽपि, अयं रात्रावपिहितः स्थित इति दाव्या ददत्याऽकथि, मया लौल्याद्गृहीतः, मा रात्रौ केनापि विनाशित इतिशङ्कया गुप्तीकृतः । त्वयि सुप्ते भुक्त्वा ज्ञात्वा च शुभं त्वं निमन्त्रितः । मम मरणं वरं भिक्षुकस्य, न तु तव जगदाधारस्येति ध्यात्वा पूर्व न दर्शितः । राजापि तद्वचो निशम्य मनसा व्यचिन्तयत् । अहो ! ममोपरि कीहक् स्नेहोऽस्य, अहं तु नीचवदन्यदेव विचारितवान् । धिम् मां इति स्वात्मनिन्दापरस्तं भुक्त्वाऽग्रतश्चचाल
देवाद्वसुः श्रवति सत्त्ववतां न सत्त्वं, म्लानि तनुः समधिगच्छति नैव चित्तं ।।
रूपं जरा क्षिपति नैव च तत्त्वबुद्धिं, प्राणाः प्रयान्ति न परोपकृतिप्रयत्नः॥१॥ इति मार्गे चिन्तयन् स्तम्भतीर्थे बहिः प्रासादे गतः । तदा हेमाचार्या अपि दैवयोगात्तत्रागमन् बहिर्भूमौ । तत्र च सर्पमस्तके गङ्गेटकं नृत्यन्तं दृष्ट्वाऽस्माकं पुराऽपि राज्यं अन्यः कश्चित्तं पश्यति न वा ? इति यावदिशः पश्यन्ति तावत्कुमारं तं पश्यन्तं दृष्ट्वा विस्मिताः उपलक्षितश्च कुमारः, सबहुमानं शालायां नीत आलापितश्च पूर्वोपलक्षणेन । ममापि कर्हिचित् किं सुखं भावि न वा ? इति पृष्टवान् सूरि कुमारोऽपि ।
देव
SISUSTUSSURESS'S
Jain Education i
ranlonal
For Private Personal Use Only
w.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल ॥२६॥
रेकरमालत पृष्टे
यावता किंचिन्निमित्तादि स्मृत्वा विलोक्य च भाषते सूरिस्तावता मं० उदयनो वन्दनायागतो बहुपरिवारः । तदा कुमारपृष्टाः श्रीहेमाचार्या उदयनस्वरूपमाहुः| पूर्व मरुदेशे श्रीमालज्ञातीय ऊदाभिधो वणिक् प्रावृषि काले प्राज्याज्यक्रयाय निशीथे व्रजन् कर्मकरैरेकस्मात्केदारादपरस्मिन् पूर्यमाणेऽम्भोभिः के यूयं ? इति पृष्टे तैः, अमुकस्य वयं कामुकाः इत्युक्ते ममापि ते क्वापि सन्ति ? इति पृष्टे पुनस्तैः, कर्णावत्यां तवापि सन्ति इत्युक्ते शकुनग्रन्थि बवा कालेन सकुटुम्बस्तत्रागतो वायडज्ञातीयकारिते जिनप्रासादे देवान्नमस्कुर्वन्नेकया छिम्पिकया श्राविकया पृष्टः । साधर्मिक ! त्वं कस्यातिथिः । तेनोक्तं, वैदेशिकोऽहमिति भवत्या एवेति तद्वाक्यं श्रुत्वा सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा गृहस्थानं दत्तम् । तत्र स्थितः कालेन भाग्ययोगात्संपन्नसंपज्जातः । तत्र नवीनसौधं चिकीर्षुः खातावसरे निधिमधिगम्य तस्याः स्त्रियः समर्पयन् निषिद्धस्तया, नेदं मदीयं किं तु तव भाग्योदयान्निर्गतमिति गृहाण त्वमेवेति । तत उदयनश्चिन्तितवान्
कृतप्रयत्नानपि नैति काश्चित् , स्वयं शयानानपि सेवते परान् ।
द्वयेऽपि नास्ति द्वितयेऽपि विद्यते, श्रियः प्रचारो न विचारगोचरः॥१॥ ततः सिद्धेशेन स्तम्भतीर्थे मन्त्री कृतः। कर्णावत्यामतीतानागतवर्तमानचतुर्विंशतिजिनप्रतिमामण्डितो द्वासप्ततिजिनालयः प्रासादः कारितः, सोऽयमुदयनमन्त्री। अस्याङ्गजा वाहड १ आम्बड २ चाहड ३ सोला ४ नामानो भिन्नमातृका इति गुरुमुखात् श्रुत्वाऽचिन्तयत्
॥२६॥
JainEducational
For Private
Personel Use Only
Page #59
--------------------------------------------------------------------------
________________
- हुतीइ हुँति अणहुँतयावि जंतीइ जति हुँतावि । जीइ समं नीसेसगुणगणा जयउ सा लच्छी ॥१॥ मन्त्रिसमक्षं सूरयःप्रोचुः
भोः कुमार ! गुणाधार !, नवाङ्केश्वरवत्सरे ११९९ । चतुझं मार्गशीर्षस्य, श्यामायां रविवासरे ॥१॥
पुष्यऋक्षेऽपराहे चेत्तव राज्यं न जायते । निमित्तालोकसंन्यासस्तीतः परमस्तु नः॥२॥ . प्रतिज्ञायेति सूरीन्द्रस्तदा तद्दिनपत्रकम् । लिखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥३॥
कुमारः प्रोचे, कथमेतज्ज्ञायते ? । सूरिभिरुक्तं, यत्त्वमत्रायातः सहसैवास्मत्पट्टे निषद्यावृते उपविष्टः, तेन राजाहसिंहासनोपवेशानूनमयं राज्याहे इति ज्ञातम् । तेन ज्ञानेन चमत्कृतः कुमारः प्राह
यद्येतत्त्वद्वचः सत्यं, त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदाम्भोज, सेविष्ये राजहंसवत् ॥१॥ सूरिणोचे, अस्माकं राज्येन किं कार्य, परं राजन् ! त्वं राज्यं प्राप्य पारमेश्वरशासनप्रभावको भूयाः श्रीआमराजवत् । राज्ञाप्यङ्गीकृते सूरिभिरुदयनमन्त्रिणः सर्व स्वरूपं ज्ञापितम् । मन्त्रिणा च सबहुमानं गृहे नीत्वा स्नानभोजनाच्छादनादिभिः सत्कृतः, कियन्ति दिनानि स्थितश्च मन्त्रिगृहे । तदा च जयसिंहदेवेन ज्ञात्वा सैन्यं मारणाय प्रहितम् । यावता भटाः सर्वत्र गवेषयन्ति तावज्ज्ञात्वा मन्त्रिगृहात्सूरिशालायामागात् रक्ष रक्षेति ब्रुवाणः । सूरयोऽपि कारुण्याब्धयोऽयं, श्रीजिनशासनप्रभावको भावी रक्षितः इति ध्यात्वा । वसतिभूमिगृहे कुमारं स्थापयित्वा पुस्तकग्रन्थिभिरि स्थगितं तथा यथा कोऽपि न वेत्ति । भटा अपि सर्वत्र भ्रमन्तः शालायामायाताः कस्यचित्पिशुनस्य वचसा भवन्मठे कुमारोऽस्ति |
AAAAAAACANC+
For Private Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
KAKIR
कुमारपाल कर्ण्यतामिति वदन्तः । सूरिः
प्रबन्धः । ___ "प्राणित्राणं महत्पुण्यं मिथ्यावादस्त्वयं लघुः।" इति ध्यात्वा नास्त्यत्र सर्वथा कुमार इत्याह । भटैरूचे, राजाज्ञा क्रियता ॥२७॥
तर्हि । सूरिरपि, “न ब्रूयात् सत्यमप्रियम् ” इति जानन राजाज्ञामपि कृतवान् । भटा अपि सर्वत्र विलोक्य पश्चाद्गताः। निष्काशितश्चौलुक्यो भाषितश्च, श्रुतं भवता भटभाषितम् ? ।कुमारोऽपि प्राह, भगवन् ! भवदीया भटीयाश्च गिरः श्रुताः। । दयामयो भवद्धर्मः श्रुत एवाभवत् पुरा । अनुभूतोऽधुना सोऽयं मया मज्जीवितावनात् ॥१॥ ये सुखेऽप्युपकुर्वन्ति तेऽपि संप्रति पञ्चषाः । यस्तु प्राणव्यये सत्त्वमेकः सत्त्ववदग्रणीः ॥२॥ भक्तोऽभवं पुराऽप्यग्रे तावकैभूरिभिर्गुणैः । क्रीतो
जीवितदानेन दास एवास्मि संप्रति ॥३॥ निमित्तकथनात्पूर्व राज्यदानं प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थ भवतान्मम ॥४॥ PI इत्यादि प्रोच्य मन्त्रिदापितशम्बलो रात्रौ वटपद्रं प्रति चलितः। तत्र च क्षुधातः कटुकाख्यवणिग्रहट्टे विशोपकैक
चणकाः क्रीताः । वणिग् द्रविणार्पणं विना न मुञ्चति । रुष्टः कुमारः। खङ्गेन भापितो वणिग् भणति, माङ्गल्ये भवन्तु चणका एते तवेति याहि । ततः
___ आजानुलम्बितमलीमससाटकानां, मित्रादपि प्रथमयाचितभाटकानाम् । प्राणादपि प्रियतमैकवराटकानां, वज्र दिवः पततु मूर्ध्नि किराटकानाम् ॥१॥
M ॥२७॥ इत्युक्त्वा जटाधारी भृगुकच्छे गतः । तत्रैकः शाकुनिकः पृष्टः कदा मम शुभं भावीति । तेन प्रातर्बहिर्गत्वा | शकुनमार्गणं कृतम् । तत्र- ... .... . .
CRECAR
Jain Education
Page #61
--------------------------------------------------------------------------
________________
तदैव परिपुष्टाङ्गी श्यामा च स्वीकृताशना । मुनिसुव्रतनाथस्य प्रासादमधितस्थुषी ॥१॥ शुभचेष्टाकरा दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् ॥ २॥ हृष्टः शाकुनिकः प्राह सिद्धिस्ते वाञ्छिताधिका । भविष्यति विशेषेण जिनभक्तिप्रभावतः॥ ३ ॥ ततः कोल्लापुरे गत्वा दानभोगादिसद्गुणम् । सर्वार्थसिद्धियोगीन्द्रं सेवित्वा तमतोषयत् ॥ ४॥ उवाच योगी मन्त्री स्त एकः साम्राज्यदायकः। स्वेच्छया धनदाताऽन्य आद्यः सोपद्रवः पुनः ॥५॥ सत्त्वसारः कुमारोऽथ मन्त्र जग्राह राज्यदम् । उक्तेन तेन विधिना पूर्वसेवां व्यधत्त सः ॥ ६॥ ततः कृष्णचतुर्दश्यां । गत्वा पितृवने निशि । शवस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः॥७॥ उपविश्य तस्य कट्यां यावद्धोमं ददाति सः। करालमूर्तिः प्रत्यक्षस्तावत्क्षेत्राधिपोऽवदत् ॥ ८॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा । इति श्रुत्वाऽपि निःक्षोभः| सोऽपि जापं समापयत् ॥९॥ तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत । गूर्जरत्राधिपत्यं ते धीर ! दत्तं मयाऽखिलम् | ॥ १०॥ परमद्यतनादिनात्पश्चवर्षात् फलिप्यति मनोरथः ॥ सिद्धमन्त्रः कुमारोऽथ नत्वा तं योगिपुङ्गवम् । कल्याणका-1 रके देशे क्रमाकान्तीपुरी ययौ ॥ ११॥ कुमारः कौतुकात्तस्या भ्रमन् परिसरेऽन्यदा । कबन्धमेकमद्राक्षीत् वैरिणापास्तमस्तकम् ॥ १२ ॥ तत्पाबै मिलितस्त्रीणां शुश्रावान्योन्यजल्पितम् । अहो ! कचकलापोऽस्य अहो ! श्रवणलम्बता|3|| ॥ १३ ॥ अहो ! घनत्वं कूर्चस्य ताम्बूले व्यसनं तथा । अहो ! विरलदन्तत्वं श्रुत्वेत्येका ततो जगौ ॥ १४ ॥ कथमेतत्ततस्ताश्चावीचन् किं चित्रमत्र यत् । वेण्याघर्षोऽस्ति पृष्ठेऽस्य स्कन्धे कुण्डलयोः किणे ॥ १५॥ आनाभिहदि गौरत्वं दृश्यते दीर्घकूर्चतः। ताम्बूलव्यसनाच्चास्याङ्गष्ठश्चर्णेन चर्चितः॥ १६ ॥ नित्यं विरलदन्तानां क्षित्या रक्ता कनिष्ठिका ।
Jan Education Intemanona
For Private
Personel Use Only
Page #62
--------------------------------------------------------------------------
________________
कुमारपाल
॥ २८ ॥
तत् श्रुत्वाऽचिन्तयदसौ बहुरला वसुन्धरा ॥ १७ ॥ कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे । तीरदेवकुले गत्वाऽर्ध्यमानं ददृशे शिरः ॥ १८ ॥ तस्य प्रवृत्तिं पृष्टश्च कश्चन स्थविरोऽवदत् । सरसीह पुरे राजमकरध्वजकारिते ॥ १९ ॥ पद्मकोशाद्विनिर्गत्य शीर्षमेकं सकुण्डलम् । एकेन ब्रुडतीत्युक्त्वा तन्निमज्जति प्रत्यहम् ॥ २० ॥ तदर्थं पण्डितैः पृष्टैर्लब्ध्वा मासचतुष्टयम् । तं ज्ञातुं प्रेषिताः विप्रा विदेशे वृद्धसंनिधौ ॥ २१ ॥ यदेकस्थविरो वेत्ति न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति वृद्धवाक्यात्स पूज्यते ॥ २२ ॥ तैश्च गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छत । स्वपिता दर्शितस्तेन तेनापि स्वपितामहः || २३ ॥ सविंशतिशतवर्षदेशीयस्य च सन्निधौ । विप्रैरपृच्छि शीर्षस्य बुडतीत्युक्तिकारणम् ॥ २४ ॥ सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् । गृह्णीतेदं महामूल्यं शुद्धयत्यध्वव्ययो यतः ॥ २५ ॥ लोभाद्विप्रा अपि कटौ | कृत्वा तांश्चलनाक्षमान् । गन्तुकामा वृद्धमूचुः संदेहं ब्रूहि नो द्रुतम् ॥ २६ ॥ संशयच्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः कथं स ऊचे शास्त्रज्ञा अप्येतदपि वित्थ न ॥ २७ ॥ यदुक्तम्
"श्वान गर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवलकं चैव सचैलस्नानमाचरेत् ॥ १ ॥”
शास्त्रे निषिद्धः संस्पर्शो विप्राणां युज्यते कथम् । तेऽप्यूचुर्बहुमूल्यानि श्वडिम्भानि त्वमभ्यधाः ॥ २८ ॥ ततोऽस्माभिगृहीतानि लोभाद्धि क्रियते न किम् ? । ऊचे वृद्धस्तदेवेदं विश्वं ब्रूडति लोभतः ॥ २९ ॥ इति ते छिन्नसंदेहाः कुमारेहागताः पुनः । पण्डितैः पुस्तकेष्वेष लिखितोऽर्थः सविस्तरः ॥ ३० ॥ राज्ञेऽदर्शि नृपोऽप्याह सत्यमेतच्छिरो यदि । श्रुत्वैनमर्थं न पुनः सरसो निस्सरिष्यति ॥ ३१ ॥ तथाकृते तथाजाते चैत्यं निर्माय भूभुजा । देवस्थाने स्थापितं च शीर्षमेतत्प्रसिद्धये
प्रबन्धः ।
॥ २८ ॥
Page #63
--------------------------------------------------------------------------
________________
॥ ३२ ॥ तत् श्रुत्वा विविधाश्चर्यदर्शनाजातविस्मयः। किंचित्कालं कुमारोऽपि कान्त्यां स्थित्वा पुनर्ययौ ॥३३ ।। मल्लिनाथजनपदे स्थितः कोलम्बपत्तने । महालक्ष्म्याथ कोलम्बस्वामी स्वप्ने न्यगद्यत ॥ ३४॥ भविष्यो गूर्जरत्रायाः स्वामी यस्तव पत्तने । समेष्यति जटाधारी विधेया भक्तिरस्य तु ॥ ३५ ॥ नृपमुक्तैश्चतुर्दिक्षु पुरुषैः पुरसीमनि । यथोक्तलक्षणे-| वीक्ष्य कुमारो भक्तिपूर्वकम् ॥ ३६॥ आहूय नृपतेः पार्थे समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीयार्डासने तं च न्यवेशयत् ॥ ३७॥ निगद्य लक्ष्म्या आदेशं राज्ञा राज्ये निमन्त्रितः। निषिध्य कुमरस्तस्य पार्श्वे तस्थौ यथासुखम् ॥३८॥ सोचे तथाऽपि तेऽभीष्टं कुमार ! किं करोम्यहम् । कुमारः प्राह येनात्र ज्ञायते मे समागमः ॥ ३९ ॥ दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरे । भूमिमप्राप्य राजाऽथ संकोच्य निजमन्दिरम् ॥ ४० ॥ कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः। कुमारपालनामाकं नाणकं च प्रवर्तितम् ॥ ४१॥ तदृष्ट्वा कुमारः प्रमुदितश्चिन्तितवान् । अहो ! अस्य परमा प्रीतिः
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च, साधूनामेकरूपता ॥१॥ वचनं खलु वञ्चनं हि तत् , प्रतिपत्तिर्विफला यदुद्भवा । वचनैरुपचारकोमलैः, फलहीनैर्वद किं प्रयोजनम् ? ॥२॥
इयमत्र सतामलौकिकी, महती काऽपि कठोरचित्तता । उपकृत्य भवन्ति दूरतः, परतः प्रत्युपकारभीरवः ॥३॥ ततः कुमारो निर्गत्य प्रतिष्ठानपुरेऽगमत् । द्विपञ्चाशद्वीरकूपाद्याश्चर्याणि व्यलोकयत् ॥ ४२ ॥ प्राप्तः क्रमेणोजयिन्यां निजस्वजनसंनिधौ । भ्रमंस्तत्रान्यदा प्राप्तः कुण्डगेश्वरमन्दिरे ॥ ४३ ॥ प्रणम्य लिङ्गं तन्मध्ये श्रीपार्थ फणमण्डितम् ।
an Education Inter
For Private
Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
॥२९॥
वीक्ष्य प्रशस्तिमध्ये तु गाथामेकामवाचयत् ॥४४॥
"पुण्णे वाससहस्से, सयंमि वरिसाणनवनवइकलिए। होही कुमरनरिंदो, तुह विक्कमराय ! सारिच्छो ॥१॥" __आत्मनो नाम साम्यं च वर्षाणां वीक्ष्य पूर्णताम् । कुमारोऽपृच्छद्गाथार्थ कस्यापि वृद्धसंनिधौ ॥ ४५ ॥ सोऽप्याह पूर्वमत्रासीसिद्धसेनो दिवाकरः। विक्रमादित्यभूपस्य तेनाभ्यर्थनया किल ॥ ४६॥ द्वात्रिंशद्वात्रिंशकाभिर्वीतरागः स्तुतस्ततः। कुण्डगेश्वरलिङ्गं तु स्फुटितं तस्य मध्यतः॥४७॥ आविरासीद्धरणेन्द्रः श्रीपार्श्वप्रतिमाधरः। तं दृष्ट्वा विक्रमादित्यः संजातः परमार्हतः॥४८॥ गुरूपदेशतस्तेन कारितं भूमिमण्डलम् । अनृणं निजदानेन ततः संवत्सरोऽस्य तत् ॥४९॥ तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते । अतः परं जिनभक्तः सार्वभौमो भविष्यति ॥ ५० ॥ श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता । राज्ञा च लेखिताऽत्रैव तच्छ्रुत्वा कुमरोऽवदत् ॥५१॥ आर्हतानामहो ! शक्तिरहो ! ज्ञानमहो ! व्रतम् । अहो ! परोपकारित्वं किममीषां हिताद्भुते ॥५२॥ ततः स्वजनभोपल्लदेवीवोसिरिभिः समम् । धृत्वा निर्झरवेषं तु उज्जयिन्या विनिर्ययौ ॥ ५३॥
ततो दशपुरे नगरे गतः। तत्र बहिरुद्यानेऽध्वनि मिलितं नासाग्रविन्यस्तलोचनं पद्मासनासीनं कमपि योगिनं निरुपमशममयं दृष्ट्वा कुमारोऽचिन्तयत् । यथा
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः। अन्येषां तु मनोरथापरिचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकपुषामायुः परिक्षीयते ॥१॥
ARRC-RAM
॥२९॥
Jain Education Intanhindi
For Private Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
SOCIRCARROROSAROS
ततस्तमुत्सारितध्यानं नमश्चके कुमारः। सोऽप्यवादीत्सर्वस्मिन्नणिमादिपङ्कजवने रम्येऽपि हित्वा रति, शुद्धां मुक्तिमरालिका प्रतिदृशं यो दत्तवानादरात् ।
चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत् , सम्यक् साम्यसरोजसंस्थितिजुषे हंसाय तस्मै नमः॥१॥ ततः कुमारोऽपृच्छत् , योगिन् ! किं स्नानं ? किं दानं ? किं ज्ञानं ? किं ध्यानं ? चेति । उवाच योगी___ स्नानं मनोमलत्यागो दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसंबोधो ध्यानं निर्विषयं मनः ॥१॥
एतदाकर्ण्य प्रमुदतः प्रशंसां कुर्वन् कतिपयैर्दिनश्चित्रकूटमगमत् । तत्र श्रीशान्तिनाथप्रासादे रामचन्द्रमुनि ननाम ।। जातचित्रश्चित्रकूटमूलोत्पत्तिं पप्रच्छ । राममुनिराह, पुरा रघोर्वशे चित्राङ्गदो राजाऽभिनवैः फलैः केनापि योगिना व्याघ्रयुक्तेन षण्मासान् सेवितः । राज्ञा कारणं पृष्टः प्राह योगी, द्वात्रिंशल्लक्षणधरस्य तव सांनिध्यान्मम मन्त्रसिद्धिर्भ-18 |वतु । कानि तानि लक्षणानीति राज्ञा पृष्टः प्राह
नाभिः स्वरः सत्त्वमिति प्रतीत, गम्भीरमेतत्रितयं नराणाम् । उरोललाटं वदनं च पुंसां, विस्तीर्णमेतत्रितयं प्रसिद्धम् ॥१॥ वक्षोऽथ कुक्षि खनासिकाऽऽस्य, कृकाटिका चेति षडुन्नतानि। इस्वानि चत्वार्यथ लिङ्गपृष्ठं, ग्रीवा च जङ्ग्रे स्वहितप्रदानि ॥२॥ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा, रक्तान्यमूनि ननु सप्त हितप्रदानि । सूक्ष्माणि पश्च दशनाङ्गलिपर्वकेशाः, साकं त्वचा कररुहाश्च न दुःखितानाम् ॥३॥ हनुलोचनबाहुनासिकास्तनयोरन्तरमत्र पञ्चकम् । इति दीर्घमिदं तु सौख्यदं,न भवत्येव नृणामभूभुजाम् ॥ ४॥ त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा, पञ्चसु दीर्घश्च सूक्ष्मश्च ॥५॥5
Jan Education Intemani
For Private Personel Use Only
Page #66
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥३०॥
SASSASSISK
कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि मम मन्त्रः सिद्ध्यति, यदि त्वमुत्तरसाधको भवसि । ततो राज्ञा ॐ इत्युक्ते तस्मिन् है दिने राजानमनुमन्त्र्यपि तत्र जगाम ।
__नृपोऽथ चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् । व्याघ्र च होमसामग्री ततोऽजल्पत् करोमि किम् ॥१॥ | अत्रान्तरे मन्त्री नृपमुवाच, देव ! अयं त्वां हि होमित्वा स्वर्णपौरुष सिसाधिपुर्लक्ष्यते, तेन स्वयत्नपरैर्भाव्यमिति । अथ योगिना वह्निकुण्डे प्रज्वालिते जापे कृते
उक्तश्च राजा त्वं देव ! प्रतिपन्नैकवत्सल !। तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् ॥१॥राजा सशङ्कस्तं प्राह त्वं योगिन्नग्रतो भव । ततो योगी तथाकुर्वन्न छलं प्राप भूपतेः ॥२॥ अथ व्यावृत्य सहसा नृपं यावज्जुहोति सः। तावनरेन्द्रमन्त्रिभ्यां स एवाग्नौ हुतो हठात् ॥ ३ ॥ व्याघ्रोऽप्यनुप्रविष्टस्तं संजातः स्वर्णपौरुषः । संपूज्य तं गृहीत्वा च राजाऽगानिजमन्दिरम् ॥४॥ यच्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः । ततः स्वऋद्धिरक्षार्थमादिदेशेति मन्त्रिणम् ॥५॥ यथा चित्रगिरेः पार्श्वे कूटशैलोऽस्ति दुर्गमः। तस्योपरि महादुर्ग कारयाभङ्गुरोद्यमः॥६॥ मन्त्रिणा च तथाऽऽरब्धे यावच्चेचीयते दिवा । तावत्पतति रात्रौ च षण्मासा इति जज्ञिरे॥७॥ तथाऽप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः । उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् ॥ ८॥ प्राणात्ययेऽपि कर्तास्मि नृपेणोक्ते सुरोऽब्रवीत् । यद्येवं निश्चयस्तर्हि कुरु चित्रनगोपरि ॥९॥ दुर्गस्य नाममध्ये तु देयं मन्नाम भूपते ! । तत्र चित्राङ्गदश्चक्रे दुर्ग चित्रनगोपरि ॥१०॥ नगरं चित्रकूटाख्यं देवेन तदधिष्ठितम् । कोटीध्वजानां तन्मध्ये सहस्राणि चतुर्दशः ॥११॥ लक्षेश्वराणां
accorg
॥३०॥
Page #67
--------------------------------------------------------------------------
________________
योग्या च कारिता तलहट्टिका । वापीकूपसरोमुख्यं शेष देवेन निर्मितम् ॥ १२॥
... ईश्वरोऽप्युवाच- "चित्रकूटमिदं भद्रे !, पृथिव्यामकलोचनम् । द्वितीयलोचनस्यार्थे, तपस्तपति मेदिनी ॥१॥" | एकदा कन्यकुब्जेशः शम्भलीशनृपो जनपरम्परया स्वर्णपूरुषकथां श्रुत्वा सैन्यैरमितैश्चित्रकूटं वेष्टितवान् । अतिविषमत्वेन ग्रहीतुं न शक्नोति । तत्र स्थितस्य षोडशवर्षाणि चित्रकूटोपरिस्था लोका देवा इव बाधाभयरहिताः सुखेन कालं गमयन्ति स्म । शम्भलीशेन दुर्गस्वरूपजिज्ञासया चरा मध्ये प्रहिताः । ते च भ्रामं भ्रामं लोकसुखितां विलोक्य सुमतिमन्त्रिगृहगवाक्षाऽधोव्यवस्थिताः शृण्वन्ति स्म गवाक्षोपरिस्थमन्त्रितत्सुतासंवादम् । पुत्री पितरमाह, हे तात ! एते वाणिज्यकाराः कस्मादत्र स्थिताः सन्ति ? । मन्त्र्याह, नैते वाणिजाः, किंतु शम्भलीशनृपस्त्वजन्मन्यत्रायातो दुर्ग गृहीतुम् । त्वं षोडशवर्षा जाता परिणीता पुत्रवती च, नृपोऽयमत्रैव स्थितोऽस्तीति श्रुत्वा चरै राज्ञे निवेदितम् । अन्येद्यश्चित्राङ्गदनृपमान्यपात्रवर्बरिकावेश्यया काव्यं प्रहितम् । यथा
"आरोहत्यचलेश्वरं किमु शिशुः? पोतोज्झितः किं तरत्यम्भोधि? किमु कातरः सरभसं संग्राममाकामति ।
शक्येष्वेव तनोति वस्तुषु जनः प्रायः स्वकीयश्रम, तदुर्गग्रहणाग्रहपहिलतां त्वं शम्भलीश! त्यज ॥१॥" राजा श्रुत्वा खेदमेदुरोऽभवत् । क्रमेण धनैर्वेश्या भेदिता । तया ग्रहणोपायोऽर्पितः। अयं चित्राङ्गदनृपो भोजनावसरे सर्वाणि प्रतोलीद्वाराण्युद्धाव्य भुते । तत्र क्षणे चेन्नगरं गृह्यते तदा गृहीतुं पार्यते, नो चेत्कल्पान्तेऽपि शक्रेणापि नेति
यया पुत्रवती च, ना, नेते वाणिजातत्सुतासंवाद
For Private & Personel Use Only
Page #68
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ३१ ॥
ज्ञापितो वेश्यया शम्भलीशः । तथा कृत्वा दुर्ग जग्राह । चित्राङ्गदोऽपि सस्वर्णपौरुषः क्षीरकूपे झम्पां ददौ । राज्ञाऽनेकधा विलोकितोऽपि न प्राप्तः स्वर्णनरो देवताधिष्ठितत्वात् । चित्राङ्गदलक्ष्मीं लात्वा तत्पुत्रं वराहगुप्तं राज्ये न्यस्य निजपुर गतः शम्भलीशः ॥
कुमारो रामचन्द्रोक्तमिति ज्ञात्वा नगोपरि । गत्वा च सर्वतो वीक्ष्य दिग्भागान्निजगाद च ॥ १ ॥ शैलाः सर्वे गण्डशैलानुकारा वृद्धा ग्रामाः क्षामधामोपमानाः । कुल्यातुल्याः प्रौढसिन्धुप्रवाहाः संदृश्यन्ते दूरतोऽत्राधिरूढैः ॥ २ ॥
ततः श्रीरघुवंशीय कीर्त्तिधरराजर्षिपुत्रस्य सुकोशलमुनेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य प्राप्तकेवलस्य निर्वाणभूमिं नत्वा कन्यकुब्जमगात् । तत्र सर्वत्रास्त्रवणानि दृष्ट्वा कश्चित् पृष्टः, कुतोऽत्राऽऽम्रा बहवः ? तेनोक्तम्, अत्र देशे आम्रकरो न गृह्यते तेनामी घनाः ॥
राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् काशीं निर्झरवेषभृत् ॥ १ ॥ भ्राम्यन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती । द्वितीयेऽह्नि लुण्य्यमानं तद्गृहं वीक्ष्य दुःखितः ॥ २ ॥ किंचित्पप्रच्छ किमिदं सोचेsद्यापुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन लुण्ठ्यते राजपूरुषैः ॥ ३ ॥ श्रुत्वेति चकितः स्वान्ते वस्तुतत्त्वं विभावयन् । यथा क्षणादसौ नष्टः श्रेष्ठी सर्व तथा भवे ॥ ४ ॥ आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां संवन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मृतस्योपलतलनिहितप्लुष्ट बीजप्ररोहमाया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा | मुधैव ॥ ५ ॥ कुमारोऽचिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं राजा गृह्णाति पुत्रवत् ॥ ६ ॥ दुर्भि
प्रबन्धः ।
॥ ३१ ॥
Page #69
--------------------------------------------------------------------------
________________
******
*
क्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतोषिग्गदगणं कर्तु कलिं नारदः। दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाध्यमवनीपालो हहा! वाञ्छति ॥ ७॥राज्ये नाहं गृहीष्यामि स्वदेशे स्वमपुत्रिणाम् । प्रतिज्ञायेति कुमरो गतः पाडलिपुत्रके ॥८॥ तत्र च नवनन्दकारितस्वर्णमयपर्वतादिस्वरूपं श्रुत्वाऽचिन्तयत्-येषां | वित्तैः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतद्भुवनवलयं निर्जितं लीलयैव । तेऽप्येतस्मिन् भवगुरुहूदे बुद्दस्तम्बलीलां, धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः॥९॥ एवं तावदहं लभेय विभवं रक्षेयमेवं ततस्तद्वद्धिं गमयेयमेवमनिशं भुञ्जीयमेवं पुनः। इत्याशारसरुद्धमानसमयं नात्मानमुत्पश्यति, क्रुध्यत्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम्॥१०॥
तदनु राजगृहं गतः। तत्रस्वर्भोगभङ्गी १ नृपतिः क्रयाणकं २, सुवर्णनिर्माल्यमभूत् स्रगादिवत् ३ । भूपस्य मानेऽप्यपमानचिन्तनं ४ शालेर्महाश्चर्यकरं चतुष्टयम् ॥१॥ कृत्वा समर्घ यदि वा महय, क्रयाणकं श्रेणिकनामधेयम् । यथा तथा मातरिदं गृहाण, प्रमाणमम्बैव किमत्र पृच्छा ॥२॥ पादाम्भोजरजःप्रमार्जनमपि मापाललीलावतीदुष्पापाद्भुतरत्नकम्बलदलैयद्वल्लभानामभूत् । निर्माल्यं नवहेममण्डनमपि क्लेशाय यस्यावनीपालालिङ्गनमप्यसौ विजयते दानात्स भद्राङ्गजः ॥३॥ इत्यादिश्रीशालिभद्रधन्यकृतपुण्यादिव्यवहारिणां श्रीमदभयकुमारादिमन्त्रिणां चानेकावदातश्रवणविस्मितचेता दध्यौब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो! दुष्कर, यन्मुश्चन्त्युपभोगभाज्यपि धनान्येकान्ततो निस्पृहाः। न प्राप्तानि पुरा न संप्रति ननु प्राप्तौ दृढप्रत्ययाः, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥१॥
***
For Private Personal use only
Page #70
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
A
॥ ३२॥
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥२॥ ततो वैभारगिरिमारूढः । तत्र श्रीवीरसमवसृतिशालिभद्रपादपोपगमानशनशिलातलादीनि निरूप्यानेकस्थानानि चिन्तितवान्-.. ... । यैः सुप्तं हिमशैलशृङ्गसुभगप्रासादगभान्तरे, पल्यङ्के परमोपधानरचिते दिव्याङ्गनाभिः सह ।
तैरेवात्र निरस्तसर्वविषयैरन्तःस्फुरज्ज्योतिषि, क्षोणीरन्ध्रशिलानकोटरगतैर्धन्यैर्निशा निन्यिरे ॥१॥ ततो लोकप्रसिद्ध कामरूपदेशे गतः । कौतुकात्कामाक्षीदेवीभवने गतः । पूजार्थमागतं निजसहजरूपसंपद्विजितसुरागनागर्वसर्वस्वं स्त्रीवृन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकुशलमालोक्याचिन्तयदसौ
संसार ! तव निस्तारपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥१॥ | अहो ! विषयविषव्याकुलता जगतः । यतः
"यासां सीमन्तिनीनां कुरुबकतिलकाशोकमाकन्दवृक्षाः, प्राप्योच्चैर्विक्रियन्ते ललितभुजलतालिङ्गनाद्यैर्विशेषैः। तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसाढ्यं, को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् ॥१॥ स्मरदहनसुतीवानन्तसंतापविद्धं, भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः। विगतविषयसङ्गाः प्रत्यहं संश्रयन्ते, प्रशमजलधितीरं संयमारामरम्यम् ॥२॥"
॥३२॥
Jan Educaton Intematona
For Private & Personel Use Only
Page #71
--------------------------------------------------------------------------
________________
ततोऽगात्तत्र यत्रास्ति सर्परूपेण भूपतिः । लौकिकं दैविकं चापि यद्राज्ये न भयं भवेत् ॥१॥ तत्र कुमारः कस्यापि वृद्धस्य पार्वे सर्पराजहेतुं पप्रच्छ । सोऽध्याह, कुमार ! पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् । अत्र श्रीकान्तराजाऽत्यन्तं श्रीमान् दाता भोका विवेकी प्रजाप्रियः, परं यत्तत्कारणमाने कोपनः । यतः
"नाकारणरुषां संख्या, संख्याता: कारणे क्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः॥१॥" | एकदा कोपाटोपात्सौधान्तबजन् स्तम्भाभिघातमूर्छितो निष्पुत्रो मृत्वाऽऽर्तध्यानवशात्सप्तफणालङ्कृतः सर्पोऽभूत्स्वभाहैण्डागारे । स मन्त्रिभिर्वारं वारं बहिर्मुक्तोऽपि स्वद्रविणमोहितः युनः पुनस्तत्रैवायाति । राज्यं च पुत्रं विना वैरिभिरा
कान्तम् । लोको महति संकटे पुरस्थापकदेवं सस्मार । समायातो देवः । स जातिस्मरं नाग सप्तफणमण्डितं दृष्ट्वाऽस्मदीयकुलोत्पन्नोऽयमिति पुराऽप्यस्य पुरस्य स्वामी ततोऽयमेव राजा भवतु, इति नागकुमारकृतराज्याभिषेकस्तत्प्रभावाद्राज्यं करोति । देवस्तु सर्वत्र सौस्थ्यं विधाय स्वस्थानमगात्। इत्येतन्निशम्य कुमारेणाचिन्ति अहो ! दुर्गतिदाता क्रोधः। अपनेयमुदेतुमिच्छता, तिमिरं रोषमयं धिया पुरः । अविभिद्य निशागतं तमः, प्रभया नांशुमताऽप्युदीयते ॥१॥ | कुमारोगाचर्मकारबालचन्द्रार्पणेऽन्यदा । उपानदर्थ तेनापि सादरं पूर्वनिर्मितम् ॥१॥ उपानयुगलमेतद् युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मङ्गलीके मया कृतम् ॥ २॥ हृष्टश्च शुभवाक्येन शुश्राव कुमरस्तदा । पत्तने पादुकाराज्यं मरणं सिद्धभूपतेः॥३॥ कुमारपालराजानं शृणोषि पत्तने यदा । शीघ्रमेयास्तदामन्त्र्य मोचिकं कुमरस्ततः ॥४॥ उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः । कन्नालासिद्धपुरेऽगाल्लात्वा शेषकुटुम्बकम् ॥ ५॥ तत्र पूर्वप्रतिप
SCREGACASCARSACANCEOCK
For Private & Personel Use Only
Page #72
--------------------------------------------------------------------------
________________
S
प्रबन्धः ।
A
कुमारपाल दनमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्तने ययौ ॥६॥ तत्र श्रीकृष्णदेवेन भग्नीकान्तेन गौरवात् ।
नीत्वा स्वसदनं सम्यक् सच्चके सपरिच्छदः॥७॥ भम्या प्रेमलदेव्याऽथ कुमारे स्नापिते स्वयम् । तस्य स्नानजले सस्नौ दुर्गा कृतवरस्वरा ॥८॥ तदा कुमारः प्राह-मम पश्यसि चेद्राज्यं देवि ! ज्ञाननिधे! ततः । उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ९॥ वचनानन्तरं साऽपि तथैवाधादतिस्फुटम् । 'तूं राजु' इति संरावं तच्चेतःसौधदीपकम् ॥ १० ॥ शकुनं तत्तथा प्रेक्ष्य कश्चित् शाकुनिकोऽब्रवीत् । सप्तदिन्या कुमारैतद्राज्यं भावि तव ध्रुवम् ॥ ११॥ एवमस्त्विति तद्वाक्यमूरीकृत्य स कृत्यवित् । विद्वांसमिव सच्चक्रे तं द्रव्यादिप्रदानतः ॥ १२॥ इति निःशेषसामन्तामात्यसभ्यैकमत्यतः।। उभी राजसुतावन्यौ कुमारं तं च सत्तमम् ॥ १३ ॥ स्नपितालङ्कृतान् कृत्वा दिव्याश्वानधिरोप्य च । अमात्यैः सममानैषीत्कृष्णदेवो नृपालयम् ॥ १४ ॥ युग्मम् ॥ __ततः परीक्षार्थ प्रथमः कुमार आनीतः, सचिवान्नत्वोवाच किं करोमीति । ततः प्रथममेव यः किं करोमीति पृच्छति स कथं राज्यकर्ता ? इति निषिद्धः। द्वितीयस्तु श्रस्तवस्त्राञ्चललोचनो विवृताङ्गः शून्य इव सिंहासनमाश्रितः॥
आवरीतुं न शक्नोति निजमप्यङ्गमेककम् । आवरीता कथमयं सप्ताङ्गं राज्यमूर्जितम् ॥१॥ इति विचार्य सोऽपि निषिद्धः । तदनु कुमारपालमादिक्षन् । सोऽपि कृपाणं पाणिना धुन्वन् विकसन्मुखः स्कन &ायन्यस्तसंव्यान अर्द्धसमीरणं गृहीत्वा सिंहासनमलश्चकार । अत्रावसरपाठकः
___ "न श्रीः कुलक्रमायाता, शासने लिखिता न च । खङ्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥१॥"
*****
॥३३॥
Jain Education
a
l
For Private 8 Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
HUSSAUSASRUSSOSASSA
तच्चेष्टासौष्ठवं दृष्ट्वा सन्तुष्टाः कृष्णदेवादयः । संवत् ११९९ वर्षे मार्गशीर्षे चतुर्थी श्यामायां पुण्यार्के सर्वग्रहबलोपेते मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिञ्चन्त । ततः प्रेमलदेव्याद्या भगिन्यो माङ्गल्यादिक्रियोत्सवं चक्रुः । सर्वे 3 * सामन्तमन्त्रिणो हस्त्याद्युपायनानि कृत्वा नमश्चक्रुः । मुक्तानां सेतिका क्षिप्ता तस्य शीर्षे सफल्यिका संजाता, राज्ञः सम-|
प्रैश्वर्यवृद्धिं सूचयति स्म । श्रीकुमारपालभूपः पञ्चाशद्वर्षदेश्यः पट्टगजारूढः श्वेतातपत्रपवित्रश्चामरैर्वीज्यमानः सर्वराजमार्गे लोकाशिषो गृहन् विविधातोद्यनिर्घोपैदिग्मुखान्यापूरयन् राजास्थानमण्डपमलङ्कृतवान् ॥
उल्लासयन् सुहृत्पद्मान् , हरन् द्विटूकैरवश्रियम् । आश्चर्यकारणं कस्य, स राजा न व्यजृम्भत ॥१॥ पुरजनपदग्रामत्राणं भटवजसंग्रहः, कुनयदलनं नीतेवृद्धिस्तुलार्थमिति स्थितिः। व्रतिषु समता चैत्येष्वर्चा सतामतिगौरवं, प्रशमनविधि नव्ये राज्ये व्यधादिति स प्रभुः ॥२॥ अथ स राजा भोपलदेव्यै पट्टराज्ञीपदं ददौ॥ कृतोपकारानाकार्य, सर्वान् सत्त्वहितस्ततः । कृतज्ञः कृतवान् राजा, पूजां तेषां यथोचितम् ॥१॥ "स्वामिभक्तो महोत्साहः, कृतज्ञो धार्मिकः शुचिः। अकर्कशः कुलीनश्च, शास्त्रज्ञः सत्यभाषकः ॥१॥ विनीतः स्थूललक्षश्चाव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसंपन्नः, प्राज्ञः शूरोऽचिरक्रियः॥२॥ पूर्व परीक्षितः सर्वोपधासु निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥३॥ अमोघवचनः कल्पः, पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्रनियोजितपदक्रमः॥४॥
ACCORECASSACROCER
For Private Personal use only
Page #74
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥३४॥
आन्वीक्षिकी त्रयी वार्ता, दण्डनीतिकृतश्रमः। क्रमागतो वणिक्पुत्रो, भवेन्मन्त्री न चापरः॥५॥" इति राजनीतिविदा राज्ञा पूर्वोपकारकर्ने श्रीउदयनाय महामात्यपदं दत्तम् । तत्पुत्रो वाग्भटः सकलराजकार्यव्यापारेषु व्यापारितः। आलिगनामा द्वितीयो मन्त्री कृतः। अथ स राजा पञ्चाशद्वर्षवयाः प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन च राज्यशास्तिं स्वयं कुर्वन् राजवृद्धपूर्वप्रधानानामरोचमानस्तैः संभूय व्यापादयितुं व्यवसितः। सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभकर्मप्रेरितेन केनाप्याप्तेन ज्ञापिततद्वृत्तान्तस्तं प्रदेशं विहाय द्वारान्तरेण गृहं प्रविष्टोऽचिन्तयत
"वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तले वा । सुसंप्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥२॥
सुहृदामुपकारकारणावियतां चाप्यपकारकारणात् । प्रभुतेति जनैः प्रशस्यते, जठरं को न विभर्ति केवलम् ? ॥२॥' इति राजनीति परिभाव्य राजवृद्धप्रधानान् यमपुरी प्रति प्राहिणोत् । ततः स भाबुकमण्डलेश्वरः शालकसंबन्धात् राजस्थापनाचार्यत्वाच राजपाटिकायां सर्वावसरे च प्राक्तनदुरवशां समर्मतया जल्पन् राज्ञोक्तः, त्वयाऽतःपरमेवंविध वचः सभासमक्षं न वाच्यं, विजने तु यदृच्छयेति । यतः-.. | "संपदं विपदं चापि, महानाप्नोति नेतरः। हानि वृद्धिं च लभते, चन्द्रमा नोडुमण्डलः॥१॥
संतेहिं असंतेहिं, परस्स किं जैपिएहिं दोसेहिं । अत्थो जसो न लब्भइ, सो अ अमित्तो कओ होइ॥२॥ कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ॥३॥ कम्मं मम्मं जम्भ, तिन्निवि एयाई मा भणिज्जासु । मम्माइसु विद्धो पुण, मारिज सयं मरिजा वा ॥४॥"
॥३४॥
For Private Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
इत्याद्युपरुद्धोऽप्युत्कटतयाऽवज्ञावशाच रे रे अनात्मज्ञ ! इदानीमेष पादौ त्यजसीति भाषमाणो मर्तुकाम औषधमिव । तद्वचः पथ्यमपि न जग्राह न वेत्ति च वचनावसरम् । यतः
"सभा केयं ? कोऽहं ? क इह समयः ? संप्रति वचः, प्रियं किं सर्वेषां ? सफलमिदमाहोश्विदफलम् । इति प्रेक्षापूर्व निगदति न यश्चारुवचनं, पुमानेष प्रायो ब्रजति नियतं हास्यपदवीम् ॥१॥ आज्ञाभङ्गो नरेन्द्राणां, महतां मानखण्डनम् । मर्मवाक्यं च लोकानामशस्त्रवध उच्यते ॥२॥ याचको वञ्चको व्याधिः, पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च, प्रायेणोद्वेगहेतवः ॥३॥" नृपस्तु तदा तदाकारसंचरणेनापहवं विधायापरस्मिन् दिने कृतसङ्केतैः स्वमलैस्तदङ्गभङ्ग कारयित्वा नेत्रयुगलमुनृत्य | कृष्णदेवभावुकं तदावा प्रेषीत् । यत:. "शास्त्रं सुनिश्चलधिया परिभावनीयमाराधितोऽपि नृपतिः परिशङ्कानीयः।
आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपेच युक्तौ च कुतः स्थिरत्वम् ॥१॥ आदौ मयैवायमदीपि नूनं, तन्नो दहेन्मामवहीलितोऽपि । इति भ्रमादङ्गुलिपर्वणापि, स्पृश्येत नो दीप इवावनीपः॥२॥" | इति सूक्तं स्मरन्तोऽन्तीतिरीतिविशारदाः । देवेन्द्रमिव देवास्तं चौलुक्यं पर्युपासत ॥१॥ सिद्धेशधर्मपुत्रोऽथ भटश्चारभटो बली । चौलुक्याज्ञामवज्ञाय भेजेऽ! राजभूभुजम् ॥ २॥ इत्थं निष्कण्टकं राज्यं कृत्वा देशे समन्ततः। मूर्ध्नि शेषामिव न्यास्थनिजामाज्ञां महीपतिः॥३॥
AAR
राजभूभुजमालुक्यं पर्युपासत
माज्ञां महीप
Page #76
--------------------------------------------------------------------------
________________
कुमारपाला तदा राज्ञा कृतज्ञचक्रवर्तिनाऽऽलिगकुलालाय सप्तशतग्राममिता चित्रकूटपट्टिका दत्ता । ते तु निजान्वये लज्जमानाप्रबन्धः। ॥३५॥
अद्यापि सगरा इत्युच्यन्ते । यैश्च (येन भीमसिंहेन) कण्टकान्तर्निक्षिप्य रक्षितः, ते (तज्जातीयाः) अङ्गरक्षकपदे स्थापिताः। ( तन्मध्ये मुख्यो भीमासंहोविश्वासास्पदम् ) वोसिरिब्राह्मणमित्राय लाटमण्डलं, तिलककारिण्यै करम्बकदायिन्यै देवश्रिये धवलकं, चणकदातृकटुकाय वटपद्रपुरं दत्तम् । अन्येषामपि पूर्वोपकारिणां दत्तमुचितम् । यतः
“कएवि अन्नस्सुवगारजाए, कुणंति जे पञ्चुवयारजुग्गीन तेण तुल्लो विमलोवि चंदो, न चेव भाणू नहि देवराया॥१॥" उपकारव्रतस्यास्य कथमन्यगतं समम् । इहलोकेऽपि यत्सद्यः फलत्यविकलैः फलैः॥१॥ एवं निजोपकर्तृस्तान् सच्चके सकलान्नृपः । हेमाचार्य विमुच्यैकं धर्मप्राप्त्यन्तरायतः॥२॥
अथ कर्णावत्याः श्रीहेमाचार्याः श्रीकुमारस्य राज्याप्तिं श्रुत्वा उदयनमन्त्रिकृतप्रवेशोत्सवाः पत्तने प्रापुः । पृष्टो मन्त्री, राजाऽस्माकं स्मरति न वा? इति । मन्त्रिणोतं, नेति । ततः कदाचित्सूरिभिरूचे, मन्त्रिन् ! त्वं भूपं ब्रूया रहः, अद्य त्वया नव्यराज्ञीगृहे नैव सुप्तव्यम् , रात्री सोपसर्गत्वात् । केनोक्तं ? इति पृच्छेच्चेत्तदाऽत्याग्रहे मन्नाम वाच्यम् । ततो मन्त्रिणा तथोक्ते राज्ञा च तथाकृते निशि विद्युत्पातात्तस्मिन् गृहे दग्धे राश्यां च मृतायां चमत्कृतो राजा जगाद सादरम् । मन्त्रिन् ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं च । ततो राज्ञाऽतिनिर्बन्धे कृते मन्त्रिणा श्रीगुरूणामागमनमूचे।
॥३५॥ प्रमुदितो नृपस्तानाकारयामास । सदसि सूरीन् दृष्ट्वाऽऽसनादुत्थाय वन्दित्वा प्राञ्जलिरुवाच राजा, भगवान् ! अहं निजास्यमपि दर्शयितुं नालं तत्र भवतां, तदा च स्तम्भतीर्थे रक्षितः, भाविराज्यसमयचिट्ठडिका चार्पिता, परमहं प्राप्त
, रात्री सोपसर्गवातमन् गृहे दग्धे राश्यांवन्ध कृत मन्त्रिणा वीजा, भगवान् । आहे. माते निशि विद्युत्पाताचा ततो राज्ञातवा प्राञ्जलिरुवा
Jan Education in
For Private Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
राज्योऽपि नास्मार्ष युष्माकम् । निष्कारणप्रथमोपकारिणां कथंचनाप्यहं नानृणो भवामि । सूरिभिरूचे, कथमित्थं विकत्थसे त्वमात्मानं मुधा राजन् ! उपकारक्षणो यत्ते संप्रति समागतोऽस्ति । ततो राजाऽऽह, भगवन् ! पूर्वप्रतिश्रुतमिदं राज्यं गृहीत्वा मामनुगृहाण । ततः सूरिःप्रोवाच, राजन् ! निस्सङ्गानामस्माकं किं राज्येन?
कृतज्ञत्वेन चेद्भूप! त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैनधर्म धेहि निजं मनः॥१॥ ततो राजाह
भवदुक्तं करिष्येहं सर्वमेव शनैः शनैः। कामयेऽहं परं सङ्गं निधेरिव तव प्रभो! ॥२॥ अतो भवद्भिरिह प्रत्यहं समागम्यं प्रसद्या एवमङ्गीकृत्य यथाप्रस्तावं च सभायामागत्य धर्ममर्मान्तराणि सूरिराख्यातवान्।अथ
"रक्षाय व्ययचिन्तनं १ पुरजनान् वीक्षा २ सुरार्चाऽशने ३ कोषान्वेषण ४ मन्यनीवृति चरप्रेषो ५ यथेच्छं भ्रमिः६ । हस्त्यश्वादिशरासनादिरचना ७ जेतव्यचिन्ता समं सेनान्येति ८ कृतिः क्रमेण नृपतेर्घनस्य भागाष्टके ॥१॥ एकान्ते परमाप्तवाक्श्रुति १ रतिप्रौढार्थशास्त्रस्मृति २ स्तूर्यध्वानपुरस्सरं च शयनं ३ निद्रा च भागद्वये ४।५।
बुवा वाद्यरवैरशेषकरणध्यानानि ६ मन्त्रस्थिति ७ विप्राशीभिषगादिदर्शनमिति ८ स्यादात्रिभागाष्टके ॥२॥” इति नीतिरीत्या श्रीकुमारपालो राज्यं पालयति । अथान्यदा श्रीकुमारभूपो दिग्विजयं कुर्वाणः प्राच्यां कुरुसूरसेनकुशावर्तपञ्चालविदेहदशार्णमगधादीन् देशान्, उत्तरस्यां कास्मीरोड्डियाणजालन्धरसपादलक्षपर्वतादि यावदसाधयत् । दक्षिणस्यां लाटमहाराष्ट्रतिलङ्गादिविषयान् , पश्चिमायां सुराष्ट्रब्राह्मणवाहकपञ्चनदसिन्धुसोवीरादिदेशांश्च स्ववशीचके । तत्र सिन्धुपश्चिमतटे पद्मपुरेशपद्मरथपुत्री पद्मिनी पद्मावतीनाम्नीं स्वरूपलावण्यवयःसमानषोडशवाराङ्गनासहितां सप्तकोटि
For Private & Personel Use Only
Page #78
--------------------------------------------------------------------------
________________
कुमारपाल दि द्रव्यसप्तशतसैन्धवतुरङ्गमपरिवृतां श्रीकुमारपालस्य परनारीसहोदरशरणागतवज्रपञ्जरनिःसीमसाहसरूपसौन्दर्यादिगुणान् द प्रबन्धः।
श्रुत्वा सञ्जातदृढतमानुरागां स्वयंवरायातां श्रीकुमारः परिणीतवान् । तथा मूलस्थाने मूलराजनृपेण सह महान् युद्धविस्तरः । एवं दिग्यात्रां कृत्वाऽनेका द्रव्यकोटीरादाय एकादशलक्षतुरगैकादशशतगजेन्द्रपञ्चाशत्सहस्ररथद्वासप्ततिसामन्ताष्टादशलक्षपदातिरूपसैन्यपरिवारितः श्रीपत्तनमलञ्चकार । यदुक्तं श्रीवीरचरित्रे दिग्विजयप्रमाणं श्रीकुमारभूपतेः___ "आगङ्गमैन्द्रीमाविन्ध्य, याम्यामासिंधुपश्चिमाम् । आतुरष्कं च कौबेरी, चौलुक्यः साधयिष्यति ॥१॥"
अन्यदा राजसभासीनं नृपं कोऽपि वैदेशिकगन्धर्वो मुषितोऽस्मीति तारं बम्बारवं कुर्वाणः केन मुषितोऽसि ? इति राज्ञा पृष्टः, मम गीतकलयाऽतुलया सामीप्यमुपेयुषा कौतुकार्पितगलस्वर्णशृङ्खलेन नश्यता मृगेणेति विज्ञपयामास । ततो राज्ञाऽचिन्ति नूनमयं कोऽपि वैदेशिको गीतकलाकौतुकी स्वां कलां दर्शयितुमत्रागत इति । निजो गन्धर्वकलाधुरन्धरः सोल्लाभिधः समादिष्टस्तदानयनाय । सोऽपि च तत्कालमेव तदवीमटन्तं परमोत्कर्षप्राप्तस्फीतगीतकलया व्यामूळे सकनकशृङलं मृग नगरान्तरे राजसभायामानीय भूपतेः समर्पयामात । ततस्तत्कलातिशयेन चमत्कृतो भूपः प्रभूतं पारितोषिकं दत्त्वा गीतकलाया अवधि पप्रच्छ । सोल्लाकः शुष्कदारुणः पल्लवप्ररोहावधि विज्ञप्तवान् । तर्हि कौतुकं दर्शष इत्यादिष्टोऽर्जुदगिरेविरहनामानं वृक्षमाक्षेपादानाय्य तस्य शुष्कशाखाखण्डं राजसभायां कुमारन्तिकायां कृप्तालवालं
॥३६॥ शुद्धमल्हाररागालपितगीतमूर्छनासमूर्छितप्रोल्लसत्पल्लवं कृत्वा राजानं सपरिकर तोषयामास । द्वादशग्रामान पारितोषिक दत्त्वा चिन्तितवान् , अहो ! नादमहिमा महीयान् । यतः
For Private Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
"सुखिनि सुखनिषेको दुःखितानां विनोदः, श्रवणहृदयहारी मन्मथस्याग्रदूतः।
नवनवरसकर्ता वल्लभो नायिकानां, जयति जगति नादः पञ्चमस्तूपवेदः॥१॥" तत्रायातान् श्रीहेमसूरीन् नादस्वरूपादि पृष्टवांश्च । सूरयोऽप्याहु:
सप्तस्वरमयं गीतं, ते स्वरास्त्रिविधा मताः। सचेतनकृताः केऽपि, केऽपि निश्चेतनोद्भवाः॥१॥ स्वराश्चोभयजाः केचित् , मुख्यास्तेषु च देहजाः। यतः"सप्तस्वरस्त्रयो ग्रामाः, मूर्छनाश्चैकविंशतिः। ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥१॥ षड्जर्षभौ च गान्धारो, मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च, ते स्वराः सप्त नामतः॥२॥ कण्ठोरस्तालुरसनानासाशीर्षाभिधेषु च । षट्सु स्थानेषु जातत्वात् , षड्जः स्यात् प्रथमः स्वरः ॥ ३ ॥ कण्ठात्संजायते पडूजः, ऋषभो हृदयोद्भवः । गन्धारस्त्वनुनासिक्यो, मध्यमो नाभिसंभवः ॥४॥ उरसः शिरसः कण्ठात्सञ्जातः पञ्चमः स्वरः । ललाटे धैवतं विन्द्यान्निषादः सर्वसन्धिजः॥५॥ सप्तस्वराणामुत्पत्तिः, शरीरे परिकीर्तिता।"
तथा"सज रवइ मऊरो, कुक्कडो रिसह सरं । हंसो वयइ गंधारं, मज्झिमं च गवेलका ॥१॥" अह"कुसुमसंभवे काले, कोइला पंचमं सरं । छठं च सारसा कोंचा, नेसायं सत्तमं गया ॥१॥
For Private & Personel Use Only
Page #80
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ३७ ॥
सज्जं तु अग्गजिन्भाए, उरेण रिसहं सरं । कंडुग्गएण गंधारं, मज्झजिभाइ मज्झिमं ॥ २ ॥ नासाए पंचमं बूया, दंतुद्वेण य धेवयं । मुद्धाणेण य नेसायं, सरद्वाणा विआहिया ॥ ३ ॥ " सत्तसरा अजीवनिस्सिया पन्नत्ता । तंजहा—
"सज्जं रवइ मुअंगो, गोमुही रिसह सरं । संखो नदइ गंधारं, मज्झिमं पुण झलरी ॥ १ ॥ चउचलणपइडाणा, गोहिया पंचमं सरं । आडंबरो अ धेवयं, महाभेरी अ सत्तमं ॥ २ ॥” " गीतं नादात्मकं वाद्यं, नादव्यक्त्या प्रशस्यते । तद्वयानुगतं नृत्यं, नादाधीनमतस्त्रयम् ॥ १ ॥ ये चक्रिणः स्युर्निधयो नवैषु, शङ्खाभिधानो नवमो निधिर्यः । तूर्याणि नाद्यानि सनाटकानि सर्वाणि तत्रैव समुद्भवन्ति ॥ २ ॥” इति जैनमते तूर्यत्रिकोत्पत्तिः । लोके तु हरात्सङ्गीतादिनिष्पत्तिः ॥
सूडादिवन्धक्रमरीतिविद्यो, रागेषु तालेषु महाप्रगल्भः । गीते रसे चापि विशेषविज्ञो भवेत्स भूपालसभावतंसः ॥ १ ॥ इत्यादि सूरिपार्श्वे श्रुत्वा मुदितः श्रीकुमारपालोऽनाहतनादस्वरूपं पप्रच्छ । सूरिरप्याह
यत्प्रोक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यः स्मृतः । तन्मध्ये संस्थितः प्राणः प्राणो वह्निसमुद्भवः ॥ १ ॥ वह्निमारुतसंयोगान्नादः संजायते हि यः । सोऽनाहतो भवेन्नादो बिन्दुभेदकरो ध्रुवम् ॥ २ ॥ घण्टानादो यथा प्रान्ते प्रशाम्यन् मधुरो भवेत् । अनाहतोऽपि नादोऽथ तथा शान्तो विभाव्यताम् ॥ ३ ॥ स नादः सर्वदेहस्थो नासाग्रे तु व्यवस्थितः । प्रत्यक्षः ससर्वभूतानां दृश्यते नैव लक्ष्यते ||४|| तावदेवेन्द्रियाण्यत्र कषायास्तावदेव हि । अनाहते मनोनादे यावल्लीनं न योगिनः ||५||
प्रबन्धः ।
॥ ३७ ॥
Page #81
--------------------------------------------------------------------------
________________
योगिवचश्च"नरशिर तुंबडं वेणु तणु कुंडलिणीकी तंति । वजइ किंपि अणाहित जोगी झायति ॥१॥"
लौकिकेऽपि"पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः । रूपं चित्तमयं प्रोक्तं, रूपातीतं निरामयम् ॥१॥" : एवंविधविचाररञ्जितो राजा सूरीन सर्वकलापारीणान् मन्यमानो राज्यं पालयति ॥ तदा शतानन्दपुरे जलधिवेष्टिते महानन्दो राजा, मदनरेखा राज्ञी । सा सपत्नीरक्तं भूपं ज्ञात्वा वैदेशिकात्कार्मणचूर्ण लब्धम् । “मन्त्रमूलबलात्प्रीतिः, पतिद्रोहोऽभिधीयते ।" इति स्मरन्त्या तच्चूर्ण जलधौ क्षिप्तम् । वशीभूतोऽम्बुधिदेवता मूर्तिमान् निशि तया समं रेमे । आधानाद्राजा क्रुद्धो यावत् प्रवासं दत्ते राइयाः, तावदेवः समागत्य प्राह__ "विवाहयित्वा यः कन्यां, कुलजां शीलशालिनीम् । समदृष्टया न पश्येत, स पापिष्ठतमो मतः॥१॥" इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं प्लावयिष्यामीति भूपो भीतः क्षामयति राज्ञीम् । चूर्णादिप्रयोगो ज्ञापितो राझ्या । पुत्रो जातः । मल्लिकार्जुननामेति प्रसिद्धः। तस्मै राज्योचितां भुवं याचितोऽम्बुध्यधिष्ठायकः क्वचिन्नव्यां भुवं नीरमपहृत्यान्तरीपान् प्रादुश्चकार । तत्र स्थाने कौङ्कणदेशप्रसिद्धिः । अथान्यदा श्रीचौलुक्यचक्रवती सर्वावसरे स्थितः कौङ्कणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामहेति विरुदमभिधीयमानमशृणोत्। यथा
"जित्वा प्राग निखिलानिलापतिवरान् दुर्वारदोवीर्यतः, कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत्सर्वदा।
For Private & Personel Use Only
Page #82
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाल.5 धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतं, सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः॥१॥
तदाकर्ण्य सोध्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यधात्॥३८॥ 5
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ इति मागधवचनैरुद्दीपितो राजाऽवदत् । अहो ! अविज्ञाताऽहङ्कारस्वरूपोऽयं भूपः । यतः__“अहङ्कारे सति प्रौढे, वदत्येवं गुणावली । अहङ्कारे पतिष्यामि, समायाता तवान्तिके ॥१॥"
ततस्तदसहिष्णुतया स्वसभां निभालयन् नृपचित्तविदा मत्रिपुत्रेण श्रीआम्बडेन कृतं ललाटे करसंपुटं दृष्ट्वा चमत्कृतो भूपतिः सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणमपृच्छत् । ततो मत्रिपुत्रोऽवदत् , देव ! यदस्यां सभायां स कोऽपि सुभटोऽस्ति यो मिथ्याभिमानं नृपाभासं मल्लिकार्जुनं जयतीति युष्मदाशयविदा मया स्वाम्यादेशक्षमेणायमञ्जलिबन्धश्चके । इति तद्वचः श्रुत्वा राजाऽवदत् , अहो ! अस्य चातुर्यम् ॥
उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः।
अनुक्तमप्युह्यति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥१॥ ततस्तद्वचःसमनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्वा पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज। स चाविच्छिन्नप्रयाणकैः कौङ्कणदेशमासाद्य दुरवारिपूरां कलम्बिणीनाम्नी नदीमुत्तीर्य परस्मिन् कूले गते सैन्ये तं दसंग्रामाऽसजं विमृश्य मल्लिकार्जुनः सर्वाभिसारण प्रहरन् तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्ण
HOSRANGOLCOMCHCHEARC
॥३८॥
Jain Education in
For Private
Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
वदनः कृष्णवसनः कृष्णछत्रालङ्कृतमौलिः कृष्णगुड्डुरेषु निवसन् श्रीपत्तनबहिष्णदेशे स्थितः। अथ विजयदशमीदिनेराजपाटिकागतेन श्रीचौलुक्यभूभुजा विलोक्य कस्यासौ सेनानिवेशः? इति पृष्टे कश्चिदुवाच, देव ! कौऋणात्प्रत्यावृत्तस्य पराभूतस्याम्बडसेनापतेः संनिवेशोऽयमिति । तदीयलज्जया चमत्कृतो भूपश्चिन्तयति स्म । अहो ! अस्य लज्जाशीलत्वम् । अत्रान्तरेऽवसरपाठकः पपाठ
लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः।
तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ ततोऽस्य सपादलक्षमौचित्येऽदापयत् । पुनः प्रसादललितया दृशाऽऽम्बडं संभाव्य तदपरैर्बलवद्भिः सामन्तैः समं मल्लि-10 18कार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबन्धे विरचिते तेनैव पथा सैन्यमुत्तार्य साव-18
धानवृत्त्या सम्मुखमायातमल्लिकार्जुनसैन्येन सहासमसमरारम्भे जायमाने हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव है। रुरोध । द्वयोश्चिरं खड्गाखगि दृष्ट्वा मागधः पपाठ| अभिमुखागतमार्गणधोरणिध्वनितपल्लविताम्बरगहरे । वितरणे च रणे च समुद्यते, भवति कोऽपि परं विरलः पुरः॥१॥
इति श्रुत्वा वर्द्धितोत्साह आम्बडः सुभटो दन्तिदन्तमुसलसोपानेन कुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः प्रथमं त्वं | प्रहर इष्टं वा देवतं स्मर इत्युच्चरन् धारालकरवालप्रहारात् मल्लिकार्जुनं भूपीठे लोठयित्वा सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केशरिकिशोर इव करिणं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यचक्रव-131
Jan Education Intematon
For Private
Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ३९ ॥
तिनः समन्तादाज्ञां दापयित्वा त्रिशतीं जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत् ॥
शाीं शृङ्गारकोट्याख्यां पटं माणिक्यनामकम् । पापक्षयङ्करं हारं मुक्ताशुक्तिं विषापहाम् ॥ १ ॥
मान् द्वात्रिंशतं कुम्भान् १४ मनुभारान् प्रमाणतः । पण्मूटकांस्तु मुक्तानां स्वर्णकोटीश्चतुर्दश ॥ २ ॥ विंशं शतं च पात्राणां चतुर्दन्तं च दन्तिनम् । श्वेतं सेदुकनामानं दत्त्वा नव्यं नवग्रहम् ॥ ३ ॥ इत्याद्यपरमपि तत्सत्कं सर्व समर्प्य तच्छिरः कमलेन स्वस्वामिनः श्रीकुमारपालनरेश्वरस्य पादौ पूजयामास । महावदातप्रीणितेन राज्ञा श्रीआम्बडाय 'राजपितामह' इति बिरुदं दत्तम् । कोटिद्रव्यं सौवर्णकलशत्रयं चतुर्विंशतिजात्यतुरङ्गमांश्च । तेन च सौवर्णकलशत्रयं विहाय स्वगृहादक सर्वे भट्टेभ्यः प्रदत्तम् । अत्रान्तरे पिशुनप्रवेशः । यतः"अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते ? । विषं महाऽहेरिव यस्य दुर्वचः, सुदुःसहं संनिहितं सदा मुखे॥ १ ॥
जम्मेवि जं न हुअं, न हु होही जंव जम्मलक्खेहिं । तं चित्र जंपंति तहा, पिसुणा जह सच्चसारिच्छं ॥ २ ॥” ततः प्रभाते किंचिद्दनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्रीआम्बडः प्रोक्तः, त्वं मम दानादप्यधिकमियत्कस्माइत्से? । यतः - 'सेवकेन स्वामिन आधिक्येन दानं न देयम्' इति सेवाधर्मः । अत्रावसरे श्रीआम्बडस्य मागधः पपाठ राजसभायाम् शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः, सारङ्गाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः । येषां नैर्झरमम्बुपानमुचितं रत्यैव विद्याङ्गना, मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ १ ॥
प्रबन्धः ।
॥ ३९ ॥
Page #85
--------------------------------------------------------------------------
________________
RECENC
__ मन्त्रिणा लक्षमौचित्ये दत्तम् । राज्ञः समधिकः कोपः। ततो मन्त्रिणा प्रोचे, राजन् ! त्वं द्वादशग्रामस्वामिनस्त्रिभुवनपालस्य पुत्रः, अहं त्वष्टादशदेशाधिपत्यभुजस्तव पुत्रः, ततः स्तोकमिदं मम दानम् , इति श्रुत्वा राजा प्रमुदितः पुत्रपदमदात्, द्विगुणं च प्रसादमकरोत् । अत्रान्तरे राज्ञो मागधः पपाठ
ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते, तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः।
तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो, ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥१॥ राजा सपादलक्षं पारितोषिकमदात् । ततः
यः कौबेरीमातुरुष्कमैन्द्रीमात्रिदिवापगाम् । याम्यामावन्ध्यमासिन्धुं पश्चिमा यो ह्यसाधयत् ॥१॥ अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्तिता श्रीआम्बडेन ॥
अथ शाकम्भरीपुर्वी राजाऽर्णोराजः श्रीचौलुक्यभगिनीदेवल्लदेवीपल्या सह सारिक्रीडां वितन्वानोऽशिरोवेष्टशीर्षत्वाद्गमाजरा नरा मुण्डिता इति कृत्वा हास्यरसेन मुण्डितान् मारयेति जायां प्राह । ततः सा कुमारभगिनी स्वदेशपक्षपातवशंवदा
हे देव ! एतद्धास्यं मुक्त्वाऽन्यद्धास्यं मया समं कार्य इति स्वकान्तं प्राह । सोऽप्येवं निषिद्धोऽपि वारितवाम इव पुनः पुनस्तदेवं वचोऽवोचत् । ततो रुष्टा देवल्लदेवी । रे जङ्गड ! जाल्म ! जिह्वां संभाल्य न वदसि ? । यतः
"क्काऽमी जना भवद्देश्याः, पीना कोपीनचीवराः । विवेकविकलाः क्रूरगिरो रौद्राः पिशाचवत् ॥ १॥ क्व च ते गूर्जराः स्फूर्जदङ्गाः शृङ्गारसङ्गताः । विविक्ता मधुरालापाः, भूमिष्ठास्त्रिदशा इव ॥२॥"
CRACANCERNEDEOS
C ESS
For Private & Personel Use Only
Page #86
--------------------------------------------------------------------------
________________
कुमारपाल
॥४०॥
SCAM.CACANCARSA
यदि भार्यात्वेन मत्तो न बिभेषि तदा मातुः श्रीकुमाराद्राजराक्षसादपि रे न भयं इत्यादिवदन्तीं क्रुद्धोऽर्णोराजः४ प्रवन्धः । पादघातेन तां जघान । याहि मगृहात्, कथय स्वभ्रातुर्भिक्षाचरस्य, इति च निर्भर्त्सनावाक्यैः पराभूता सा मनस्विनी यदि ते जिह्वां दुष्टामवटमार्गेण नाकर्षयामि तदा राजपुत्री मां मा मंस्था इति प्रतिज्ञाय स्वपरिवारसैन्यैः सह पत्तने राजानं स्वबन्धुमाशीर्वादवचनैस्तोषयित्वाऽणोंनृपस्वरूपं स्वप्रतिज्ञां च कथितवती । चौलुक्योऽपि तां भगिनी सामवाक्यराश्वास्य दुष्टराज्ञः स्वजिह्वाफलं दर्शयित्वा तव प्रतिज्ञां पूरयिष्यामीति तोषितवान् । स्वगृहे सा धर्मपरा स्थापिता सबहुमानम् । अथ राजाऽर्णोराजस्थितिचर्यादिजिज्ञासुः कञ्चन धूर्त मन्त्रिणं शाकम्भरीपुर्या प्राहिणोत् । सोऽपि तत्र गत्वा कूटवणिग्वृत्त्या राजद्वारेऽटुं कृत्वा राजमुख्यपरिचारिकापरिचयं चकार । इतश्चानाकस्तस्यां तत्र गतायां श्रीचौलुक्यनृपं दुर्धरं विदन् क्षुभितः कुलक्रमायातं व्याघ्रराजं दीनारलक्षत्रयेण संतोष्य भरटकवेषधारिणं कङ्कलोहप्रच्छन्नशस्त्रयुतं श्रीकुमारघाताय प्रेषीत् । एतच्च पूर्वोपचारितार्णोराजपरिचारिकया मन्त्रिणे निवेदितं मन्त्रिणा च विज्ञप्ता राज्ञश्च, यदुत सावधानैर्भाव्यं भरटकविश्वासो न कार्य इति । ततः सोमदिने कर्णमेरुप्रासादे नवीनं भरटकं पूर्व मत्रिज्ञापितं चेष्टयो-टू पलक्ष्य पूर्वसंकेतितमल्लैयाघ्रराजं बन्धयित्वा प्रच्छन्नक्षुरिका प्रकाश्य राजा प्राह, रे वराक ! जङ्गड ! केन प्रहितोऽसि ? सेवकस्य स्वामिपरवश्यस्य कृत्याकृत्यविचारो नास्ति, त्वं मा भैषीः, मुक्तोऽसि, तमेव हनिष्यामीति सत्कृत्य मुक्तः । ततः
॥४०॥ ससैन्यः स्वभगिनीप्रतिज्ञापूरणाय सपादलक्षं प्रति प्रस्थितः। चन्द्रावतीपुर्या आसन्ने प्राप । तत्र विक्रमसिंहसामन्तो निर- न्तरं पत्तने सेवार्थ यातायातेन भृशं दूनः स्वमन्त्र्यादीन् मेलयित्वा प्राह
For Private & Personel Use Only
Page #87
--------------------------------------------------------------------------
________________
असौ जटाधरः पूर्व भिक्षित्वा निखिलामिलाम् । केनापि दैवयोगेन जज्ञेऽऽस्माकमधीश्वरः॥१॥ क्वाऽयं भिक्षाचरः शश्वत् व वयं राजसूनवः । विडम्बनं ततोऽनेन पत्यास्माकं न मण्डनम् ॥२॥
ततो यदि युष्माकं विचारे समेति तदाऽसौ किमपि छलं कृत्वा घात्यते इति विक्रमसिंहेनोक्के मत्रिणः प्रोचुः, स्वाहामिन् ? स्वामिद्रोहः कुलीनानामनुचित एव, इह परत्र गर्हितत्वात् । यतः"ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं च नास्ति तेषां, नूनं सुखमुभयलोकेऽपि ॥१॥"
तथा“यस्माद्भस्मीभवति महिमा दाववढेरिव दुर्येन श्यामं भवति च कुलं कजलेनेव वस्त्रम् ।
यस्योदकः प्रथयति मुनेः शापवत्तापमन्त-वैरात्स्नेहादपि न कृतिभिस्तद्विधेयं विधेयम् ॥ १॥" एवं निषिद्धोऽपि स्वात्मवैरी स सामन्तः स्वसौधमध्ये क्वाऽपि गुप्तं वह्नियत्रं निर्माप्य श्रीकुमारपालदेवस्य चन्द्रावतीपरिसरे समागतस्य निमन्त्रणाय गतो विक्रमसिंहः । राज्ञः पादयोलगित्वा भोजनार्थमत्याग्रहं कृतवान् । श्रीचौलुक्योऽपि "मारवेषु न विश्वस्यम्" इति नीति जानन् स्वपरिवारं भोजनार्थ प्रहितवान् , स्वयं न गतः । परिजनोऽपि भुक्तेरनन्तरं राज्ञः सौधरामणीयकं विलोकनायेतस्ततो भ्रमन् वह्नियन्त्रमध्यहूयमानतत्तद्रव्यादिगन्धं जिघ्रन् कंचिद्बद्धं दृष्ट्वा पृष्टवान् । तेन च वह्वियत्रस्वरूपं कथितम् । गूर्जरलोकः स्वभावतोऽपि चतुरः, ततस्तच्छद्म सामन्तसिंहरचितं राज्ञे विज्ञप्तवान् । राजाऽपि गूढहृदयस्तदज्ञातमिव दर्शयन् सामन्तसिंहं सार्द्ध नीत्वा शाकम्भर्याः समीपवनेषु स्वसैन्यं निवेशया
For Private
in Education Intern al
Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
॥४१॥
मास । पद्यमेकं दत्त्वा दूतः प्रहितः । स तत्र गत्वा काव्यमर्पयत् । वाचितं तच्च, यथा
रे रे भेक ! गलद्विवेक ! कटुकं किं रारटीप्युत्कटो, गत्वा क्वापि गभीरकूपकुहरे त्वं तिष्ठ निर्जीववत् । सोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महान् , जिह्वालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ॥१॥
दूतवाक्यं तदाकर्ण्य काव्यभावं विभाव्य च । अवज्ञया हसन्नर्णोराजो व्याहरति स्म तम् ॥१॥ रे दूत ! संग्रामेऽहिं प्रति भेकत्वं तार्क्ष्यत्वं वा ज्ञास्यते त्वत्स्वामिन इत्युक्त्वा प्रतिकाव्यं दत्त्वा दूतं विसृष्टवान् । स्वयं वाजिलक्षत्रयेण, पञ्चाशद्गजैः, लक्षदशपदातिभिः परिवृतः संमुखमायातः। दूतेन काव्यं राज्ञेऽर्पितम् ॥
रे रे सर्प ! विमुञ्च दर्पमसमं किं स्फारफुत्कारतो, विश्वं भीषयसे क्वचित्कुरु बिले स्थानं चिरं नन्दितुम् ।
नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्भ्याधूतपृथ्वीधरस्ताक्ष्यों भक्षयितुं समेति झटिति त्वामेष विद्वेषवान् ॥१॥ __ अर्थ परिभाव्य चमत्कृतः। अथार्णोराजः, कथमेष दुर्जयो जेतव्यः ? इति विचिन्त्य पूर्वमेव तत्रागतं चारभटं जयोपायं पृष्टवान् । तेनापि विज्ञप्तम्, राजन् ! केल्हणाद्याः सामन्ताः कुमारे विरक्ताः सन्ति कृपणत्वाकृतज्ञत्वादिभिः । ततो| द्रव्यं दत्त्वा परावर्त्यन्ते ते ततो हास्यन्ति । ततः प्रातरहं देवगजमारुह्य सिंहनादेन कुमारगजं त्रासयिष्यामीति विचार्य रात्रौ सामन्तपरावर्त द्रव्यादिभिः कृत्वा प्रातः संग्रामे जायमाने सामन्तानुदासीनान् दृष्ट्वा हे श्यामल ! किममी उदा
C सीनाः? इति राजा पृष्टवान् । श्यामलोऽपि श्रीचौलुक्यराज ! वैरिणा सुवर्णप्रदानादिना परिवर्तिता एते । अर्थो हि |त्रिभुवनपरावर्तनसमर्थ इत्याह । तर्हि तव का चेष्टा ? । श्यामलः, देव ! अहं कलहपश्चाननगजो देवश्चैते त्रयोऽपिन परा-1
॥४१॥
Jain Education Internal
Page #89
--------------------------------------------------------------------------
________________
ACACANCERCORRECRAT
वर्त्यन्ते एव । तर्हि संमुखीने दृश्यमाने रिपौ गज प्रेरय । अत्रान्तरे चारणः प्राहकुमारपाल ! मन चिंतकरी चिंतिरं किंपि न होइ । जिणि तुह रज समोपिउं चिंतकरेसिइ सोइ ॥१॥
अन्यस्तुअम्हे थोडा रिउ घणा इय कायर चिंतंति । मुद्धि निहालुउ गयणयलु के उज्जोउ करंति ॥२॥ द्वयोर्लक्षमौचित्यम् । तयोः सुशब्दं लात्वा रणभूमौ द्वयोश्चिरं युद्धे जायमाने कश्चित् पपाठ
दृष्टस्तेन शरान किरन्नभिमुखः क्षत्रक्षये भार्गवो, दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः। दृष्टस्तेन जयद्रथप्रमथनोन्निन्द्रः सुभद्रापतिईष्टो येन रणाङ्गने सरभसश्चौलुक्यचूडामणिः॥१॥ तदनु चारभटविरचितसिंहनादेन कलहपञ्चानने निवर्तमाने राजाह, कथमयं पशुः पश्चाद्वलते पुनः पुनः । श्यामलेन सिंहनादस्वरूपे निरूपिते तत्कालोत्पन्नबुद्धिः स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय रणभुवि विधुदुत्क्षिप्तकरणं दत्त्वाड
र्णोराजगजस्कन्धमारूढः करिगुडां छित्त्वा भूमौ पातयित्वा हृदि पदं दत्त्वा रे वाचाट ! स्मरसि वचो मम भगिन्याः ?, हापूरयामि तस्याः प्रतिज्ञां, छिनद्मि ते जिह्वामित्युवाच । तदा च। केशरिक्रमणाक्रान्तमृगवन्मृत्युसम्मुखः । चाहुमानस्तमूचे च रक्ष रक्ष शरण्य! माम् ॥१॥ अवस्थया तया वाचा तया च सकृपो नृपः । हृदयात्पादमुत्तार्य कथयामास तं प्रति ॥२॥ कृपया त्वं विमुक्तोऽसि जीवन् परमिदं त्वया । अवटौ रसनाकृष्टिचिह्न धार्य स्वनीवृति ॥ ३ ॥ इयच्चिरं भवद्देशे शीर्षाच्छादनमम्बरम् । वामदक्षिणतो जिह्वायुगास्तेऽतः परं
For Private & Personel Use Only
Page #90
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥४२॥
पुनः॥४॥ पश्चादपि स्फुरजिह्व तत्त्कार्य मन्निदेशतः। यथा भग्नीप्रतिज्ञायाः पूर्तिः प्रख्यायते क्षितौ ॥५॥ कुलकम् ॥
ततः काष्ठपञ्जरे क्षिप्त्वा दिनत्रय स्वसैन्ये स्थापितः । जयातोद्यानि निर्घोषितानि सर्वत्र । सामन्ताश्च लज्जिताः कम्पि-1 ताश्च । परं श्रीगूर्जराधिपो गम्भीरत्वान्नोपालभत तान् । आनाकोऽपि कृपया पुनः शाकम्भरीपतिः कृतः। उत्खातप्रतिरोपितव्रताचार्यों हि श्रीकुमारपालः। भेडतकं सप्तवारं भग्नम् । पल्लीकोट्टभूमौ रुषार्दकमुप्तम् । पुरा मालवीयनृपैर्जरदेशे प्रासादाः पातिताः।पापभीरुणा श्रीकुमारेण वाग्भटमन्त्रिवचसा तिलपीडनपाषाणयन्त्राणि भग्नानि । शाकम्भरीशश्चिन्तितवान्___ यदुच्यते जनास्यमर्द्धवैरं वृथैव तत् । इदं हि वैरं संपूर्णमन्ते प्राणान्तकारणात् ॥१॥ अथ हास्येन किं कृच्छ्रे पल्यैवैतत्कृतं मम । मन्येऽहमङ्गना एव मूलं व्यसनभूरुहः ॥२॥ लङ्कासमीपे कुरुमण्डले च समुत्कटोद्यद्भटकोटिनाशात् । रामायणं भारतमप्यभूद्यत्तत्र ध्रुवं लोलगेव हेतुः ॥३॥
ततः प्रशान्तात्मा श्रीचौलुक्यसेवामकृत सततम् । अथ श्रीकुमारोऽपि कृतकृत्यः पश्चादागच्छन् चन्द्रावती प्राप ॥ तत्र वह्निमयं यन्त्रं सज्जयित्वैव पूर्ववत् । दुष्टो विक्रमसिंहोऽगाद्गुर्जराधीशसंनिधौ ॥१॥ अत्यर्थमर्थनात्तस्य भुत्त्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा विदन्ति हि पराशयम् ॥२॥ मल्लैस्तं बन्धयित्वा द्राग् वह्नियन्त्रविलोकनात् । प्रकाश्य तत्कृतं छद्म तत्सद्माऽज्वालयन्नृपः॥ ३ ॥ उत्तार्याङ्गानि सर्वाणि मलैरास्तरणोज्झिते । अनस्यारोप्य च क्रुद्धस्तं
चारच पता सहाचालयत्ततः॥४॥ स तथा शकटस्थास्नुः पर्यटन् स्वपुरे पथि । खाट्कारप्रस्फुरन्मूर्द्धा निस्सीमामन्वभूट्यथाम् ॥५॥ मार्गे भृशमाक्रन्दतस्तस्याधस्तात्तृणास्तृतिः कारिता । महोत्सवपूर्व पत्तनमाजगाम । त्वत्प्रतिज्ञा पूरिता इति कृतकृत्यां
॥४२॥
Jain Educaton International
For Private & Personel Use Only
Page #91
--------------------------------------------------------------------------
________________
| देवलदेवीं तोपयामास । प्रहिताऽप्यभिमानेन प्रेयोधाम जगाम न । तप्यमाना तपः किन्तु सा तस्थौ बन्धुसन्निधौ ॥ १ ॥ ततः सर्वावसरे तं विक्रमसिंहमाकार्य द्वासप्ततिसामन्तसमक्षं हक्कयित्वा मलैः सज्जीकृत्य कारागारे निक्षिप्तवान् । तद्राज्याधिपं तस्य भ्रातृव्यं यशोधवलनामानं कृतवांश्च । अथैवं निष्कण्टकं राज्यं कुर्वन् देवतावसरेऽनेक सामन्तमन्त्रिमहामन्त्रि सार्थवाहादिपरिवृतः श्रीजयसिंहदेववृद्धमन्त्रिणः पप्रच्छ, यदहं श्रीसिद्ध नृपतेहींनः समानोऽधिको वा ? मन्त्रिभिरछलप्रार्थनापूर्व सिद्धनृपतेरष्टनवतिर्गुणाः, द्वौ दोषौ, स्वामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः, इति मन्त्रिवाक्यादनुदोपमये आत्मनि विरागं दधानो यावच्छुरिकायां चक्षुः क्षिपति तावत्तदाशयवेदिभिस्तैरेवं व्यज्ञपि, श्रीकुमारपालनरेन्द्र ! अस्माभिर्बहिर्वृत्त्या विचार्यैवमुक्तं, परं तत्त्ववृत्त्या तु देव एवाधिकः । राजा, कथम् ? मन्त्रिभिरुक्तम्, सिद्धनृपतेरष्टनवतिर्गुणाः संग्रामाऽसुभटतास्त्रीलम्पटतादोषाभ्यां तिरोहिताः । कार्पण्यादयो देवदोषास्तु समरशूरतापरनारी सहोदरतागुणाभ्यामपहृताः, इति देव एव सर्वगुणशिरोमणिः सत्त्वपरस्त्रीवान्धवतादिगुणाधार इति मन्त्रिवचः श्रवणसंतोषितान्तरात्मा देवतावसरं कृतवान् । अथाऽन्यदा सर्वावसरस्थिते श्रीचौलुक्यदेवे केनापि विदुषा पठितः श्लोको भूपमुद्दिश्य । यथा—
“ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये, जीव्यते न तु भूपतौ ॥ १ ॥” वाक्यमिदमाकर्ण्य ' राज्ञो मेघ उपम्या' इति श्रीकुमार भूपेनाभिहिते सर्वव्याकरणेषु अपप्रयोगे सर्वेष्वपि सामाजिकेषु न्युञ्छनानि कुर्वाणेषु मन्त्रिकपर्दी लज्जयाऽधोमुखो जातः । राजा तं तथा ज्ञात्वा पृष्टवान् । विज्ञप्तं तेन, देव! 'उपम्या
Page #92
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाल
दि शब्दः' शब्दशास्त्रविरुद्धः, तस्मिन् प्रयुक्ते श्रीदेवेनास्माकमधोमुखत्वमेव युक्तम् । 'वरमराजकं भुवनं न तु मूर्यो राजा'
इति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे 'उपमानं, औपम्यं, उपमा' इत्याद्याः शब्दाः शुद्धाः, इति ॥४३॥
तद्वचनप्रेरितेन शब्दव्युत्पत्तिहेतवे पञ्चाशद्वर्षदेश्येन राज्ञा श्रीप्रभुपादान् पर्युपास्य तत्प्रसादितसिद्धसारस्वतमन्त्राराधनसारस्वतचूर्णसेवनादिभिः सुप्रसन्नश्रीभारतीप्रसादादत्तित्रयकाव्यपञ्चकादिशास्त्राणि एकेन वर्षेणावगम्य विचारचतुर्मुखविरुदमर्जितम् । अथाऽन्यदा सपादलक्षीयभूपतेः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवस्वामिनः कुशलमिति पृष्टः । स च मिथ्याभिमानी विश्वं लातीति विश्वलः, तस्य को विजयसन्देहः । राज्ञा प्रेरितेन श्रीमता कपर्दिमन्त्रिणा 'श्वलश्वल्ल आशुगतौ' इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः। तदनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तं इति । राजा 'विग्रहराजः' इति पण्डितमुखान्नाम बभार । परस्मिन् वर्षे स एव प्रधानः श्रीकुमार-| पालनृपतेः पुरो 'विग्रहराजः' इति नाम विज्ञपयन् मन्त्रिणा कपर्दिना विग्रो विगतनासिकः, एवंविधौ हराजौ रुद्रनारायणौ कृतौ । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः 'कविबान्धवः' इति नाम बभार ॥ एवं सरस्वतीलक्ष्मीलीलादुलेलितः स्वयम् । निष्कण्टकां भुवं कृत्वा, राज्यं प्राज्यं करोति सः॥१॥ अथान्यदा श्रीचौलुक्यः प्रातरास्थाने पुरुषोन्नतहैमासनसमासीनः द्वासप्ततिसामन्तषट्त्रिंशद्राजकुलानेककविव्यासपुरोहितराजगुरुमन्त्रिपौरजनसेव्यमानः श्वे- तातपत्रोभयपाश्वचाल्यमानचामरश्रेणिशोभमानः स्वसमीपस्थहेमासनस्थितश्रीहेमसूरीन पृष्टवान्। हे मुनिराज! स कोऽपि सत्कृत्यप्रकारो जगच्चमत्कारकारी प्रकाश्यतां, येन युधिष्ठिरविक्रमभोजादिवन्ममापि नाम कल्पान्तस्थायि भवेत् । यतः
॥४३॥
Page #93
--------------------------------------------------------------------------
________________
"इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशये, वराहो राहुर्वा प्रभवति चमत्कारविषयः । महीमेको मग्नां यदयमवहद्धन्त! सलिले, शिरःशेषः शत्रून्निगलति परः संत्यजति च ॥१॥ प्ररिवर्तिनि संसारे, मृतः को वा न जायते । स जातो येन जातेन, याति वंशः समुन्नतिम् ॥२॥" तदनु श्रीसूरिराह, राजन्! चौलुक्यकुलप्रदीप! जगति कल्पान्तस्थायिनी कीर्तिभ्यामेव प्रकाराभ्यां स्यात्, नाsन्यथा । तथाहि
"जगदनृणतां नीत्वा सम्यग् धनैरतिपुष्कलै- वनविदितं धर्मस्थानं विधाय च किंचन । विशदवदना आशाः कृत्वा यशोभिरनश्वरै-लिखति निजकामाख्या साक्षाद्धो विधुमण्डले ॥१॥" .. इति निशम्य राजाह, भगवन् ! जगदनृणीकारभाग्यं तादृशधनादिसामग्रीसाध्यं श्रीगुरुपादप्रासादायत्तं वर्तते, परं किमपि धर्मस्थानं भवदादिष्टं कारयामीति विचारावसरे सोमनाथीया देवपत्तनवासिनोऽर्चकाः समेत्य राजानं व्यजिज्ञपन् । यथा-प्रासादः सोमनाथस्य जीर्णकाष्ठत्वतोऽधुना । पतन्नस्त्यधिकल्लोलैः खातमूलस्तटदुवत् ॥१॥ भवात् स्वोद्धारवद्देव! तदुद्धारः क्रियेत चेत् । तदा कोशे वसेत्पुण्यं लोके कीर्तिश्च शाश्वती ॥२॥ तदुक्तमुररीकृत्य प्रेष्य पञ्चकुलं निजम् । चैत्यमाश्मं नृपस्तत्र सूत्रधारैरमण्डयत् ॥ ३ ॥ तदा च चैत्यशीघ्रनिष्पत्तये श्रीसूरिं पप्रच्छ । सूरिरपि | राजप्रतिबोधचिकीर्लब्धावसरः प्राह, राजन् ! निर्विघ्नशीघ्रनिष्पत्तये किंचिन्महद्वतमाद्रीयते, व्रतं च ब्रह्मचर्यरूपम् । अथेदं दुर्धरं तर्हि मांसनिषेधः सर्वपुण्यमूलं क्रियते । यदाह
en Education Interior
For Private
Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्ध:
॥४४॥
"न विना जीवघातेन, मांसं भवति कुत्रचित् । जीवघातस्तु न श्रेयांस्तस्मान्मांसं परित्यजेत् ॥१॥
न भक्षयति यो मांसं, न हन्यान्न च घातयेत् । स मित्रं सर्वभूतानां, मनुः स्वायंभुवोऽब्रवीत् ॥२॥" मनुस्मृतौ ॥ __ वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः। मांसानि च न खादेत, तयोः पुण्यफलं समम् ॥ १॥" स्कन्दपुराणे ॥ भोक्ताऽनुमन्ता संस्कर्ता, ऋयिविक्रयिहिंसकाः। उपकर्ता घातयिता, हिंसकश्चाऽष्टधाऽधमः॥१॥ यः स्वार्थ मांसपचनं, कुरुते पापमोहितः । यावन्ति पशुरोमाणि, तावत्स नरकं ब्रजेत् ॥२॥ परप्राणैस्तु ये प्राणान्, स्वान् पुष्णन्ति हि दुर्धियः । आकल्पं नरकान् भुक्त्वा, ते भुज्यन्तेऽत्र तैः पुनः ॥ ३ ॥ जातु मांसं न भोक्तव्यं, प्राणैः कण्ठगतैरपि । भोक्तव्यं तर्हि भोक्तव्यं, स्वमांसं नेतरस्य च ॥ ४ ॥ व मांस व शिव भक्तिः, व मद्यं क्व शिवार्चनम् ? । मद्यमांसरतानां 8 हि, दूरे तिष्ठति शङ्करः॥ ५॥ स्कन्दपुराणे ॥ | धनेन क्रायको हन्ति, उपभोगेन खादकः । घातको वधवन्धाभ्यामित्येप त्रिविधो वधः॥१॥ यथा मांसं तथा मद्यं, वैकल्याधुग्रदूषणम् । ज्ञात्वा ते वर्जयेत् प्राज्ञः, प्रेयःश्रेयःसमीहया ॥२॥ तस्मात्स्वेप्सितसिद्ध्यर्थ, मद्यं मांसं च वर्जय । इत्युक्तो गुरुणा भूपस्तदभिग्रहमग्रहीत् ॥ ३ ॥ नृपोऽसौ वीरकोटीरः, स्वर्णकोटीरनेकशः। कर्मस्थायाऽनिशं प्रेषीत् , स्वारब्धे को हि नोद्यमी? ॥४॥ अब्दद्वयन तच्चैत्यनिष्पत्त्याऽऽनन्दितो नृपः। नियमं तं परित्यक्तुं, सूरीन्द्रमनुयुक्तवान् ॥५॥ सूरिराह-चैत्ये निष्पन्नेऽपि नियमः शिवयात्रायां मोक्तुं युक्तः। एवमङ्गीकृते श्रीसूरिः स्वस्थानं प्राप । चौलुक्योऽपि सभायां सूरिगुणग्रहणमकार्षीत् । तन्निशम्य पुरोधाः क्रुधा प्रज्वलितःप्राह, राजन् ! एष शठवृत्तिर्देवचित्तवशी.
॥४४॥
Jain Educatan International
For Private Personal use only
Page #95
--------------------------------------------------------------------------
________________
CASSACROSALMAN
करणाय त्वदिष्टं वक्ति, परमात्मनां धर्मे द्विष्टवन्नैव रज्यति, यद्येवं न तदेषोऽपि सोमेशं नमस्यितुमाकारितो देवेन सहायातु, परमुक्तोऽपि नैष्यत्येवेति । युक्तं च लघुचेतसामेतत् । यतः| "सुकुमारमहो! लघीयसां, हृदयं तद्गतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी, जरयन्त्येव हि तन्मनीषिणः॥१॥" ___ ततः प्रातः सभायातान् सूरीन् पुरोधोवचःपरीक्षार्थ सोमेशयात्रायै प्रार्थितवान् ॥ तत्कथंचित् परिज्ञाय, दुरात्मत्वं पुरोधसः। चौलुक्यमाहतीकर्तु, कथयामास सूरिराट् ॥१॥ बुभुक्षितोऽपि किं राजन् !, भोजनाय निमन्त्र्यते । महात्माऽपि किमत्यर्थ, यात्रार्थ क्वचिदर्थ्यते ॥२॥ इदमेवास्ति मे कृत्यं, यत्तीर्थपरिशीलनम् । क्षणोऽपि व्यथते मां तद्विना द्यूतगतार्थवत् ॥ ३॥ एवं सूरिवचसाऽमावास्यावतारं मषीलिप्तमिव मुखं चकार पुरोहितः॥ भूभुग जगाद यद्येवं, तद्गृहाण सुखासनम् । सूरिणोचे ममानेन, किं कार्य पादचारिणः ? ॥४ ॥ गृहस्थोऽपि विविक्तात्मा, विना यानेन गच्छति । तीर्थयात्रां यतिः किन्तु, यः शश्वत्पादचारकः॥५॥ आपृच्छय तदिदानीं त्वां, स्तोकस्तोकप्रयाणकृत् । नत्वा शत्रुजयं तेऽहं, सङ्गस्ये देवपत्तने॥६॥ ततः पृष्ट्वा महीनाथ, हेमसूरिस्तदैव सः।प्रतस्थे तीर्थयात्रार्थ, सन्तो ह्यवितथोक्तयः॥७॥ । श्रीकुमारपालोऽपि महता विस्तरेण यात्रायै प्रस्थितः कतिपयैर्दिनैर्देवपत्तनसमीपे समाजगाम । श्रीहेमसूर्यागममैहत च वहींव वारिदस्य । सर्वत्र परिसरे पञ्चयोजनी विलोकिताः परं न दृष्टाः सूरयः क्वापि । विप्रा वदन्ति स्म, समुद्रे पतितो हेमसूरिः। राजापि चिन्तामापन्नः प्रातः सोमेशनमश्चिकीः प्रौढोत्सवैः प्रस्थितो यावता तावता सूरयोऽप्यागत्य धर्मा|शिषा राजानमतूतुषन् । राजाऽपि, भगवन् ! कुतः संप्रत्यागता इत्याह । सूरयोऽपि, हे श्रीचौलुक्यकुलमाणिक्य ! श्रीरैव
Jain Education Intematonal
For Private Personel Use Only
Page #96
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाल
ताचले प्रतिक्रम्य श्रीनेमिनाथं प्रणम्य भवत्प्रवेशोत्सवं विज्ञायायाताः स्म इत्याहुः । विप्रमुखेष्वमावास्यावतारः प्रससार ॥
अतिप्रीत्या सहादाय, तमाचार्य महीपतिः । सोमनाथं नमस्कर्तु, महेन महताऽचलत् ॥ १॥ स्वकारितं तं प्रासादं ॥४५॥
विलोक्योन्मीलत्पुलको हर्षोल्लासपूरितः सोमेशं नमश्चक्रे । जैना जिनं विना नान्यं नमन्तीति द्विजव्युदाहितः प्राह, यदि युष्माकं युक्तं स्यात्तदा भगवन् ! वन्द्यतां शिवः । सूरिः राजन् ! किमत्र वाच्यं ? इत्युक्त्वाऽदोऽवदत्
भवबीजाङ्करजननाः, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥१॥ यत्र तत्र | समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते ॥२॥ त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं, साक्षायेन यथा स्वयं करतले रेखात्रयं साङ्गलिः । रागद्वेषभयामया न्तकजरालोलत्वलोभादयो, नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ ३ ॥ यो विश्व वेदवेद्यं जननजलनिर्भङ्गिनः पारदृश्वा, पौर्वापर्याऽविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधिं ध्वस्तदोपदाद्विषं तं, बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥४॥ __ इत्यादिस्तुतिभिः परमार्थतः श्रीवीतरागस्तुतिमेवाकार्षुः श्रीसूरयः । राजाऽपि तया स्तुत्या परमात्मानुयायिन्या भृशं | चमत्कृतः प्रतिष्ठासौवर्णकलशदण्डध्वजारोपणस्वर्णरूप्यमुक्ताफलप्रवालादितुलाकरणगजतुरगगोप्रभृतिमहादानपञ्चोपचार-1 पूजामहोत्सवदेवदायप्रदानादिसकलकृत्यानि विधाय कृततीर्थोपवासो देवगर्भगृहे श्रीसूरीनाकार्य प्रोवाच, हे भगवन् ! देवः18 सोमेशः, महर्षिर्भवान्, तत्त्वार्थी च मादृशः, इत्यस्मिंस्तीर्थे त्रिकयोगस्त्रिवेणीसंगम इवाऽद्य जातः। मिथो विरुद्धसिद्धान्त
ACCEMANDSAUGARCCAUSA
॥४५॥
Jan Education Intemani
For Private Personal use only
Page #97
--------------------------------------------------------------------------
________________
वादिदर्शनैर्देवगुरुतत्त्वानि भिन्नभिन्नतया प्रोच्यन्ते स्म । तदद्य प्रद्वेषं मुक्त्वा प्रसद्य सम्यग् देवादितत्त्वं प्रसादीकुरु, यथा तान्येकतानतयाऽऽराध्य स्वात्मानं संसाराब्धेस्तारयामीति । किञ्च, गुरौ त्वादृशि लब्धेऽपि यदि तत्त्वस्य संशयः तदा सूर्योदये वस्त्वनवलोकनम् , चिन्तामणिप्राप्तौ दारिद्यमित्युक्त्वा नृपे स्थिते सूरिरपि किंचिद्विचार्योवाच, राजन् ! शास्त्रसंवादेनालं, अहं शिवं प्रत्यक्षयामि तव पुरः॥ धर्म वा दैवतं वाऽपि, यदयं वक्ति शङ्करः । तदुपास्ति त्वया ध्येया, मृषा न खलु देवगीः॥१॥ अहं मन्त्रं स्मरन्नस्मि, त्वया घनसारोत्क्षेपः कार्यः । एवं कृत्वा स्थितौ सूरिनृपौ देवगृहान्तः। अर्द्धरात्रे लिङ्गमध्याज्योतिः, तन्मध्ये महेशो गङ्गाजटाशशिकलादृत्रयाद्युपलक्षितः प्रत्यक्षीबभूव ॥ ध्यानं मुक्त्वाऽवद|त्सूरिनुप ! पश्य पुरः शिवम् । एनं प्रसाद्य पृष्ट्वा च, सम्यक् तत्त्वं विदांकुरु ॥१॥राजाऽपि शिवदर्शनाद्धृष्टोऽष्टाङ्गस्पृटिभूमिस्तं नत्वा प्राञ्जलिः प्रष्टव्यं प्रष्टवान् ॥ ईशोऽप्युवाच-त्वं धन्यस्त्वं विवेकज्ञश्चौलुक्यनृप ! संप्रति । यस्येदृगूधर्म
जिज्ञासा, मुमुक्षोरिव वल्गति ॥१॥ प्रायो नृपाः प्राप्तमपि धर्म न कुर्वते राज्यमदमत्ताः। यतः| "नाऽऽचरन्ति सदाचार, न शृण्वन्ति हितं वचः। न पश्यन्ति पुरः पूज्यं, क्षीबा इव महीधवाः॥१॥"
हे कुमार ! चेत्त्वं भुक्तिमुक्तिदं धर्ममिच्छसि तदा एष एव सूरिः सर्वदेवावतारोऽजिह्मब्रह्मचारी आवाल्यादपि चारित्री सकलस्वपरसमयपारदृश्वा ब्रह्मेव क्ष्मातलेऽधुना जयति ॥ नृप ! त्वमेतदादिष्टं, तन्वन् स्वेष्टमवाप्स्यसि । इत्यादिश्य तिरोऽधत्त, धूर्जटिः स्वप्नदृष्टवत् ॥१॥ विस्मेरो नृपः सूरिमूचे, त्वमेव मेऽसीश्वरो यस्य महेश्वरोऽपि वश्यः॥ अतःप्रभृति मे देवो, गुरुस्तातः सवित्र्यपि । सहोदरो वयस्यश्च, त्वमेवैकोऽसि नापरः॥१॥ इह लोकः पुरादायि, मह्यं जीवि-18
Jain Education Interation
For Private
Personel Use Only
Page #98
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः
।
॥४६॥
तदानतः। शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥ २ ॥ सूरिराह-यद्येवं तर्हि मद्यमांसाद्यभक्ष्यनियमं गृहाण । यतो जीवदया जीवितत्वाद्धर्मस्य । मांसभक्षिणः कुतो दया ? नहि मांसादि जीववधमन्तरेणेति । ततो मुदिताशयः पुण्याहं| मन्यमानोऽभक्ष्यनियमं देवगुरुसाक्षिकं शिवोपर्युदकं विमुच्य जग्राह । क्रमेण समहोत्सवं पत्तनमलञ्चकार । तदनु सोमे-2 शवाणी मनसा स्मरन् कदाचिदसतिं गत्वा कदाचित्सदस्याकार्य श्रीसूरीस्तत्पार्थे शुद्धधर्मरसमपात् । यतः
"विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विचक्षणोऽपि।
आकर्णदीर्घोज्ज्वललोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥१॥" अथैवं तत्र यातायाते जायमाने गुरुगुणग्रामं गृह्णाने भूपतौ पुरोधा विरोधादित्यभ्यधात्, अमीन नमस्काराहाः, अजितेन्द्रियत्वात् । कथम् ? इति राज्ञा पृष्टे प्राह
"विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिन-स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः। ___ आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा-स्तेषामिन्द्रियनिग्रहः कथमहो! दम्भः समालोक्यताम् ॥१॥
इति श्रुत्वा सूरिभिरूचे, न चैवंविधमाहारमाहारयन्ति मुनयः । तेषां तृतीयपौरुष्यां गुर्वनुज्ञयाऽन्तप्रान्तरूक्षस्वल्पाहारित्वात् , रागाद्युत्पत्ती निषिद्धत्वादाहारस्य । यतः___"अहव न जिमिज्ज रोगे, मोहुदये सयणमाइउवसग्गे । पाणिदया तवहेउं, अंते तणुमोयणत्थं च॥१॥" न चैकान्तेनाजितेन्द्रियत्वकारणमाहारः, किन्तु मोहनीयकर्मणः प्रकृतिरपि तीव्रतीव्रतरमन्दमन्दतरादिभेदा। तथा च
॥४६॥
For Private Personel Use Only
Page #99
--------------------------------------------------------------------------
________________
"सिंहो बली द्विरदशूकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः॥१॥" इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते प्रमुदितो नृपः। पुनः कियदिनेषु गतेषु केनापि मत्सरिणाऽभाणि, राजन् ! एते जैनाः प्रत्यक्षदेवं सूर्य न मन्यन्ते । तत्र सूरिभिरुक्तम्-अधाम धामधामैव, वयमेव हृदि स्थितम् । यस्यास्तव्यसने प्राप्ते, त्यजामो भोजनोदके ॥१॥ यस्याऽस्ते सत्यापोऽपेया एव, यतः स्कन्दपुराणान्तर्गतरुद्रप्रणीतकपालमोचनस्तोत्रे____ त्वया सर्वमिदं व्याप्तं, ध्येयोऽसि जगतां रवे !। त्वयि चास्तमिते देव!, आपो रुधिरमुच्यते ॥१॥" त्वत्करैरेव संस्पृष्टा, आपो यान्ति पवित्रताम् ।" इति ॥
यदि नीरस्य रुधिरता रात्रौ तत्र भोजनं कथं क्रियते ? शुद्धिकारिणो जलस्यैवंभावित्वादिति प्रामाण्याद्वयमेव सूर्य मन्यामहे तत्त्वतः । उक्तं च केनाऽपि___ “पयोदपटलैग्छन्ने, नाश्नन्ति रविमण्डले । अस्तंगते तु भुञ्जानाः, अहो ! भानोः सुसेवकाः॥१॥"
हे राजन् ! नायं सूर्यः, किन्तु सूर्यविमानं मण्डलाकारम् । यस्त्वेतत्पतिः स सूर्येन्द्रः श्रीजिनपतिपदभक्त एवेति ज्ञेयं तत्त्वदृष्ट्या । कदाचित् केनाप्युक्तम् , एतेऽवैष्णवाः, विष्णुमन्तरेण न मुक्तिप्राप्तिरिति श्रुत्वाऽज्ञातपरमार्थो नृपः श्रीगुरुं पृष्टवान् । गुरुरपि, हे राजन् ! सत्यमिदं, परं वैष्णवा जैना महर्षय एव सम्यगविष्णुभक्तिकारकत्वात् । यतो गीतायामर्जुनाग्रे विष्णुवाक्यम्
For Private & Personel Use Only
Page #100
--------------------------------------------------------------------------
________________
कुमारपाल
पप्रवन्धः।
॥४७॥
"पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेष्वहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥१॥
यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत्कदाचन । तस्याहं न प्रणस्यामि, स च मां न प्रणंस्यति ॥२॥" तथा विष्णुपुराणे तृतीयेंऽशे सप्तमाध्याये पराशरः प्राह
"यज्ञान् यजन् यजत्येनं, जपत्येनं जपन्नृप ! | नस्तथाऽन्यान् हिनस्त्येनं, सर्वभूतो यतो हरिः॥१॥ परदारपरद्रव्य-परहिंसासु यो मतिम् । न करोति पुमान् भूप!, तोष्यते तेन केशवः ॥२॥ यथात्मनि च पुत्रे च, सर्वभूतेषु यस्तथा । हितकामो हरिस्तेन, सर्वदा तोष्यते सुखम् ॥ ३॥ यस्य रागादिदोषेण, न दुष्टं नृप ! मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥४॥"
तत्रैव यमकिङ्करसंवादे यमः"न चलति निजवर्णधर्मतो यः, सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः, स्थिरमनसं तमवेहि विष्णुभक्तम् ॥१॥ विमलमतिरमत्सरः प्रशान्तः, शुचिचरितोऽखिलसत्त्वमित्रभूतः। प्रियहितवचनोऽस्तमानमायो, वसति सदा हृदि तस्य वासुदेवः ॥२॥ स्फटिकमणिरशिलाऽमलः क्व, विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः। न हि तुहिनमयूखश्मिपुञ्ज, भवति हुताशनदीप्तिजः प्रतापः॥३॥"
॥४७॥
Jan Education Intemanona
For Private Personal use only
Page #101
--------------------------------------------------------------------------
________________
हिरण्यकशिपुं पितरं प्रति प्रहादः प्राह"उर्ध्यामस्त्युदकेषु चास्त्युडुपतावस्त्यस्ति चोष्णद्युतौ, वह्नौ दिक्षु विदिक्षु वायुनभसोस्तियश्वतिर्यक्षु च ।
अस्त्यन्तर्बहिरस्ति सत्यतपसोःसारेष्वसारेषु वा, सर्वत्रास्ति सदास्ति किं बहुगिरा त्वय्यस्ति मय्यस्ति च॥था इत्यादि। एवं तत्त्ववृत्त्या सर्वजीवरक्षका जैनमुनयो वैष्णवाः, न तु द्विजास्तद्विपरीताः । परमार्थतो विष्णुः स एव, यो जन्ममरणादिव्यतीतो, नित्यश्चिदानन्दमयो, ज्ञानात्मना व्याप्नोतीति विष्णुः, इति निरुक्तेर्जिन एव विष्णुः, तद्भक्तानां मुक्तिरेवेति निश्चयः। हे चौलुक्यराज ! अत्रायं परमार्थः-जीवो बहिरात्माऽन्तरात्मपरमात्मभेदेन त्रिधा । स्वशुद्धात्मसंवित्तिसमुत्पन्नवास्तवसुखप्रतिपक्षभूतेन्द्रियादिसुखासक्तो बहिरात्मा । अथवा हेयोपादेयविचारपरस्परसापेक्षनयविभागज्ञानश्रद्धानरहितो बहिरात्मा । एतद्विपरीतोऽन्तरात्मा । विमलकेवलज्ञानज्ञातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन विष्णुः । परब्रह्मसंज्ञनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा । अनन्तज्ञानादिगुणैश्वर्ययोगत ईश्वरः । क्षायिकत्वेन शोभनज्ञानवत्त्वेन सुगतः। रागादिजेतृत्वाजिनः। शिवं निर्वाणं प्राप्तं येनेति शिवः । यतः| "शिवं परमकल्याणं, निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्तिपदं येन, स शिवः परिकीर्तितः॥१॥" ____ एवमनन्तनामभिर्वाच्यः परमात्मा वीतराग एव । लौकिकैः सहस्रनाममात्रानुरक्तहृदयैः परमार्थविमुखैराख्यायते *वैष्णवानां मुक्तिरिति हृदयम् । यदुक्तम्
जिन एव महादेवः, स्वयंभूः पुरुषोत्तमः। परात्मा सुगतोऽलक्ष्यो, भूर्भुवःस्वस्त्रयीश्वरः ॥ १॥ त्रैगुण्यगोचराः संज्ञा
Jain Education
Manal
Ljainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
कमारपाल
प्रबन्धः ।
॥४८॥
बुद्धेशानादिषु स्थिताः । या लोकोत्तरसत्त्वोत्था, सा सर्वापि परं जिने ॥२॥ रोहणानेरिवादाय, जिनेन्द्रात्परमात्मनः। नानाभिधानि रत्नानि, विदग्धैर्व्यवहारिभिः ॥ ३ ॥ सुवर्णभूषणान्याशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि, कालात्तन्नामतामगुः ॥ ४ ॥ यद्वा-अमृतानि यथाऽब्दस्य, तडागादिषु पाततः। तज्जन्मानि जनाः प्राहुर्नामान्येवं तथाहतः॥ १ ॥ लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । तेषां सत्कानि गीयन्ते, लोकैः प्रायो बहिर्मुखैः॥२॥ किञ्च तान्येव नामानि, विद्धि योगीन्द्रवल्लभम् । यानि लोकोत्तरं सत्त्वं, ख्यापयन्ति प्रमाणतः ॥३॥ अपि नामसहस्रण, मूढो हृष्टः स्वदैवते । बदरेणापि हि भवेत्, शृगालस्य महो महान् ॥ ४ ॥
अथाऽन्यदा सभायां निषण्णे राजनि कोऽपि मत्सरी प्राह, राजन् ! एते जैना वेदान्न मन्यन्ते, अतो वेदवाह्या न नमस्काराहाः । अत्र किम् ? इति राज्ञोक्त सूरिः ग्राह, राजन् ! वेदाः कर्ममार्गप्रवर्तकाः, वयं तु नैष्कर्ममार्गयायिनः, अतः कथं वेदप्रामाण्यम् ? । यदुक्तमुत्तरमीमांसायाम्
"वेदा अवेदाः, लोका अलोकाः, यज्ञा अयज्ञाः” इत्यादि ॥ अविद्या पठ्यते वेदे, कर्ममार्गपितामहः । तत्कथं कर्मणो मार्ग, त्वं तु मामुपदिश्यसि ॥ १ ॥ रुचिप्रजापतिस्तोत्रे पुत्रवाक्यम् । किञ्चयदि वेदेषु जीवदयाऽस्ति तर्हि सकलशास्त्रसंवादशुद्धां जीवदयां कुर्वाणाः कथं वेदबाह्याः १ । यदाहुः
"अहिंसा प्रथमो धर्मः, सर्वशास्त्रेषु विश्रुतः। यत्र जीवदया नास्ति, तत्सर्वं परिवर्जयेत् ॥१॥
॥४८॥
Jain Educaton Intemanona
For Private & Personel Use Only
Page #103
--------------------------------------------------------------------------
________________
Jain Educ
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ २ ॥ सर्वे वेदान तत्कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्प्राणिनां दया ॥ ३ ॥ ध्रुवं प्राणिवधो यज्ञे, नास्ति यज्ञस्त्वहिंसकः । सर्वसत्त्वेष्वहिंसैव, दयायज्ञो युधिष्ठिर ! ॥ ४ ॥"
अथ वेदेषु दया नास्ति तर्हि न प्रमाणं वेदाः, नास्तिकधर्मशास्त्रवत् । "जीवो यत्र शिवस्तत्र न भेदः शिवजीवयोः ।" “न हिंस्यात्सर्वभूतानि” इति ॥ न वेदैर्नैव दानैश्च न तपोभिर्न चाध्वरैः । कथंचित्सद्गतिं यान्ति, पुरुषाः प्राणिहिंसकाः ॥ १ ॥ इत्यादिधर्मशास्त्राणि जानद्भिः पठद्भिश्च वेदाः सर्वजीव हिंसामातृपितृगोमेधादियागप्ररूपकाः यैः प्रमाणीक्रियन्ते, तैर्नास्तिकशा* स्त्राणि कस्मान्निराक्रियन्ते ? ॥ अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥ १ ॥ तथा भोजराजाग्रे सरस्वतीदत्तश्लोकः सर्वदर्शनसंवादेन प्रोक्तः । यथा
" श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्तव्यो, ध्यातव्यः परमः शिवः ॥ १ ॥” इत्यादि सूरिवचांसि श्रुत्वा द्विजास्तूष्णीं स्थिताः । चमत्कृतश्चित्ते श्रीचौलुक्यः । प्रवर्तितं मनो दयायाम् । अथ भगवन् !यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयं भुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥ १ ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥ २ ॥ इत्यादिवदन्तो द्विजा वेदोक्तहिंसाया धर्मसाधनत्वं प्राहुः, तत्कथम् ? सूरिः, राजन् ! नैतत्सत्यम् । यतः स्कन्दपुरा-णेऽष्टपञ्चाशदध्याये -
inelibrary.org
Page #104
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
M.
॥४९॥
"अग्नीषोमीयमिति या, पश्वालम्भनकारिका । सा न प्रमाणं ज्ञातॄणां, भ्रामका सा सतामिह ॥१॥ वृक्षांश्छित्वा पशून हत्त्वा, कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नी तिलाज्यादि, चित्रं स्वर्गोऽभिलप्यते ॥२॥
तथा श्रीभागवतपुराणे त्रयोविंशत्यध्याये शुकः-- ये विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तान मुष्मिन लोके वैशसे नरके पतितान् निरयपतयो यातयित्वा । विशसन्ति, इत्यादि ॥ मीमांसायाम् - । “अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मः, न भूतो न भविष्यति ॥१॥"
श्रीभागवतपुराणे एकादशाध्याये ब्राह्मण उवाच"तथैव राजन्नुरुगाहमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः, प्रायेण शुद्धोऽनुचकास्ति साधुः॥१॥"किञ्च-4 ___“यज्ञार्थ पशवः सृष्टाः, यदीति वदति स्मृतिः। तन्मांसमश्नतः स्मार्ताः, वारयन्ति न किं नृपान् ? ॥१॥"
यदि यज्ञार्थं पशवो ब्रह्मणा सृष्टास्तहि व्याघ्रादिभिर्देवाः किं न तृप्यन्ते ? ॥ अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् ? । न तोयजानि पद्मानि, जायन्ते जातवेदसः॥१॥ तथा च धर्मसमुद्देशे"आत्मवत्सर्वजीवेषु, कुशलवृत्तिचिन्तनम् । धर्मस्याधिगमोपायः, शक्तितस्त्यागतोऽप्ययम् ॥१॥” इति ॥
. श्रीभोजराजाने धनपालवाक्यम्"नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव ।
॥४९॥
For Private Personal Use Only
Jan Educatanimation
Page #105
--------------------------------------------------------------------------
________________
स्वर्ग यान्ति यदि त्वया विनिहिता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः? ॥१॥" इत्यादि श्रीहेमसूरिवाक्यामृतसिक्तहृदयः श्रीचौलुक्यो वेदोक्तमार्गस्याऽप्रमाणत्वममन्यत । इत्थं राजसभायां विविधेषु विचारेषु जायमानेषु राजा श्रीजिनधर्म सत्यतया मन्यमानः सर्वदर्शनसमक्षं सर्वसंवादेन देवगुरुधर्मस्वरूपं पप्रच्छ । तत्र सर्वेऽपि दर्शनिनो यथाज्ञातस्वस्वागमाचारविचारं देवादिस्वरूपं प्राहुः । तत्र देवतत्त्वे नाट्याट्टहाससङ्गीतरागद्वेषप्रसादजगत्सृष्टिसंहारपालनशस्त्र स्त्रीपरिग्रहादिसमग्रसांसारिकजन्तुजातसाधारणगुणे निरूप्यमाणे राज्ञा पृष्टा हेमाचार्या ऊचुः, श्रीचौलुक्यराज! शृणु ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्य पूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥१॥ सर्वज्ञस्यैव देवत्वं, नापरस्य । यतः___ “यो विश्व वेदवेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा, पौर्वापर्याऽविरुद्धं वचनमनुपमं निष्कलङ्क यदीयम् ।
तं वन्दे साधुवन्धं सकलगुणनिधिं ध्वस्तदोषद्विषं तं, बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥१॥"
राजन् । सर्वज्ञत्वमपि सकलदोषरहितत्वेनैव साध्यम् । दोषाश्चाष्टादश सामान्यतः। तद्यथा"अन्नाण १ कोह २ मय ३ मा-ण ४ लोह ५ माया ६ रई अ ७ अरई अ ८। निद्दा ९ सोअ १० अलियवय-ण ११ चोरिआ १२ मच्छर १३ भयाई १४ ॥१॥"
पाणिवह १५ पेम १६ कीडा १७, पसंगहासा य १८ जस्स इइ दोसा। अट्टारसविपणठ्ठा, नमामि देवाहिदेवं तं ॥२॥” तथा"रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु, मानः परपराभवे ॥१॥ लोभः पदार्थसंप्राप्तौ, माया
For Private & Personel Use Only
w.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
कुमारपाल ॥ ५० ॥
च परवञ्चने । गते मृते तथा शोको, हर्षश्चागतजातयोः ॥ २ ॥ अरतिर्विषयग्रामे चाशुभे च शुभे रतिः । चौरादिभ्यो भयं चैव, कुत्सा कुत्सितवस्तुषु ॥ ३ ॥ वेदोदयश्च संभोगे, विलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्यामृतमुज्जृम्भते तदा ॥४॥” * एवं सति – “मुञ्चध्वं पक्षपातं भवत गुणवति स्नेहला मा स्वशास्त्रेष्वेवाश्वासं दधीध्वं विमृशत विशदीकृत्य चेतः क्षणार्द्धम् । ज्ञातं वस्तावदार्याः शमदमसमतासूनृताद्यागुणालीकाङ्क्षा कन्दर्पदर्पानृतकलिकपटान्येष दोषप्रपञ्चः ॥ १ ॥ अमी गुणाश्च दोषाश्च, कं सामस्त्येन भेजिरे । जिनं तदितरं वापि, स्वयमेव विचिन्त्यताम् ॥ २ ॥ प्रत्यक्षतो न भगवान् ऋषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसंप्रभावाज्ज्ञात्वा विचारयत कोऽत्र परापवादः ॥ ३ ॥” राजन् ! बहुनोक्तेन किम् । य एव सांसारिकभावविपरीतवृत्तिः स एव देवो, नान्यः । यदुक्तम्
“यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्ष्यन्तां कृतधियस्तदेव देवलक्षणम् ॥ १ ॥
क्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतरागः कथञ्चन ॥ २ ॥”
श्री चौलुक्यराज ! एवं विधे निर्दोषेऽपि श्रीजिनेन्द्रदेवे यत्परप्रवादा मत्सरिणः स्युः, तत्स्वशासनानुरागेण परशासनाभिभवाभिमानस्य विजृम्भितम् । यदाह श्रीसिद्धसेनदिवाकरः
“हितयुक्तमनोरथोऽपि संस्त्वयि न प्रीतिमुपैति यत्पुमान् । अतिभूमिविदारदारुणं, तदिदं मान कलेर्विजृम्भितम् ॥ १ ॥” ॥ ५० ॥ इति वीतरागः सर्वज्ञो देवः ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ १ ॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युर्न मुक्तये ॥ २ ॥
प्रबन्धः ।
Page #107
--------------------------------------------------------------------------
________________
॥ इति देवतत्त्वम् ॥ त्यक्तदाराः सदाचाराः, मुक्तभोगा जितेन्द्रियाः। जायन्ते गुरवो लोके, सर्वभूताऽभयप्रदाः॥१॥ स्नानोपभोग-8 हरहितः, पूजालङ्कारवर्जितः । मद्यमांसनिवृत्तश्च, गुणवान् गुरुरुच्यते ॥२॥ अथवा
धर्मज्ञो धर्मकर्ता च, धर्ममार्गप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥ अवद्यमुक्ते पथि यःप्रवर्तते, प्रवर्तयत्यन्यजनं च निःस्पृहः। स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥3 विदलयति कुबोधं बोधयत्यागमार्थ, सुगतिकुगतिमागौं पुण्यपापे व्यनक्ति।
अवगमयति कृत्याकृत्यभेदं गुरुयों, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥३॥" "गृणाति तत्त्वमिति गुरुः" न तु नाममात्रेण कुलक्रमायातः कस्यापि गुरुरस्ति । सर्वेषां प्राणिनामनादिकालमेकेन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां यत्र भवे यस्य कस्यापि प्राणिनोऽज्ञानान्धकारावृतस्य यस्तत्त्वातत्त्वव्यक्तिं दर्शयति तस्य स एव गुणगौरवा) गुरुः, नापरे स्वार्थनिष्ठाः सगृहा गुरवः । यदुक्तम्
"दुष्प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशयाः, विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थैकनिष्ठा नराः।
आनन्दामृतसिन्धुसीकरचयनिर्वाप्य जन्मज्वरं, ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिदुधाः ॥१॥ वाङ्मात्रसाराः परमार्थशून्याः, न दुर्लभाश्चित्रकथामनुष्याः। ते दुर्लभाये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति ॥२॥ मुग्धश्च लोकोऽपि हि यत्र मार्गे,निवेशितस्तत्र रतिं करोति।धूर्तस्य वाक्यैः परिमोहितानां, चित्तं न केषां भ्रमतीह लोके ? ॥३॥"
For Private & Personel Use Only
Page #108
--------------------------------------------------------------------------
________________
कुमारपाल
किंबहुना
प्रवन्धः ।
"अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः॥१॥" तथा"जीवोऽयं विमलस्वभावसुभगः सूर्योपलस्पर्द्धया, धत्ते सङ्गवशादनेकविकृतीलुप्तात्मरूपस्थितिः। यद्यामोति रवेरिवेह सुगुरोः सत्पादसेवाश्रयं, तज्जातोर्जिततेजसैव कुरुते कर्मेन्धनं भस्मसात् ॥१॥" तथा
"महाव्रतधरा धीराः, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥१॥" एवं विधा एव सेव्या नापरे । यथा"वधो धर्मो जलं तीर्थ, गौनमस्या गुरुही । अग्निर्देवो द्विकः पात्रं, येषां तैः कोऽस्तु संस्तवः॥१॥"
॥ इति गुरुतत्त्वम् ॥ धम्म जणोवि मग्गइ, मग्गंतोवि अ न जाणइ विसेसं । धम्मो जिणेहिं भणिओ, जत्थ दया सबजीवेसु ॥१॥ तिन्निसया तेसहा, दसणभेया परुप्परविरुद्धा । न य दूसंति अहिंसं, तं गिण्हह जत्थ सा सयला ॥२॥ धम्मो धम्मुत्ति जगंमि घोसए बहुविहेहिं रूवेहिं । सो भे परिक्खियवो, कणगंव तिहिं परिक्खाहिं ॥ ३ ॥ लटुंति सुंदरंति अ, सबो घोसेइ अप्पणो पणियं । कइएण य पित्तवं, सुंदरसुपरिक्खियं काउं ॥ ४ ॥ यथा चतुर्भिः कनक परीक्ष्यते, निर्घर्षणच्छेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते, श्रुतेन शीलेन तपोदयागुणैः ॥ ५ ॥
॥ इति धर्मतत्त्वम् ॥
॥५१॥
Jain Education in
Page #109
--------------------------------------------------------------------------
________________
'इत्थं सम्यगविज्ञातशुद्धदेवादितत्त्वोऽपि श्रीकुमारपालनृपः कुलकमायातत्वालोकलज्जादिना मिथ्यात्वं मोक्तुं न समीहते । यतः
"कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१॥" अथैकदा श्रीहेमाचार्या दृष्टान्तप्रकटनेन कदाग्रहदुष्टतामाहुः
सम्यग्गुरूक्तमवगम्य दुरन्तमोहान्मिथ्याकदाग्रहमिहोज्झति नो पुमान् यः।
सोऽनन्ततापकलितः किल लोहभारवाहीव हीनपदयुग विपदां पदं स्यात् ॥१॥ तद्यथा कोशलापुर्या, चत्वारः सुहृदोऽभवन् । समदुःखसुखाः प्रायः, परं निर्धनवृत्तयः॥१॥ अन्योन्यं मन्त्रयित्वा |ते, धनोपार्जनकाम्यया । देशान्तरे क्वचित् प्रापुः, सुप्रापाऽयोमहाकरे ॥ २॥ वर्षासु बहुमूल्यं स्याल्लोहमन्यत्र नीवृति । इति निश्चित्य ते तत्र, लोहं लात्वा पुरोऽचलन् ॥३॥ अग्रतो गच्छतां तेषामागाद्रूप्याकरो महान् । हृष्टः परस्परं प्रोचुर्गृह्यते रूप्यमत्र भोः!॥ ४ ॥ तत्र ते हि त्रयो लोह, विक्रीयासारभारकृत् । दीप्यद्रूप्यं गृहीत्वा च, चतुर्थ मित्रमूचिरे ॥५॥ मित्र! लोहमिदं दूरात्त्यज दुर्जनसङ्गवत् । गृहाणाऽतनुलाभाय, तारं सजनसङ्गवत् ॥ ६॥ सोऽप्याह यूयं व्यामूढाः, अनवस्थितचेतसः । यदयोव्यूढमियतीं, भुवं तत्त्यज्यते कथम् ॥७॥ श्रुत्वेति तद्वचस्तेऽग्रे, संप्राप्ताः कनकाकरे । विक्रीय तत्र तद्रूप्यं, सुवर्ण जगृहुस्त्रयः॥ ८॥ कदाग्रहगृहीतस्तु, वादितो बहुयुक्तिभिः । चतुर्थो नामुचल्लोह, तद्रो-12 हमिव दुर्जनः॥ ९॥ क्रमेणेवं गताः सर्वे, भास्वरं रत्नमाकरम् । परस्परं वदन्ति स्म, ते तत्र मुदिताशयाः॥१०॥
in Education Internal
For Private
Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ५२ ॥
गृह्यन्तां स्वेच्छया रत्नान्यत्र मुक्त्वा च काञ्चनम् । यतो ह्येकमपि प्रायो, रत्नं लाभाय भूयसे ॥ ११ ॥ विक्रीय कनकं तेऽपि खानिं खनितुमागताः । तत्र राज्ञो नवांशाः स्युर्दशांशः स्यात्पुनर्नृणाम् ॥ १२ ॥ एवं व्यवस्थया खानिं खनित्वा रत्नपञ्चकम् । प्रत्येकं प्राप्य ते प्राहुर्मुदिता मित्रमादरात् ॥ १३ ॥ इदानीमपि रत्नानि गृहाण त्वं सुहृत्तम ! | विनष्टं नास्ति ते किंचिन्मुञ्च मुञ्च कदाग्रहम् ॥ १४ ॥ इत्यादिवादितोऽप्येष दुरात्मा प्रतिवक्ति च । यूयं भोः ! मिलिता धूलेश्चलाचलविचेतसः ॥ १५ ॥ एवं नवनवं लात्वा, युष्माभिस्तरलीकृतः । आश्रितो द्वेषिभिः स्वात्मा, वातान्दोलिततूलवत् ॥ १६ ॥ तस्यैतद्वचनं श्रुत्वा, निर्विचारशिरोमणेः । मूढोऽयमिति निश्चित्य, स्थितास्तूष्णीं त्रयोऽपि ते ॥ १७ ॥ ऋद्ध्या च किं तया या हि, स्वदेशे नैव भुज्यते । ध्यात्वेति रत्नान्यादाय स्वस्थानं प्रति तेऽचलन् ॥ १८ ॥ तुरीयोऽपि गरीयोऽयः पोट्टिलं खरवत्स्वयम् । समुत्पाट्य समं सर्वैस्तैश्चचाल जडाशयः ॥ १९ ॥ क्रमेण सर्वे संप्रापुः, स्वस्थानं क्षेमयोगतः । त्रयाणां तु धनै रत्नोद्भवैरापूरि मन्दिरम् ॥ २० ॥ महेभ्यकुलकन्यास्ते, परिणीय महोत्सवैः । देवा इव सुखोलासाल्लोकपूज्याश्च जज्ञिरे ॥ २१ ॥ अन्यस्तु स्वल्पमूल्येन, लोहं विक्रीय तद्द्रुतम् । उद्धारकधनं दत्त्वा लोकेभ्यश्छुटितः परम् ॥ २२ ॥ गृहाद्यभावादेकाकी, रङ्कवत्स परिभ्रमन् । अप्राप्तभोजनः खेदमेदुरः समजायत ॥ २३ ॥ ऋद्धिं तदीयां लीलां च, संपश्यंश्च पदे पदे । धिग् मां कदाग्रहग्रस्तमित्यात्मानं निनिन्द सः ॥ २४ ॥ याज्यापरः स तैर्मित्रैः, कृपया दत्तभोजनः । आजन्मदुःखितां प्राप, पश्चात्तापपरायणः ॥ २५ ॥ इत्थं लोहसमं विचारविकलो मिथ्यात्वपक्ष
प्रबन्धः ।
॥ ५२ ॥
Page #111
--------------------------------------------------------------------------
________________
ग्रह, प्राणी नो विजहाति यः स लभते दुःखान्यनेकान्यहो ! । ज्ञात्वैवं निपुणं विचार्य हृदये निस्सीमसौख्येच्छया, सद्रलोपमितं सदा भजत भोः सद्दर्शनं सज्जनाः !॥ २६ ॥ । इत्येवंरूपदृष्टान्तपरमार्थं ज्ञात्वा चमत्कृताः श्रीचौलुक्यः सभासदश्च । सर्वे प्रमुदिताः सञ्जातदृढश्रीजिनधर्मानुरागा बभूवुः । किमस्माभिरतः परं विधेयम् ? इति तैः पृष्टाः सूरयः प्राहुः, हे राजन् !
प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैर्दानमानैः। जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्च, प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या॥१॥
इति गुरूपदेशं निशम्य राजा प्राह, भगवन् !निद्रा मोहमयी जगाम विलयं सदृष्टिरुन्मीलिता, नष्टा दुष्टकपायकौशिकगणा माया ययौ यामिनी। पूर्वाद्रिप्रतिमे विवेकिहृदये सज्ज्ञानसूर्योदयात्कल्याणाम्बुजकोटयो विकसिता जातं प्रभातं च मे ॥१॥
अतः परञ्चअलं कलङ्काकुलितैः कुदैवतैरलं च तैर्मे कुगुरुप्रलम्भनैः। अलं कुधमैरपि जीवहिंसकैरलं कुतर्काकुलकाहलागमैः॥२॥ सूरयोऽपि, हे श्रीकुमारभूमीन्द्र ! न युक्ता लोकहेरिः, सहस्राक्षाणां विवेकिनां विचारवाचस्पतीनाम् ॥ यतः
कुलक्रमेण कुर्वन्ति, मूढा धर्म कुबुद्धयः। विपश्चितो विनिश्चित्य, स्वचित्ते च परीक्षया ॥१॥ हठो हठे यद्वदभिप्लुतः स्यान्नौनांविवद्धा च यथा समुद्रे। तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्नमीति ॥२॥ यावत्परप्रत्ययमा
n Education Intematon
For Private
Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कमारपाल बुद्धिर्विवर्तते तावदपायमध्ये । मनः स्वमर्थेषु विघट्टनीयं, न ह्याप्तवादा नभसः पतन्ति ॥३॥ आगमेन च युक्त्या
च, योऽर्थः समधिगम्यते । परीक्ष्य हेमवदाह्यः, पक्षपातग्रहेण किम् ॥ ४ ॥ श्रोतव्ये च कृतौ कणों, वाग बुद्धिश्च विचा॥५३ ॥ रणे । यः श्रुतं न विचारत, स कार्य विन्दते कथम् ? ॥ ५॥ नेत्रनिरीक्ष्य विपकण्टकसर्पकीटान् , सम्यक् पथा ब्रजति
हतान् परिहत्य सर्वान् । कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान् , सम्यग् विचारयत कोऽत्र परापवादः ? ॥६॥ इत्यादि
माहुः ॥ तदनु श्रीचौलुक्यः सर्वदर्शनराजगुरुपुरोधःप्रभृतिद्विजसमक्षं सौवर्णी श्रीशान्तिप्रतिमां कारयित्वा देवतागृहे स्थापितवान् , पूजापरश्चाभूत् । परमीश्वरादयोऽपि कुलक्रमायातत्वेन शुद्धदेवत्वेन जिनेन्द्रोऽपि च सततं पूज्यते स्म राज्ञा ।।
ततः सोमेश्वरीं वाणी, स्मरन् संजातप्रत्ययः । सूरिपदाम्बुजं भक्त्या, भजति स्म स हंसवत् ॥१॥ कदाचिद्वदिसतिं गत्वा, सदस्याकार्य कर्हिचित् । शुद्धधर्मरहस्यानि, शृणोति स्म निरन्तरम् ॥२॥
शनैः शनैर्मिथ्यात्वपराङ्मुखो द्विजवर्गे निरादरो नवश्रावकत्वं दधौ । तदनु पुरोधोराजगुर्वादिविप्रैः श्रीहेमाचार्यमहिमानमसहिष्णुभिर्देवबोधिराचार्यः समाकार्यत । अथ कोऽयं देवबोधिः ? कथमागतः ? किं कृतं तेन ? इत्युच्यते| भृगुक्षेत्रनिवासी देवबोधिः संन्यासी क्वाऽपि पर्वणि गङ्गायां स्नानार्थं गतः। तत्र पुराऽपि स्वर्णसिद्धिसिद्धसारस्वतमन्त्रो लोकेभ्यः स्वायुरन्तं ज्ञात्वा सुवर्ण ददानो दीपकाचार्यः समागतोऽस्ति । तं विनयेन सम्यक् संतोष्य सारस्वतमन्त्रं जग्राह। ततः पश्चादागत्य नर्मदाजले आकण्ठं स्थित्वा मन्त्रं जजाप षड्लक्षमितं, तथाऽपि भारती नागात् । रुष्टोऽक्षमालां नभस्यक्षैप्सीत् । सा च मन्त्रमाहात्म्यान्निरालम्बा व्योम्नि स्थिता । तां तथा दृष्ट्वा विस्मितो देवबोधिः किंचिद्यावञ्चिन्तयति
CLAOCRACANCERMER
Join Education
For Private
Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
तावद्व्योमवाणी प्राह, किं ध्यायसि महामते ! पश्चाद्विलोकयेति । ततः पृष्ठे षटू श्यामवऋचीवरा बीभत्साः स्त्रीदृष्टवान् । आकाशवाण्या प्रोचे, हे देवबोधे ! भवता भवान्तरे कृताः पडिमा जीवहत्या एकैकलक्षजापेन तवात्मनः पृथग्भूताः । एतासु सत्सु सप्रत्ययोऽपि मन्त्रः किं कुर्यात् ? अतः परं मया स्तम्भितामक्षमालामादाय लक्षमेकं मन्त्रस्य जपतः शारदा प्रत्यक्षा भाविनी इति व्योमवाचोत्साहितस्तथा कृतवान् । भारती मन्त्राकृष्टा शीघ्रमेवागता स्तुता दण्डकस्तोत्रेण । “ए। |जय ऐ जय” इत्यादिनाऽष्टभिरेवाक्षरैर्वरं वृणु इत्यादिशन्ती “भुक्तिमुक्तिसरस्वती" इत्यष्टवणैस्तोषिता यथेप्सितवरं ददौ ।।8। तदनु देवबोधिः प्रत्यक्षभारतीको महेन्द्रजालादिविद्याचूडामणिमन्त्रादिशास्त्रैरतीतानागतादिज्ञाता, सुसाधितपूरकरे
चककुम्भकवायुसंचारचतुरः, इडापिङ्गलासुषम्नागान्धारीहस्तिनीप्रभृतिदशमहानाडिवातसन्ततसञ्चारणचणः, चतुरशीत्या-12 हसनकरणप्रवणः, कायगतषट्रचक्रषोडशाऽऽधारपञ्चव्योमत्रिशून्यत्रिलक्षादिवेत्ता, आमतन्तुसूत्रबद्धकमलनालयुक्तकदली-18 पत्रसुखासनाधिरोही, अद्विजमातङ्गप्रार्थकगृहेषु यथाहरूपकरणेन भोजन विधाता, श्रीजिनधर्मानुरक्तं नृपं ज्ञात्वा सर्वद्विजैराकारितः श्रीपत्तनपरिसरे समायातः । इन्द्रजारचूडामण्यादिकलाभिः समग्रराजलोकनागरान् रञ्जयन् सदा सर्वेषां । सेव्योऽभूत् । यतः
"निष्कलोऽपि व्रती मान्यः, कलावांस्तु विशेषतः । स्वभावतः प्रिय हेम, किं वाच्यं रत्नरोचितम् ? ॥१॥
गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयमायान्ति षट्पदाः॥२॥" श्रीचौलुक्यनृपेन सामन्तलोकेभ्यो ज्ञातदेवबोध्यागमकलाकौशलेन मनसि चमत्कृतेन द्रष्टमुत्सुकेन महता महेनाकारितः॥
an
For Private & Personel Use Only
Page #114
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
॥ ५४॥
MACROSONAKARMA
नलिनीनालसद्दण्डं, रम्भापत्रमयासनम् । आमतन्तुभिराबद्धं, वाष्पच्छेद्यैरिवाणुभिः ॥१॥ शिशूनामष्टवर्षाणां, स्कन्धन्यस्तं सुखासनम् । आरुह्य पर्षदं राज्ञो, देवबोधिः समासदत् ॥२॥ युग्मम् ॥
राज्ञाऽप्यभ्युत्थानादि कृत्वा क्वाऽयं पिचण्डलः ? वेदं कदलीपत्रासनादि ? इति विस्मितेन नमस्कृतः सुवर्णासने निवेशितश्च । सोऽपि-शङ्करः शङ्करो ब्रह्मा, ब्रह्मानन्दप्रदायकः । तुभ्यं भूयाद्रमास्वामी, रमास्वामित्वदो नृप!॥१॥ इत्याशीर्वादं दत्त्वाऽऽसनमलङ्कृतवान् । तदनु तत्तदुचिताद्भुतकलाविज्ञानाऽपूर्वप्रवन्धादिवार्तादिभिर्विस्मेरितो राजा परिवारश्च । याममात्रदिने राजा स्नात्वा शुचिचीवरानेकाभरणभ्राजिष्णु सप्ततिसामन्तश्रीउदयनवाग्भटादिमन्त्रिपरिवृतो देवतागारं देवतावसरकरणाय प्राप्तः। देवबोधिरपि वयमप्यद्य राज्ञो देवपूजाविधिं विलोकयिष्याम इत्यादिवादी राज्ञाऽऽकारितस्तत्रागात् । श्रीचौलुक्योऽपि काञ्चनपट्टे शङ्करादिदेवान् पूर्वजकारितान् स्वकारितश्रीशान्तिसौवर्णप्रतिमां |च निवेश्य गन्धोदकादिनीरैः स्नात्रं कृत्वा पञ्चोपचाराष्टोपचारादिपूजां निश्चलमनाः करोति स्म । तदवसरे जैनप्रतिमां
दृष्ट्वा देवबोधिरवादीत् , राजन् ! अयुक्तं तवैतत्पूजनादि । यतःका "अवेदस्मृतिमूलत्वाजिनधर्मो न सत्तमः । अत एव न तत्त्वज्ञैः, सूरिभिः सोऽयमिष्यते ॥१॥" न युक्तं मर्यादामेरूणां स्वाङ्गीकृतनिर्वाहक्षमभुजशालिनां न्यायमुद्रातिक्रमरूपं स्वकुलाचारपरिहरणम् । यतः
"नोल्लङ्घनीयाः कुलदेशधर्माः।” तथा"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मी समाविशतु गच्छतु वा यथेच्छम् ।
In५४॥
For Private Personal use only
Page #115
--------------------------------------------------------------------------
________________
६० १०
अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १ ॥”
तदनु राजोवाच, हे देवबोधे ! श्रौतो धर्मो महानपि हिंसाकलुषितत्वेनाऽसर्वज्ञप्रणीतत्वेन च मम मनसि न प्रति भाति । जैनस्तु सर्वजीवदयासंवाद सुन्दरत्वेन भृशं स्वदते । पुनर्देवबोधिः, श्रीकुमारभूप ! यदि न प्रत्येपि तदा महेश्वरादिदेवान् स्वपूर्वजांश्च प्रत्यक्षमूर्तिमतोऽत्रागतान् स्वमुखेन पृच्छ, इति निगद्य मन्त्रशक्त्या तानाकृष्टवान् । ततः - ब्रह्मविष्णुहरान् मूलराजादीन् पूर्वजानपि । दृष्ट्वा पुरः स्फुरद्रूपान्, राजाऽऽश्चर्यमयोऽनमत् ॥ १ ॥ ततस्ते त्रयोऽपि देवा वेदोद्गारेण सुधामिव किरन्तो हस्तमुदस्य राजानं प्राहुः
विदांकुरु नरेन्द्राऽस्मान् ब्रह्मविष्णुमहेश्वरान् । त्रयाणां जगतां सृष्टिस्थितिसंहारकारकान् ॥ १ ॥ वयमेव स्वभक्तेभ्यः कृतकर्मानुमानतः । भवं शिवं च संचिन्त्य दद्महे छद्मवर्जिताः ॥ २ ॥
तस्माद्भान्ति मुक्त्वा देवत्वेनास्मान् श्रौतं धर्मं च मुक्तये समाचर । अस्मत्प्रतिकृतिरेवायं देववोधिर्यतीश्वरो गुरुत्वेन मान्यः, इत्युक्त्वा तिरोहिता देवत्रयी । मूलराजादयोऽपि पूर्वजाः सप्त, वत्स ! अयं श्रौतो मार्गः पूर्वजक्षुण्णो न त्याज्यो, मनागपीति कथयित्वा यथास्थानं जग्मुः ॥ ततस्तेषु प्रयातेषु, भूपो मनोऽद्भुताम्बुधौ । सोमेशोक्तं तदुक्तं च, स्मरन् जडइवाऽजनि ॥ १ ॥ तदनु देववोधिं सभां च विसृज्य राजा बुभुजे । वाग्भटमन्त्रिणा तत्कालमेव सर्वं सूरिणे निवेदितम् । सूरयोsपि, हे मन्त्रिन् ! चिन्ता न कार्येति प्रोच्य प्रातरादौ व्याख्याने समानेयो राजा त्वयेत्याहुः । अथ राजाऽपि संशयाssन्दोलितचेताः सायं सर्वावसरे समायातस्य वाग्भटमन्त्रिणोऽग्रे राज्ञा प्रोक्तम्, देवबोधेः सदृशः कोऽपि कलाशाली गुरुर्न
Page #116
--------------------------------------------------------------------------
________________
प्रबन्धः।
कुमारपाल दृश्यते संप्रति, परं श्रीहेमाचार्ये निजगुरौ कलाकौशलमीदृशं संभाव्यते न वा? इति पप्रच्छ । मन्त्र्यपि 'निजगुरौं' इत्यु-
क्या हृदि हृष्टोऽभाषिष्ट, राजन् ! प्रातः शालायां गत्वा देवबोधिसर्वलोकसमक्षं पृच्छयन्ते श्रीगुरवः, इत्युक्त्वा राजोक्तं श्रीसूरये निवेद्य स्वाश्रयं भेजे । अथ प्रातः श्रीसूरिभित्तितो दूरे सप्तगब्दिकमासनमध्यास्य स्थितः। अहमहमिकया श्रीचौलुक्यद्वासप्ततिसामन्तराजगुरुपुरोधोदेवबोधिराजवार्गव्यवहारिषु सभ्येषु मिलितेषु पञ्चापि मारुतानध्यात्मविद्यावशीकृत नाडीनिरोधपवनस्थिरताभ्यासशक्त्या निरुध्य किंचिदासनादुच्छुस्य व्याख्यातुमारेभे । यथा
त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः । जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुते ॥१॥ लक्ष्मीनिविवेकसङ्गममयी श्रद्धामयं मानसं, धर्मः शीलदयामयः सुचरितश्रेणीमयं जीवितम् । बुद्धिः शास्त्रमयी सुधारसमयं वाग्वैभवोज्जृम्भितं, व्यापारश्च परार्थनिर्मितिमयः पुण्यैः परं प्राप्यते ॥२॥ इत्यादिदेशनां सर्वसाधारणां राजादिसभ्यानन्ददायिनी कुर्वतः श्रीसूरेः कश्चित्पूर्वसङ्केतितः शिष्योऽधरासनमाकृषत् । आकृष्टेऽप्यासने निराधार एव तिष्ठन् सूरिराजोऽस्खलितवचनैर्व्याख्यां कुर्वन् राजादिभिरेवं तर्कितः
किं सिद्धः ? किमयं बुद्धः ?, किं विरश्चिः१ किमीश्वरः ? । अन्यथा कथमेतादृक्, शक्तिरस्य व्यवस्यति ॥ १॥ WI देवबोधरपि रम्भासनमाधार आसीत् , मौनेन कायवायवः सुजयाः स्युः, परं व्याख्यां कुर्वतोऽस्य स्थितिरतिकातुक
कारिणीति लोका अहो ! महदाश्चर्य न दृष्टपूर्विणो वयं काऽपि, लोकोत्तरस्थितिरसौ गुरुश्चेत्यादिवदन्तश्च परमानन्दपू.
SEARCAMER
५५॥
For Private Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
-
-
रिता आसन् । सूरिः प्रहरं सार्द्ध देशनां व्यधात् । अथाऽऽसनं सूरीनध्यास्य राजाह
तिरोहिता सर्वकलाः कलावतां, कलाविलासैस्तव सूरिशेखर !।
तेजस्विनां किं प्रसरन्ति दीप्तयः?, समन्ततो भास्वति भास्वति स्फुटम् ॥ १॥ सूरयोऽपि मम देवतावसरं पश्य राजन् ! इत्युदीर्य श्रीचौलुक्यमपवरकान्तर्निन्युः । तत्र पुराऽपि काञ्चनसिंहासनेषु निविष्टान् चतुर्मुखान् अष्टमहाप्रातिहार्यादिविराजितान् श्रीनाभेयाद्यान् चतुर्विशतिजिनेन्द्रान् चतुःषष्टिसुरेश्वरश्रेणीसंवाह्यमानपादपद्मान् चुलुक्यादीन् निजानेकविंशतिपूर्वजांश्च नानारलाभरणभास्वरान् विश्वातिशायिदेहद्युतिद्योतितदिग्मुखान् श्रीजिनाग्रे योजितपाणीन् स्तुतिपरांश्च दृष्टवान् श्रीकुमारपालभूपालः । तत्र तथा-1 भूतानां तेषां दर्शनात्प्रमोदविस्मयाद्वैतक्षीरनीरधौ मग्न इव क्षणं समजनि भूजानिः ॥ ततश्चौलुक्यमादाय, हेमसूरिः सगौ-1 रवम् । नमस्कृत्य जिनाधीशान् , तेषामग्रे निषेदिवान् ॥१॥श्रीजिना राजानं प्रोचुः____ एकस्त्वमेव भूमीन्द्र !, विवेकच्छेकमानसः। यो मुक्तवानिमं धर्म, वधकालुष्यदूषितम् ॥१॥धर्मः सर्वदयामूलः, एव प्रामाण्यमश्नुते । तस्माद्धान्ति परिहत्य, दयाधर्मे स्थिरीभव ॥२॥ अयं गुरुः सर्वदैवतावतारः, एतदुक्तं देवादितत्त्वं समाराधय । पूर्वजा अपि प्राहुः, वयमद्य त्वयैव पुत्रिणः संजाताः, यस्त्वं कापथवर्जनेन जिनधर्मपथं भेजे । अतः परम्जिनो देवो गुरुः साधुर्धर्मः सर्वदयामयः। एतत्तत्त्वं परिज्ञाय, गृहीत्वा च समाचर ॥ १ ॥ इत्यादि निगद्य-गतेषु तेषु सर्वेषु, दोलायितमनःस्थितिः । गुरून् पप्रच्छ राजेन्द्रः, शुद्धतत्त्वजिघृक्षया ॥२॥ अत्रान्तरे सूरिः, राजन् ! इन्द्रजाल-18
NAAMKARACHAR
Jain Education Intemanona
For Private Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
AKADCHCRACKECHOCKCX
कलावल्गितमेवैतत्, न कश्चित् परमार्थः । देवबोधेः पार्थे एकैवैषा, मम तु सप्त सन्ति, तच्छत्या स्वमवदावाभ्यां दर्शितमेतत् । यदि न प्रत्येपि तदा वद विश्वमपि समग्रं दर्शयामि ॥ परं न किंचिदेवैतत्कूटनाटकपाटवात् । सत्यं तदेव यद्देवः, सोमेशस्त्वां तदादिशत् ॥१॥ ___ अत्रान्तरेऽवसरपाठकः___“आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः संपदस्ताः। ___आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किशलयतु स वः शाश्वती मोक्षलक्ष्मीम्॥"
राजा सपादलक्षं पारितोषिकमदात् यथौचित्यमपरेऽपि पार्षद्याः । तदनु राजा सञ्जातधर्मदृढानुरागः स्वं सौधमलञ्चकार । देवबोधिरपि ज्ञातश्रीहेमाचार्यकलाप्रागल्भ्यमहिमातिशयो बाह्यवृत्त्या सूरिगुणग्रहणं कुर्वन् सर्वत्र मिलति । कदाचिच्छालायामायाति ।राजगुर्वादिप्रेरितो नृपं विप्रलम्भयति । राजाऽपि प्रकाशान्धकारान्तरालस्थित इव सूरिदेवबोधिभ्यां कृतः कियन्तं कालम् । अथैकदा गुरुं राजा जजल्प ॥ प्रभो ! मिथ्यात्वधत्तूरास्वादभ्रान्ततया मया । लेष्टुर्टमेव बुद्ध प्रागतत्त्वमपि तत्त्ववत् ॥१॥ अधुना तु श्रीगुरुवाणीशर्करास्वादेन गतभ्रमो निःशेष धादितत्त्वं यथास्थितं ज्ञातवान् , तत्प्रसादं कृत्वा जितकल्पद्रुचिन्तामणिकामकुम्भादिवैभवं सम्यक्त्वमूलं श्रावकधर्म मयि निवेशय । सूरयो जिनधर्मदित्सया सन्मुहूर्त विलोक्य राज्ञे ज्ञापितवन्तः। राज्ञाऽपि सर्वसाक्षित्वं श्रीधर्मप्रतिपत्तेश्चिकीर्षताऽपरलोकधर्मस्थिरीकरणार्थ जिनशासनमहोन्नतिविधित्सुनाऽऽकार्यन्ते स्म निर्मलज्ञानादिगुणभूरयः श्रीसूरयःसर्वनगरादिस्थाः तीर्थकृन्नमस्करणीयत्वादिजाग्रन्म
॥५६॥
Jan Education
m
ana
For Private
Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
हिमौघाश्रीसङ्घाश्च । सज्जीकार्यन्ते स्म श्रीसङ्घसत्काराय रत्नसुवर्णपट्टकूलादीनि कर्पूरपूरपूरित सुगन्धगन्धस्थालानि विशालानि । दाप्यन्ते स्म सर्वत्रामारिपटहाः । सिच्यन्ते स्म गन्धोदकैः सकलनगरमार्गाः । वाद्यन्ते स्म विविधातोद्यनिःस्वानानि सर्वत्र । एवं च संप्राप्ते सहने श्रीचौलुक्यभूवासवः कनकपत्रवासः परिधान मुकुटपापक्षयङ्कर हारचन्द्रादित्याभिधकुण्डलाद्यलङ्कारसमलङ्कृतो द्वासप्ततिसामन्तादिसमग्रनागरादिपरिवृतः स्वपट्टगजेन्द्रादुत्तीर्य शालाद्वारमायातः, श्रीमदुदयनमव्यादिश्रीसंघेन मुक्ताप्रवालादिस्थालवर्द्धापितः । धर्मस्थैर्यापादनाय 'इतः समागम्यतां ' इत्यादिबहुमानवचनैः श्रीगुरुभिर्दत्तबहुमानः पूर्वमण्डितद्वासप्तति जिनरल सुवर्णादिप्रतिमाभिरामनन्दौ दत्तप्रदक्षिणात्रयः श्रीजिनवन्दनपूजनादिसकलशुद्धवि. धिपूर्वकं विश्वैश्वर्यमिव सम्यक्त्वमूलं द्वादशविधं श्राद्धधर्म श्रीहेमाचार्यविश्राणितं जग्राह । तदा - धर्मलक्ष्मीं पुरस्कृत्य, वधूं वर इवारुचत् । भ्राम्यन् समवसरणं, पावकं परितो नृपः ॥ १ ॥ चौलुक्ये साधुनिक्षिप्तैः क्षोदैः श्रीखण्डजैस्ततः । अकालेऽपि तदा लेभे, क्रीडा वासन्तिकी जनैः ॥ २ ॥ श्रीसङ्केनाप्यक्षताः क्षिप्ता नृपं प्रति । सूरयोऽपि प्रतिपन्नधर्मस्थिरीकरणाय शिक्षामेवं ददुः । यथा
"कोशाद्विश्वपतेर्विकृष्य गुरुणा प्राणावनादिवतस्फूर्जन्मौक्तिकदामविस्तृतगुणं सम्यक्त्वसन्नायकम् ।
तुभ्यं दत्तमिदं महीधव ! वहन् हृद्यन्वहं जीववत् त्वं सौभाग्यभरेण मुक्तियुक्तेर्भावी प्रियंभावुकः ॥ १ ॥ " अपि च
“यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां यन्मूलं जिनशासने सुकृतिनां यज्जीवितं शाश्वत ।
Page #120
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ५७ ॥
Jain Education
तत्सम्यक्त्वमवाप्य पूर्वपुरुषश्रीकामदेवादिवद्दीर्घायुः सुरमाननीयमहिमा श्राद्धो महर्द्धिर्भव ॥ २ ॥" इत्यादि ॥ एवं महोत्सवे प्रवर्त्तमाने श्रीसङ्घो हर्षप्रकर्षात्, 'धर्मात्मा राजर्षिश्च' अयं श्रीचौलुक्य इति नामद्वयं दत्तवान् । राजाऽपि लब्धविश्वाद्भुतनामद्वयः श्रीसङ्घान् रत्नसुवर्णाभरणपट्टकूलादिभिः पूजयामास । समग्रचैत्येषु महान्तमष्टाहिकामहं कारितवांश्च ॥ विवेकिनां पुण्यवतां धुरि स्थितः, श्रीगूर्जराधीश्वर एष सत्तमः । दुरन्तमिथ्यात्वमलं निरस्य यः, सुनिर्मलात्माऽजनि विश्ववत्सलः ॥ १ ॥ इत्यादि नृपस्तुतितत्परा महाजनास्तदा मङ्गलोपचारान् कुर्वन्ति स्म सर्वत्र । जातश्च मिथ्या विघूककुलेष्वमावास्यावतारः, सम्यग्दृष्टिकुलकमलेषु सततसूर्योदयश्च । किं बहुना -
“भाग्यैर्जागरितं सतामविरतं पुण्यश्रिया गर्जितं, पापैः संकुचितं मुनीश्वरगुणैरुज्जृम्भितं सर्वतः ।
श्रीसङ्घानघमान सैर्विहसितं चौलुक्यभूमीविभो, सम्यक्त्वं समुपेयुषि त्रिभुवने जातः प्रभातोदयः ॥ १ ॥” तस्मिन् प्रस्तावे कश्चित् कविः
“सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिंरा ।
उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै, नो राका शशिना विना बत ! भवत्युज्जागरः सागरः ॥ १ ॥” एतदौचित्यदाने लक्षम् । तदनु श्रीकुमारो महेश्वरादिप्रतिमाः पूर्वजकारिताः सर्वराजन्यसमक्षं ब्राह्मणेभ्यो दत्त्वा चतुविंशतिश्रीजिनप्रतिमाः सौवर्णीः स्वसदने हृदये च स्थापयामास श्रीहेमसूरिपादुकाश्च ॥ स तास्त्रिकालमभ्यर्च्य, कर्पूर
प्रवन्धः ।
॥ ५७ ॥
Page #121
--------------------------------------------------------------------------
________________
गयणाओतरणी, इकुचित
। दयां विना
कुसुमादिभिः । जज्ञे विज्ञेश्वरः सम्यक्, सुकृतामोदमेदुरः॥१॥ एवं श्रीजिनराजपूजाश्रीगुरुपर्युपास्त्यादिपरः कदाचित् | श्रीचौलुक्यः श्रीहेमाचार्यदीयमानं सर्वजीवदयापालनोपदेशमेवमशृणोत् ॥ तथाहि___ "कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिद्दलणी । संसारजलहितरणी, इकुच्चिय होइ जीवदया ॥१॥ किं सुर-1 गिरिणो गुरूयं, जलनिहिणो किं च हुन्ज गंभीरं । किं गयणाओ विसालं, को अ अहिंसा समो धम्मो ॥२॥ देहिनः सुखमीहन्ते, विना धर्म कुतः सुखम् । दयां विना कुतो धर्मस्ततस्तस्यां रतो भव ॥३॥" तथा"ददातु दानं विदधातु मौनं, वेदादिकं चाऽपि विदांकरोतु। देवादिकं ध्यायतु सन्ततं वा, न चेद्दया निष्फलमेव सर्वम्॥१॥"
यदुक्तम्“फलमविकलं ज्ञानं ध्यानं तपांसि च संयमाः, शमदमयमास्तावद्दधुः सदोपचिता नृणाम् ।
नरकसरणी हिंसां त्यक्त्वा जगजनवत्सलां, कलयति जनः सम्यग यावद्दयादयितां हृदि ॥१॥" अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषस्तस्यैव विस्तरः॥१॥ अहिंसापरमो धर्मः, अहिंसैव परं तपः। अहिंसैव परं दानमित्याहुर्मुनयः सदा ॥२॥ कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः। तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् ॥३॥ लौकिकैरपि पद्मपुराणादिषु
"न वेदैव दानैश्च, न तपोभिन चाध्वरैः । कथंचित्सद्गति यान्ति, पुरुषाः प्राणिहिंसकाः॥१॥” तथा"आउं दीहमरोगमंगमसमं रूवं पगिहुँ बलं, सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो।
COMCHACROCHAKOR
Jan Education International
For Private
Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
॥५८॥
SANSACARALLAMACHARCANCY
आएसेक्कपरायणो परियणो लच्छी अविच्छेइणी, होज्जा तस्स भवंतरे कुणइ जो जीवाणुकंपं नरो ॥१॥ जो जीवदयं जीवो, नरसुरसिवसुक्खकारणं कुणइ । सो गयपावो पावेइ अमरसीहत्व कल्लाणं ॥२॥" रना पुच्छियं, भयवं ! को सो अमरसीहो ? गुरू भणइइह भरहे अमरपुरं । सुग्गीवो तत्थ राया । तस्स कमला विमला दुन्नि भज्जा । कयाइ कमलाए गब्भपभावाओ इमो दोहलो जाओ। समरमारिजमाणजणदंसणिच्छा, मिगयादसणमणोरहो य । रन्ना पूरिया । पुत्तो जाओ । वद्धावणपुर्व कयं दोहलानुसारेण समरसीहोत्ति नाम । विमलाएवि अमारिपवत्तणदोहलसुईओ अमरसीहोत्ति । दोवि जुबणं पत्ता ।। कालंतरे मओ सुग्गीवराओ। तो जेठो समरसीहो रुद्दो खुद्दो निद्दओ रजे उवविठ्ठो, परं पारद्धिगिद्धो रजकज्जाई न चिंतइ । अमरसीहो उण पाणिदयापरोवयाराइगुणजुओ पयाणुरागपूरिओ कयाइ वाहवाहणत्थं बाहिं निग्गओ। वाहिऊण वाहे तरुछायाए वीसमंतो पुरिसेणं निजतं छगलं पिच्छइ। छगलको य नियभासाए बुब्बूयइ। तओ उल्लसंतकरुणो अमरसीहकुमरोपुरिसं भणइ, किं नेसि छगलगमेयं? । पुरिसो भणइ, जन्नम्मि पसुवहो सग्गफलोत्ति तओ तत्थ हंतुंनेमि।कुमारोभाइ-1
"जइ पसुवहेण सग्गो, लब्भइ ता केण गम्मए नरए ? । न य हिंसाओ अन्नं, गुरुयं पावं पयंपंति ॥१॥ नरयपुरस-1 रिलसरणी, अवायसंघायवग्घवणधरणी । नीसेसदुक्ख जणणी, हिंसा जीवाण सुहहणणी ॥२॥ जो कुणइ परस्स दुहं, पावइ सो चेव तं अणंतगुणं । लन्भंति अंबयाई, नहि निंबतरुमि ववियंमि ॥३॥"
इत्थंतरे तत्थ पत्तो मुणी दिवनाणजुओ। तं मुणिवरं दर्दु कुमरो भणइ, विवायमेयं मुणी छिंदही अम्ह । पणमिऊण
॥ ५८॥
For Private Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
हापुट्ठो मुणी, किं जीववहाओ सग्गो लब्भइ ? तो मुणी भणइ, नारयतिरियदुहाई पावंति जीववहाओ जीवा । किं बहुणा
इत्थ एसेव छगलगो संसयं छिंदिहीति मुणिणा भणिओ छगलगो_ "खड्डखणाविय सई छगल सई आरोविअ रुक्ख । पइंजि पवत्तिओ जन्न सइं किं बुब्बुयहिसु मुक्ख ॥१॥"
इमं सुच्चा जायजाइसमरणो ठिओ तुहिक्को । विम्हिएण कुमरेण भणियं, किमेयं ? इति, मुणी कहयइ, रुद्दसम्मो नाम एयस्स पुरिसस्स पिया आसि । एएण खणाविथं इमं तलायं, पालीए आरोविया रुक्खा, पइवरिसं पवत्तिओ जन्नो, छगा| हम्मति । कालेण रुद्दसम्मो मओ जाओछागो। इमिणा पुत्तेण हणिओ एत्थेव जन्ने । पुणो छागो, पुणोवि हओ। एवं पंच | भवा । छछो पुण इमो । संपयं अकामनिजराए लहुकम्मो पुत्तदंसणेण संजायजाईसरणो मा मारेसि मं, तुह पियाऽहं रुद्दसम्मो, जइ न पत्तियसि तो दंसेमि निहाणं घरमझे तुह परुक्खं जे भए निक्खित्तं अत्थि । पुरिसेण नीओ घरमज्झे ।। दंसिअंनिहाणं । खणिए लद्धं । जायपच्चओ बंभणो जन्नं चइऊण सम्मत्तमूलं धम्म पडिवन्नो । छागोऽवि भत्तं पच्चक्खाय साहुदिन्ननमुक्कारो सुरो जाओ। ओहिणा जाऊण कुमारं उवयारिणं सन्निज्झकारी जाओ। अमरसेणकुमरोवि मया | |जीवदया कायबा सबत्थेत्ति नियमं गहिऊण साहुपासे गओ सठाणं । एगया छागसुरेण कहियं, तुह विरुद्धो समरसीहो
रजं मुत्तूण अन्नत्थ वच्च, पुणो अवसरे रजे तुममेव राजा । कुमरोवि देसंतरं भर्मतो कुंडिनपुरं पत्तो विमलेण समं मंति15 पुत्तेण । तत्थ भाणुनिवई रज पालइ । तंभि समए तत्थ पुरे महंतं असिवं अत्थि, तस्सोपसमहेउं बंभणाइवयणेण देव-15
याइपुरो पसुवहो रण्णा काराविओ। किजइ रायपुरिसेहिं । तं दट्टण अमरसेणकुमरेण निसिद्धा रायभडा न ठायंति,
For Private & Personel Use Only
Page #124
--------------------------------------------------------------------------
________________
कुमारपाल छागसुरो सुमरिओ आगओ। तब्बलेण थंभिया पुरिसा, विम्हओ लोयाणं जाओ। सुणिऊणेयं तत्थ भाणुनिवोऽवि प्रबन्धः।
समागओ। दिहो कुमरो। कओ आगमो भे? किमवंति पुच्छिओ नमिउं नरिंदै भणइ, हे महराय ! किमेमे हणिज्जति? न हि पसुवहेण असिवं, नियत्तए अवि य वहुए बाढं । लोए पलीवणंपिव, पलालपूलप्पसंगेण ॥१॥ यतः
"हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥१॥
देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । नन्ति जन्तून गतघृणाः, घोरां ते यान्ति दुर्गतिम् ॥२॥" तओ भाणुनिवो भणइ, कहं असिवनिवत्ती होही ? कुमरो भणइ, महमंतप्पभावेण । तओ आणाविया कुमारी मंडलेश Fठविया । कप्पूर कुसुमाईहिं पूईआ। अवयरिओ देवो भणइ कुमारीमुहेण ॥
वसइ कमलि कलहंस जिम जीवदया जसु चित्ति । तसु पयपक्खालणजलिइ होसिइ असिवनिवित्ति ॥१॥ एत्थंतरे भाणुराया जंपइ, भद्द ! कहं सो नायबो ? जस्स मणे जीवदया । कुमरो भणइ, परिक्खा किज्जइ । आका-1 रिया सबे दंसणिणो । “पुरो भमंतीइवि अंगणाए, सकज्जलं दिहिजुयं न वत्ति ॥” समस्सा अप्पिया । अन्नेहिं पूरिया-18
"चक्खं चहुई थणमंडलंमि, अणुक्खणं तेण मए न नायं । पुरो भमंतीइवि अंगणाए, सकज्जलं दिडिजुयं न वत्ति॥१॥" Pा इच्चाइ रागदोसकलुसिएहिं पूरिया, न कोवि जीवदयापरिणामलेसोवि । एत्थंतरे छागमोयगो साहू आगओ। तेणावि
G ॥ ५९॥ पूरिया । जहाFI"अणेगतसथावरजंतुरक्खा-वक्खित्तचित्तेन मए न नायं । पुरो भमंतीइवि अंगणाए, सकज्जलं दिठिजुयं न वत्ति ॥१॥"!
For Private Personel Use Only
Page #125
--------------------------------------------------------------------------
________________
PI कुमरो जंपइ, इमेसिं मणे जीवदया। राया भणइ, जिणमुणिं विणा न अन्नत्थ सच्चा दया । अण्णे वयणमित्तेणेव ।
वयंति, न पालंति जीवदयं, तम्हा एयस्स मुणिवरस्स पयपक्खालणजलेण असिवनिवत्ती होही । तहा कए सवत्थ जाया
संती । पडिबुद्धो राया। सावओ जाओ । कुमरो कमेण नायकुलसीलादिगुणो नियधूयं कणगवई परिणाविओ रन्ना। शारजं दिन्नं । सवत्थ देसमझे अमारिपडहो दाविओ। अमरपुराओ आगएहिं पुरिसेहिं कहियं, समरसीहो अन्नायपरो
पारद्धिगओ पहाणेहिं पंचत्तं नीओ। तत्थ रजं सुन्नं । तओ इच्चाइ सोउं चउरंगवलकलिओ पत्तो अमरपुरे । राया | जाओ। महंतो जीवदयापरो महारज पालेऊण देवो जाओ। मुक्खं कमेण गमिही। समरसीहो अणंतदुक्खभायणं भमिही चाउरंतसंसारे । तम्हा दयापरेहिं होय ॥ जीवदयारहिओ इह भवेवि निहणंगओ समरसीहो । तं पुण कुणमाणो सुहसयाई पत्तो अमरसीहो ॥१॥
लौकिका अपि-पूर्वभवकौलिकत्वे शूलामोतद्राङ्गकजीववधेन भाण्डव्यर्षिभवे जयपुरे चौरप्रवन्धेन सप्तदिनी शूलिकादुःखं सोढवानिति । उक्तं च___ “एकयूकावधात्याप्तो, माण्डव्यः शूलरोपणं । नानाजन्तुकृता हिंसा, कथं दत्ते न दुर्गतिम् ?॥१॥” इत्यादिहिंसाफलान्याहुः । अत्र बहुपदेशा ज्ञातव्याः॥ एवं जीवदया कुमारनृपतेधर्मस्य सज्जीवितं, सर्वत्र प्रतिपादितेति निपुणं ज्ञात्वाऽऽत्मना संप्रति । कुर्वन् शुद्धमनाः स्वयं परजनैस्तां कारयन् भूतले, भूयास्त्वं जगदेकमस्तकमणिर्लोकोत्तरः पौरुषः ॥१॥ एवं प्रोत्साहितः श्रीमान , चौलुक्यपृथिवीपतिः। धर्म दयामयं विष्वक्, प्रवर्तयितुमैहत ॥२॥ ततो वर्णचतुष्टये स्वस्या-181
।
Jain Education
For Private Personal use only
Page #126
--------------------------------------------------------------------------
________________
कुमारपाल न्यस्य वा हेतवे यः कोऽपि जीवान् मृगच्छागादीन् हन्ता स राजद्रोहीति पत्तने पटहं दापयित्वा जीवदयां कारितवान् । प्रबन्धः।
व्याधशौनिककैवर्तकल्पपालादिपट्टकाः पाटिताः। मुक्तानि तद्रव्याणि पापमूलानीति कृत्वा । शौनिकादीनामपि निष्पाप
वृत्त्या निर्वाहं कारयन् दयामयत्वं व्यधात् । शक्त्या बहुमानादिना च सर्वत्र मनुष्यास्तिर्यश्चोऽपि गलितमेव पयः पाय-18 टोनीयाः, इत्याज्ञया जलाश्रये जलाश्रये मुक्ताः स्वपुरुषाः ॥ ___ "त्रैलोक्यमखिलं दत्वा, यत्पुण्यं वेदपारगे । ततः कोटिगुणं पुण्यं, वस्त्रपूतेन वारिणा ॥ १॥ ग्रामाणां सप्तके दग्धे, यत्पापं जायते किल । तत्पापं जायते राजन् !, नीरस्यागलिते घटे ॥२॥ संवत्सरेण यत्पापं, कैवतस्येह जायते । एकाहेन तदाप्नोति, अपूतजलसंग्रही ॥ ३ ॥ यः कुर्यात्सर्वकार्याणि, वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी | स महाव्रती ॥ ४॥ नियन्ते मिष्टतोयेन, पूतराः क्षारसंभवाः । क्षारतोयेन तु परे, न कुर्यात्संकरं ततः ॥५॥"
इति श्लोकपत्रिका हस्ताः स्वाप्तजनाः स्वदेशे स्वबशापरमहीशदेशेषु च प्रहिता जीवदयादिनिमित्तम् ॥ तथा"पत्रिंशदङ्गलायाम, विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कार्य, भूयो जीवान् विशोधयेत् ॥१॥” सांख्यशास्त्रे
"त्रिंशदङ्गुलमानं तु, विंशत्यङ्गुलमायतम् । तद्वस्त्रं द्विगुणीकृत्य, गालयित्वोदकं पिबेत् ॥१॥
तस्मिन् वस्त्रे स्थितान् जन्तून, स्थापयेजलमध्यतः । एवं कृत्वा पिवेत्तोयं, स याति परमां गतिम् ॥२॥" इति लिङ्गपुराणोक्तविधिना राज्ञो गृहे एकादशशतहस्त्येकादशलक्षतुरङ्गाऽशीतिसहस्रगवादयो गलितजलं पाय्यन्ते स्म । राजाज्ञया च सर्वत्र स्थाने स्थाने देशे देशे पुरे पुरे ग्रामे ग्रामे चामारिपटहा न्यायघण्टाः श्रीचौलुक्येन राजसिंह-14
Jan Education Intema
For Private
Personel Use Only
Page #127
--------------------------------------------------------------------------
________________
द्वारे बन्धिताः । एवं प्रवर्त्तमाने जीवरक्षामहोत्सवे श्रीकुमारपालनृपः किं कोऽपि कुत्राऽपि जन्तून् हिनस्ति न वा ? इति ज्ञातुं विष्वक् प्रच्छन्न चरान् स्वचरान् प्रैषीत् । ते चाजस्रं सर्वदेशेषु भ्रमन्तो हिंसकान् प्रेक्षमाणाः सपादलक्षदेशे कस्मिंश्चिद्रामे महेश्वरवणिजा वेणीविवरणे भार्यया शिरःकर्षितां हस्ते मुक्तां यूकामेकां व्यापाद्यमानां दृष्टवन्तः । ततस्तैश्चरैः स श्रेष्ठी यूकासहितः पत्तने नीतो राज्ञोऽग्रे । राजाऽऽह, रे दुष्टचेष्टित ! किमिदं दुष्कर्म कृतम् ? इत्याह । श्रेष्ठी प्राह एषा मम मूर्द्धनि मार्ग कृत्वा रक्तं पिबतीत्यन्यायकारित्वाद्व्यापादिता । राजा, रे दुष्टवादिन् ! जीवानां ६ स्वस्थितिर्दुस्त्यजा इति जानन्नपि यथैनां हतवांस्तथा ममाज्ञाखण्डनापराधकारी त्वमपि हन्तव्यपङ्कौ प्राप्तः । यदि रे ! * जन्तुहत्या पातकान्न विभेषि तर्हि मत्तोऽपि न इति सर्वनगरसमक्षं हक्कितः । मम राज्ये न जीववध इति कृत्वा गृहसर्वस्वं व्ययीकृत्य यूकाविहारं कारय, यथा तं विहारं दृष्ट्वाऽतः परं न कोऽपि जीववधमाचरति । एवं नृपाज्ञया महेश्वरश्रेष्ठिना पत्तने यूकापापप्रायश्चित्ते गृहसर्वस्वेन यूकावसतिः कारिता ॥
एवं चरत्सु चौलुक्यचरेषु क्वापि जन्तवः । न गेहेऽपि वहिर्नापि, केनापि विनिपातिताः ॥ १ ॥ ततः सवत्र ववृधे, जन्तुराशिरनेकधा । तीर्थे यथा जिनेन्द्रस्य, चालुक्यस्य तथा भुवि ॥ २ ॥ अमारिकरणं तस्य वर्ण्यते किमतः परम् । द्यूतेऽपि कोऽपि यन्नोचे, मारिरित्यक्षरद्वयम् ॥ ३ ॥ व्याधान् वीक्ष्य विहारिणः शिशुमृगाः स्वोक्त्या पितृनूचिरे, यामः सान्द्रलतान्तरेष्विह न चेदेते हनिष्यन्ति नः । ते तान् प्रत्यवदन् विभीत किमितो वत्साः ! सुखं तिष्ठत, श्री चौलुक्यभिया निरीक्षितुमपि प्रौढा न युष्मानमी ॥ ४ ॥ आकल्पं भगवानसौ विजयतां श्रीहेमसूरिप्रभुर्यद्वाक्यैर्विहितोद्यमे नरपतौ
Wainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः।
६१॥
हिंसां समुच्छिन्दति । शङ्के शङ्करवल्लभाऽपि महिषप्राणोपसंग्राहिणी, संत्रासाकुलचित्तवृत्तिविधुरा धत्ते तनो तानवम् ॥ ५॥ कलाकलापैः स्तुमहे महेन्द्र, श्रीहेमचन्द्रं नुमहे न चन्द्रम् । ररक्ष दक्षः प्रथमः समग्रान् , मृगान् ।
यदन्यो मृगमेकमेव ॥ ६॥ तथादा“तं च मांसं च सुराच वेश्या, पापदि चौर्य परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिधोरं नरकं नयन्ति ॥१॥
ताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्याकृष्णनृपश्च राघवपिता पापड़ितो दूषितः । मांसाच्छ्रेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के ?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः ॥२॥"
इत्थं ह्यनथहेतुत्वाद् , तादीन्यपि भूपतिः । हिंसायाः कारणानीति, निषिध्य निखिले जने ॥१॥ पटहोद्घोषणापूर्व मृन्मयानि नृरूपाणि मपीलिप्तमुखानि सप्तापि व्यसनानि रासभमारोप्य काहलादिवादनादिना चतुरशीतिचतुष्पथभ्रमणयष्टिमुष्ट्यादिहननाद्यनेकविडम्बनापूर्व पत्तनान्निजान्यदेशाच्च निरवासयत् । एवं निरपायां जन्तुरक्षा कारयित्वा श्रीगुरोरग्रे धर्म शृण्वन् सुखानन्दामृतोपशान्तपापतापो यावदास्ते तावन्नवरात्रेषु प्राप्तेषु देवतार्चका आगत्य भूपमेवं व्यजिज्ञपन् , हे श्रीचौलुक्यचन्द्र ! कण्टेश्वर्यादिकुलदेवतानां बलिपूजार्थ सप्तम्यष्टमीनवमीदिनेषु यथाक्रम सप्ताटनवशताजमहिषा दीयन्ताम् , नो चेद्देवता विघ्नकारिण्यो भवन्ति । राजतदाकर्ण्य किं कार्यमधुना? इति गुरुं पप्रच्छ ।। श्रीहेमसूरिः, राजन् ! देवता जीवान्न घ्नन्ति, मांसं च नाश्नन्ति, अमृताहारित्वात् तेषामिति जैनेन्द्रं वचः प्रमाणमेव । परं केलीकिलत्वेन काश्चिद्दुष्टदेवता जीवान् मार्यमाणान् दृष्ट्वा तुष्यन्ति परमाधार्मिकवत् । एते देवार्चका एव देवीपूजा
CARRIORSERICA
॥६१॥
गन्न मन्ति, मासण्यो भवन्ति । राजतदायसम्यष्टमीनवमर्मादिनवाचका
Jain Educational
Page #129
--------------------------------------------------------------------------
________________
CRICKERECALCCARECRUCI
व्याजादिना मांसभक्षणलम्पटा जीवान् मारयन्तीति । देवताभ्यो जीवन्त एवाऽजमहिषा दीयन्ते रक्षापुरुषाश्च मुच्यन्ते, तत्र यदि रात्री देवता गृह्णन्ति तदा तथाऽस्तु, नो चेत्तर्हि प्रातस्तेषां विक्रयद्रव्येण भोगः क्रियते देवतानामिति गुरुवचोऽमृतैरुज्जीवितकृपाजीवितः श्रीकुमारभूपस्तथा चकार । प्रातजींवतः पशून् विलोक्य हृष्टो भूपः । हकिता देवार्चकाः।। रे दुष्टाः! ज्ञाता मया यूयमेव मांसलोलुपा जीवहिंसां कारयथ । संप्रति यथावज्ज्ञातश्रीजिनवचनः कथं ब्राह्मणराक्षसैर्भक्षणीयः?। इयन्ति दिनानि मुधैव जीववधादिपापानि कारितः। ततोऽजमहिषद्रव्यैर्देवीनां कर्पूरादिमहाभोगः सप्तम्यां कारितः।। एवमष्टम्यां नवम्यां च कारयित्वा नवमीदिने कृतोपवासः श्रीजिनेश्वरध्यानकतानो रात्रौ स्वावासे यावत्सुखमास्ते तावत्कण्टेश्वरी त्रिशूलव्यग्रहस्ताऽऽगत्य राजानमाह, हे चौलुक्य! तव कुलदेवी कण्टेश्वरी अहम् । ऐषमोऽस्मद्देयं सर्वपूर्वजैः पुरा दत्तं कस्मात्त्वया नादायि !, राजन् ! नोलचनीया कुलदेवता कुलक्रमाचारश्च प्राणान्तेऽपि । इति श्रुत्वाऽऽह नृपः, हे कुलदेवते विश्ववत्सले ! संप्रति सज्जीवदयात्मकधर्ममर्मज्ञो नाहं जीवान् हन्मि । यश्चाज्ञातधर्मतत्त्वैः पूर्वजैर्मया च जीववध-| |श्चक्रे पुरा, स ममान्तरात्मानं संतापयति । यतः
"घाएण य घायसयं, मरणसहस्सं च मारणे वावि । आलेण य आलसयं, पावइ नत्थित्थ संदेहो ॥१॥ वहमारणअभक्खा .................................................. ........................................ ॥२॥ यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः॥३॥ देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । नन्ति जन्तून् गतघृणाः, घोरां ते यान्ति दुर्गतिम् ॥४॥"
For Private & Personel Use Only
ww.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ६२ ॥
इत्यादि शास्त्रदृष्टिः कथं जीवहत्यां कुर्वे ? ॥ तवापि देवि ! नो युक्तं, जीवहिंसाविधापनम् । देवता हि दयागृह्याः, शास्त्रे लोके च विश्रुताः ॥ १ ॥ यदि सत्यतयाऽसि त्वं ममेह कुलदेवता । तदा जीवदयाकार्ये, साहाय्यं कर्तुमर्हसि ॥ २ ॥ कर्पूरादिमयो भोगस्तव चक्रे मयोचितः । कृमिभक्ष्याणि मांसानि न ते योग्यानि सर्वथा ॥ ३ ॥ मांसं जीववर्धन स्यात्, न जीवं हन्मि सर्वथा । तस्मात्त्वं मत्कृतैर्भोगैः, सन्तुष्टा भव सांप्रतम् ॥ ४ ॥ इति वदन्तं भूपं मूर्ध्नि त्रिशूलेन हत्वा दुष्टा तिरोऽभूत्कण्टेश्वरी । तेन दिव्यघातेन तत्क्षणमेव नृपः सर्वाङ्गीणदुष्टकुष्ठादि रोगग्रस्तोऽजनि ॥ दृष्ट्वा तत्तादृशं कुष्ठं, भूभुग् वैराग्यमागमत् । संसारे स्वशरीरे च, नार्हद्धर्मे मनागपि ॥ १ ॥ स्वकर्म खलु भोक्तव्यमवश्यमिति चिन्तयन् । कुलदेव्यामपि द्वेषं न पुपोष महामतिः ॥ २ ॥ यतः
"सो पुढकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ ॥ १ ॥” अधोदय मन्त्रिणमा कार्य देवीव्यतिकरं प्राह, स्वदेहं चादर्शयत् । तद्दर्शनादेव वज्राहत इव मन्त्री हृदि शल्यितो जज्ञे । राजाह, मन्त्रिन् ! न मे कुष्ठादि वाघते किन्तु मद्धेतुकं जैनधर्मे लाञ्छनं नवम् । यतः परतीर्थिका एतज्ज्ञात्वा वदिष्यन्ति - अहो ! जिनधर्मफलं राज्ञ इहैव जातम् । अन्योऽपि कोऽपि यः स्वकुलक्रमागतं धर्मं त्यक्त्वाऽपरं धर्म करिष्यति स कुमारपाल भूपवत्कष्टपात्रमत्रापि जायते । ब्राह्मणा अपि अस्मद्देवसूर्यादि सेवया कुष्ठादि सर्व विलीयते जैनसेवया तु प्रादुःष्यात् इत्यादिवदन्तो धर्मनिन्दां विधास्यन्ति । ततो यावत्कोऽपि न वेत्ति तावद्रात्रावेव बहिरात्मानं तृणयिष्यामि वह्नौ, इति भूपोक्तिं श्रुत्वा मन्त्री प्राह, हे श्री चौलुक्यावतंस ! त्वयि जीवति राजन्वतीयं वसुमती, सर्वोपा
प्रबन्धः ।
॥ ६२ ॥
Page #131
--------------------------------------------------------------------------
________________
सर्वजनीन
खलु धर्मसाधना । न हि तुंबमि विण
यस्तु स्वामिरक्षैव कार्या । यतः___“जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खिज्जा । न हि तुंबंमि विणडे, अरगा साहारगा हुँति ॥१॥"
"शरीरमाद्यं खलु धर्मसाधनं । "यस्मिन् सर्वजनीनपीनमहिमा धर्मः प्रतिष्ठां गतो, यस्मिंश्चिन्तितवस्तुसिद्धिसुखदः सोऽर्थः समर्थः स्थितः। यस्मिन् काममहोदयौ शमरसीकाराभिरामोदयौ, सोऽयं सर्वगुणालयो विजयते पिण्डः करण्डो धियाम् ॥१॥" अतः स्वामिन् ! स्वात्मरक्षायै पशवो दीयन्ते देवीभ्यः, इति मन्त्रिवचः श्रुत्वा निःसत्त्वो वणिग् भक्तिग्रथिलो भक्तिवचांसि भाषते इत्यादि वदति स्म राजा॥शृणु-भवे भवे भवेद्देहो, भविनां भवकारणम् ।न पुनःसर्ववित्प्रोक्तं, मुक्तिकारि कृपाव्रतम् ॥ १॥ अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो । देहेण जइ विढप्पइ, धम्मो ता किं न पजत्तं ॥२॥ तथा-आराधितो जिनो देवो, हेमसूरिगुरुर्नतः । निर्मितश्च दयाधर्मो, न्यूनमद्यापि किं मम? ॥ ३ ॥ श्वासश्चपलवृत्तिः स्यात् , जीवितं च तदात्मकम् । तत्कृतेऽहं कथं मुञ्चे, स्थिरां मोक्षकरी कृपाम् ॥ ४ ॥ मरणात्पापी बिभेति न पुण्यवान् । यतः
“अहियं मरणं अहियं, च जीवियं पावकम्मकारीणं । तमसंमि पडंति मया, वेरं वटुंति जीवंता ॥१॥" ततस्त्वरस्व, कुरु चितां चन्दनैः, रात्रिगुप्तकर्मकामधुक इत्युक्तो मन्त्री राजानं प्राह पुनः, राजन् ! एकशः श्रीगुरवः पृच्छयन्ते, गुर्वादेशवशंवदानां गुरुरेव प्रमाणं इत्युक्त्वा राजानमाश्वास्य गतः श्रीहेमचन्द्रसूरिपार्थे निवेदितश्च सर्वोऽपि
For Private & Personel Use Only
Page #132
--------------------------------------------------------------------------
________________
कुमारपाल व्यतिकरः। श्रुत्वा चैतत् सूरिः प्राह, मन्त्रिन् ! कृतं मृत्युवार्तयाऽपि, आनय शीघ्रमुष्णोदकं, येन सूरिमन्त्रेणाभिमन्य|| प्रवन्धः ।
ददामि तदानीते तथैव कृत्वाऽर्पितं पयः। मन्त्री गतो नृपपार्थे, दर्शितं गुरुप्रसादीकृतं पयः।राजाऽपि मूर्त श्रीगुरुप्रसादमिव ॥६३॥
मन्यमानस्तत्पयः पपौ, शरीरं छण्टितम् , तेन च पीतमात्रेण सिद्धरसेनेव राज्ञो देहो देदीप्यमानकान्तिमयः सकलकल्याणमयश्च जज्ञे ॥ महान् हर्षस्ततो राज्ञो, मन्त्रिणोऽप्यजनि क्षणात् । वपुर्वीक्ष्याधिकज्योतिः, पूर्वतोऽपि जलात्ततः॥१॥
वाचामगोचरः सूरेः, प्रभावो जगदद्भुतः । ईदृक्षमपि यः कष्टं, धन्वन्तरिरिवाहरत् ॥२॥ अहो ! गुरोमयि महती कृपाहलुता, निस्सीमः श्रीजैनमन्त्राणां महिमा इति परस्परमानन्दमेदुरवार्तालापैर्नृपमन्त्रिणो रात्रिराक्षसी प्रणष्टा। जातः प्राभा-17
तिकोत्सवः । श्रीचालुक्योऽपि हस्त्यारूढो धृतश्वेतातपत्रः सर्वसामन्तादिपरिवृतः श्रीगुरुचरणारविन्दवन्दनार्थ समागाद्यावत्तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणस्वरं शुश्राव । ततस्तामेव रात्रौ दृष्टां कण्टेश्वरी मन्त्रयन्त्रितां च पश्यति । साऽपि देवता-राजन् ! मां जीवन्तीं मोचय श्रीप्रभुप्रयुक्तमन्त्रबन्धात् । तवाज्ञाऽवधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति राजानं विज्ञपयन्ती श्रीगुरून् प्रसाद्य मोचिता । तदनु अष्टादशदेशेषु जीवरक्षातलारतां कुर्वती सुखेन तिष्ठति राजभवनद्वारे । यदुक्तं च"या पूर्व नवमीमहेषु महिषस्कन्धत्रुटत्कीकसत्राट्रकारैरजनिष्ट कर्णकटुकैः कण्टेश्वरी नश्वरी।
I ॥६३॥ सा पीयूषपराङ्मुखी रसयति श्रीहमसूरेगुरोगीतं मारिनिवारि राजभवनद्वारि स्थिता सुस्थिता ॥१॥" ' शालान्तर्गत्वा गुरुपादपमं वावन्ध हस्तयुगमायोज्याह भूमीश्वरः, भगवन् ! जिह्वयैकया त्वत्प्रभावो जगज्जीवातुः
Page #133
--------------------------------------------------------------------------
________________
कथं स्तोतव्यः ? त्वत्प्राच्योपक्रिया अद्याप्यकृतनिष्क्रया जाग्रति, अद्यतन्याः पुनः कतमोऽस्तु निष्क्रयः ॥ सीमा सर्वोपकारेषु यत्प्राणपरिरक्षणम् । चूलेव तस्योपर्येषा, यन्मे सद्धर्मबोधनम् ॥ १ ॥ प्रक्षाल्याक्षतशीतरश्मिसुधया गोशीर्षगाढद्रवैर्लिस्वाभ्यर्च्य च सारसौरभभर स्वर्णप्रसूनैः सदा । त्वत्पादौ यदि वा वहीमि शिरसा त्वत्कर्तृको पक्रियाप्राग्भारात्तदपि श्रयामि भगवन्नापर्णतां कर्हिचित् ॥ २ ॥ इत्थं राज्ञो वचः पथातिक्रान्तकृतज्ञतया प्रभुर्भृशं तुष्टः प्राह उपदेशव्यपदेशेन राज्ञः स्तुतिम् —
" क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुष्पूरोदरपूरणाय पिवति श्रोतः पतिं वाडवो, जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १ ॥ शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चपाः ॥ २ ॥” राजन् ! अस्मद्वाक्येन सर्वतोऽमारिकुर्वता त्वया कृत एव सर्वोपक्रियाणां निष्क्रयः ॥ कष्टे त्वमीदृशेऽप्यत्र, भ्रष्टोऽर्ह - च्छासनान्न चेत् । तवास्तां तर्हि परमार्हतेति विरुदं नृप ! ॥ १ ॥ एवं श्रीगुरुदत्तं परमार्हतबिरुदं देवैरपि दुर्लभं प्राप्य प्रमुदितः कृतार्थं मन्यमानः स्वसौधमलञ्चकार । जातः पारणोत्सवः ज्ञातश्च परतीर्थिकैर्देवताकृतव्यतिकरः । हृष्टाः सज्जनाः, परिम्लाना द्विजातयः । किं बहुना - महोत्सवमयं सौख्यमयं विश्वत्रयं तदा । सर्वमासीदसीमोद्यज्जिनधर्ममहोमयम् ॥ १ ॥
Page #134
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥६४॥
अथान्यदा काशिदेशे वाणारस्यां गोविन्दचन्द्राङ्गजः श्रीजयचन्द्रो नृपः सप्तशतयोजनभूमीभुक्, अन्यराजकं दासप्रायं मन्यमानः, चत्वारिंशच्छतगज-पष्टिलक्षवाजि-त्रिंशल्लक्षपदाति-द्वादशशतपित्तलमयनिस्वानादिऋद्धिसमृद्धो, गङ्गायमुनायष्टी विना क्वापि गन्तुं न शक्नोतीति पङ्गुराजेति बिरुदं वहति । तस्य गोमती दासी षष्टिसहस्राश्वेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कुतः। तत्र प्रायः सर्वेषामपि वर्णानां मीनाशनतया हिंसा महीयसीं श्रुत्वा तन्निवारणाय एक पटं पुण्यपापफलभोगभूमिस्वर्गनरकस्थदेवनारकादिविचित्रचित्रमनोहरं मध्यदेशस्थसिंहासनाधिरूढश्रीहेमाचार्यमूर्तितत्पुरःस्वमूर्ति विन्यासश्रिया सकलविश्वविलोकनीयं द्विकोटिस्वर्ण-द्विसहस्रजात्यतुरगरत्नादि। च प्राभृतं समर्प्य वाणारस्यां मन्त्रिणः प्रहिताः । स्थिताः कियन्तं कालम् । पूर्वमेव स्वर्णादिप्रदानैर्वशीकृता राजवाः । मेलिताश्च तैः श्रीजयचन्द्रराज्ञः। कृतोपदा यावता चित्रपटं विलोकयति राजा तावता विज्ञप्तं सचिवैः, हे काशीश ! इयं राजगुरुमूर्तिः, तत्पुरश्चायमस्मद्राजा श्रीचौलुक्यः, श्रीगुरुणा नरकस्वर्गप्राप्तिहेतुहिंसाजीवदयाफलभोगभूमिनरकादिदर्शनेन प्रबोधितोऽस्मन्नृपः। प्रतिपन्नश्च जीवदयाधर्मः । वादिताः सर्वत्रामारिपटहाः। संप्रति न प्रवर्तते हिंसा निर्वासिता स्वदेशेभ्यो मारिर्जगद्वैरिणी । सा सांप्रतं श्रीकाशीशदेशं व्यामुवत्यस्ति । ततस्तनिवारणाय स्वगुरुमूर्तिहेमहयादिप्राभृतहस्ता अत्र प्रहिताः स्म । इति मन्त्रिगिरा तेन च तादृशप्राभृतेनान्तस्तोपितः प्राह श्रीजयचन्द्रराजा सर्वसभासमक्षम्-युक्तं श्रीगूर्जरो देशो, विवेकेन बृहस्पतिः। सर्वतो दीप्यते यस्मिन्नीदृग्भूपः कृपामयः॥१॥ कियानुपायः क्लुप्तोऽस्ति, जीवरक्षाप्रवर्तने । तमेव धन्यं मन्येह, पुण्ये यस्योल्वणं मनः॥२॥ स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । न कारयेयं
For Private & Personel Use Only
Page #135
--------------------------------------------------------------------------
________________
यद्येनां, मतिमें तर्हि कीदृशी ? ॥ ३ ॥ इत्युक्त्वा स्वदेशादिभ्य आनाय्यैकलक्षाशीतिसहस्रमितजालानि, सहस्रशश्चान्यहिंस्रोपकरणानि चौलुक्यमन्त्रिप्रत्यक्षं ज्वालितानि 'हिंसा दग्धा' इति पटहो दापितः स्वदेशादौ । द्विगुणं प्राभृतं दत्त्वा काशीशविसृष्टाः प्रधानाः पत्तनं प्राप्य श्रीहेमाचार्यपुरःस्थितं श्रीकुमारपालभूपं प्रति प्राभृतदानपूर्व सर्व वृत्तान्तं निवे|दितवन्तः । तेनाद्भुतकृत्येन तोषितो गुरुरेवमुपश्लोकयति स्म राजानम्
"भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नाभून्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या क्वापि धिया क्वचिद्धनधनस्वर्णादिदत्त्या क्वचिद्देशे स्वस्य परस्य च व्यरचयज्जीवावनं यद्भवान् ॥१॥"
अत्रान्तरे कश्चित् कविः"स्वस्ति ब्रह्माण्डभाण्डात्प्रणयपरिगतः पद्मभूः पृच्छतीदं, त्वां भो श्रीहेमसूरे! तव विशदयशोराशिनाऽग्रेऽपि पूर्णम् । एतद्ब्रह्माण्डभाण्डं पुनरखिलजगजीवमारीनिवारात्, प्रादुर्भूतं प्रभूतं तदिह कथय मे कुत्र संस्थापयामि ॥१॥" हृष्टेन राज्ञा लक्षं दत्तमिति । एवं नृपस्य हृदये वदने गेहे पुरे देशेषु च स्थानमनामुवती करुणां सपत्नीमिवासहन्ती स्वपितृमोहान्तिकं ययौ मारिः। मोहोऽपि भृशं विलक्षत्वात् बहुकालादर्शनाच्चालक्षयन्नेवमनुयुक्तवान् । यथा
"का त्वं सुन्दरि ! मारिरस्मि तनया ते तात ! मोहप्रिया, किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यताम् । हेमाचार्यगिरा परायगुणवान् हृद्धहस्तोदरान्मामुत्तार्य कुमारपालनृपतिः पृथ्वीतलादाकृषत् ॥१॥" इत्यादि श्रुत्वा रुष्टः प्राह मोहभूपः, वत्से ! मा रोदीस्त्वं रोदयिष्यामि ते वैरिणः । जानन्नस्मि यद्विप्रतारकहेमाचार्य
CARECRUARY
in Education International
For Private & Personel Use Only
Page #136
--------------------------------------------------------------------------
________________
कुमारपाल-5
वचोभिर्विरक्तस्त्वां स्वराज्यान्निरवासयत् कुमारनृपः। अतः परं स कोऽपि भर्ता करिष्यते यस्त्वदाज्यमस्खलितं करिष्य-16 प्रबन्ध:
दतीत्याश्वास्य स्थापिता स्वपार्श्वे मारिर्मोहेन ॥ इत्युद्दामदयासुधारसभरीवान् समुज्जीवयंस्तजाशीर्वचनैरिव प्रतिदिन ॥६५॥
सर्वद्धिभिर्वर्द्धयन् । हेमाचार्यशुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणैकमुकुटश्चौलुक्यचन्द्रोऽजनि ॥ १॥ अथान्यदा कृतप्राभातिककृत्यः पट्टगजाधिरूढः श्रीराजर्षिः श्रीगुरुवन्दनार्थमायातः शालाद्वारे काञ्चन कनी देवकन्यामिव लीलाविलासिनी दृष्टवान् चिन्तितवांश्चेति-निस्सीमनवनवोल्लासिलावण्यामृतसारिणी । प्रीणयन्ती ममात्मानं, कस्यैषात कन्यकाऽद्भुता ॥१॥ ततो वन्दिताः श्रीगुरुपादाः। मिलितेषु सकलसभ्येषु पप्रच्छ सूरीन , भगवन् ! द्वारि दृष्टपूर्वा हृतमन्मनाः कस्येयं कन्या ? किं नाम्नी ? । ततः सूरिरपि राजकुञ्जरं रागातिशयोल्लासिनं ज्ञात्वा तन्मनोविलोभनाय तस्याः कुलशीलादि प्राह, हे चौलुक्यचन्द्र ! दत्तावधानः शृणु । विमलचित्ताहूं पुरं विनयसालमर्यादापरिखोल्वणम् । तत्राद्धर्मनामा नृपः, यन्महिमैवम्| "सुकुलजन्मविभूतिरनेकधा, प्रियसमागम इष्टपरंपरा।नृपकुले गुरुता विमलं यशो, भवति धर्मनरेश्वरसेवया ॥१॥" ___ असौ सेव्यमानस्त्याजयत्यवस्तुप्रतिवन्धम् , प्रवर्तयति सक्रियासु, पालयत्यात्मवत्स्वाश्रितमित्यादिगुणयोगात्सुराजेति प्रसिद्धः । तस्यास्ति विरतिः पत्नी देवेन्द्ररप्यलभ्यदर्शना समग्रैहिकामुत्रिकसौख्यप्राप्तिहेतुः। तयोश्च शमदमादयस्तनूजाः। अथैकदा तयोः पुत्रीजन्म । तेन खिन्नमनोवृत्ती वीक्ष्य सुतापितामहो विश्ववेदी जिनः प्राह, सुता जाता इति किं खेदं । वहथ ? इयं सुतादप्यधिका भवित्री युवयोः स्वभर्तुश्च लोकोत्तरप्रतिष्ठाप्रापकत्वेन । ततो हृष्टाः सर्वे । कृतो जन्मो
Jan Education Internet
For Private Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
त्सवः । कृपासुन्दरीति नाम दत्तम् । जाता संप्रति यौवनस्था । तादृग्मनोमतवराऽप्राप्तेर्वृद्धकुमारीति लोके प्रसिद्धा । अथ राजा प्राह भगवन् ! अत्रागमनकारणं निवेदयन्तु । सूरयः प्रोचुः सावधानैः श्रोतव्यम्, राजन् ! राजसच्चित्तपुरे मोह नामा नृपोऽपसदो राज्यं भुनक्ति । स च मोहचरटो लीलयाऽपि राजानं रङ्कयति । शक्रादीनपि स्वाज्ञाकारिणः करोति । महतोऽपि दासीकुरुते । प्रवर्तयति महापापक्रियासु । किं बहुना - त्रैधे जगति कोऽप्यस्ति न देवो नापि मानवः । यस्त दाज्ञां विना स्थातुं शक्नोति क्षणमप्यहो ! ॥ १ ॥ तस्याऽविरतिर्जाया जगत्रयवलभदर्शना सुखासेव्या च । तयोः सुताः कोपाद्याः । पुत्री हिंसानानीति । एवमनयोर्धर्ममोहनृपयोरनादिसिद्धो वैरिभावः कटकवन्धश्च प्रवर्तते । द्वयोरप्यनिशं युद्धोत्सवः । परं कदाचित्कस्यचिज्जयः, अपरस्य तु पराजयः । गतश्च भूयाननेहाः । अत्रान्तरे श्री चौलुक्यो युद्धवीरतयो
सितमनोवृत्तिः प्रोचे, भगवन् ! सम्यगव गम्यमानोऽयं प्रबन्धः प्रीणयति मम सभ्यानां चान्तरात्मानम् । परं द्वयोर्नृपयोरेकदा सैन्यादिस्वरूपं श्रोतुमुत्सुका मनोवृत्तिः, तत्प्रसद्य प्रभवो निवेदयन्तु इत्युक्ते राज्ञा सूरयः, हे परमार्हत ! विचारचतुर्मुख ! श्रीकुमारपाल ! सूक्ष्माभोगेन परिभावनीयमेतन्निरूप्यमाणम् । तथाहि — धर्मनरेन्द्रस्य सदागमो मन्त्री । सदासद्बुद्धिदानदक्षोऽपरावर्त्यश्चापरैर्नृपान्तरैः । विवेकचन्द्रः सेनाध्यक्षो विपक्षक्षोददीक्षितः । शुभाध्यवसायः परिचारकः । सम्यक्त्वयमनियमाद्याः भटाः । किमुच्यते बहुः, राजन् ! धीरशान्तः श्रीधर्मभूमीन्द्रः । अथ मोहनृपते कदागमो मन्त्री सर्वदुर्बुद्धिमूलमन्दिरम् | अज्ञानराशिः सेनानीः । मिथ्यात्वदुरध्यवसाया भटाः । धीरोद्धतश्चायं मोहः । एवं सति संप्रति प्रोच्छलत्प्रबल दुष्टेष्टविघातक कलिकाल सहायिकरालविलसितैः समजनि समुज्जीवितो मोहराजः । प्रवर्तितं सर्वत्र स्वाज्ञैश्व
Page #138
--------------------------------------------------------------------------
________________
प्रबन्धः।
कमारपालाम् । पराभूय निर्वासितः श्रीधर्मनृपतिः सपरिकरः। राजा-किमग्रतः ? । सूरिः-भ्रामं भ्रामं सर्वत्र श्रान्तः क्वापि स्थिति-
मलभमानः सांप्रतं श्रीगूर्जरत्राधरित्रीशिरोमणीयिते श्रीमति पत्तनमहास्थानेऽस्मदाश्रममाश्रित्य मनाक् स्वस्थीभवन् । 18 समयाकरोति श्रीधर्मभूभुम् । श्रीचौलुक्य ! तव सौराज्याभ्युदयेन तु संजातवलोत्सर्पणः स्वं प्रौढिमानमासादयिष्यत्येवेति |मन्यामहे त्वामेव शरणागतवज्रपञ्जरं राजानम् , इति सूरीन्दुवचोऽमृतैः पुनर्नवीभवन् कृपासुन्दरीप्रौढिं श्रुत्वा संजातसहस्रगुणदृढानुरागः कदा मयेयं परिणेतव्या इतिचिन्तावशितात्मा गुरून्नत्वा स्वभवनमलङ्कृतवान् । तदनु
“सा वाचि सा च हृदि सा पथि सा च धाम्नि, सा व्योम्नि सा पयसि सा भुवि सा च दिक्षु।
स्वप्नेऽपि सा शशिमुखी परिवर्तते मे, किं वाऽपरैरजनि तन्मयमेव विश्वम् ॥१॥" इति पठन् कृपासुन्दरीविरहपरवशोऽयं भूप इति ज्ञातः श्रीउदयनादिमन्त्रिमण्डलेन ज्ञापितश्चायं वृत्तान्तः श्रीगुरुभ्यः। आकारितः शालायां भूपालः परिवारश्च मं० उदयनादिः । कथितं गुरुणा, राजन् ! प्रेष्यते कश्चिदाप्तः प्रधानपूरुषः श्रीधर्मनरेन्द्रपार्श्वे । मार्यते धर्मनन्दिनी । सत्कार्य महादरेण क्वाऽपि सुस्थाने निवास्यते महोत्सवपूर्वमानीय श्रीधर्मः। महान्तो हि स्वपदभ्रष्टा निमजन्ति लज्जामहाम्बुधौ। नापि कुर्वन्ति महद्भिः सह संबन्धादि, यदेतैः किमपि गृहीतं भावीति ६/चकिता दुर्जनवचोनिचयेषु । तत एवंकृते प्रीतो दास्यति कृपासुन्दरीं भवते श्रीधर्मनृपः । इत्यादि स्वपरिवारेण सह पर्यालोच्य प्रहितो मतिप्रकर्षः प्रधानाप्तपूरुषः । गतोऽसौ श्रीहेमाचार्याश्रमनिवासिनः श्रीधर्मभूपस्य पार्थे । निवेदितश्च कृपासुन्दरीदर्शनादिवृत्तान्तः। तदनु मागिता धर्मसुता । ज्ञापिताः श्रीचौलुक्यगुणा एवम् । यथा
For Private & Personel Use Only
Page #139
--------------------------------------------------------------------------
________________
कु० १२
“सम्यक्त्वधारी करुणैकसिन्धुर्वन्धुर्जनानां परमार्हतश्च । चातुर्यगाम्भीर्यमुखैर्गुणौघैरगाधदेहो भुवनाधिवीरः ॥ १ ॥” इति मतिप्रकर्षेणोक्ते श्रीधर्मभूपः प्राह, सत्यमेतद् भो मतिप्रकर्ष ! किमुच्यते श्रीचौलुक्यचन्द्रस्य लोकोत्तरगुणसंपदभिरामस्य योग्यता । परमेषा पुरुषद्वेषिणी स्वभावतो दुष्पूरपणबन्धप्रतिज्ञातपाणिग्रहा, तेन मनाग् मनो दोलायते । | मतिप्रकर्षः, कः पणवन्धः ? इति श्रोतुमिच्छामि । धर्मः
इह भरहनिवाओ जं न केणावि चत्तं, मुयइ मयधणं जो तंपि पाविकमूलं । नियजणवयसीमं मोयए जो य जूयप्पमुहवसणचक्कं सो वरो मज्झ होउ ॥ १ ॥
मतिप्रकर्षः, प्रतिज्ञातमेव श्रीहेमचन्द्रपादाम्बुजसमक्षं निर्वीराधनमोक्षणं सप्तव्यसननिर्वासनं च देवेन इति संपूर्ण एव पणबन्धः ॥ किञ्चाऽभक्ष्यमयं त्यक्त्वा, परनारीपराङ्मुखः । स्वदेशे परदेशे च, हिंसादिकमवारयत् ॥ १ ॥ इति श्रुत्वा मुदितो धर्मभूपः । निवेदितं विरतिपत्न्याः । पृष्टाः सदागमशमादिमहत्तराः । श्रीधर्मासन्नस्थाभिरेतत् श्रुत्वा मुदिता मैत्री समतासखीभिर्ज्ञापितं कृपासुन्दर्याः । इति सिद्धप्रायं प्रयोजनमिति निश्चित्य धर्मविसृष्टः प्राप्तः श्रीकुमारनृपाभ्यर्ण मतिप्रकर्षः । विज्ञप्तः समग्रोऽपि पुरुषद्वेषपणबन्धादिव्यतिकरः । निष्पन्नप्रायमिदमित्याद्यक्षरैरमृतायमानैः पुनः कथ्यतां पुनः कथ्यतामिति इत्यादि वदन् परममुदम्भोधिमन्नः समजनि भूजानिः । ततो महता महेन प्रवेशितश्च श्रीधर्मभूपालः सपरिकरः स्वराजधानीमण्डपे । अथ संप्राप्ते शुभलग्ने निर्मलभाववारिभिः कृतमङ्गलमज्जनः सत्कीर्त्तिचन्दनावलिप्तदेहो नैकाभिग्रहोल्लसद्भूषणालङ्कृतो दानकङ्कणरोचिष्णुदक्षिणपाणिः संवेगरङ्गगजाधिरूढः सदाचारछत्रोपशोभितः श्रद्धा
Page #140
--------------------------------------------------------------------------
________________
कुमारपाल ॥ ६७ ॥
सहोदरया क्रियमाणलवणोत्तारणविधिः त्रयोदशशतकोटित्रत भङ्गसुभगजन्य लोक परिवृतः श्रीदेवगुरुभक्तिदेशविरतिजानिनीभिर्गीयमानधवलमङ्गलः क्रमेण प्राप्तः पौषधागारद्वारतोरणे पञ्चविधस्वाध्यायवाद्यमानातोयध्वनिपूरे प्रसर्पति विर तिश्वश्वा कृतप्रोङ्खणाचारः शमदमादिशालकदर्शित सरणिर्मातृगृहमध्यस्थितायाः शीलधवलचीवरध्यानद्वय कुण्डलनवपदीहारतपोभेदमुद्रिकाद्य लङ्कृतायाः कृपासुन्दर्याः संवत् १२१६ मार्गशुदिद्वितीयादिने पाणिं जग्राह श्रीकुमारपालमहीपालः श्रीमदर्हद्देवतासमक्षम् । ततः श्री आगमोक्त श्राद्धगुणप्रगुणितद्वादशव्रत कलशावलिं विचारचारुतोरणां नवतत्त्वनवाङ्गवेदीं कृत्वा प्रबोधाग्निमुद्दीप्य भावनासर्पिस्तर्पितं श्रीमाचार्यो भूदेवः सवधूकं नृपं प्रदक्षिणयामास “ चत्वारि मंगलं " इति वेदोच्चारपूर्वम् ॥ ततः
जामात्रे ददिवान् धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यदीर्घायुर्वलसौख्यान्यनेकशः ॥ १ ॥ एवं महेन संपूर्णे, पाणिग्रहणमङ्गले । प्रणमित्रांसं राजाप, सूरिराजोऽन्वशादिति ॥ २ ॥ या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्यैर्नृपैः, कन्यां तां परिणायितोऽसि नृपते ! त्वं धर्मभूमीशितुः । अस्यां प्रेम महद्विधेयमनिशं खण्ड्यं च नैतद्वचो, यस्मादेतदुरुप्रसङ्गवशतो भावी भृशं निर्वृतः ॥ ३ ॥
ततः श्रीकुमारभूपः स्वसदनं प्राप्य विधिना कृपासुन्दरीदेव्याः पट्टवन्धं व्यधात् । तां च सर्वप्रकारैः प्रीतिकारिणीं पश्यन् स्वात्मानं दारवन्तं तयैव मेने कृतज्ञशिरोमणिः श्रीराजर्षिः । अथैकदा प्रियमतिप्रीतं प्रेमपरवशं च ज्ञात्वोवाच धर्मनन्दिनी, हे प्रियतम ! स्थापय पुनः स्वस्थाने मे जनकम्, मोहं जिला पूरयास्मन्मनोरथांश्च । सतां हि
प्रबन्धः ।
॥ ६७ ॥
Page #141
--------------------------------------------------------------------------
________________
CALCOMME
प्रतिपन्नं मेरुचूलासहोदरम् । यतः___ "जं जस्स कयं जं जस्स जंपियं जं च जस्स पडिवन्नं । तं पालंति तह च्चिय, पत्थररेह व सुयणजणा ॥१॥"तथा
"प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः ।
विघ्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥१॥" प्रियाप्रणयवाणीश्रवणप्रोत्साहितः श्रीचौलुक्यो युद्धवीरतामात्मन्याविर्भावयन् श्रीधर्मभूपेन समं विमृश्य प्रारब्धवान् मोहं प्रत्यभिषेणनोद्योगम् । आकारितः सद्ध्यानसेनाध्यक्षः। सजीकारितान्तरङ्गचतुरङ्गसेना । बादिता जैनेश्वरवाणी-1 संग्रामभेरी । मिलन्ति स्म सर्वतो यमनियमादिभटाः । प्रक्षरिताः पवनवेगाः शुभाध्यवसायतुरगाः । गर्जन्ति स्म स्थैर्यधैर्यास्तिक्यानेकानेकपाः । प्रस्थितः शुभवेलायां विजययात्रोचितवेषभृद् जिनाज्ञावज्रशीर्षको नवगुप्तिगुप्ताङ्गः सत्त्व-18 खगब्रह्मास्त्रमूलोत्तरगुणवाणप्रगुणितार्जवावर्जितधनुरादिषटत्रिंशत्प्रहरणदुर्लक्ष्यः श्रीहेचामार्यकृतरक्षाविधिः विंशतिवीतरागस्तवान्तर्धानकारिगुटिकार्पणजातमोहजयनिश्चयः श्रीधर्मशमदमविवेकादिमहासुभटविकटमूर्तिजगदजेयमनोजयगजा-| धिरूढः श्रीचौलुक्यः प्राप्तः काऽपि मोहराजासन्ने प्रदेशे। निवेशितः स्कन्धावारः। प्रेषितश्च ज्ञानदर्पणनामा दूतः।। अज्ञानराशिप्रतीहारेण नीतोऽसौ मोहराजपदि । दृष्टो मोहराजकुञ्जरः । स चैवम्
"क्रूराचारचतुष्कपायचरणो मिथ्यात्वकायस्थिती रौद्रााध्यवसायलोचनधरो मीनध्वजोद्यत्करः। रागद्वेषरदाङ्करो भववनकोडे परिक्रीडतां, केषां मोहमतङ्गजो न तनुते वैधुर्यधुर्य मनः॥१॥"
RCCC
Jain Education international
For Private Personel Use Only
Page #142
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ६८ ॥
2x
पार्श्वथे मोहनृपमन्त्रिणा कदागमेन, भो दूत ! कस्त्वं ? केन च प्रहितः ? किमर्थं ? चेत्युक्ते ज्ञानदर्पणः प्राह, हंहो मोहमन्त्रिन् ! ज्ञानदर्पणाह्वयः श्रीचौलुक्यचक्रवर्तिनाऽभ्यमित्रीणनृपश्रेणिशिरोमणिना प्रहितोऽस्मि । ज्ञापितं च श्री चौलुक्यसिंहेन, यदुत भो मोह ! त्वयाऽद्य दुष्कलिवलावष्टम्भेन पराभूय निर्वासितः श्रीधर्मनृपतिः, स च न्यायनिष्ठः समाश्रितः सांप्रतमस्मद्राजधानीम् । बहूपकृतश्च श्रीगुरुगिरा । तुष्टेन च श्रीधर्मभूभुजा गुरूपरोधप्रेरितेन दत्ता कृपासु न्दरी निजसुता श्री कुमारभूमीभुजे । जातः संबन्धवन्धः । संप्रति तु शरणागतवज्रपञ्जर आश्रितवत्सलश्च समीहते श्वशुरं स्वराज्येऽभिषेक्तुं कृतज्ञचूडामणिः श्रीचौलुक्यकुलपर्वतः । संप्राप्त एव त्वामभिषेणयितुं ससैन्यश्रीधर्मसहायः श्री चौलुक्यस्त्वत्पुरासन्ने । तस्मात्तत्रागत्य तदाज्ञामाल्यसुरभितं कुरु स्वशिरः । तदनु श्रुत्वैतन्मोहमहाराजो मुखमोटिकापूर्व प्राह रे दूत ! वाचाट किमेवं प्रलपसि ? कोऽयं पुंष्टिट्टिभः कुमारपालः ? यदेवं निर्वासितवराकधर्मनृपाधमप्रेरितो मां त्रिभुवनागञ्जेयपराक्रममभिभवितुमभिवाञ्छति । न खलु सकलत्रिभुवनाभोगाक्रमणालङ्कमणप्रतापवैभवः श्रीमोहभूमीपालः परोल क्षैरपीदृशैर्नृपकीटकैर्भापयितव्यः । रे दूताधम ! याहि ज्ञापय स्वराज्ञे समागत एव मोहः । ज्ञानदर्पणः प्रोचे, रे मोह ! नृपपाश ! किमेवं गर्जसि ? शृणु -
"यस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तत्र वल्लभं निजपुराद्देशाच्च निर्वासितं द्यूताद्यं विटपेटकं शितिमुखं तत्किं मुधा गर्जसि ? ॥ १ ॥” मोहराजः पुनरूचे, रे दूतः -
प्रवन्धः ।
॥ ६८ ॥
Page #143
--------------------------------------------------------------------------
________________
*
*
असौ धर्म परं केन, मुखेन प्राप्तवानिह । यो मया क्लीववच्चक्रे, स्थानभ्रष्टो निजौजसा ॥१॥ वर्षीयस्त्वात्पुरो जीवन्मुक्तोऽयं सांप्रतं मया । करिष्यते रणमुखे, निश्चितं प्रथमाहुतिः॥२॥ युक्तं धर्मोऽतिवृद्धत्वाजज्ञे मरणसंमुखः। परं परार्थं त्वद्भूपः, किं मुमूर्षति मूर्खवत् ॥ ३ ॥ हुँ ज्ञातं धमनन्दन्या, प्रेरितस्तातसंपदे । म्रियतेऽयं हहा! योषिद्वश्यानां कियती हि धीः॥४॥ ___मत्करण मर्तव्यमेभिरिति विधिलिपिसत्यीकरणायायात एवाहं त्वत्पृष्ट एव । त्वमपि स्वस्वामिनं धर्म च रणोत्संगे दर्शयेः। इत्यादिनिर्भसितः समायातो ज्ञानादर्शो नृपपाचँ । मोहोऽपि दुर्ध्यानसेनान्यादिवृतो मात्सर्याभेद्यकवचधारी दुष्कृत्यप्रमादास्त्रपरंपराभासुरो नास्तिक्यद्विपारूढः कुशास्त्रवादित्रध्वनित्रासितानेकलोकः क्रोधादिभटकोटिरक्षितः समायातः श्रीचौलुक्यसेनासन्ने । निवेशितं सैन्यम् । आहूय प्रोत्साहिता रागकेशरिप्रमुखा एवं वदन्ति स्म । तथाहि रागः18 अहो! जाग्रति मयि को धर्मः! कः कुमारपालः? यतः
“अहिल्यायां जारः सुरपतिरभूदात्मतनयां, प्रजानाथोऽयासीदभजत गुरोरिन्दुरवलाम् । इति प्रायः को वा न पदमपदे कार्यत मया, श्रमो मदाणानां क इव भुवनोन्मादिविधिषु ॥१॥"
इत्युक्ते क्रोधः"अन्धीकरोमि भुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति, धीमानधीतमपि न प्रति संदधाति ॥१॥"
*******
en Education Inter
For Private Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
कुमारपाल ॥ ६९ ॥
Jain Education
अत्रान्तरे लोभदम्भाभिमानादयो भुजास्फोटाटोप कोलाहलाकुलमिलामण्डलं कुर्वाणा गर्जन्ति स्म । श्रीचौलुक्यसिंहोऽपि ज्ञानदर्पणादवगतसमप्रवैरिबलप्रोत्साहोत्तेजितात्मा तृणमात्रं मोहभूपं गणयन् निजसैन्यं विनाऽपि मोहं जिगीषुः श्रीगुरुप्रसादितवज्रकवचं परिधायान्तर्द्धानकारिविंशतिवीतरागस्तव रूपदिव्य गुटिकाश्चोपयुज्य सहजान्तर्द्धानपाटवपटुश्रीमदार्यधर्मराजामात्यपुण्य केतु ज्ञानदर्पणादिस्वल्पसहायः सैन्यप्रच्छन्नवृत्त्या प्रतस्थे प्राप्तश्च क्षणादेव प्रत्यर्थिस्कन्धावारम् । राजा, भो ज्ञानदर्पण ! दर्शय मोहभूमीशाश्रयम्, येन करोमि तं हतप्रतापं हेलया । ज्ञानदर्पणः, देव ! पुरस्तादालोकमात्रादपि कातरनरकृतज्वरमिदं मोहराजसौधम् । इह प्रविश्यते, ततः प्रविष्टाः सर्वेऽपि । स्थिताः प्रच्छन्नवृत्त्या । कियछेलं दृष्टो मोहराजः परितः परिवारश्च । श्रुतास्तदुल्लापा एवम् । तथाहि मोह :
“पुंस्कीटः किल कोsपि तिष्ठति स च श्रीमोहभूमीपतेः, प्राप्तो वैरिपदं रणाय हतको निःशङ्कमुत्तिष्ठते । दोर्दण्डात्रिजगद्विलुण्टन कलाशौण्डास्तदेतच्चिरा हुर्बुद्धेरसमञ्जसं व्यवसितं दैवस्य रे ! पश्यत ॥ १ ॥" अत्र पापत्वमात्यः, हे देव ! मनुष्यमात्रमिति माऽवमंस्था जगदेकवीरं श्रीचौलुक्यनृपतिं पश्य पश्य"अवातरद्धरापीठे, जनस्य सुकृतोदयात् । भावितीर्थङ्करः कोऽपि, रूपेणास्य महीपतेः ॥ १ ॥ ” मोहः सक्रोधम् - "वज्राग्निदेव क्षपिताः, यत्प्रतापेन भूभृतः । मोहः सोऽहमहो ! कष्टं शृणोम्यरिपराक्रमान् ॥ १ ॥” इति वदन् कोपवशान्मोहः समादाय खड्गमासनादुत्थाय च अरे ! वाऽसौ दुरात्मा मद्वैरिपोषकः । अत्रान्तरे रागसूनुः, तात ! किमिदमस्थानक्लेशवैशसं मयैव ननु विद्धि सिद्धमरिवधकार्यम् । यतः -
प्रवन्धः ।
॥ ६९ ॥
Page #145
--------------------------------------------------------------------------
________________
"गर्जद्गजेन्द्रभ्रमतः पयोदवृन्देऽपि यः सज्जयति क्रमं स्वम् । दृग्गोचरं तस्य गता मृगारेः, किमक्षता याति कुरङ्गजातिः॥१॥"
द्वेषः-देव! मर्त्यमात्रतपस्विनि कथं महान् संभ्रमः? किं न विदितमात्मसूनोविक्रमललितम् । यतः"दन्ताग्रपातैर्महतो महीध्रान् , समूलका कषति क्षितौ यः । क्षुद्रुमोन्मूलनमात्रमस्य, न पूरयेत्केलिमपि द्विपस्य ॥१॥
इत्यादिना परेष्वपि निवारयत्सु मोहराजः प्रोचे, किंबहुनाक्षुद्रक्ष्मापतिकोटिकीटपटली कुड्डाकदोर्विक्रमाऽऽध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गस्त्रीगणगीतविक्रमगुणः कर्ताऽस्मि निष्कण्टकं, साम्राज्यं भुवनत्रयेऽपि नितमामेकातपत्रं पुनः॥१॥ धर्मः-दुरात्मन् ! विफलमनोरथो भूयाः, पुण्यप्रतिहतममङ्गलम् । ज्ञान:-सर्वथा शासनदेवताः कुर्वन्तु रक्षां राजर्षेः । राजा अवसरप्राप्तोपसर्पणोऽयं कलितशस्त्रः संप्रति मोहभूपः । अप्रहरणं ह्यशस्त्रे कुलव्रतं खलु चौलुक्यानामिति विचिन्त्य मुखाद्गुटिका आकृष्य प्रकटीभूय च जगाद, रे रे दुरात्मन् ! कश्मलाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहं यमात्तशस्त्रस्त्वमन्विष्यसि । शृणु
एषोऽहं भुवनोपकारकरणव्यापारवद्धादरो, हारस्फारमरीचिसोदरयशस्कामो रिपोनिग्रहात् । सोऽहं मोहममुं कृतान्तनगरं नेष्यामि वः पश्यतां, रे रे पञ्च शरादयः ! कृतदयास्त्रायध्वमात्मप्रभुम् ॥१॥ राजानमुदायुधं दृष्ट्वा पलायिता रागादयः । मोहः सक्रोधं-अरे रे ! मनुष्यकीट ! चिरादन्विष्यता प्राप्तोऽसि | तदेष न भविष्यसि । श्रीचौलुक्यः साक्षेप-अपसर रे दुरात्मन् ! परिवारवन्नश्यन्न निवार्यसे, नो चेदमुना ब्रह्मास्त्रेण
CARENCREASONICORRACK
For Private & Personel Use Only
Page #146
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
COCOCCCCCCCCESCORCAMER
यमातिथी कार्य एव । मोहः
रागद्वेषमनोभवप्रभृतयस्तिष्ठन्तु वा यान्तु वा, किं तैनोम न मे क्वचित् परमुखप्रेक्षी जयाडम्बरः । एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययं, शस्त्रैर्निस्त्रपनश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ॥१॥
चौलुक्यःअस्त्रं शीघ्रमरे! विमुश्च समरे त्वं याहि चेजीवितुं, वाञ्छस्यत्र तवैव नश्यति जने शस्त्रं न मे वल्गति । नो चेदेतदकाल एव भविता संग्रामसीमाङ्गणं, प्रत्यौः प्रतिपक्षपक्ष्मलदृशां नेत्राम्बुभिः पङ्किलम् ॥१॥ मोहःदृष्टः पूर्वमहं त्वया न कथमप्युच्चैरभाग्योदयात् , तत्किं न प्रसभं श्रुतोऽप्यरिवधूवैधव्यदीक्षागुरुः । येनैवं पुरगोपुरैकसुहृदा वक्रेण वलगन्नलं, धत्से सुप्तमृगारिजागरविधि स्वं हन्तुमेव स्वयम् ॥१॥ अरे मोह ! किमेवंविधवाग्डम्बरमात्रमातनो मुञ्च मुञ्च प्रथम प्रहारं दत्तोऽयं तवाऽवकाशः। अप्रहरत्सु प्रहरणकलाकुशला न खलु चौलुक्याः ॥ शृणु किञ्च प्रतिज्ञां मे, जित्वा त्वां प्रधनेऽधुना । धर्म चेत्स्थापयेद्राज्ये, तदाऽहं वीरकुञ्जरः ॥१॥ तन्निशम्य भृशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वर्षितुं लग्नो, जलानीव पयोधरः ॥२॥राजाऽपि प्रत्यस्वैस्तानि निराकृतवान् । एवं रणोत्सवे श्रीराजर्षिब्रह्मास्त्रमादाय यावन्मोहं निपातयति तावत्
तैस्तैः शस्त्रैरमोघैः स्वजनधनवधूसङ्गसाम्राज्यमुख्यैः, कुण्ठीभूतभर्तुः पविमयकवचं बिभ्रतो यौगमङ्गे। मुक्त्वा लजां रणं च द्विप इव सहसा सिंहनादेन दैन्याद्गीर्वाणैश्यमानः सदयमयमपक्रान्तवान् मोहराजः॥१॥
G
॥७
॥
For Private & Personel Use Only
Page #147
--------------------------------------------------------------------------
________________
SANSKRISHABAR
सर्वे सहर्ष प्रियं नः सहसोपसृत्य जयतु श्रीराजर्षिः। सम्यग्दृष्टिदेवाः पुष्पवृष्टिं व्यधुः । सर्वत्र जयजयारवः । श्रीपर-15 माहतो धर्मराजं प्रणम्योवाच, हे श्रीधर्मभूमीन्द्र ! त्वदनुग्रहान्निस्तीर्णप्रतिज्ञोऽस्मि तदलङ्कुरु स्वराजधानी निर्मलमनोवृ-I त्तिमिति विज्ञप्तः परमां मुदमधिगतः सन् श्रीधर्मोऽपि स्वराज्यपदवीमारोपितः प्राह श्रीकुमारभूपम् , राजन् ! भूयः| किं ते प्रियं करोमि ? । श्रीचौलुक्यः
निर्वीराधनमुज्झितं विदलितं द्यूतादिलीलायितं, देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी । ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्संगमात् , तीर्णः सङ्गरसागरः किमपरं तत्स्याद्यदाशास्महे ॥१॥
तथाऽपीदमस्तुश्रीश्वेताम्बरहेमचन्द्रवचसा पात्रे मम श्रोतसी, श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः । त्वत्पुच्या कृपया समं परिचयो योगस्त्वया सर्वदा, भूयान्मे भुवने यशः शशिसखं मोहान्धकारच्छिदे ॥१॥ एवं श्रीधर्मभूपं स्वराज्य निवेश्य धर्मशालायामागत्य वन्दिताः श्रीगुरुपादाः। विज्ञप्तः सर्वोऽपि मोहविजयश्रीधर्मस्थापनादिवृत्तान्तः । श्लाघितश्चेत्थम् । यथा
सत्पात्रं परिचिन्त्य धर्मनृपतिस्तुभ्यं स्वपुत्रीं ददौ, तद्योगात्त्वमजायथास्त्रिभुवने श्लाघ्यप्रियासङ्गमः । स्मृत्वाऽस्योपकृतिं निहत्य च रिपुं मोहाख्यमत्युत्कटं,राज्येऽप्येनमधाः कृतज्ञ ! सुचिरं चौलुक्य ! नन्द्यास्ततः॥१॥ इति श्रीगुरुदत्ताशीर्वादमुदितमनाः स्वसौधमलङ्कृतवान् । तदनु स्वजनकराज्यस्थापनवरिमोहमारितिरस्कारसततात्मा
Jan Education
For Private 3 Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
कुमारपालज्ञाकारितादिगुणसंपत्तोषितया प्रतिदिनप्रवर्द्धमानप्रेमप्रकर्षातिशयया कृपासुन्दरीदेव्या सह निस्सीमसौख्याम्बुधिमग्नो प्रबन्धः
धर्मसाम्राज्याद्वैतमयं विश्वं चकार । अथैकदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सभायामायातः । कृतप्रणामः पृष्टो राज्ञा, भोः! कुतः कस्त्वं समागतः ? । तेनोक्तम् , देव ! देवेन्द्रेण प्रेषितोऽस्मि युष्मदन्तिके लेखसमर्पणाय इत्युक्त्वा लेखमर्पितवान् । सभायां लेखः प्रस्फोट्य वाचितः । यथा
स्वस्तिश्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिन् ! त्वया सत्कृतम् ।
चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपतेर्विष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता ॥१॥ तस्य राजा लक्षं पारितोषिकमदात् । श्रीसूरिपार्चे पुनर्वाचितः । एवं नानावदातोद्भूतयशः कपूरपूरसुरभितभुवनाभोगः कुमारनृपतिरथैकदा सुराष्ट्रादेशीयं समरनामानं नृपं विग्रहीतुं श्रीमदुदयनमन्त्रिणं सेनानायकं कृत्वा सकलसाम|न्तकटकबन्धेन प्राहिणोद्राजा । स तु पादलिप्तपुरे वर्द्धमानं नत्वा श्रीयुगादिदेवं निनंसुः पुरःप्रयाणकाय समग्रसामन्तानादिश्य स्वयं शत्रुञ्जये जगाम । विशुद्धश्रद्धामहोत्सवैः स्नात्रपूजाऽऽरात्रिकादिकं विधाय श्रीजिनावग्रहाद्वहिः स्थित्वा तृतीयनैषेधिकी कृत्वा चैत्यवन्दनां यावद्विधत्ते तावत्प्रदीपवर्तिमादायोन्दुरः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गा चकै-16 स्त्याजितः । तदनु मन्त्री स्वसमाधिभङ्गकाष्ठप्रासादापायसंभावनादिदूनो ध्यातवान् ॥ धिगस्मान् क्षितिपापार-व्यापारैकपरायणान् । जीर्ण चैत्यमिदं ये न, प्रोद्धराम क्षमा अपि ॥१॥ नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः । तान्8 धूलिधावकेभ्योऽपि, मन्येऽधमतरान्नरान् ॥२॥ तया श्रिया च किं श्माप-पापव्यापारजातया । कृतार्थ्यते न तीर्थादौ,
॥ ७१ ॥
in Education Inter
na
For Private & Personel Use Only
Page #149
--------------------------------------------------------------------------
________________
या निवेश्याधिकारिभिः॥३॥ ईगुच्चैः पदं नीतः, श्रियाऽहमनया यदि । तदा ममाऽपि युक्तेयं, तन्नेतुं तीर्थरोपणाता
॥४॥ इति ॥ तदनु जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनताम्बूलत्यागाद्यभिग्रहान् जग्राह । तत: हा उत्तीर्य कृतप्रयाणः स्वं स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरे संजायमाने स्वसैन्ये भग्ने स्वयं संग्रामरसिको वैरिबलं दारयन् रिपुमहारजर्जरितोऽपि मन्त्री वाणेन समरं निहत्य तल्लक्ष्मी सहादाय तत्सुतं तत्र तत्पदे निवेश्य पश्चादलितः।मार्गे वैरिप्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनायुपचारैः प्राप्तसंज्ञः सकरुणं क्रन्दन् सामन्तैः पृष्टः स्वमनसः शल्य-13
चतुष्टयं प्राह-आम्बडस्य दण्डनायकत्वम् १, श्रीशत्रुञ्जये पाषाणमयप्रासादनिर्मापणम् २, श्रीरैवताचलनवीनपद्यानिर्माप-16 पणम् ३, निर्यामकगुरुं विना मृत्युः ४ इति । ततः सामन्ताः-आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति । अत्रार्थे वयं
प्रतिभुवः। आराधनार्थ साधुमानयाम इत्युक्त्वा कमपि वण्ठं साधुवेषधरं कृत्वाऽग्रे चानीय समागता गुरव इति मन्त्रिणे कथयामासुः॥ मन्त्री-तं गौतममिवानम्य, क्षमयित्वाऽखिलाङ्गिनः । निन्दित्वा दुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ सम्यक्त्वं पुनरुज्ज्वाल्य, तद्दोषोन्मार्जनाजलैः। भावनाभावितः स्वर्गममात्योदयनोऽगमत् ॥२॥ यतः
"जिने वसति चेतसि त्रिभुवनैकचिन्तामणौ, कृते त्वनशने विधौ सकललोकबद्धाञ्जलिः।
समस्तभवभावनाप्रतिकृतिं समभ्यस्य तां, स चान्त्यसमयः सतां क्वचिदुपैति पुण्येऽहनि ॥१॥" वण्ठस्तु अहो ! मुनिवेषमहिमा, यदहं भिक्षाचरोऽपि सर्वलोकपराभवपात्रं जगद्वन्द्येन मन्त्रिणा वन्दितः, तदयं भावतोऽपि मे शरणमिति निश्चित्य श्रीरैवते पष्टिक्षपणैर्देवभूयं जगाम । तेऽपि सामन्ताः पत्तने श्रीचौलुक्याय वैरिलक्ष्म्यादि।
For Private & Personel Use Only
Page #150
--------------------------------------------------------------------------
________________
कुमारपाल दप्राभृतीकृत्य श्रीउदयनामात्यवीरव्रतादि निवेद्य राज्ञा सह बाहडाम्बडगृहे गत्वा तयोः शोकमुत्तार्य प्रोचुः॥ युवां यदि प्रवन्धः ।
पितुर्भक्तौ, धर्ममर्मविदावपि । उद्भियेथां तदा तीर्थे, गृहीत्वा तदभिग्रहान् ॥१॥ ऋणमन्यदपि प्रायो, नृणां दुःखाय ॥ ७२॥
जायते । यद्देवस्य ऋणं तत्तु, महादुःखनिबन्धनम् ॥ २॥ स्तुत्याः सुतास्त एव स्युः, पितरं मोचयन्ति ये । ऋणाद्देवऋ-15 णात्तातं, मोचयेथां युवां ततः॥ ३ ॥ सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरन्तस्तनयाः, निन्द्यन्ते शनिवजनैः॥४॥ इति तद्वचोऽमृतैरुल्लासितौ बाहडाम्बडावेकैकमभिग्रहं जगृहतुः । श्रीवाहडेन निजापरमातृकाम्बडबन्धवे । दण्डनायकपदं दापितम् । स्वयं राजाज्ञामादाय रैवतके त्रिषष्टिलक्षद्रव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताऽक्षतमार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थौ । मेलिता अनेके सूत्रधाराः । चैत्योद्धारं श्रुत्वा समायाता बहवो व्यवहारिणः स्वलक्ष्मीव्ययेन पुण्यविभागलिप्सया । तदवसरे च टीमाणकवास्तव्यो भीमः कुतपिकः पद्रम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिक द्रम्ममर्जयत् । रूपककुसुमैः श्रीनाभेयं मनोरङ्गेण पूजयित्वा पश्चादायातः कटकान्तरितस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणं पटमण्डपासनस्थमनेककोटीश्वरव्यवहारिश्रेणीसेव्यमानं दौवारिकैरी क्रियमाणोऽपि दृष्टवान् दध्यौ च-अहो! मर्त्यतया तौल्यमस्य मेऽपि गुणैः पुनः। द्वयोरप्यन्तरं रत्नोपलयोरिव हा! कियत् ॥१॥श्रीयतेऽयं श्रियाऽश्रान्तं, पुरुषोत्तमविभ्रमात् । तदीय॑येव श्रीयेऽहमलक्ष्म्या पुरुषाधमः॥२॥ स्वकीर्तिस्पर्द्धयेवाऽयं, मन्त्री विश्वोदरम्भरिः। अहं तु हतको नाऽस्मि, स्वनिर्वाहेऽपि शक्तिमान ॥३॥ महान्तोऽपि स्तुवन्त्येनं, दानमानवशीकृताः । दारिद्रयोपद्रवोद्विग्नाः, स्तौति मां मत्प्रियाऽपि न ॥४॥ एता
ACCOLORCAMRURMER
CLASARAM
Jan Education Internatione
For Private Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
दृक्षं महातीर्थमप्युद्धर्तुमयं क्षमः । न कायमानमप्यस्मि, नवीकर्तुमहं सहः ॥५॥ अयमेव ततो मन्त्री, मन्ये पुण्ये निद-12 र्शनम् । ईदृग् लीलायितं यस्य, चक्रवर्तिविजित्वरम् ॥६॥ इति ध्यायन् भीमो द्वाःस्थैर्गलहस्तितो मन्त्रिणा दृष्ट |आकार्य पृष्टश्च । भीमेनापि घृतविक्रयलाभपूजादि कथितम् । ततः-धन्यस्त्वं निर्धनोऽप्येवं, यो जिनेन्द्रमपूजयत् ।।
धर्मबन्धुस्त्वमसि मे, ततः साधर्मिकत्वतः ॥ १ ॥ इति समग्रव्यवहारिसमक्षं स्तुत्वा स्वार्द्धासने बलादुपवेशित|श्चिन्तयति, अहो ! जिनधर्ममहिमा जिनार्चनलीलायितं यदहं दरिद्रशिरोमणिरपि मानितः । तस्मिंश्चावसरे स्थू
ललक्षाः साधर्मिका ऊचुः__ प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! । बन्धूनिव तथाऽप्यस्मान् , पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्रादयोऽपि वश्यन्ते, कदाचित् क्वापि धार्मिकः । न तु साधर्मिका धर्मस्नेहपाशनियन्त्रणात् ॥२॥ __ ततोऽस्मद्धनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैमन्त्री तेषां नामानि लेखयामास वहिकायाम् । भीमोऽपि दध्यौ यदि सप्त द्रम्मा ममापि तीर्थे लगन्ति तदा कृतार्थो भवामि, परं स्तोकत्वाद्दातुं न शक्नोमि । मन्त्रिणाऽपि तदिङ्गिताकारनिपुणेन वादितः, भो साधर्मिक ! देहि त्वमपि यदि दित्सा अत्र तीर्थे विभागो महद्भाग्यलभ्य इत्युक्तः सप्तद्रम्मान् ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेभ्यनामोपरि लिखितम् । एतदृष्ट्वा व्यवहारिणो विच्छायवक्रा मन्त्रिणा प्रोक्ताः कस्मादेवं क्रियते ? अनेन गृहसर्वस्वं दत्तम् , युष्माभिस्तु शतांशमात्रमपि न । यदि सर्वस्वं दीयते तदा भवतां सर्वोपरि नाम स्यात् , इति मन्त्रिवचसा मुदिता लजिताश्च । अथ मन्त्रिणा दीय
Join Education International
For Private Personal Use Only
.
Page #152
--------------------------------------------------------------------------
________________
प्रबन्धः
-
कुमारपालमानं पञ्चशतद्रम्मपट्टकूलत्रयं कोटि कः काणकपर्दव्ययेन गमयतीति निषिध्य गृहं जगाम पत्नीपिशाच्याऽविभ्यत् ।
तदा च पल्यपि प्रियंवदा प्रियवाक्यैस्तं तोषितवती । कथितः सर्वोऽपि वृत्तान्तः । पत्नी प्राह, भव्य ॥७३॥
कृतं यत्तीर्थे भागो गृहीतः । भव्यादपि भव्यं तत् यन्मन्त्रिदत्तं नाग्राहीति । अथ धेनोः स्थाणुन्यासाय भूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्कककलशो लब्धः। अहो! पुण्योदयोऽद्य ततोऽयमपि कलशः पुण्ये दीयत इति विचिन्त्य भार्याया अनुमत्या कलशं लात्वा मन्त्रिणमुपस्थितः । तत्स्वरूपं निवेद्य तीर्थोद्धाराय तं कलशं ढोकयामास । मन्त्री न गृह्णाति परकीयमिदं कथं गृह्यते ? इति ज्ञापनापूर्वम् । बलादीमो दत्ते । एवमाग्रहे रात्रिरजायत। रात्रौ कपर्दियक्षः प्राह, भो भीम ! येन भवता एकरूपकपुष्पैः प्रथमजिनोऽपूजि तेनाहं तुष्टो निधिर्मया दत्तः। तदिमं निर्विश स्वैरं त्वम् , इत्युक्त्वा तिरोभूतो यक्षः। भीमोऽपि प्रातरेतन्मन्त्रिणे ज्ञापयित्वा स्वर्णरत्नपुष्पैः प्रथमदेवमभ्यय निधिं लात्वा गृहागतो महेभ्यवत्पुण्यपरो बभूव । अथ सुमुहर्ते काष्ठचैत्यं दूरीकृत्य हिरण्यमयीं वास्तुमूर्ति भूमौ विधिनाऽधो न्यस्य खरशिलान्यासादिपूर्व वर्षद्वयेन पापाणचैत्यं संपूर्ण समजायत । व पनिकादातुात्रिंशत्स्वर्णजिह्वादानम् । यतः
"भवन्ति भूरिभिर्भाग्यधर्मकर्ममनोरथाः । फलन्ति यत्पुनस्तेऽपि, तत्सुवर्णस्य सौरभम् ॥१॥" एवं हर्षोत्सवे पुनर्द्वितीयपुरुषेण देव ! प्रासादो विदीर्णः केनाऽपि हेतुना इत्याह । तस्यापि द्विगुणा व पनिका दत्ता। पार्श्वस्थैः किमेतत् ? इति पृष्टे मन्त्री प्राह, अस्मासु जीवत्सु चेद्विदीर्णस्तदा भव्यं जातं पुनरपि वयमेव | द्वितीयोद्धारं कारयिष्याम इति । यतः
॥ ७३ ॥
-
Jain Education
a l
Page #153
--------------------------------------------------------------------------
________________
" प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः ।
विघ्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १ ॥”
ततः पृष्टाः सूत्रधाराः केन हेतुनाऽयं प्रासादो विदीर्णः ? इति । तैर्विज्ञप्तम्, श्रीमन्त्रिराज ! सम्भ्रमप्रासादे पवनः | प्रविष्टो न निर्यातीति स्फुटनहेतुः । भ्रमहीने तु प्रासादे क्रियमाणे कारयितुः सन्तानाऽभाव इति । ततो मन्त्री - सन्तानः सुस्थिरः कस्य, स च भावी भवे भवे । सांप्रतं धर्मसन्तानः, एवास्तु मम वास्तवः ॥ १ ॥ किं च तीर्थसमुद्धारकारिणां भववारिणाम् । भरतादिमहीपानां पङ्कौ नामास्त्वनेन मे ॥ २ ॥ इति विमृश्य निस्सीम श्रीधर्मवीरेण मन्त्रिणा भ्रमभि* त्योरन्तरालं शिलातिनिचितं विधाय वर्षत्रयेण कारितः श्रीजीर्णोद्धारः ॥ त्रिलक्षै रहितास्तिस्रः, कोट्यो द्रव्याणि मन्त्रिणः । कर्मस्थाये तु लग्नानि वदन्त्येवं चिरन्तनाः ॥ १ ॥ यदुक्तम्
"लक्षत्रयी विरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १ ॥”
अथ प्रतिष्ठार्थं श्रीमाचार्यान् ससङ्घानाकार्य महामहोत्सवैः संवत् १२११ वर्षे शनौ सौवर्णदण्डकलशध्वजान् प्रतिष्ठाप्य प्रासादे न्यवेशयत् । तत्र च देवपूजाकृते चतुर्विंशत्यारामान् चतुर्विंशतिग्रामांश्च दत्त्वा तलहट्टिकायां च बाहडपुरं निवेशितवान् । तत्र त्रिभुवनपालविहारः श्रीपार्श्वप्रतिमाऽलङ्कृतः कारितः । एवं लोकोत्तरचरितावदातैः प्रीणिताः श्रीहेमाचार्या वाग्भटमन्त्रिणमूचुः -
Page #154
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ७४ ॥
Jain Education
जगद्धर्माधारं सगुरुतरतीर्थाधिकरणस्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः ।
तदावासश्चैत्यं सचिव ! भवतोद्धृत्य तदिदं समं स्वेनोदध्रे भुवनमपि मन्येऽहमखिलम् ॥ १ ॥ एवं सकलश्रीसङ्घैः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीकुमारपालनृपं तदुदारकृत्यैरानन्दयामास || अथ विश्वविश्वैकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्री भृगुपुरे श्रीशंकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापुरे नर्मदासान्निध्याद कस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गी निस्सीम तत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः । का त्वम् ? इत्यपृच्छत्, अहमस्य क्षेत्रस्याधिष्ठात्री तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ॥ स्तुत्यस्त्वं वीरकोटीर !, यस्येदृक् सत्त्वमुत्कटम् । नोचेज्जने घनेऽप्येवं, मृते त्वद्वत्रियेत कः ? ॥ १ ॥ एते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्नकार्यः । कुरु स्वकार्यमित्याद्युक्त्वा देवी तिरोऽधत्त । मत्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः । ततो देवीनां भोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधादिमूर्तयश्च लेप्यमय्यः कारिताः ॥
विक्रमाद्व्योमनेत्रार्कवर्षे १२२२ हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमम्बडः ॥ १ ॥
प्रतिष्ठार्थं श्रीकुमारपालनृपहेमाचार्य सकलश्रीसङ्घानामाकारणम् । महामहैः श्रीसुव्रतप्रतिष्ठा मल्लिकार्जुनकोशीयश्री कुमारपालप्रसादितद्वात्रिंशत्स्वर्णघटीमित कलश है मदण्डपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कपवेशात्प्रासादमूर्ध्नि चटित्वा स्वर्णरलोत्करान् ववर्ष ॥
प्रबन्धभ
॥ ७४ ॥
jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
निरीक्षिता पुराऽप्यासीदृष्टिर्जलमयीजनैः । तदा तु ददृशे क्षौमस्वर्णरत्नमयी पुनः ॥ १ ॥
टुर्विष्टष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद्याचकानां तनौ ।
भाले तेन निवेशितामतिदृढां दारिद्रयवर्णावलीं, दानिन्नात्रभटैष भूरिविभवैर्निर्माष्टि मूलादपि ॥ २ ॥
इत्यादि कविजनैस्तूयमानः प्रासादादवतीर्य श्रीचौलुक्यप्रेरित आम्रभटमन्त्री आरात्रिकादि कर्तुमारेभे श्रीसुव्रतपुरः । तत्र श्रीकुमारपालदेवो विधिकारकः, द्वासप्तति सामन्ताः कनकदण्डचमरधारिणः, श्रीवाग्भटादिमन्त्रिणः सर्वोपस्करसंपादिनः, तदारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे ॥ प्रथमं पृथिवीभत्र, भ्रात्रा सामन्तमण्डलैः । सङ्घाधिपैस्ततश्राद्धैर्मातृभग्नीसुतादिभिः ॥ १ ॥ श्रीखण्डमिश्रघुसृणैर्नवाङ्गार्चापुरःसरम् । भालस्थले मुहुः क्लृप्तभाग्यलभ्यविशेषकः ॥ २ ॥ कण्ठे च रोपिताऽनेकस्मेरसूनचतुःसरः । निरीक्षितमुखाम्भोजो, निस्पृहैरपि सस्पृहम् ॥ ३ ॥ तुरङ्गान् द्वारभ ट्टेभ्यः, शेषेभ्यः कनकोत्करान् । तदभावे परिस्कारान्नर्पयन्निजदेहतः ॥ ४ ॥ धृत्वा कराभ्यां भूपेन, बलादपि विधापि ताम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः ॥ ५ ॥ अत्रावसरे कश्चित् कविः प्राह
द्वात्रिंशद्रम्मलक्षा भृगुपुरवसतेः सुव्रतस्यार्हतोऽग्रे, कुर्वन् माङ्गल्यदीपं स सुरनरवरश्रेणिभिः स्तूयमानः ।
योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां स श्रीमानाम्म्रदेवो जगति विजयतां दानवीराग्रयायी ॥ १ ॥ एतत्पारितोषिके लक्षम् । ततश्चैत्यवन्दनां कृत्वा गुरूंश्च नत्वा साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । यथा द्यूतकारो द्यूतरसातिरेकात् शिरःप्रभृतीन् पदार्थान् पणीकुरुते, तथा भवानपि अतः परं अर्थिप्रार्थितस्त्यागरसाति
Page #156
--------------------------------------------------------------------------
________________
प्रवन्धः
कुमारपाल
रेकात् शिरोऽपि तेभ्यो ददासीति नृपेणादिष्टे सति भवल्लोकोत्तरचरित्रेणोपहृतहृदया विस्मृताऽऽजन्ममनुष्यस्तुतिनियमाः प्रभुश्रीहेमचन्द्राचार्याः प्राहुः। किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः। कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ॥१॥ __ इत्थमाघभटमनुमोद्य गुरु क्षमापती यथागतं तथा जग्मतुः। अथ तत्र गतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवी-| दोषात्पर्यन्तदशां गतस्य प्रच्छन्नविज्ञप्तिकायामुपागतायां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथादृशां देवीनां दोषः संजातः, इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलंकृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवीं देवीमनुनेतुं कृतकायोत्सर्गाः, तया जिह्वाकर्षणादवगणनास्पदं नीयमाना उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पः, द्वितीयप्रहारे दीयमाने देवीमूर्तिरेव स्वस्थानादुत्पत्य वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्षोच्चरन्ती प्रभोश्चरणयोर्निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तरामरीणां दोष निगृह्य श्रीसुव्रतप्रासादमासेदिवांसः॥ __ संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः। किं वाऽस्माकमनोमतङ्गजदृढालानकलीलाजुपस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः॥१॥
x हा इतिस्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पट्रकृत्य यथागतमगुः। श्रीमदुदयनचैत्ये शकुनिकावि-16
हारे राज्ञो घटीगृहे च कौतणनृपतेः कलशत्रितयं न्यास्थत् श्रीमानाम्रभटो राजपितामहः । अथैकदा मार्गिताऽदत्तकाऽपू-|
॥७५॥
Jain Education
Page #157
--------------------------------------------------------------------------
________________
|र्वप्रच्छादवस्त्रनिमित्तसंजाताभिमानवशात् सपादलक्षं प्रति सैन्यं सज्जीकृत्य श्रीवाहडाम्बडानुजन्मा श्रीचाहडनामा मन्त्री दानशौण्डतया भृशं दूषितोऽपि बाढमनुशिष्य श्रीकुमारपालदेवेन सेनापतिश्चक्रे । तेन प्रयाणद्वित्रयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाध्यक्षालक्षद्रव्ये याचिते सति नृपादेशात्तस्मिन्नददाने तं कशाप्रहारेणाहत्य कटकान्निरवासयत् ।। स्वयं यदृच्छादानः प्रीणितार्थिलोकश्चतुर्दशशतीसंख्यासु करभीष्वारोपितैः सुभदैः समं संचरन शीघ्र स्तोकप्रयाणे रात्री |विम्बेरानगरप्राकारमवेष्टयत् । तस्मिन् पुरे तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्ति, इति कुतोऽप्यधिगम्य तद्विवाहार्थ तस्यां निशि स्थित्वा प्रातः प्राकारपरावर्तमकापीत् । तत्र गृहीताः सुवर्णकोट्यः सप्त, एकादशसहस्राणि वडवानाम् , प्राकारं घरट्टैचूणींचकार, इति संपत्तिगी विज्ञप्तिका वेगवत्तरैर्नरैर्नृपं प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीचौलुक्यनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य व्याधुटितः । सप्तशती कलावतां तन्तुवायानामादाय श्रीपत्तनं प्रविश्य राजसभामधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरञ्जितोऽप्येवमवादीत् । तव स्थूललक्षतैव महदूषणं रक्षामन्त्रः नो चेच्चक्षुर्दोषेण ऊर्द्ध एव विदीर्यसे । यं व्ययं भवान् कुरुते तादृक् कर्तुमहमपि न प्रभूष्णुः । स चाहडमन्त्री इति श्रुतनृपादेशो नृपं प्रति तथ्यमेव समादिष्टं देवेन । एवंविधं व्ययं कर्तुं प्रभुन प्रभवति, यतोऽहं स्वामिबलेन व्ययं करोमि । स्वामी तु कस्य वलेन ? अतो मयैवेयद्रव्यव्ययः साधीयान् क्रियते, इति वदन् प्रमुदितेन राज्ञा सत्कृतो राज|संसद्यनयंतां लभ्यमानो राजघरट्टबिरुदं लब्ध्वा नृपतिविसृष्टः स्वं पदं प्रपेदे । तस्य कनीयान् भ्राता स्वकीयौदार्यावर्जि-18 तसमस्तराजवर्गः सोलाकनामा सामन्तमण्डलीसत्रागारमिति बिरुदं बभार ॥
CRECANCIENCECAME
464
For Private & Personel Use Only
Page #158
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
अभियावचनमाकतवास्थितिताना मलम
अथ पुरा सिद्धराजराज्ये पाण्डित्ये स्पर्द्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठामसहिष्णुःयूकालिक्षशतावलीवलवलल्लोलललत्कम्बलो, दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नासावंशनिरोधनागिणगिणत्पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥१॥ इति तदीयममन्दनिन्दावचनमाकर्ण्य प्रभुभिरभिहितं पण्डित ! विशेषणं पूर्वमिति भवता नाधीतम् । अतोऽतः परं| सेवडहेमड इति अभिधेयमिति । कुन्तपश्चाद्भागेन तदाहत्य मुक्तः । श्रीकुमारपालराज्येऽशस्त्रवध इति तद्वृत्तिच्छेदः । कारितः । स ततः परं कणभिक्षया वृत्तिं कुर्वाणः प्रभुपौषधशालायाः पुरतः स्थितोऽनेकभूपतितपस्विभिरधीयमानं श्रीयोगशास्त्रमाकाशठतयाऽपठदिदम्
आतङ्ककारणमकारणदारुणानां, वक्रेषु गालिगरलं निरगालि येषाम् ।
तेषां जटाधरफटाधरमण्डलानां, श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥१॥ इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः । अथैकदा सोमेश्वरपत्तने कुमारविहारे वृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः प्रभोरप्रसादाअष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यक प्रौढिं प्राप्य प्रभून सिषेवे । कदाचिच्चतुर्मासकपारणके प्रभूणां पदयोादशवन्दनादनु
चतुर्मासीमासीत्तव पदयुगं नाथ ! निकषा, कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् । इदानीमुद्भिद्यन्निजचरणनिलोठितकले !, जलक्लिन्नरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥१॥
॥७६n
For Private & Personel Use Only
Page #159
--------------------------------------------------------------------------
________________
| इति विज्ञपयन् तत्कालागतेन राज्ञा प्रसन्नान् प्रभून विमृश्य स पुनरपि तत्पददानपात्रीकृतः । एवमनेकधर्मनिन्दकप्रबोधा ज्ञेयाः । अथैकदा हेमाचार्यः श्रीकुमारपालभूपं प्रत्युपदेशमाह, यथा
देवं श्रेणिकवत्प्रपूजय गुरु वन्दस्व गोविन्दवद्दानं शीलतपःप्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् ।
श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा, धर्मे कर्मणि कामदेववदहो! चेतश्चिरं स्थापय ॥१॥ तत्र चपुरा राजगृहे राजा, श्रेणिकः श्रावकाग्रणीः। सौवर्णैः सद्यवैरष्टशतैर्जिनमपूजयत् ॥ १॥ तादृक्सद्भक्तियोगेन, त्रिर्जिनारी वितन्वता । तेनार्जि तीर्थकृन्नामकर्म कर्ममलापहम् ॥ २॥ यदुक्तम्
"जिणपूयणं तिसंझं, कुणमाणो सोहएइ सम्मत्तं । तित्थयरनामगुत्तं, पावइ सेणीनरिंद व ॥१॥" इति श्रुत्वा गुरोभूपस्त्रिर्जिनार्चापरायणः । पूजां प्राभातिकी शश्वत्स्वसौधेऽसौ विशुद्धधीः॥१॥ विदधाति तथा सायं, स्पष्टमष्टोपचारतः। मध्याह्ने श्रीत्रिभुवनपालचैत्ये तु सन्महैः ॥२॥ सा चैवम्-सर्वा जिनचैत्यमेत्य नृपतिनकोत्सवाडम्बरैर्निस्वानस्वनगर्जदम्बरमुरुस्नात्रं विधायादरात् । सामन्तैर्व्यवहारिभिः परिवृतः सर्वोपचारार्चनं, कुर्वाणः प्रतिवासरं व्यरचयज्जैनेन्द्रधर्मोन्नतिम् ॥१॥ अथैकदैवं जिनपूजनोद्यतः, कृत्वाङ्गपूजां विविधैः सुमोत्करैः। आरात्रिकस्यावसरे पुरःस्थितो, न्यभालयद्भूभृदबालभक्तियुक् ॥२॥ सद्वर्णकोल्लासविचित्रभङ्गिभृत्, सर्वर्तुपुष्पाविनियोगयोगतः। विशेषशोभानवगाहिनी तथा, पूजां सुभङ्गीसुभगीकृतामपि ॥ ३ ॥ युग्मम् ॥ तथा प्रपश्यन्निति पश्यतांगुरुर्व्यचिन्तयच्चेतसि खेदमेदुरः। मयेदमिन्दुप्रभमत्र कारितं, हर्षप्रकर्षाजिनचैत्यमुन्नतम् ॥ ४॥ परं सर्वर्तुजैः पुष्पैर्न पूजा
Join Education International
Page #160
--------------------------------------------------------------------------
________________
कुमारपाल
संभवोऽभवत् । तेन हर्षप्रकर्षोऽपि, विफलो मे ह्यजायत ॥५॥ धन्यास्ते चक्रवाद्याः, सर्वा जिनपूजकाः । येषां | प्रवन्धः ह्यनेकाः सर्वर्तुपुष्पपूर्णाः सुवाटिकाः ॥ ६ ॥ अधन्यशेखरो नूनमहं राजेति नामभृत् । यस्यैकमपि नोद्यानं, सर्वर्तुपरिमण्डितम् ॥ ७॥ अहं नाम्नैव श्रद्धालुलोंके ह्यात्मभरिः सदा । पुष्पपूजाऽपि नो कर्तु, पार्यते यद्यदृच्छया ॥ ८॥ विनामाध्यंदिनीमर्चामचर्च्य रचनोज्ज्वलाम् । न कर्तुं युज्यते युक्त्या, भुक्तिमुक्तिं यियासताम् ॥९॥ मोक्तव्यं जीवितं ह्येतदेकदा कार्यसिद्धये । तत्तादृशाहणासिद्ध्यै, मुक्तं तु श्लाध्यतां भजेत् ॥ १०॥ एवं च शोचनोद्वीचिवान्तस्वान्तो नरेश्वरः । नो विधत्ते जिनस्याग्रे, यदारात्रिकमङ्गलम् ॥ ११॥ तदेकान्तिकसद्भूतभक्त्याऽऽवर्जितमानसा । व्योमसंस्थाऽवददेवी, शासनस्य नृपं प्रति ॥ १२॥ मा खिद्यस्व जगत्श्रेष्ठ !, स्वचेतसि चुलुक्यराट् । कोऽन्यो मान्यो जगत्यस्ति, त्वत्समो जगतीपतिः॥१३॥ य एवं श्रीजिनेन्द्रार्चाविशेषरसलालसः । तत्सिद्ध्यर्थ निजप्राणप्रहाणमभिवाञ्छसि ॥१४॥ तदिह गुणिजनानां व्यञ्जितानन्दसौख्याभ्युदयसदयशश्वन्नन्द चौलुक्यचन्द्र !। जितभव ! तव दीव्यन्नन्दनोद्यानलीलं, वनमविकलमेकं भावि जैनप्रसादात् ॥ १५ ॥ इत्युदित्वा जगाम स्वं, धाम शासनदेवता । राजाऽपि मुदितः तृप्तपूजोडलङ्कतवान् गृहान् ॥१६॥ तदनु सुवनमासीदेवतासेविताशं, समसमयविलासोल्लासि सर्वर्तुसेव्यम् । अजनि धरणिजानिर्मानिमान्यश्च सर्वोचितमिलितजिना वैभवो वै कृतार्थः॥१७॥ इत्थं वैभवमद्भुतं जिनपतेर्भक्तिप्रभावोद्भवं, साक्षाद्वीक्ष्य सवि
॥ ७७॥ स्मयाः समभवंस्ते देवबोध्यादयः । सर्वत्रैवमवादिषुश्च यदुत श्रीमजिनेन्द्रं जनाः, देवं सेव्यतमं भजध्वमधुना स्वर्गापवप्रदम् ॥ १८ ॥ तथा चोक्तं व्याश्रयमहाकाव्ये
Jain Educaton infamona
For Private & Personel Use Only
Page #161
--------------------------------------------------------------------------
________________
OCOCCCCCCCORDCROCHEMIC
"जाव निवो कयपूओ, आरत्तियमंगलं न जा कुणइ । ता देवउले मरुबय पूअं अणुसोइ लग्गो॥१॥ म. ताव देउलमिमं, निम्मवि सहलजीविअमणेण । सबरिउकुसुमपूआ, नो जइ जीअं न मे सहलं ॥२॥ अह भणियं खे सासणदेवीए एवमेव मा झूर । आवत्तमाणजस तुममेमे अ किमत्तमाणमणो ॥३॥ गुणिपावारयपारय, दुहअडचिंतावडेसु मा पडसु । होही तुह उजाणं, सइ सबरिऊहिं कयकुसुमं ॥४॥” इत्यादि।
तथा"वंदणयं साहूणं, जो सम्म देइ गुणसयरयाणं । सो पावइ सयलसुह, हरि ब कम्मक्खयं कुणइ ॥१॥" पुरा द्वारवतीपुर्या, श्रीकृष्णेनार्द्धचक्रिणा । श्रीमान्नेमिजिनोऽवन्दि सहानेकमुनीश्वरैः ॥१॥ सम्यगुभावाजिनमुनीन् , वन्दमानेन विष्णुना । अर्जितं तीर्थकृगोत्रं, सम्यक्त्वं क्षायिक तथा ॥२॥ सप्तम्यादि चतुर्थ्यन्तनरकायुर्वियोहूजितम् । राजन्नैवंफलं साधुवन्दनं त्वं ददस्व भोः! ॥३॥ तदनु श्रीप्रभोः पादपद्मयोर्वन्दनं विना । न भोक्तव्यं मये*त्येवं, जग्राहाभिग्रहं सुधीः ॥ ४ ॥ एवं दानशीलतपोभावनासु दृष्टान्ता अत्र श्रेयांसादयो ज्ञेयाः । तथा कामदेवादिसुश्रावकवत् शुद्धधर्मे मनो निधेहि । तत्र
साधुश्राद्धाश्रितत्वेन, धर्मो विस्फूर्जति द्विधा । यं समासेव्य भविकास्तरन्त्येव भवार्णवम् ॥१॥ तत्राद्यो दशधा! क्षान्त्याजवाद्यावर्जितः परः । द्वादशव्रतरूपः स्याद्वितीयोऽपि शिवप्रदः ॥२॥ द्वयोरपि विशुद्धश्रीसम्यक्त्वमूलमेतयोः। तच्च स्याद्भविनां व्यक्तमव्यक्तमपि भेदतः॥३॥ तदेव सत्यं निश्शङ्क, यज्जिनैः प्रतिपादितम् । तदव्यक्तं भवेत् |
Jan Education Internatione
For Private
Personel Use Only
Page #162
--------------------------------------------------------------------------
________________
5
प्रवन्धः
कुमारपाल दिसम्यकु, तत्त्वव्यक्तरयोगतः॥४॥ व्यक्तं पुनस्तदेव स्यात् , यद्यन्मिथ्यात्वपरिक्षयात् । जीवाजीवादितत्त्वानां, हेयोपा
देयवोधतः ॥ ५॥ तिर्यगनरकयोरे, ह्येतत्सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखाप्तौ प्रतिभूः पुनः ॥६॥ भवेद्धमा-11 निकोऽवश्य, जन्तुः सम्यक्त्ववासितः। यदि नोद्वान्तसम्यक्त्वो, बद्धायुर्वापि नो पुरा ॥ ७ ॥ उक्तं च
"अन्तर्मुहूर्तमपि यः समुपास्य जीवः, सम्यक्त्वरत्नममलं विजहाति सद्यः।
बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः॥१॥" __ अणुव्रतानि पञ्चादौ, दिगविरत्यादिकं त्रयम् । शिक्षाब्रतानि चत्वारि, स्यादेवं द्वादशव्रती ॥ ८॥ द्विधात्रिधादिना हा स्थूलहिंसादेविरतिः सदा । अहिंसाद्या भवेत् पञ्चाणुव्रती गृहमेधिनाम् ॥९॥त्रसानां मन्तुमुक्तानां, हिंसां संकल्पक
ल्पिताम् । स्थावराणामपि व्यर्थी, वर्जयेत्करुणापरः॥१०॥ देवातिथ्यादिपूजार्थ, वेदस्मृत्यादिवाक्यतः । क्रियते यो वधः सोऽपि, नरकप्राप्तिलग्नकः ॥ ११॥ यदुक्तम्
"मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण दाणेणं ॥१॥" ___ मातुर्वचनतः पिष्ठकृतकुकुटहिंसनात् । राजा यशोधरः प्राप, दुरन्तां दुःखसंततिम् ॥ १२॥ तस्मात् श्रेयोऽर्थिना |हिंसा, त्याच्या वनदवाग्निवत् । दयितेव दया कार्या, हृदानन्दप्रदायिनी ॥ १३ ॥ लघीयस्त्वमिहामुत्र, मूकत्वादि च तत्फ
Vi७८॥ दलम् । विलोक्य पापहेतुत्वात्स्थूलाऽसत्यं त्यजेत्सुधीः॥ १४ ॥एकशः कूटसाक्ष्योक्तेः, सप्तमे नरकेऽतिथिः । बभूव वसुभूपा
लस्तदलीकैरलं सताम् ॥ १५॥ भवे भवे भवेत्पुंसां, दासत्वं परमन्दिरे । परद्रव्यापहाराय, मतिर्येषां विजृम्भते ॥१६॥
For Private Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
यातनां विविधामत्र, परत्र नरके गतिम् ।दौर्भाग्यं च दरिद्रत्वं, लभेच्चौर्यपरो नरः ॥ १७ ॥ दानशीलतपोभावैरर्जितं सुकृतं महत् । निखिलं निष्फलं ज्ञेयं, परद्रव्यापहारिणाम् ॥ १८॥ वधादप्यधिकं स्तेयं, तेनैको यद्विपद्यते । धने हृते पुनः प्रौढक्षुधैव सकलं कुलम् ॥ १९ ॥ त्यक्तचौर्यो रोहिणेयो, यदाप सुरसंपदम् । प्राणान्तेऽपि परं स्वं तन्न हर्तव्यं विवेकिना ॥ २०॥ यदुक्तम्
"द्वे अकायें कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥ १॥" जगत्यकीर्तिः स्वकुलक्षयं दुर्गतिगामिताम् । अब्रह्मणः फलं पश्यन् , न पश्येत् परयोषितम् ॥२१॥ स्वकीया परकीया च, पण्यस्त्री च कुमारिका । एवं भवेत्समग्राऽपि, स्त्रीणां जातिचतुष्टयी॥२२॥तन्मध्ये स्ववधूरेव, सेवनीया विवकिना । शेषास्तु स्वसवित्रीवञ्चिन्तनीयाः सचेतसा ॥ २३ ॥ परस्त्रीसङ्गमाकाङ्कामात्रेणापि स रावणः । आसीदासीभवद्विश्वश्चतुर्थे नरकेडतिथिः ॥ २४ ॥ तस्माद्गाङ्गेयवन्नित्यं, ब्रह्मचारी भवेद्बुधः। तदशक्तौ स्वदारेषु, सुसन्तुष्टश्च सर्वदा ॥ २५ ॥ परिग्रहाधिकः प्राणी, प्रायेणारम्भकारकः । स च दुःखखनिजूनं, ततः कल्प्या तदल्पता ॥ २६ ॥ असंतोषवतां सौख्यं, त्रैलोक्येऽपि न देहिनाम् । तृष्णोपतप्तमनसामपमानं पदे पदे ॥ २७ ॥ श्रुत्वा परिग्रहक्लेशं, मम्मणस्य गति तथा । धर्मान्वेषी सुखार्थी वा, कुर्यात्स्वल्पपरिग्रहम् ॥ २८ ॥ दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यया ख्यातं, तद्गुणव्रतमादिमम् ॥ २९ ॥ यतः
___ "तत्तायगोलकप्पो, पमत्तजीवोऽणिवारियप्पसरो। सवत्थ किं न कुज्जा, पावं तत्कारणाणुगओ॥१॥"
For Private & Personel Use Only
Page #164
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ७९ ॥
लोभाभिभूतो हि त्रिभुवनमपि मनोरथैराक्रमति || संख्या विधीयते यत्र, शक्त्या भोगोपभोगयोः । भोगोपभोगमानं तत्स्याद्वितीयं गुणव्रतम् ॥ ३० ॥ सकृत्सेवोचितो भोगो, ज्ञेयोऽन्नकुसुमादिकः । मुहुः सेवोचितस्तूपभोगः स्वर्णाङ्गनादिकः ॥ ३१ ॥ इदं व्रतं भोग्य परिमाणेन भोगायोग्यवर्जनेन तु पालनीयमिति वर्जनीयान्याह - द्वाविंशतिरभक्ष्याणि, सूत्रोक्तानन्तकायिकाः । वर्ज्यान्येतानि विज्ञाय, सम्यग् दूरे दयालुना ॥ ३२ ॥ आर्त रौद्रं च दुर्ध्यानं, हिंसोपकरणार्पणम् । पापाचारोपदेशश्च प्रमादपरिषेवणम् ॥ ३३ ॥ सर्वोऽप्यनर्थदण्डोऽयं, वृथा कल्मषकारणात् । अपाकरणमस्य स्यात्, तातींयकं गुणव्रतम् ॥ ३४ ॥ त्यक्तसावद्यकर्तव्यदुर्ध्यानस्य शरीरिणः । समता या मुहूर्तं स्यात् सा सामायिकमुच्यते। ।। ३५ ।। यदागमः
"सावज्जजोगविरओ, तिगुत्तो छसु संजओ । उवत्तो जयमाणो, आया सामाइयं होइ ॥ १ ॥
आओ माए परदुक्ख अकरणं रागदोसमज्झत्थं । नाणाइतियं तस्सायपोसणं भावसामइयं ॥ २ ॥” दिग्aतप्रमितेरह्नि, निशि यच्चाल्पनं पुनः । देशावकाशिकं तत्स्याद्वतं सुकृतकारणम् ॥ ३६ ॥ उपलक्षणात्प्रहरादौ यत्र तत्रारम्भपरिहाररूपं देशेऽवकाशं गृह्णाति । पूर्व दिग्नते बहूनि योजनानि मुत्कलानि कृतानि तानि देशावकाशिके त्वपसारयति । हविषाद्वाशयोजनानि दृग्विषयो विद्यावता न्यूनीकृतो योजनमात्रं स्थितः । यथा वा शरीरस्थं विषमगदबलेनाङ्गुल्यां स्थाप्यते । एवं विवेकिना यावत्कथिकदिग्नतादिने दिनेऽपसारयितव्यम् । एवं सर्वत्रतेष्वपि ये नियमाः स्थापितास्ते पुनः १२ पुनर्दिवारात्रौ अपसारयितव्याः । यथा
॥ ७९ ॥
प्रबन्धः।
Page #165
--------------------------------------------------------------------------
________________
"पुढवि दग अगणि मारुय वणस्सइ तह तसेसुं पाणेसु । आरम्भमेगसो सबसो य सत्तीऍ वज्जेज्जा ॥ १ ॥ न भणि रागदो से हिंदूसियं नवि गिहत्थसंबद्धं । भासेज्ज धम्मसहियं, माणं च करिज सत्तीए ॥ २ ॥ नय गिहिज्ज अदिन्नं, किंचिवि असमक्खियं च दिन्नपि । भोयणमहवा वित्तं तु एगसो सबसो वावि ॥ ३ ॥” एवं सर्वत्रतेष्वपि ॥
सर्वाहाराङ्गसत्काराब्रह्मा व्यापारवर्जनम् । चतुष्प भवगदस्त्वौषधं पौषधव्रतम् ॥ ३७ ॥ यावान् प्रयाति विधिवत्पौ - पधव्रतसेवने । कालस्तावान् स चारित्रः, इव मान्यो मनीषिणा ॥ ३८ ॥ अतिथिभ्योऽशनाऽऽवासवासः पत्रादिवस्तुनः । यत्प्रदानं तदतिथिसंविभागवतं भवेत् ॥ ३९ ॥ प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेपणीयैः कल्प्यप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमवहिता हन्त ! सन्मानयन्ति ॥ ४० ॥ यथा रत्नत्रयी योगे, मोक्षोऽक्षेपेण लभ्यते । तथा शुद्धमनःपात्रवित्तप्राप्तावपि ध्रुवम् ॥ ४१ ॥ इत्थं व्रतानां द्वादशी, त्वया सेव्या शिवार्थिना । आनन्दकामदेवादिश्राद्धवद्भूमिवासव ! ॥ ४३ ॥ एतेष्वेकैकमपि यो धत्ते सोऽनन्तसौख्यभाकू । भजेद्यस्तु समग्राणि स नूनं मुक्तिनायकः ॥ ४३ ॥ सम्यग् निशम्य सुगुरोरिति शुद्धधर्ममर्माणि कर्मदलनैकमना मनस्वी । सर्वत्रताधविधिसाधनसावधानः, श्रद्धालु मौलिरभवद्भुवि भूमिपालः ॥ ४४ ॥ यदुक्तम्
:!
“एवं नरिंद ! तुह अक्खियाइँ एयाइँ बारसवयाई । रन्ना भणियं भयवं !, अणुग्गहो मे कओ तुम ॥ १ ॥ पंचमहाभारो, धुवं गिरिंदु व दुबहो ताव । तं जे वहति सम्मं, ते दुक्करकारए वंदे ॥ २ ॥
Page #166
--------------------------------------------------------------------------
________________
कुमारपाल
RECENCAKAC
प्रबन्धः ।
॥८
॥
ते विहु सलाहणिज्जा, न कस्स परिमियपरिग्गहारंभा । सक्कंति पालिउं जे, इमाइँ बारसवयाइंपि ॥ ३ ॥ गुरुणा भणियं आणंदकामदेवाइणो पुरा जाया । जेहिं परिपालियाई, इमाई सावयवयाइँ दढं ॥४॥ इण्हिं तु वरगिहत्थो, इहत्थि नामेण छड्डुओ सेट्ठी । परिमियपरिग्गहो जो, विहियपावपरिहारो ( ? ) ॥५॥ जो अहिगयनवतत्तो, संतोसपरो विवेयरयणनिही । देवगुरुधम्मकन्जेसु दिन्ननियभुयविढत्तधणो ॥६॥ सो अम्ह पायमूले, पुचिं पडिवजिऊण भावेण । वारसवयाई एआइँ पालए निरइयाराई ॥७॥ रन्ना भणियं एसो, आसि धणड्डोत्ति मज्झ गोरबो । साहमिउत्ति संपइ, बंधु व विसेसओ जाओ ॥८॥ भयवं ! अहंपि काहं, सावयधम्मस्स बारसविहस्स । परिपालणे पयत्तं, वसुहासामित्तअणुरुवम् ॥९॥
तो गुरुणा वागरियं, नरिंद ! तुममेव पुण्णवंतोऽसि । जो एरिसोवि सावयवयाण परिपालण कुणसि ॥१०॥" अथ प्रतिपन्नसम्यक्त्वमूलद्वादशव्रतस्य श्रीकुमारपालराजयथाक्रममवदाताः । तत्र प्राणातिपातविरमणव्रतेधर्मो जीवदयातुल्यो, न क्वापि जगतीतले । तस्मात्सर्वप्रयत्लेत, कार्या जीवदया नृभिः॥१॥ एकतः क्रतवः सर्वे, समग्रवरदक्षिणा । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥ २॥ सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाच, यत्कुर्यात् प्राणिनां दया ॥ ३ ॥ मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, न छुट्टए तेण पावणं ॥ ४ ॥ हन्मीति जन्मजनितं सुकृतं निहन्ति, शस्त्रग्रहात्रिभवसंभवमेव धर्मम् । शस्त्राभिघातसमये शतजन्मजातं, यत्किंचिदस्ति लवमात्रमिदं परासौ ॥५॥ इत्यादिस्वपरसमयज्ञेन राज्ञा
C UCIRC
Jain Education inarirala
For Private & Personel Use Only
jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
कर्णाटे १ गूर्जरे २ लाटे ३, सौराष्ट्र ४ कच्छ ५ सैन्धवे ६ । उच्चायां ७ चैव भम्भेर्या ८, मारवे ९ मालवे १० तथा ॥१॥ कौङ्कणे ११ च तथा राष्ट्रे १२, कीरे १३ जालन्धरे १४ पुनः। सपादलक्षे १५ मेवाडे १६, दीपा १७ भीराख्ययो १८ रपि॥२॥ | इति स्वदेशेष्वमारिपटहो दापितिः, अगलितजलव्यापारनिषेधश्च । अश्वलक्षपञ्चहस्तिसहस्रकगोधनाशीतिसहस्रोष्ट्रपञ्चा
शत्सहस्राणां गलितजलपानं कुमरगिर्यादौ । काशिगाजण्यादिचतुर्दशदेशेषु धनविनयमैच्यादिबलेन जीवरक्षा कारिता। हमारीत्यक्षरोच्चारणे क्षपणम् । नवरात्रपशुबल्यदानकुपितकण्टेश्वरीत्रिशूलघातसंजातसर्वाङ्गकुष्ठादिवेदनायां मन्त्र्युदयनवि
ज्ञप्तदेवीबलिप्रदानविषयेऽनुमतिरपि नादायि दयालुना येन । एकादशलक्षाश्वादिपर्याणेषु प्रमार्जनार्थ प्रौञ्छनिकाः कारिताः । एकदा पर्याणप्रमार्जने नडूलसामन्तेन जहासे अपरैः सामन्तैः परस्परं दृसंज्ञया । ज्ञाते च राज्ञा सप्त लोहकटाहीर्वाणेन भित्त्वा साङ्गिकया पोडशमणगोणिमुत्पाट्य बलं दर्शयित्वा तर्जिताः सामन्ता भवत्स्वेवंविधोऽस्मीति । एकदा कायोत्सर्गस्थे नृपे मर्कोटकः पादे लग्नः पार्श्वस्थैः पारिचारिकैरुत्सार्यमाणोऽपि राज्ञा तस्याऽसमाधिसंभावनया स्वत्वचा सह दूरीकृतः। महेश्वरग्रामीयवणिजा यूकावधे यूकावसतिः कारिता । इत्यादि किमुच्यते । यतः"कृपैकजीवितो धर्मः, सर्वशास्त्रैः प्रतिष्ठितः । इति ज्ञात्वा स धर्मात्मा, तन्मयं कृतवान् जगत् ॥१॥"
__ अपि च"श्रीकुमारधरणीभृतः कथं, कथ्यतेऽत्र महिमा प्रमातिगः। यः कृपात्रतमिहाश्रितः स्वयं, तन्मयं च निखिलं जगद्व्यधात् ॥१॥" एवं दयां परिपालयतः श्रीकुमारपालभूपतेरुपश्लोकनाकाव्यं श्रीगुरुभिरुक्तं यथा
Jain Education in
For Private Personal use only
Page #168
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
स्वर्गे न क्षितिमण्डले न वडवावत्रे न लेभे स्थितिं, त्रैलोक्यैकहितप्रदाऽपि विधुरा दीना दया या चिरम् । चौलुक्येन कुमारपालविभुना प्रत्यक्षमावासिता, निर्भीका निजमानसौकसि बरे केनोपमीयेत सः॥१॥
शरणागतत्रातेति विरुदं दत्तम् ॥ मृषावादविरमणव्रतेएकत्रासत्यजं पापं, पापं निश्शेषमन्यतः । द्वयोस्तुलाविधृतयोस्तत्राद्यमतिरिच्यते ॥१॥ अश्वमेधसहस्रं तु, सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशेष्यते ॥२॥ सर्ववेदाधिगमनं, सर्वतीर्थावगाहनम्। सत्यं च वदतो राजन् !, समं वा स्यान्न वा समम् ॥ ३॥ सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मःसनातनः ॥४॥ "सत्यार्जवे धर्ममाहुः” इत्यादि जानानः पारुष्यपैशून्यासभ्यरागद्वेषयुक्तात्मस्तुतिपरनिन्दादिपरिहारेण 'महुरं निउणं थोवं' इत्याद्यागमानुसारि वचो मया वाच्यमिति प्रतिज्ञाय "सत्यवाचा युधिष्ठिरः" इति विरुदं बभार । तथा
"सत्यं मित्रैः प्रियं स्त्रीभियंलीकं मधुरं द्विपा । अनुकूलं च शस्यं च, वक्तव्यं गुरुणा सह ॥१॥" । इति नीतिपथोऽपि येन धर्मार्थिना न सत्यापितः कदाचित्केनाप्याकारेण मृषाभाषणे विशेषतपः कर्तव्यम् ॥ सर्वासत्यपरित्यागान्मृष्टेष्टवचनामृतैः । जीयात् कुमारभूपालः, सत्यवाचा युधिष्ठिरः॥१॥
अदत्तादानपरिहाररूपे तृतीयव्रतेदुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतेर्भिपग्गदगणोत्पातं कलिं नारदः। दोषग्राहि जनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाड्यमवनीपालो हहा! वाञ्छति ॥१॥
॥८१॥
Jain Education
a
l
For Private Personal use only
M.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
इति श्रीचौलुक्यनृप ! राज्ञस्तृतीयव्रतपालनं कथम् ? इत्युक्ते सूरिभिः राजा प्राह
निष्पुत्रो नियते यो यस्तस्य तस्य हताशयाः। पुत्रतां प्रतिपद्यन्ते, नृपाः कष्टं धनाशयाः॥१॥ तदद्यप्रभृति मुक्तमेव मया मृतसर्वस्वम् , भवतु मे तृतीयव्रताङ्गीकारः संसारतारणायेति प्रतिपद्य राजपर्षदि सर्वसामन्तादिसमक्षं पञ्चकुलमाकार्य पृष्ट्वा च प्रतिवर्षे द्वासप्ततिलक्षद्रव्यायपदं ज्ञात्वा संतोषपोषितात्मा रुदतीवित्तं मुक्तवान् , पाटितं च पट्टकपत्रम् । तथा
निःशूकैः शकितं न यन्नृपतिभिस्त्यक्तुं क्वचित्प्राक्तनैः, पत्न्याः क्षार इव क्षते पतिमृतौ यस्यापहारः किल ।
आपाथोधि कुमारपालनृपतिर्देवो रुदत्या धनं, बिभ्राणः सदयं प्रजासु हृदयं मुञ्चत्ययं तत्स्वयम् ॥१॥ इति मृतस्वपरिहारपटहो दापितोऽष्टादशदेशेषु । अथान्यदा सर्वावसरसभामुपेयुषि श्रीचौलुक्यदेवे प्रतीहारः प्राह-देव! महाजनो द्वारे तिष्ठति देवदर्शनार्थी । राजा-प्रवेशय सद्यः। ततः प्रतीहाराहूताश्चत्वारो महत्तरा आगत्य राजानं प्रणम्य लब्धासना वैलक्ष्योपलक्षिता उपविष्टाः । राजा-को हेतुरद्य राजसभाऽऽगमे ? किमिदं वैलक्ष्यमिति । किं कोऽपि पराभवोऽसमाधिोपद्रवो वा कोऽपि ? । तदनु महाजनाः-कुतः प्रजानां राजेन्द्र !, त्वयि शासति मेदिनीम् । पराभवोऽसमाधिर्वा, जायते जनवत्सल !॥१॥ कदाचिदन्धकारः स्याद्विश्वे भास्वति भास्वति । परं त्वदुदये स्वामिन् !, न किञ्चिदसमञ्जसम् ॥२॥ परमत्रत्यो गूर्जरनगरवणिग्मूर्धन्यः कुबेरश्रेष्ठी देवपाद विदितो बहुस्वर्णकोटिध्वजः समुद्रे समागच्छन् कथाशेषतया स्वामिपादानामसेवकतामगादिति तत्परिच्छदो निष्पुत्र आक्रन्दन्नस्ति । तद्गृहद्रव्यं राजा यद्यात्मसात्कुरुते
Jan Education International
For Private
Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ८२ ॥
Jain Education In
तदा तस्योर्द्धदेहिकं क्रियते । कियत्तद्धनं ? इति पृष्टेऽतिपुष्कलमित्याहुस्ते महत्तराः । ततः कृपापरिणीतो राजा स्वचे - | तसि चिन्तितवानेवम्
आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशलक्षैः, केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति ।
क्रन्दन्नारीजघनवसनक्षेपपापोत्कटानामाः किं तेषां हृदि यदि कृपा नास्ति तत्किं त्रपाऽपि ॥ १ ॥
ततो भो महत्तराः ! मया मृतस्वग्रहणं तृतीयत्रतप्रतिपत्त्यवसरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य व्यवहारिणो गृहं गृहसारं च विलोकयामः इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तद्गृहमाजगाम राजकुञ्जरः । तदनु सौवर्णकलश परम्पराक्वणत्किङ्किणीक्वाणवा चालितव्योममण्डलकोटिध्वजावलिहस्तिशाला दानशाला तुरगशालादिविराजितं तं कुबेरगृहं विलोक्य विस्मयस्मेरहृदयो महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः । तद्रमणीयतां विलोक्य प्राह नृपः
प्रबन्धः ।
पर्यायस्तुहिमाचलस्य यमकं पीयूषकुण्डस्य च, क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च ।
वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृहस्यार्हच्चैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ॥ १ ॥ तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्तसौवर्णकलशस्थालारात्रि कमङ्गलप्रदीपादिदेवपू- 8 ॥ ८२ ॥ जोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा
गुरुपादकमलमूले, गृहमेधिजनोचितानिमान्नियमान् । प्रतिपद्यते कुबेरो, वैराग्यतरङ्गितस्वान्तः ॥ १॥
jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे परस्त्री! यामि तथा त्यजामि मदिरां मांसं मधु म्रक्षणम् । नक्तं नाभि परिग्रहे मम पुनः स्वर्णस्य षट्कोटयस्तारस्याष्टतुलाशतानि च महार्हाणां मणीनां दश ॥२॥ कुम्भखारीसहस्रे द्वे, प्रत्येकं स्नेहधान्ययोः । पञ्चायुतानि ५०००० वाहानां, सहस्रमपि हस्तिनाम् ॥ ३ ॥ अयुतानि गवामष्टौ, ८०००० पञ्च पञ्च शतानि च । हलाट्टसझनां यानपात्राणामनसामपि ॥४॥ पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां, करिष्ये पात्रसात्पुनः॥५॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हुतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीःपुत्तकुवेर ! गुणायर !, गओसि तं कत्थ देहि पडिवयणं । हा वच्छ ! पिच्छ लच्छी, तए विणा जाइ रायहरं ॥१॥ एतत् श्रुत्वा राजा चिन्तितवानेवम्-नरकान्तं भवेद्राज्यमित्यार्यदुदीर्यते । तन्ननं रुदतीवित्तसमाकर्षणपाप्मना ॥१॥ पृष्टवांश्च के एते स्त्रियौ ? । महाजनः-देव ! कुबेरमाता गुणधीरेषा, अपरा तु कमलश्रीस्तज्जाया । अत्रान्तरे-वीक्ष्य तत्र कुबेरस्य, जायामाक्रन्दकारिणीम् । मातरं च हहा वत्स !, व गतोऽसीति वादिनीम् ॥१॥ तत्रासन्ने च सिंहासनाधिरूढः प्राह-हे मातः ! किमेवं शोकविक्लवाऽसि ? । यतः
"आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं वान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः। प्रत्यावृत्तिम॒तस्योपलतलनिहितप्लुष्टबीजप्ररोहमाया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा मुधैव ॥१॥" इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह-वामदेवनामा मित्रम् । आकारितश्च स राज्ञा पृष्टश्च समुद्रगमनादि
Jain Education
anal
Page #172
--------------------------------------------------------------------------
________________
कुमारपाल
वृत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुर्यु महत्तरेषु गृहसारं न्या-15 प्रबन्धः ।
सीकृत्य भृगुपुरात् पञ्चपञ्चशतमनुष्योपेतपञ्चशतप्रवहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनि॥८३॥
वृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि । पतितानि सन्ति । पोतानामनिर्गमेन बाढं विषण्णः सपरिवारः कुबेरस्वामी । अत्रान्तरे समागतः कश्चिन्नौवित्तो नावारूढः । भणितं च तेन, भो लोकाः दर्शयामि निर्गमोपायम् । भणितश्च कुवेरेण, भो बान्धव ! कुतः समायातः? किं नाम च? इति । ततस्तेनोक्तम् , अस्त्यत्रासन्ने पञ्चशृङ्गो द्वीपः। तत्र सत्यसागरो राजा । तेन चैकदा मृगयागतेन हता सगर्भा मृगी। मृगोऽपि तन्मरणं दृष्ट्वा स्वयं मृतः। तेन वैराग्येण सत्यसागरनृपेण स्वदेशेऽमारिपटहो दापितः । अद्य पूर्वप्रेषितकीरमुखायुष्मदापदं ज्ञात्वाऽहं नौतासो नाविको निर्गमोपायदर्शनाय प्रहितोऽस्मि राज्ञा । कुमारभूपः-अहो ! महात्मनो महती कृपा सर्वसत्त्वसाधारणी । ततः किं? । वामदेवः-देव ! कुवेरस्वामिना निर्गमोपायं पृष्टः । प्राह| नाविकः, एतस्य गिरेः कटके द्वारमस्ति । तेन प्रविश्य गिरेः परत्र पार्थे गम्यते । तत्र पुरमुद्वसमस्ति । तत्र च जिनचैत्ये गत्वा पटहा वाद्यन्ते । तेषां महता निस्वनेन गिरिशृङ्गसुप्ता रात्री भारुण्डपक्षिणः समुड्डीयन्ते । तेषां पक्षवातेन प्रबहणानि मार्गे पतिष्यन्तीति । तदनु कुबेरस्वामिना तत्र गमनाय पृष्टाः सर्वे जनाः, कोऽपि न प्रतिपद्यते । ततोऽसमसा
॥८३॥ हसी परमकृपापरवशः कुबेर एव गतः। नाविकोक्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहस्रप्रवहणानि भृगुपुरे च प्राप्तानि दक्षेिमेणेति । अतोऽग्रतः कुबेरस्वरूपं नावगच्छामि । एवं विंशतिकोटिस्वर्णाष्टकोटिरौप्यसहस्रतुलामितरत्नादिकुबेरधनं.
Jain Education
For Private Personal Use Only
Jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
नृपगृहानुपतिष्ठते, इत्युक्ते महत्तरैनिरीहशिरोमणिः तद्रव्यं तृणवदवगणय्यैवंविधासमदयासाहसधनी स पुरुषोत्तमो जीवजन्नेव समागमिष्यतीति गुणश्रियमाश्वास्य यावता पश्चान्निर्गच्छति तावता कुबेरो विमानाधिरूढः सजायः समागात् ।।
विमानादवतीर्य मातुः पादौ प्रणम्य राजानं प्रणनाम । राजा सर्वोऽपि महाजनः अहो ! महदाश्चर्य कुबेरः समायात इति । वदन्ति । राजा च पृष्टवान् । हे साहसधन ! शून्यपुरे किमभूत् ? कुबेरः-स्वामिन् ! तत्र पुरे एकत्र प्रासादे कन्या दृष्टा पृष्टा च । तया चोक्तम्-अत्र पातालतिलकपुरे पातालकेतुर्विद्याधरो राजा । पातालसुन्दरीभार्या । तयोः सुतां पातालचन्द्रिकानाम्नी मां कन्यकां विद्धि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारीभक्षितपूर्वसंस्कृतमां
साभावाद्वन्धुकीत्यक्तबालमांसभक्षणसंजातमहामांसाशनव्यसनो राक्षसोऽजनि । नगरं सर्व भक्षितम् । संप्रति स्वाहाराय । बोवापि गतोऽस्तीति । अत्रावसरे पातालसुन्दरी समायाता । पातालकेतुरपि भार्यया पर्यवसाप्य कन्यां परिणायितोऽहम् ।
मयाऽपि पातालकेतुः प्रतिबोधितः । तेन विद्याधरेण विमानमारोप्य सभार्योऽहमत्रानीय मुक्तः। स च स्वस्थान प्राप्तः।। इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह
निर्मूल्यं गणितं निजं परपरित्राणे तृणं जीवित, पाणी कृत्य नभश्चरीयमचिरात्कल्याणिनी प्रीणिता।
प्राप्तः कोणपतां नृपो विधिवशाद्धर्माध्वनि स्थापितः, स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नाद्भुतम् ? ॥१॥ गृहाण च स्वलक्ष्मी कुबेरदत्त ! इत्यभिनन्द्य गुरुवन्दनाय जगाम ॥ तत्कर्तव्यं नृपोपज्ञं, विज्ञाय जनतामुखात् । उच्चै-* श्चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ १॥ न यन्मुक्तं पूर्व रघुनघुषनाभाकभरतप्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभि
For Private & Personel Use Only
Page #174
--------------------------------------------------------------------------
________________
॥८४॥
हारपि । विमुञ्चन् संतोषात्तदपि रुदतीवित्तमधुना, कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥२॥ अपुत्राणां धनं|
गृह्णन् , पुत्रो भवति पार्थिवः । त्वं तु संतोषतो मुञ्चन् , सत्यं राजपितामहः ॥ ३ ॥ इत्थं श्रीगुरुणा नरेश्वरशतैराशास्य४/मानो मुदा, निराभिरनेकधा च सकलैलोकैः स लोकोत्तरः। लक्षाणां द्रविणस्य रेणुवदिह द्वासप्ततिं वर्जयन्,18 प्रत्यब्दं स्तुतिभाजनं न हि भवेत्कस्य प्रशस्यात्मनः॥४॥
चतुर्थव्रते परदारगमनवर्जनरूपे स्वदारसंतोषरूपे च ॥ यः स्वदारेषु सन्तुष्टः, परदारपराङ्मुखः । स गृही ब्रह्मचारित्वाद्यतिकल्पः प्रकल्प्यते ॥१॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव!, तेन वै सा धरा धृता ॥२॥
तस्माद्धर्मार्थिना त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥ ३ ॥ इति श्रुत्वाधिगतपरमार्थः श्रीराजर्षिराजन्माङ्गीकृतपरनारीसहोदरव्रतः स्वदारसंतोषव्रती जातः । अतः परं पाणिग्रह-| णनियमः । श्रीचौलुक्यनृपेण धर्मशाप्तेः पूर्व वह्वोऽपि राजकन्याः परिणीताः, परं धर्मप्रतिपत्त्यवसरे तासां स्वल्पायुष्वादेकैव भूपलदेवी पट्टराज्ञी बभूव । तदवसरे विवाहनियमी ॥ जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुण्णं, जत्तिय बंभवए धरिए ॥१॥
IN॥८४॥ एकराव्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा ऋतुसहस्रेण, कर्तुं शक्या युधिष्ठिर ! ॥२॥ इति स्वपरसमयज्ञः सर्वदा ब्रह्मचर्याभिलाषी वर्षासु मासचतुष्टये त्रिधा शीलपालनं प्रतिपन्नम् । तत्र मनसा भङ्गे|
PRECACANCareCho
t
For Private & Personel Use Only
Page #175
--------------------------------------------------------------------------
________________
क्षपणम्, वचसाऽऽचाम्लं, कायेन विकृतित्यागः । यदुक्तम् —
"एका भार्या सदा यस्य, त्रिधा शीलं घनागमे । नव्यपाणिग्रहे नियमश्चतुर्थव्रतपालने ॥ १ ॥
कियता कालेन भोपलदेवी परासुरजायत । तदनु द्वासप्ततिसामन्तमन्त्रिवर्गो विज्ञपयति, श्रीचौलुक्यकुलाधार ! प्रजावत्सल ! अनुगृह्यतां पुनः पाणिग्रहमहोत्सवेन स्वसेवकजनः । राजा - अलममुना संसारवृद्ध्युपायेन पाणिग्रहाग्रहेण, भवतु मेऽतः परं यावज्जीवं ब्रह्मचर्य सर्वव्रततपोनियमादिक्रियाकलापसाफल्यकारि । यदागमः -
" जेण सुद्धचरिएण वयाणि दाणाणि तवोनियमाईणि सुचरियाणि भवंति" इति ॥
सामन्तादयः - राजन् ! पट्टराज्ञीं विना कथं मङ्गलोपचारा राज्ञो जायन्ते, न ह्यन्यलोकवद्भुमीधवा गृहिण्युपचारव जिताः श्रुता दृष्टा वा । राजा - अहो ! राजन्याः ! श्रीगाङ्गेयः पितामह आजन्माऽकृतपाणिग्रह एव सकलमहीपाल मौलिमौलीयिताज्ञः किं विस्मृतिपथमानीयते ?, तद्भोः ! सम्प्रति ममापि यावज्जीवं ब्रह्मव्रतोच्चारमहोत्सवः कर्तुमुचितः । इत्यादिधर्मवचोयुक्त्या पर्यवसाप्य सकलसामन्तादिलोकसमक्षं महता महेनाबालब्रह्मचारिश्रीहेमाचार्य श्रीमुखेन ब्रह्मत्रतमङ्गीकृतवान् । तदनु मन्त्रिभिः समग्रराजधर्ममङ्गलोपचारारात्रिकमङ्गलप्रदीपकरणावसरे स्वर्णमयीं भोपलदेवीं निर्माप्य सा राज्ञः पार्श्वे स्थाप्यते ॥ अयं राजर्षिरित्याह्वां प्राप्तप्रौढिं वितन्वतः । अजिह्मब्रह्मलीनस्य, चौलुक्य ! तव कः समः १ ॥ १ ॥ इत्युपश्लोकितः पुण्यश्लोको लोकोत्तरैर्नरैः । श्रीकुमारनृपः शुद्ध श्रद्धालुर्जयताच्चिरम् ॥ २ ॥
॥ पञ्चमव्रतेऽपरिमितपरिग्रहप्रत्याख्यान पूर्वमिच्छापरिमाणप्रतिपत्तिरूपे
क० १५
Jain Educati n International
Page #176
--------------------------------------------------------------------------
________________
कुमारपाल
64-%20%
प्रवन्धः ।
MOSAMACHAR
एनः केन धनप्रसक्तमनसा नासादि हिंसात्मना, कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः। तत्प्रागेव विचार्य वर्जय चिरं व्यामूढ ! वित्तस्पृहां, येनैकास्पदतां न यासि विषये पापस्य तापस्य च ॥१॥
संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥२॥ इत्यादिगुरुवचःश्रवणतः पापभीरुतया यदधिकं स्वर्णादि भवेत्तद्धर्मस्थाने नियमितपरिग्रहवता सुखेन व्ययीक्रियत इति मतिमान् श्रीपरमाहत एवं कृतवान् परिग्रहप्रमाणं पूर्व दृष्टश्रुतपूर्वमहापुरुषपरिग्रहानुसारतः । यथा-स्वर्णकोटयः पट, रूप्यकोटयोऽष्ट, महाहमणीनां सहस्रतुला । अपरद्रव्यकोटयोऽनेका एव-कुम्भखारीसहस्र द्वे, प्रत्येक स्नेहधान्ययोः। पञ्च लक्षाश्च वाहानां, सहस्रं चोष्ट्रहस्तिनाम् ॥ १॥ अयुतानि गवामष्टी, पञ्च पञ्चशतानि च । गृहापणसभायानपात्राणामनसामपि ॥२॥ एकादशशतानीभाः, रथाः पञ्चाऽयुतप्रमाः। हयैकादशलक्षाश्च, पत्त्यष्टादशलक्षकाः ॥३॥ एतत्सैन्यमेलापकप्रमाणम् । सर्वप्रकारैः पापव्यापारनिवृत्तिमिच्छोस्तस्य श्रीधर्मात्मनोऽपरवस्तूनां प्रमितिः किमुच्यते ? ये केचन लवणतिललोहगुल्यादिपापद्रव्यागमास्तेषां नियम एव ॥ रत्नस्वर्णादिवस्तूनां, सत्यां वृद्धावनेकधा । स्वल्पं परिग्रहं चक्रे, धर्मात्मा पञ्चमव्रते ॥ १॥ अपि च
"सर्वः कोऽपि परिग्रहं बहुतरं ह्याशापिशाचीहतः, संप्रत्यत्र करोति सौवविभवात्प्रायः सतोऽनेकधा । यस्तु स्वर्णधनादि भूरि सदपि प्रोज्झाञ्चकार स्वयं, संतोषात्स कथं कुमारनृपतिर्न स्यात्प्रणम्यः सताम् ॥१॥" जगच्चेतश्चमत्कारिपञ्चाणुव्रतधारकः। परमार्हतभूमीशश्चिरं जीयात् कुमारराट् ॥१॥
ACHELORE
॥८५
Jain Education in
I
For Private
Personal Use Only
Jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
॥ षष्ठते दियात्राविरतिरूपे -
चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सद्व्रतं गृहिणोऽप्यदः ॥ १॥ विवेकाद्भुत पुरुषेण सर्वदाऽपि जीवदयानिमित्तं दिग्गमननिवृत्तिर्विधेया, विशेषतश्च वर्षासु । यतः - “दयार्थं सर्वजीवानां, वर्षास्त्रेकत्र संवसेत्”
पुरा श्रीनेमिजिनोपदेशात् श्रीकृष्णनृपोद्वारकाया बहिर्निर्गमनियमं कृतवान् । इत्यादि श्रीगुरूपदेशं सफलतां नयन् श्री चौलुक्योऽपि मया वर्षामासचतुष्टये श्रीपत्तनपुरप्रतोलीभ्यः परतो न गन्तव्यमिति नियमं जग्राह । तथा — दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ॥ १ ॥ वाचा युधिष्ठिरः श्रीमान्, निजमङ्गीकृतं व्रतम् । न तत्तत्याज चौलुक्यसिंहः कार्ये महत्यपि ॥ २ ॥ स तस्य नियमः सर्वत्र तादृग् पप्रथे । अथ तं तथाऽभिग्रहं गूर्जरसमृद्धिं च चरेभ्यो ज्ञात्वा गूर्जरदेशभञ्जनाय गर्जनेशः शकानेकानीकदुर्द्धरः प्रयाणमकरोत् । तदवसरे गर्जन्यागतचरैर्विज्ञतम् — श्रीचौलुक्य ! तवाभिग्रहं श्रुत्वा गर्जनप्रभुर्देशादिभङ्गं चिकीर्षुरागच्छन्नस्तीति चरविज्ञप्तिं श्रुत्वा चिन्ताक्रान्तोऽमात्यसहितो वसतिमभ्येत्य गुरुमब्रवीत् — चरैरद्य प्रभो ! प्रोक्तं, तुरष्काधिपतिः स्वयम् । प्रस्थाय गर्ज - नादत्रागच्छन्नस्ति महाबली ॥ १ ॥ सहिष्णुरपि तं भङ्कुमसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्यभिग्रहात् ॥ २ ॥ यद्यहं संमुखं न यामि तदा देशभङ्गे लोकपीडा, गमने च नियमोल्लङ्घनम् । गुरुः- श्रीचौलुक्य ! त्वदाराधितधर्म एव सहायी तव, चिन्ता सर्वथाऽपि न कार्या ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किश्चि
Page #178
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥८६॥
दन्तातुं प्रचक्रमे ॥३॥ अतिक्रान्ते मुहूर्तेऽथ, समायान्तं नभोऽध्वना । पल्यङ्कमेकमद्राक्षीदिव्यक्षामास्तृतं नृपः | ॥४॥ अम्बरेऽसौ निरालम्बो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥५॥ गगनात्तावदुत्तीर्य, स पल्यङ्कः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः॥ ६॥ पल्यङ्कः कोऽयमत्रायं, कः पुमानिति वेह किम् ? । इति प्रश्नपरं भूपं, बभाषे गुरुपुङ्गवः ॥ ७॥ तवोपर्यापतन्योऽस्ति, शकाधीशो महाबली । पल्यङ्कशयितः सोऽयं, मया नीतोऽत्र सैन्यतः ॥८॥ श्रुत्वा तत्संभ्रमाद्भूभृद्यावत्तन्मुखमीक्षते । तावत्सुप्तोत्थितः सोऽपि, शकाधीशो विमृप्टवान् ॥ ९॥ व तत्स्थानं ? व तत्सैन्यं ? कथमिहागमः ? कोऽयं सिंहासनस्थो ध्यानी मुनीन्द्रः ? कोऽयं चैतदने समासीनो लीलाऽवहेलितेन्द्रो राजेन्द्रः ? इत्यादि चिन्तयन् किं ध्यायसि शकेश ! दिशः पश्यन् ? इति सूरिराह-एकातपत्रमैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वन्ति त्रिदशा अपि ॥ १०॥ गृहमध्याच्चमूमध्यादपि यो रिपुभूपतीन् । स्वशत्या दासबद्दवा, समानाययति क्षणात् ॥११॥सोऽयं श्रीचौलुक्यसिंहोऽपरराजकुञ्जरोज्जासी त्वामायान्तमत्रोपरि ज्ञात्वा वद्धाऽऽनीतवान्। साम्प्रतं त्रिभुवनशरण्यं स्वहितेहया देवैरप्यनुल्लङ्घनीयशक्तिं शरणागतवज्रपञ्जरं शरणीकुरु । ततोऽद्भुतभयोद्वेगचिन्तालज्जादिव्यभिचारिचारुचेष्टितोऽव्यभिचारिभक्तियुक्तः सह दर्पण पल्यकं त्यक्त्वा गर्जनेशः सूरीन्द्रं प्रणम्य श्रीकुमारभूमीन्द्रं नमश्चक्रे ऊचे च हस्तावायोज्य-राजन् ! मया तवेदृग् देवतासाहाय्यं नाज्ञायि, अतः परं मया यावज्जीवं त्वया सह सन्धिरेव चक्रे । कुमारभूपः-हे शकाधीश ! मच्छौण्डीर्य द्विषन्तपं शृण्वन् किमिहागच्छनभूस्त्वम् ? । शकेन्द्रः प्राह-श्रीकुमारपालदेव ! सम्प्रति त्वं व्रतस्थैर्यनिर्जितध्रुवः पुरावहिर्नेष्यसि इति छलेन बलिनो।
॥८६॥
Jan Education International
For Private
Personal use only
Page #179
--------------------------------------------------------------------------
________________
CARSAAMAALMANCE
देशभङ्ग चिकीर्षुरागच्छन्नभूवं, परमीदृग्गुरा जाग्रति त्वं कथं छल्यसे ? ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विश्रुतोऽ-18 भवत् । विस्मरिष्यत्यसौ जातु, न सम्प्रतितमः पुनः॥ १२॥ तुभ्यं स्वस्त्यस्तु, मां स्वाश्रयं प्रति प्रेषय मत्सैन्या मां विना-8 |ऽऽकुला भविष्यन्तीति । राजर्षिः प्राह-यदि स्वपुरे षण्मासीममारिं कारयेस्तर्हि मुक्तिस्तव । ममेदमेवाज्ञाकरणं वाञ्छितं |च, यद्बलेन छलेनापि च प्राणित्राणकारापणम् । पुण्यं तव भावि ॥ इतो मे नान्यथा मुक्तिरिति ध्यात्वा शकप्रभुः ।। चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ?॥ १३ ॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठिपत्र्यहं भूपो, लोकज्ञापनकाम्यया ॥ १४ ॥ जीवरक्षाकृते शिक्षा, दत्त्वाप्तांस्तत्समं निजान् । आदिश्य च शकेन्द्रं तं, स्वस्थानं प्रापय-| नृपः॥१५॥ गर्जने षण्मासां जीवरक्षा कारयित्वा नृपाप्ताः शकेन्द्रविसृष्टा भूरिहयाद्यं प्राभृतं गृहीत्वा पत्तनमागत्य श्रीचौलुक्यमानन्दयामासुः॥ आगच्छन्तं शकाधीश, देशभङ्गविधित्सया। ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु संमुखः ॥ १६ ॥ राज्ञो धर्म स्थिरीकर्तु, बद्धा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुना ॥ १७ ॥ सत्कृत्यानेकधा शाकिप्रभु जीवदयाकृते । मुश्चतस्तं रिपुं प्रौढमहो ! राज्ञो विवेकिता ॥ १८ ॥ ईदृग जगद्गुरुः शक्तिभुक्ति मुक्तिप्रदायकः। ईदृग् दृढव्रतो राजा, श्राद्धः काले कलौ कुतः॥१९॥ एवं नरेन्द्रैः सकलैर्मुनीन्द्ररपि स्तुतेरध्वनि नीयमानः । षष्ठं व्रतं कष्टशतेऽपि शुद्धमपालयद्भूमिपतिः कुमारः॥२०॥
॥अथ भोगोपभोगपरिमाणवतेभोजनतः कर्मतश्च द्विविधे। तत्र भोजनतो मद्यमांसमधुम्रक्षणादिद्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायादिनियमो महति 8
Jan Education Intemani
For Private
Personel Use Only
Page #180
--------------------------------------------------------------------------
________________
LOCARRAM
कुमारपाल कष्ट रोगादावायनाकारः । देवपूजावसरे देवाग्रतोऽढौकितफलपुष्पपत्रवस्त्वाहारादिवर्जनम् । सचित्तमेकं नागवल्लीपत्ररू-18
प्रबन्धः । meonपम् । दिवाऽष्ट बीटकानि । रात्रौ चतुर्विधाहारप्रत्याख्यानम् । वर्षासु घृतकविकृतिः । शावलसर्वशाकनियमः । एकभ
क्तप्रत्याख्यानं च सर्वदा तपःपारणोत्तरपारणे विना । दिवा ब्रह्मचारी । सर्वपब्रिह्मसचित्तविकृतिवर्जकः। सर्वप्रकार - गोपभोगेषु निस्पृहोऽपि राजधर्मादिपारवश्यादेव परिमितमेव निष्पापं भोगोपभोगादिभुक् । श्रीचौलुक्यराजर्षिः कदाचिद् घृतपूरभोजनं कुर्वाणः किञ्चिद्विचिन्त्य कृताहारपरिहारः पवित्रीभूय शालायां गुरून्नत्वा पप्रच्छ, यदस्माकं घृतपूराहारो युज्यते नवा? इति । प्रभुभिरभिदधे-वणिगब्राह्मणयोयुज्यते, कृताभक्ष्यनियमस्य तु क्षत्रियस्य न,तेन पिशिताहारस्यानुस्मरणं भवति। इत्थमेव ममापि, इत्युक्त्वा कथं प्रभुभिर्जायते ? गुरुभिः-सर्वज्ञागमादेव ज्ञानं सम्यगित्युक्ते सञ्जातश्रीजिनागमबहुमानस्थैर्य
समग्रश्रीसङ्घसमक्षं घृतपूरा अतः परं मया नाहार्या इति नियम लात्वा पूर्वभक्षिताभक्ष्यप्रायश्चित्तं प्रतिपद्य लोकानां । 8ज्ञापनाय प्रायश्चित्तस्य द्वात्रिंशद्दन्तसंख्ययैकस्मिन् भिडवन्धे द्वात्रिंशद्राजविहारान् कारयामास ॥ गुरोरादेशतस्तेषु, द्वौ सितौ द्वौ शितिद्युती। द्वौ रक्तौ द्वौ च नीलाङ्गो, षोडश स्वर्णरोचिषः॥१॥ चतुर्विंशतिचैत्येषु, नाभेयप्रमुखान् जिनान् । चतुषु चतुरः सीमन्धरादीनुद्धृतेष्वथ ॥२॥ रोहिणी समवसृति, स्वगुरोः पादुकाद्वयीं । अशोकढुं च विस्तीर्ण, स विधाप्य न्यवीविशत् ॥३॥ एवं घृतपूरादिसरसाहारनियमी कर्मतः पञ्चदशकर्मादानेभ्योऽङ्गारवनशकटादिरूपेभ्यः|| समागच्छदायपदनिषेधकस्तत्पट्टकान् पाटयामास ॥
॥८७॥ एवं भोगोपभोगेषु विरक्तः परमार्हतः। निस्पृहः पापवित्तेषु, सप्तमव्रतमग्रहीत् ॥१॥
द्वौ च नीलाही गमडबन्धे द्वात्रिंशद्वाजविहीमाक्षताभक्ष्यप्रायश्चित्तं प्रतिवमानस्थैर्य
ROSAROSORRECRUSA
in duelan Interation
For Private & Personel Use Only
Page #181
--------------------------------------------------------------------------
________________
॥ अष्टमव्रतेऽनर्थदण्डविरमणेचतुर्धाऽनर्थदण्डः, तद्यथा-अपध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरणानि ४, एतानि चाचरतो मुधा | पापवृद्धिरिति न सेव्यानि विवेकिनेति ज्ञात्वा सप्तव्यसननिषेधं सर्वत्र कारितवान् । स्वयं प्रमादक्रीडाहास्योपचारदेहातिसंस्कारविकथाकरणादिविवर्जनपरो जाग्रद्धर्मध्यानामृताम्बुधिमग्न एवाजनि श्रीकुमारभूजानिः॥
सप्तव्यसनवित्रासी, दुर्थ्यानाविषयस्थितिः । राजर्षिरत्यजत्सर्वानर्थदण्डमदण्ड कृत् ॥१॥
नवमं सामायिकवतं सावद्ययोगपरिवर्जनं निरवद्ययोगासेवनम् । तस्मिन् व्रतेराज्ञो द्विःसामायिककरणं नियमेन कृते च सामायिके मौनमेव श्रीगुरून् विनाऽन्यैः सह ।पाश्चात्यरात्रिसामायिके द्वादशप्रकाशयोगशास्त्रविंशतिवीतरागस्तवगुणनं विना नापरकार्यकरणम् । सामायिक प्रतिलेखितवस्त्रप्रमार्जितदेशप्रौञ्छनादिशुद्धसामाचारीपूर्वकमेव न यथा तथा ॥ इतो रागमहाम्भोधिरितो द्वेषदवानलः । यस्तयोर्मध्यमः पन्थास्तत्साम्यमिति गीयते ॥ १॥ एवं साम्यसुधास्वादसुहितात्मा महीपतिः। सामायिकपरो जज्ञे, संलीनकरणस्थितिः॥२॥
॥ दिग्वतगृहीतदिग्परिमाणस्य प्रतिदिनं परिमाणकरणं देशावकाशिकव्रतम्तत्र श्रीपरमाहतस्य रात्रौ स्वगृहान्तरेऽवस्थितिः न बहिर्गमनम् । दिवाऽपि प्रायः श्रीजिनालयशालागमनं विना राजपाट्यादिभ्रमणनिषेधः ॥ जन्तुजातदयोल्लासी, मितक्षेत्रकृतस्थितिः। संलीनात्मा कृपानाथो, दशमव्रतमादधौ ॥१॥
एकादशवते आहारशरीरसत्कारब्रह्मचर्यअव्यापाररूपचतुर्विधपौषधोपवासरूपे
an intematon
For Private Personal use only
Page #182
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ८८ ॥
एतस्मिन् पालिते एकादशव्रतानि सम्यक् पालितानि भवन्ति । सर्वपापाश्रवनिरोधहेतुरेतद्व्रतं महाफलं चेति विभाव्य | राज्ञः पर्वसु पौषधग्रहणम् । नियमेन गृहीते च पौषधे क्षपणम् । रात्रौ शयननियमः । गुरूणां विश्रामणा । अप्रमार्जनचङ्क्रमणोद्धारमुख भाषणादिनिषेधः । प्रायो रात्रौ कायोत्सर्गः । तदशक्तौ दर्भासनस्थः प्राणायामप्रणयी ॥ नेत्रद्वन्द्वे श्रवणयुगले नासिकाऽग्रे ललाटे, वक्रे नाभौ शिरसि हृदये तालूनि भ्रूयुगान्ते । ध्यानस्थानान्यमलमतिभिः कीर्त्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ॥ १ ॥ इति ध्यानस्थाननिवेशनिश्चलचेता एकासनस्थ एव तिष्ठति नृपतियोगीन्द्रः ॥ देहोपध्यादिनिस्सङ्गवृत्तिः पौषधमग्रहीत् । सर्वपर्वसु राजेन्द्रः, सदा नियमपूर्वकम् ॥ १ ॥
॥ द्वादशमेऽतिथिसंविभागत्रते । अतिथिश्चारित्री । यतः -
“तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः ॥ १ ॥” तस्य संविभागो न्यायागतकल्पनीयान्नपानादिवस्तूनां देशकाल श्रद्धा सत्कारपूर्वकं दानम् । राज्ञां तु तदसंभवि, राजपिण्डस्य यतीनां निषिद्धत्वात् । इत्येतत् श्रुत्वा श्रीपरमार्हतः पप्रच्छ श्रीगुरून्-भगवन् ! मम द्वादशव्रतं कथं भावि ? यदुत यतयः संसारतारका मदन्नपानादि न गृहीष्यन्ति । किञ्च -
साहूण कप्पणिज्जं ञं नवि दिन्नं कहिं पि किञ्चि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुञ्जन्ति ॥ १ ॥ तत्कथमहं सुश्रावकः ? एवं च सति मयि कृपामवधार्य मद्गृहे यतयोऽन्नादि गृह्णन्तु । गुरुभिरूचे - श्री चौलुक्य ! न
प्रबन्धः
॥ ८८ ॥
Page #183
--------------------------------------------------------------------------
________________
*
कल्पते नृपपिण्डः प्रथमचरमजिनसाधूनाम् 'रायपिंडे किमिच्छिए' इत्यागमनिषिद्धत्वात् । परं नरेन्द्र ! तव देशविरता अविरतसम्यग्दृष्टयश्च धर्मोपष्टम्भेन पोष्याः। पुराऽपि प्रथमचक्रिणा प्रथमजिनेन निषिद्धे राजपिण्डे साधर्मिका एव सर्वप्रकारैः पोषिताः । यदुक्तम्__वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं । सुसावयाणं करणिज्जमेअं, कयं तु जमा भरहाहिवेणं॥१॥"
ततो द्वादशवते तव साधर्मिकवात्सल्यमुचितम् । ततो राज्ञा स्वाज्ञावधि श्राद्धानां करो मुक्तः प्रतिवर्ष द्वासप्ततिलक्षद्रव्यमितः । त्रुटितसाधर्मिकस्य समागतस्य दीनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः। श्रीगुरूणां कथितं यदुत साध|र्मिको भग्नो ज्ञाप्यः । एकदा वर्षलेखके विलोकिते एका कोटिरायाता । यावत्तां दापयति तावताऽऽभडेनोक्तम्--देव ! द्विधा कोशः, स्थावरो जङ्गमश्च, वयं तु जङ्गमकोशस्थानीया इति जल्पन्निषिद्धः, मम नियमभङ्गः स्यादिति सर्व दत्तम् । एवं बहुवर्षाण्यभिग्रहः । एकदा कश्चिच्चारण एकवर्णान् पञ्चशततुरगान् दृष्ट्वा कञ्चन पप्रच्छ कस्यैते तुरगाः ? इति । तेनोक्तम्-श्रीकुमारपालस्य शालायां मुखवस्त्रिकां योऽर्पयति सारां करोति तस्यैते, द्वादशग्रामाश्च राज्ञा दत्ताः, इति श्रुत्वा पपाठ
रुडउं पारसनत्थ जइ एहवउं एजाइसिइ सहसिइ सेवड सत्थ कुमरनरिंदह बाहिरउं ॥१॥ एकदा
आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तजुषस्ताम्बूलाधुपभुञ्जते नटविटाः खादन्ति हस्त्यादयः। प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् ॥१॥
**PASAN AHORA
Jan Education Intem
For Private Personel Use Only
Page #184
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥८९॥
ROSCOCALCRACCORMANCCOR
तत्राप्यन्नदानं महते फलाय । यतः“अन्नं वै प्राणिनां प्राणाः, अन्नमोजः सुखौषधे । तस्मादन्नसमं दानं, न भूतं न भविष्यति ॥१॥ ददस्वान्नं ददस्वान्नं, ददस्वान्नं नराधिप । सद्यः प्रीतिकरं लोके, किं दत्तेनापरेण ते ॥२॥ सद्गीताद्भुतरूपरम्यरमणीकर्पूरकस्तूरिकाश्रीखण्डागुरुवाजिवारणमणिस्वर्णादिवस्तुव्रजः। योगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां, सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः॥३॥"
यतः
"अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् ॥" तदपि कृपया दीयमानं न पात्रापात्रविभागमपेक्षते । धर्मोपष्टम्भबुद्ध्या तु पात्रायैव, तत्तु त्रिधा । यदाह"उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया। अविरयसम्मदिडी, जहन्नयं पत्तमक्खायं ॥१॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥२॥
महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं, न भूतं न भविष्यति ॥३॥" इति श्रीगुरूपदेशोलासितसाधर्मिकवात्सल्यबह्वादरः श्रीकुमारपालः सत्रागारं कारयामासिवान् । यदुक्तम्"अह कारावइ राया, कणकोठागारघयघरोवेयं । सत्तागारं गुरुयं, विभूसियं भोयणसहाए ॥१॥ तस्सासन्ने रन्ना, कारविया वियडतुंगवरसाला । जिणधम्महत्थिसाला, पोसहसाला अइविसाला ॥२॥"
18|॥८९॥
in Eduentan
For Private Personel Use Only
Pow.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
तत्र श्राद्धाः सुखेनासते शेरते च ॥ तत्थ सिरिमालकुलनहनिसिनाहो नेमिनागअंगरुहो । अभयकुमारो सेट्ठी, कओ य अहिगारिओ रन्ना ॥ ३ ॥
इत्थंतरंमि सिद्धपालेण सिरिपालसूएण कविणा उत्तम्क्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो, रेवावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः। क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ॥१॥ ता जुत्तं देव ! कयं, तुमए जं इत्थ धम्मठाणंमि । अभयकुमारो सिट्ठी, एसो सवेसरो विहिओ॥४॥
तत्र चानया रीत्या साधर्मिकभक्तिःघयकूरमुग्गमंडगवंजणवडयाइकयचमक्कारं । सक्कारपुवयं सावयाण सो भोयणं देइ ॥ ५ ॥ वत्थाई पसत्थाई, कुटुं-17 बनित्थारणथमत्थं तु । एवं सत्तायारं, कयं नरिंदेण जिणधम्मे ॥६॥ । पारणकदिने श्रीत्रिभुवनपालविहारे स्नात्रावसरमिलितसाधर्मिकाः साधं भुञ्जते । भोजनावसरे सदाऽपि च दीनदुःस्थितानाथक्षुधार्तादीनां दयादानप्रवर्तनाय पटहवादनेनान्नप्रदानपूर्व सर्वराजद्वारेषु उद्घाटेष्वनिवारितप्रवेशनिर्गमेषु सत्सु | भुक्तिः। यदागमः| "नेव दारं पिहावेइ, भुञ्जमाणो सुसावओ। अणुकंपा जिणिंदेहि, सड्डाणं न निवारिया ॥१॥" इत्थं व्रते द्वादशमे वितन्वन् , समग्रसार्मिकभक्तिमुच्चैः । स संप्रतीन् श्रीभरतादिभूपान् , संस्मारयामास कुमारभूपः ॥१॥
Jain Education Interational
For Private
Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
धर्म द्वादशधा स्वयं सुविधिना शुद्धं समाराधयन् , दानाद्यैरपरानपि स्थिरतरान् कुर्वन् स्वधर्मे जनान् । निर्जित्योर्जितदुष्कलिं खलु जिनध्यानकतानोऽकरोत् , श्रीचौलुक्यनरेश्वरः कृतयुगैश्वर्यं सदोज्जागरम् ॥२॥ अथान्यदा व्रतान्येषं, मनःशुद्ध्या प्रपालयन् । गुरून् स्वरूपं पप्रच्छ, सप्तक्षेत्र्या नृपुङ्गवः ॥१॥ गुरुराह-जैनप्रासादबिम्बानि, श्रीमान् जैनागमस्तथा । सङ्घश्चतुर्विधश्चेति, सप्तक्षेत्रीं जिना जगुः ॥ २॥ एतेषु स्वधनं न्यायोपात्तं भक्त्या सदा वपन् । अन्यत्रापि यथौचित्यान् , महाश्रावक उच्यते ॥३॥ तत्र जिनचैत्यानि कार्यमाणानि जनयन्ति कारयितुः सम्यक्त्वशुद्धिम् । तेषां तथाविधानां दर्शने च लभन्ते वोधिमनेके भव्यजीवा धर्मस्थैर्य च । जिनधर्मोन्नतिः। मिथ्याग्जनविस्मयः । न्यायविशुद्धधनमात्सर्याहङ्कतिमहत्वाकाङ्कादिमलरहितमनोऽभिसन्धिविधिना कारितानि जिन-16 चैत्यानि पुण्यानुबन्धिपुण्यहेतुतया प्रेत्यतीर्थकृदादिपदसंपदे च जायन्ते । यदुक्तम्
"रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा।
वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्योतितम् ॥१॥" कारयन्ति जिनेन्द्राणां, तृणावासानपीह ये । मणिरत्नविमानानि, ते लभन्तेऽत्र विष्टपे ॥१॥ माणिक्यहेमरत्नाद्यैः, प्रासादान कारयन्ति ये । तेषां पुण्यैकमूर्तीनां, को वेद फलमुत्तमम् ॥२॥ काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ॥ ३॥ यावत्तिष्ठति जैनेन्द्रमन्दिरं धरणीतले । धर्मस्थितिकृता तावडेनसौधविधायिना ॥४॥
Jain Education in
Page #187
--------------------------------------------------------------------------
________________
जिनभवननिर्मापणविधिरेवम्-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति४ संधानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्व जिनभवनविधापनम् । विशेषतः सति विभवे भर
तादिवद्रत्नशिलादिभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालावलानकस्य शालिभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकाऽगुरुप्रभृतिधूपसमुच्छलद्भूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिवद्धकिङ्किणीरणकारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बरमहिनो निरन्तरतालारसहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याभिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । अथ प्रचुरतरविभवविनियोगाऽयोगे स्ववित्तानुसारेणापि जिनभवनं कारयितव्यमेव । यतः
"पढम चिय जिणभवणं, नियदबनिओयणेण काय । जम्हा तं मूलाओ, सुहकिरियाओ पवत्तंति ॥१॥ जिणबिम्बपइटाओ, सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्टाहियाओ निच्चं च पूयाओ ॥२॥ एयं संसारोदहिमज्झनिबुडाण तारणतरई । जं दसणस्स सुद्धी, एएण विणा न संभवइ ॥३॥ तेसिं अन्नेसि चिय, जीवाणं विरमणं च पावाओ। पाणवहाईयाओ, संजायइ तत्थ परिसुद्धं ॥४॥"
For Private
Personel Use Only
Page #188
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः
असति तु विभवे तृणकुट्यादिरूपस्यापि । यदाह“यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥१॥ किं पुनरुपचितदृढघनशिलासमुद्धातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः॥२॥"
किंबहुना"तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकजेण जं वए ॥१॥" राजादेस्तु विधापयतः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने । तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं च नवीनजिनभवनिर्माणादपि जीर्णोद्धरणं महते पुण्याय । यतः
"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥ जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशाकूपारपारदा ॥ २॥" यतः"राया अमच सिट्ठी, कोडंबीएवि देसणं काउं। जिन्ने पुवाययणे, जिणकप्पी वावि कारवइ ॥१॥ जिणभवणाई जे उद्धरन्ति भत्तीए सडियपडियाई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥२॥ अप्पा उद्धरिओ च्चिय, उद्धरिओ तय तेण नियवंसो। अन्ने य भवसत्ता, अणुमोयंता य जिणभवणं ॥ ३ ॥ इह लोगंमि सुकित्ती, सुपुरिसमग्गो य देसिओ होइ । अन्नेसिं भवाणं, जिणभवणं उद्धरंतेण ॥४॥ कप्पदुम व चिंतामणि व चक्कि व वासुदेव ब । पूइजति जणेणं, जिन्नुद्धारस्स कत्तारो॥५॥
564
Jain Education
Page #189
--------------------------------------------------------------------------
________________
तथा जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यविधापनम् । यदाह
"सन्मृत्तिकामलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् ।
कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥ ६ यः कारयेत्तीर्थकृतः प्रतिष्ठां, प्राप्स्यत्यसौ तीर्थकृतः प्रतिष्ठाम् । यदुप्यते यद्विधमेव बीजमवाप्यते तत्तदवस्थमेव ॥२॥"
जो कारवेइ पडिमं, जिणाण जिअरागदोसमोहाणं । सो पावइ अन्नभवे, भवमहणं धम्मवररयणं ॥३॥ तथा
"पासाईया पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निजरमो वियाणाहि ॥१॥" तथा-- "बिम्बानि श्रीजिनेन्द्राणां मणिरत्नैश्च हेमभिः । रूप्यैः काष्ठदृषद्भिर्वा मृदा वा चित्रकर्मणा ॥१॥ एकाङ्गुष्ठादिसत्सप्तशताङ्गुष्ठमितानि यः । कारयत्यत्र भावेन, सर्वपापैः प्रमुच्यते ॥२॥
मेरोर्गुरुर्गिरिनान्यः, कल्पद्रोन परो दुमः । न धर्मो जिनबिम्बानां, निर्माणादपरो गुरुः ॥३" धनादिव्ययशक्ती पञ्चशतधनुःप्रमाणाः प्रतिमाः कार्यन्ते । सर्वथाऽपि धनाद्यप्राप्तावेकाङ्गुलमपि बिम्बं कारितं मुक्तिसुखायापि ॥ यतः
"अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः॥१॥"
REACOCCALCOCCAR
For Private & Personel Use Only
____
Page #190
--------------------------------------------------------------------------
________________
प्रवन्धः ।
कुमारपाल
तथा निष्पन्नस्य श्रीजिनबिम्बस्य शास्त्रोक्तविधिना निजविभवानुमानेन महोत्सवैः शुद्धब्रह्मचारिचारित्रिगुरुपार्था
प्रतिष्ठापनम् , पञ्चाष्टसर्वोपचारपूजाप्रकारैरभ्यर्चनम् , नित्यं यात्राविधानम् , यथाप्रस्तावं विशिष्टाभरणभूषणम् , दमय॥ ९२॥ 1न्त्यादिवद्विचित्रपञ्चवर्णवस्त्रैः परिधापनम् । यदाह
"गन्धर्माल्यैर्विनिर्यद्व हुलपरिमलैरक्षतेधूपदीपैनैवेद्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च। अम्भःसंपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममारालभन्ते ॥१॥"
तथा"वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते।
दीपैर्जानमनावृतं निरुपमाभोगर्द्धिरत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ॥ १॥" न तु जिनविम्बानां पूजादिकरणेन कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चाऽतृप्ताऽतुष्टाभ्यो देवताभ्यः फलप्राप्तिः, नैवम् , चिन्तामण्यादिभ्योऽतृप्तातुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तम्
"अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः? ॥१॥
उवगाराऽभावमिवि, पुजाणं पूयगस्स उवगारो । मंताइसरणजलणादिसेवणे जह तहेहंपि ॥२॥" एष स्वकारितानां विम्बानां तावत्पूजादिविधिरुक्तः । अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्ह पूजनवन्दनादिविधिरनुष्ठेयः। त्रिविधा हि जिनप्रतिमाः भक्तिकारिताः स्वयं परेण वा चैत्येषु याः कारिताः । इदानीमपि
R
॥९२॥
Jain Education
a
l
For Private Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
मनुष्यादिभिर्विधाप्यन्ते । मङ्गल्यकारिताया गृहेषु गृहद्वारपट्टेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव, अध-10 स्तिर्यगू लोकावस्थितेषु जिनभवनेषु प्रवर्तन्ते इति । नहि लोकत्रयेऽपि तत्स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितं प्रतिभासते, षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखननदलवाटकान-1 यनगर्तापूरणेष्टिकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति, उच्यते-यः आरम्भपरिग्रहप्रसक्तः स कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्यय श्रेयानेव। यतः
"आरंभपसत्ताणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिहंतो ॥१॥" न च धर्मार्थ धनोपार्जन युक्तम् । यतः
"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाच्च पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति ॥ | न च वापीकूपतडागादिखननवदशुभोदर्कमेतत् , अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिहेतुतया शुभोदर्कमेव ब्रह्मेन्द्रादिवत् । यदाह
___ “शिखरोपरि यत्राम्बाऽवलोकनशिरस्तु रङ्गमण्डपके। शम्बो बलानके स्यासिद्धिविनायकः प्रतीहारः॥१॥" A श्रीब्रह्मेन्द्रेण रैवतके पूर्वाभिमुखः प्रासादोऽकारीति । षट्रकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन
सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः--
-57075555
For Private & Personel Use Only
Page #192
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥" |
यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य मा भूजिनबिम्बविधानमपि । यदाह॥ ९३॥
"देहाइनिमित्तंपि हु, जे कायवहंमि इह पयन्ति । जिनपूया कायवहंमि तेसिमपवत्तणं मोहो ॥१॥” इति ॥ | तथा जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते । यतः
“ओहो सुओवउत्तो, सुयनाणी जइ हु गिन्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाणसुयं भवे इहरा ॥१॥" HI एकमपि जिनागमवचनं चिलातीपुत्रादिभविनां भवविनाशहेतुः संपन्नम् । यद्यपि मिथ्याग्भ्य आतुरेभ्य इव पथ्यानं
न रोचते जिनवचनं तथाऽपि तृतीयं नेत्रं द्वितीयो दिवाकरो नान्यत्स्वर्गापवर्गमार्गे प्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रोतव्यम् । यतः समासन्नकल्याणभागिन एव भावतो भावयन्ति जिनवचनम् । इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । दुष्यमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनागमबहुमानिना तत्पुस्तकेषु लेखनीयम् । वस्त्रादिभिरभ्यर्चनीयम् । यदाह
"ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति ।
॥९३॥
Jain Education Intematoga
For Private Personel Use Only
Page #193
--------------------------------------------------------------------------
________________
शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥१॥ न ते नरा दुर्गतिमामुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥२॥
लेखयन्ति नरा धन्याः, ये जिनागमपुस्तकम् । ते सर्व वाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः॥३॥" जिनागमपाठकानां भक्तिपूर्वकं सम्माननं च । यतः“पठति पाठयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः। प्रतिदिनं कुरुते य उपग्रह, स इह सर्वविदेव भवेन्नरः॥१॥" लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम् , व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति जिनागमक्षेत्रे धनवपनम् । तथा
“यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः। यस्मै तीर्थपतिनमस्यति सतां यस्माच्छुभं जायते, स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन् स सोऽय॑ताम् ॥१॥"
इति चतुर्विधश्रीसङ्घ साधुसाध्वीश्रावकश्राविकारूपे सर्वशक्त्या स्वर्णरत्नाभरणपट्टकुलान्नपानादिप्रदानैः स्वधनवपनमिति । तथा
"व्रतादिधर्मः सर्वोऽपि, पालितः शुद्धभावतः। स्वस्यैव भवपाथोधेस्तारकः खलु कीर्तितः॥१॥
सप्तक्षेत्रीधनारोपसंभवस्तुविशेषतः। स्वान्ययोमुक्तिदः शश्वन्महाश्राद्धत्वदायकः ॥२॥" इत्यादिश्रीगुरूपदेशामृतरसोजीवितप्रभावनाधर्ममनोरथसुरभूरुहः स्वलक्ष्मी कृतार्थीचिकीर्षुर्महाश्रावकपदमधिरोदं चै
CONOCORROROSALMANORA
For Private
Personel Use Only
Page #194
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपालत्यादिनिर्मापणविधौ प्रावर्तत श्रीपरमाहतभूपः। तत्र पत्तने श्रीत्रिभुवनपालविहारः पञ्चविंशतिहस्तोच्चः सपादशताङ्गल
मितश्रीनेमिप्रतिमालङ्कृतः स्वपितृश्रेयसे द्वासप्ततिजिनालयसमन्वितः कारितः। यदुक्तम्॥९४॥
"तत्तो इहेव नयरे, कराविओ कुमरवालदेवेण । गुरुओ तिहुणविहारो, गयणतलुत्तंभणक्खंभो ॥१॥ कंचणमयआमलसारकलसके ऊपहाहिं पिंजरिओ । जो भन्नइ सच्चं चिय, जणेण मेरुत्ति पासाओ॥२॥ जम्मि महप्पमाणा, सबुत्तमनीलरयणनिम्माया । मूलपडिमा निवेणं, निवेसिया नेमिनाहस्स ॥३॥ कुसुमोहअच्चिया जा, जणाण काउं पवित्तयं पत्ता। गंगातरंगरंगंतचंगिमा सहइ जउण व ॥४॥ वट्टताण जिणाणं, रिसहप्पमुहाण जत्थ चउवीसा । पित्तलमयपडिमाओ, कराविया देवउलियासुं ॥५॥ एवमइक्कंताणं, तह भावीणं जिणाण पडिमाओ। चउवीसा चउवीसा, निवेसिया देवउलियासु ॥६॥
इयपयडियधयजसडंबराहिं बाबत्तरीइं जो तुंगो। सप्पुरिसो व कलाहिं, अलंकिओ देवकुलियाहिं ॥७॥" तथा पुरोन्दुरद्रव्यं गृहीतमभूत्तत्प्रायश्चित्ते उन्दुरवसहिका कारिता पुरा मार्गे देवश्रिया करम्बो दत्तस्तन्नाम्ना करम्बवसहिकाऽपि । प्राक्तृप्तपललाहारपापशुद्धये द्वात्रिंशत्प्रासादाः । एकवेद्यां षोडशसंमुखाः षोडश प्रासादाः, तेषु चतुर्विंशतिजिनचतुर्विहरमाणजिनप्रतिमाः, रोहिणी १, समवसरणम् २, चैत्यदुः३, श्रीगुरुसुवर्णपादुका ४ श्च, एवं द्वात्रिंशत् । अन्यदा जैनधर्मप्रतिपत्तेः पूर्व सर्वतोऽपि द्वियोजनी यावत्खदिरबदर्यादिद्रुमवनगहनादिना दुर्गाह्येऽजयमेरुदुर्गेऽर्णोराजजयार्थमेकादश वाराः श्रीकुमारनृपस्तत्र जगाम, परं दुर्गो गृहीतुं न शेके। ततोऽतिखिन्नेन राज्ञा मन्त्रिवाग्भटः पृष्टः, अस्ति कोऽपि
हारपापा १, समवसरवदर्यादि
Jain Education
Page #195
--------------------------------------------------------------------------
________________
भवतां सप्रत्ययो देवः ? यदुपासनादिना रिपुरसौ जीयते । ततो मन्त्रिणा विज्ञप्तम्-इह श्रीपत्तने पितुः श्रीउदयनमत्रिणः श्रेयसे मया कारितदेवकुलिकायां खत्तके श्रेष्ठिछाडाकारितं श्रीहेमसूरिप्रतिष्ठितं श्रीअजितनाथ बिम्बं जाग्रन्महिमोदयं समस्तीति तद्विम्बपूजाभोगादिनाऽवश्यं स्वामिना वैरी जीयेत एव । ततो राज्ञा तच्चमत्कारादिविलोकनाय तत्र गत्वा तदजितबिम्बपूजोपचारादि विधाय विजययात्रायै प्रस्थितः। तन्महिमानुभावात्तं वैरिणं निगृह्य जयश्रियं प्राप्य पश्चादागच्छता राज्ञा मार्गे तारणदुर्गोऽतिरमणीयो दुर्गाह्यश्च दृष्टः । तदनु महोत्सवैः पत्तनमलञ्चक्रे । जिनधर्म
प्राप्तौ चैकदा श्रीगुरुवन्दनायागतेन राज्ञा श्रीगुरवः श्रीअजितनाथस्तुतिं पठन्तो दृष्टाः । तदा श्रीअजितबिम्बप्रभावः 8 स्मृतिपथमायातः । हृष्टेन श्रीगुरुभ्यो विज्ञप्तं तत्स्वरूपम् । गुरुभिरपि हे श्रीचौलुक्यभूप ! अयं तारणदुर्गोऽनेकमुनिसिद्धिप्रापकत्वेन श्रीशत्रुञ्जयतीर्थप्रतिकृतिरूप एवेति व्याख्याते श्रीकुमारभूपेन तत्र कोटिसिद्धपूतकोटिशिलादिमनोरमे श्रीतारणदुर्गे चतुर्विंशतिहस्तोच्च एकोत्तरशताङ्गलश्रीअजितबिम्बालङ्कृतः प्रासादः कारितः । यदुक्तम्| "विहार उचितः श्रीमन्नक्षय्यस्थानभावतः। शत्रुञ्जयापरमूर्तिगिरिरेष विमृश्यताम् ॥१॥
चतुर्विंशतिहस्तोच्चप्रमाणं मन्दिरं नृपः। विम्बं चैकोत्तरशताङ्गुलं तस्य न्यधापयत् ॥२॥” स्तम्भतीर्थे श्रीहेमाचार्यदीक्षास्थाने श्रीआलिगाख्या वसतिः श्रीगुरुस्नेहेन रालश्रीवीरबिम्बसौवर्णश्रीगुरुपादुकाविराजिताऽकारि । अथान्यदा श्रीराजर्षिः प्रातः श्रीगुरुवन्दनार्थ मार्गे गच्छन् वचःपथातिगरामणीयातिशयविशेषितं प्रासादं श्रीवाहडदेवेन कार्यमाणं दृष्ट्वा कौतुकात्तत्र प्राप्तः । पूर्वमागतेन श्रीवाहडमन्त्रिणा प्रणामपूर्वं दत्तबाहुः सर्वत्र चैत्यशोभा
For Private & Personel Use Only
Page #196
--------------------------------------------------------------------------
________________
CR
कुमारपाल
MC-
प्रवन्धः।
O SAROKALCHALCCASCALCA
|लोकोत्तरां पश्यन् विस्मयहृतचित्तो यावदास्ते तावन्नेपालदेशनृपप्राभृतमेकविंशत्यङ्गलमितं चन्द्रकान्तमणिविम्वं श्रीपा
वस्य तत्रागात् ॥ तद्विम्बं चन्द्रबिम्बाभ, पश्यतो नृपतेर्मुहुः। अमोदिषातामुचितं, कुमुदे इव लोचने ॥१॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् । देहि मह्यमिदं चैत्यं, यथैतां स्थापयाम्यहम् ॥२॥ एवं राजानमालोक्य प्रार्थनापरं लोकाः प्राहुः
क्वापि जैनेन्द्रधर्मस्य, महिमा न हि मात्यहो । यदेवं याचते भूपो, मन्त्रिणं विनयान्वितः॥१॥ तदनु हृष्टो मन्त्री महाप्रसादोऽयमिति सविनयं विज्ञपयन् श्रीकुमारविहारोऽस्त्वयमिति राजाज्ञया कारितवान् चतुविशतिजिनालयं तं प्रासादमष्टापदोपमम् । यदुक्तम्
"कणयामलसारपहाहिं पिंजरे जंमि मेरुसारिच्छे । रेहति केउदंडा, कणयमया कप्परुक्ख व ॥१॥
पासस्स मूलपडिमा, निम्मविया जत्थ चंदकंतिमई । जणनयणकुवलउल्लासकारिणी चंदमुत्ति व ॥२॥ अन्नाउवि बहुयाओ, चामीयररुप्पपित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ ॥३॥” इति ॥5
चैत्यशुकनाशे छिद्रे कृते पूर्णेन्दुकरसङ्गमादमृतरसः श्रवति स्म । तेन दिव्यौषधायमानेन चाक्षुपतापादिदोषाः शाम्यन्ति स्म । यदुक्तं कविना श्रीपालेन
"स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुकोल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चूलमुक्ताफलैः। सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती, श्रीपार्श्वस्य शरीरकान्तिलहरी लक्षेण लक्ष्मीलता ॥१॥"
REMCALCCORRECACHECK
॥९५॥
Jan Education Intemano
For Private 3 Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
श्य, विषयेषु परामदेयदण्डेन, या
दि ११ मा ३ भम्भेरी
एतेषु सर्वचैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवढ्यधात् ॥१॥ अर्चार्थमेषां चैत्यानामारामान् पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिर्ददौ ॥२॥ ततोऽस्मद्देयदण्डेन, युष्माभिर्निजनीवृति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ३॥ इति प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः॥४॥ गुर्जरो १ लाट २ सौराष्ट्र ३ भम्भेरी ४ कच्छ ५ सैन्धवः ६ । उच्चा ७ जालन्धरः ८ काशिः ९ सपादलक्ष ४|१० इत्यपि ॥५॥ अन्तर्वेदि ११ मरु १२ मेंदपाटो १३ मालवक १४ स्तथा । आभीराख्यो १५ महाराष्ट्र १६ कर्णाटः
१७ कुङ्कणो १८ऽपि च ॥६॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा रेजिरे मूर्ताः, स्वकीर्तिप्रकरा इव ॥७॥ त्रिभिर्विशेषकम् ॥
श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभोः श्रुत्वा क्षितिवासवेन विहिते निश्शेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेर्निर्गतैः, स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ॥१॥ इत्थं चतुर्दशशतप्रमितान् विहारान् , नव्यान् विचित्रशुभविम्बविराजमानान् । निर्माप्य पोडशसहस्रमितांश्च जीर्णोद्धारान् नृपो निजरमा सफलीचकार ॥२॥ अथ जिनागमसमाराधनतत्परेण राजर्षिणेकविंशतिर्ज्ञानकोशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैलेखयित्वा स्वावासे नीत्वा रात्रिजागरणप्रातःपट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकदण्डद्वासप्ततिचामरोपवीज्यमानादिमहोत्सवपरम्परापूर्वक
CONCLOCACACMCANCARNAS
Jan Education International
For Private Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः ।
॥९६॥16
CRCLOCALSOCC
शालायां नीत्वा द्वासप्ततिसामन्तादियुतेन श्रीगुरुभिर्व्याख्यायमानं सौवर्णरत्नपट्टदुकूलादिपूजाविधिना श्रुतं । च एवमेकादशाङ्गद्वादशोपाङ्गादिसिद्धान्तप्रतिरेका सौवर्णाद्यक्षरैर्लेखिता वाच्यमाना च श्रीगुरुपार्श्वेश्रुता शुद्धविधिना । योगशास्त्रवीतरागस्तवद्वात्रिंशत्प्रकशाः सौवर्णाक्षरा हस्तपुस्तिकायां लेखिताः। प्रत्यहं मौनेनैकशो गुणनम् । सा पुस्तिका देवतावसरे पूज्यते स्म । स्वगुरुकर्तृका ग्रन्था मया नियमेन लेखनीया इत्यभिग्रहं जग्राह । सप्तशतलेखका लिखन्ति । एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशालाविलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरुपार्श्वे पृच्छा । गुरुभिरूचे श्रीचौलुक्यदेव ! सम्प्रति श्रीताडपत्राणां त्रुटिरस्ति ज्ञानकोशे, अतः कागदपत्रेषु ग्रन्थलेखनमिति श्रुत्वा लज्जितो भूपतिः। अहो ! गुरूणां नव्यग्रन्थकरणशक्तिरस्खलिता, मम तु तल्लेखनेऽपि न सामर्थ्य किं मम श्राद्धत्वम् ? इति ध्यात्वाऽभ्युत्थाय क्षपणप्रत्याख्यानं कारयतेत्याह, अद्य किमर्थमुपवासः ? इति गुरुभिः पृष्टे अतः परं तदा भोक्तव्यं यदा श्रीताडपत्राणि पूरितानि भवन्ति लेखकानामित्याह श्रीनृपतिसिंहः । ततो दूरे श्रीताडाः कथं शीघ्रमायान्ति ? इति गुरुसामन्तादिभिः सबहुमानं वार्यमाणोऽपि स्वयं कृतोपवासः ॥ अहो ! जिनागमे भक्तिरहो ! गुरुषु गौरवम् । श्रीकुमारमहीभर्तुरहो ! निस्सीमसाहसम् ॥१॥ इत्यादि श्रीसङ्घन स्तूयमानः स्वावासोपवनमागत्य खरताडान् चन्दनकर्पूरादिभिरभ्यर्च्य मन्त्रसिद्ध इवैवमाह-स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताडदुमतां तदा ॥१॥ कथयित्वेति गाङ्गेयमयं अवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कन्धदेशे न्यवीविशत् ॥२॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीताडदुमतां तांश्च, निन्ये शासनदेवता ॥ ३ ॥ प्रातरारामिका राज्ञे निवे
Jain Educh an in
Page #199
--------------------------------------------------------------------------
________________
दितवन्तः । राजाऽपि तान् पारितोषिकदानेन समानन्ध पत्राणि पूगशः समानाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमसूरिपादाः॥ किमेतदिति पृष्टः सन् , गुरवे राट् व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ॥१॥ हेमाचार्यस्तदाकर्ण्य, कर्णयोरमृतोपमम् । नृपेण पारिपद्यैश्च सहारामं तमागमत् ॥ २॥ एतददृष्टाश्रुतपूर्विणो ब्राह्मणा देवबोध्यादयोऽन्येऽपि लोकाश्च खरताडेषु श्रीताडतां दृष्ट्वा विस्मयाश्चर्यमया बभूवांसः। तदा च हेमाचार्यों जैनमतमुपश्लोकयितुमिदमाह__अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्यच्छत्याऽत्र युगेऽपि ताडतरवः श्रीतालतामागताः ।
श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्रामुयुः॥१॥ एवं त्रिभुवने जिनधर्मसाम्राज्यं विधाय गुरवो धर्मावासमलञ्चक्रुः । राजर्षिरपि एकोपवासावर्जितशासनदेवताक्लुप्तमहिमाभ्युदयविशेषप्रथितप्रतापप्रभाववैभवः स्वसौधमागत्य समहोत्सवं पारणं कृतवान् ॥ ततस्तदुद्भवनैकैर्विशालैः कोमलैदलैः । लिलिखुलेखाग्रण्यो, ग्रन्थान् प्रभुकृतान् सुखम् ॥१॥ तथा चतुर्विधश्रीसद्धेऽपि प्रत्यहं पूजासम्मानदानादिविधी |निस्सीम एव विभवव्ययः॥एवं क्षेत्रेषु सर्वेषु, वपन् लक्ष्मीमनेकधा। महाश्रावकतां लोकोत्तरामाप नृपोत्तमः॥२॥अथान्यदा___ अन्नदिणमि मुणिंदो, कुमरविहारे कुमारपालस्स । चउविहसंघसमेओ, चिइ धम्मं पयासंतो॥१॥ बहुविहदेसे
हिंतो, धणवंतो तत्थ आगओ लोओ। पट्टेसूयकणयविभूसणेहिं काऊण जिणपूयं ॥२॥ कणयकमलेहिं गुरुणो, चललणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो, नरवइणो कुणइ पणिवायं ॥ ३ ॥ तो पत्थिवेण भणियं, किमत्थमित्था
गओ इमो लोओ। एक्केण सावएणं, भणियमिणं सुण महाराय !॥ ४ ॥
ANCIENCEROSAROSAROSCORENCE
For Private Personal use only
www.ainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
G
कुमारपाल
पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षणः श्रेणिकः।
प्रबन्धः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधालब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः॥१॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धिं परामात्मनस्तद्ववेन्दुविलोकनेन सफलीकर्तुं निजे लोचने।। तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं, भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः॥२॥ ता नरनाह ! कयत्था, अम्हे अम्हाण जीवियं सहलं । जेहिं नमिओ मुणिंदो, पञ्चक्खो गोयमो व इमो ॥५॥जिणधम्मे पडिवत्ती, दूसमसमए असंभवा तुज्झ । देसंतरछिएहिं, सोउं दिहा य पच्चक्खं ॥ ६॥ संपइ वच्चिस्सामो, सुरहदेसंमि तित्थनमणत्थं । अन्नसमयंमि होही, मग्गेसु किमेरिसं सुत्थं ॥७॥
इत्यादि वैदेशिकश्राद्धानां तादृग्गुरुवचनभक्तिगर्भवचनारचनाचमत्कृतः प्रत्यहं मया सौवर्णकमलैर्गुरुपादौ पूजनीयावित्यभिग्रहं जग्राह । यात्रोत्सवेऽपि कृतमहोत्साहः कतिचिद्दिनान्यतिक्रम्याथ श्रीजिनशासनप्रभावनाविधानसावधानो भगवन् ! कतिधा यात्रा ? इति प्रपच्छ श्रीगुरून् । गुरुः प्राह-श्रीचौलुक्यदेव ! यात्रां त्रिधा प्राहुः। यथा“अष्टाहिकाभिधामेकां रथयात्रां तथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥१॥" तत्र च तीर्थयात्रा क्रियमाणा सर्वप्रकारपुण्यपरिपोषकारणम् । यतः
॥९७॥ "अग्रणी शुभकृत्यानां, तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यत्र सीमानमश्नुते ॥१॥ आरम्भाणां निवृ-14 त्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यप्रभावो जिनवचन
Jain Education SRK
For Private
Personal use only
www.ainelibrary.org
Page #201
--------------------------------------------------------------------------
________________
कृतिस्तीर्थकृत्कर्मकत्वं सिद्धेरासन्नभावः सुरनरविभुता तीर्थयात्राफलानि ॥ २ ॥ पूर्वेषां द्योतितो मार्गः, स्वपुत्राणां च दर्शितः । उन्नतिं शासनं नीतं, तीर्थयात्रां प्रकुर्वता ॥ ३ ॥ यातः श्रीभरतः समं निजकुलैरष्टापदं श्रेणिको, वैभारं गिरिमुज्जयन्तमचिरादामोऽपि नन्तुं जिनान् । तत्पन्था क्रियते स एष विधिना तीर्थेषु यात्रामिमां कुर्वाणैर्निजविक्रमेण पुरुषः कैरप्यशून्योऽधुना ॥ ४ ॥ यात्रायामपि सङ्केशपदं भाग्यैरवाप्यते । तीर्थकृन्नाम कर्मापि, बध्यते येन मानवैः ॥ ५ ॥ ऐन्द्रपदं चक्रिपदं, श्लाघ्यं श्लाध्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ॥ ६ ॥ संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः, कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं कदाऽपि न पुनः सङ्घाधिपत्यं पुनः ॥ ७ ॥ अर्हतामपि मान्योऽयं, सङ्घः पूज्यो हि सर्वदा । तस्याधिपो भवेद्यस्तु स हि लोकोत्तरस्थितिः ॥ ८ ॥ चतुर्विधेन सङ्केन सहितः शुभवासनः । रथस्थदेवतागार जिनविम्बमहोत्सवैः ॥ ९ ॥ यच्छन् पञ्चविधं दानमुद्धरन् दीनसंचयम् । पुरे पुरे जिनागारे, कुर्वाणो ध्वजरोपणम् ॥ १० ॥ शत्रुञ्जये रैवते च वैभारेऽष्टापदाचले । सम्मेतशिखरे देवानर्चयन् शुभदर्शनः ॥ ११ ॥ सकलेष्वथ चैकस्मिन् शत्रुञ्जयगिरीश्वरे । इन्द्रोत्सवादिकं कृत्यं कुर्वन् सङ्घपतिर्भवेत् ॥ १२ ॥”
श्री चौलुक्यभूप ! तीर्यतेऽनेन भवाम्भोधिरिति तीर्थम्, तच्च द्विधा । तथाहि
जङ्गमं स्थावरं चैव तीर्थं द्विविधमुच्यते । जङ्गमं मुनयः प्रोक्तं, स्थावरं तन्निषेवितम् ॥ १ ॥ तत्र श्रीजिनगणधरादयः श्रीसङ्घश्चतुर्विधश्च जङ्गमतीर्थत्वेनाराधनीयाः । स्थावरतीर्थानि त्वमूनि श्रीआद्याङ्गनिर्युक्तौ
Page #202
--------------------------------------------------------------------------
________________
कुमारपाल
॥ ९८ ॥
प्रोक्तानि । यथा
“जम्माभि सेयनिक्खमणचवणनाणुप्पया य निवाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥ १ ॥ अट्ठावयमुज्जिते, गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ २ ॥” परं राजन् ! सकलतीर्थावतारं महाप्रभावमनादिकालीनं सर्वतीर्थयात्राफलदं च श्रीशत्रुञ्जयतीर्थं समस्ति । यदुक्तं श्रीअतिमुक्तकेवलिना नारदाग्रे
"जं लहइ अन्नतित्थे, उग्गेण तवेण वंभचेरेण । तं लहइ पयत्तेणं, सित्तुज्जगिरिंमि निवसतो ॥ १ ॥ केवलाणुष्पत्ती, निवाणं जत्थ आसि साहूणं । पुंडरियं वंदित्ता, सधे ते वंदिया तित्था ॥ २ ॥ अट्ठासम्मे, पावा चंपा य उज्जिलनगे य । वंदित्ता पुन्नफलं, सयगुणियं तंपि पुंडरी ॥ ३ ॥ पूयाकरणे पुन्नं, एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्संडणंतगुणं पालणे होइ ॥ ४ ॥ वितं सुवन्नभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं, पूयान्हवणेण सितुंजे ॥ ५ ॥ जं किंचिनामतित्थं, सग्गे पायालि तिरियलोगंमि । तं सबमेव दिडं, पुंडरिए वंदिए संते ॥ ६ ॥ ” विद्याप्राभृते श्रीशत्रुञ्जयस्यैकविंशतिनामान्येवम् —
शत्रुञ्जयः १ पुण्डरीकः २, सिद्धिक्षेत्रं ३ महाचलः ४ । सुरशैलो ५ विमलाद्रिः ६, पुण्यराशिः ७ श्रियः पदम् ८ ॥ १ ॥ पर्वतेन्द्रः ९ सुभद्र १० श्च दृढशक्ति ११ रकर्मकः १२ । मुक्तिगेहं १३ महातीर्थं १४, शाश्वतः सर्वकामदः १५ ||२||
प्रबन्धः ।
॥ ९८ ॥
Page #203
--------------------------------------------------------------------------
________________
CALCUCCESCARSAGARLS
पुष्पदन्तो १६ महापद्मः १७, पृथ्वीपीठं १८ प्रभापदम् १९। पातालमूलः २० कैलाशः२१, क्षितिमण्डलमण्डनम्॥३॥
शतमष्टोत्तरं नाम्नामित्याद्युक्तममुष्य हि । महाकल्पे विजानीयात् , सुधर्मोक्तेऽतिशर्मदम् ॥४॥" अशीति योजनान्याये, विस्तृतोऽयमरे ! पुनः। द्वितीये सप्तति तानि, तृतीये षष्टिमद्रिराट् ॥१॥ तुर्ये पञ्चाशतं तानि, | पञ्चमे द्वादशाऽपि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्य पुनर्महान् ॥२॥ हानिर्यथाऽवसर्पिण्यामुत्सर्पिण्यां तथोदयः। मानस्यैतस्य तीर्थस्य, महिम्नो न कदापि हि ॥३॥ पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि । विस्तार उच्छ्रयस्त्वष्टी, युगादीशे तपत्यभूत् ॥ ४॥ अन्यतीर्थेषु यद्यात्रासहस्रैः पुण्यमाप्यते । तदेकयात्रया पुण्य, शत्रुञ्जयगिरौ भवेत् ॥५॥ सद्रव्यं सत्कुले जन्म, सिद्धिक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः॥६॥ जिना अनन्ता अत्रैयुः, सिद्धाश्चात्रैच वासव!। अनन्ता मुनयश्चापि, तेन तीर्थमिदं महत् ॥७॥ अज्ञानाद्यत्कृतं पापं, यौवने वार्द्धकेऽपि वा। तत्सर्वं विलयं याति, सिद्धाद्रेः स्पर्शनादपि ॥८॥ अन्यत्रापि कृतं पुण्यं, नृणां बहुफलं भवेत् । अत्रानन्तगुणं तच्च, भवेत्क्षेत्रानुभावतः॥९॥ नन्दीश्वरे तु यत्पुण्यं, द्विगुणं कुण्डले नगे। त्रिगुणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ॥१०॥ | एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । पोढा तु धातकीखण्डे, तच्छाखिजिनपूजनात् ॥ ११॥ पुष्करोदरबिम्बानां, द्वाविंशद्गुणसंमितम् । मेरुचूलार्हदायाः, पुण्यं शतगुणं भवेत् ॥ १२॥ सहस्रं तु समेताद्री, लक्षसंख्याञ्जनाद्रितः। दशलक्षमितं श्रीमदैवतेऽष्टापदे च तत् ॥ १३ ॥ शत्रुञ्जये कोटिगुणं, स्वभावात्स्पर्शतो मतम् । मनोवचनकायानां, शुद्ध्याऽनन्तगुणं नृणाम् ॥ १४ ॥ एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरि प्रति । भवकोटिसहस्रेभ्यः, पातकेभ्यः प्रमुच्यते ॥ १५॥
Jan Education International
For Private Personal use only
Page #204
--------------------------------------------------------------------------
________________
प्रबन्धः ।
कुमारपाल
॥९९॥
ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनातु किमुच्यते ॥ १६ ॥ नमस्कारसमो मन्त्रः, शत्रुअयसमो गिरिः । गजेन्द्रपदजं नीरं, निर्द्वन्द्वं भुवनत्रये ॥ १७ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दिवंगताः ॥ १८ ॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ १९ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् , स जीयाद्धिमलाचलः ॥२०॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ॥ २१ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नात्रविधानतः ॥ २२ ॥ एकभुक्तो भूमिशायी, ब्रह्मचारी वशेन्द्रियः। सम्यगदर्शनसंयुक्तः, षडावश्यककारकः ॥२३॥ त्रिकालं देवपूजायां, रक्तः सत्यं प्रियं वदन् । कूटक्रियां कषायांश्च, वर्जयन् शमशीतलः ॥ २४ ॥ एतत्तीर्थस्य यो यात्रां, करोति कृतिपुङ्गवः । त्रैलोक्यगततीर्थानां, स प्राप्नोति न संशयः ॥ २५ ॥ इहास्यामवसर्पिण्यां प्रथमं प्रथमसङ्घपतिना श्रीभरतचक्रिणा सर्वरत्नसुवर्णमयस्त्रैलोक्यविभ्रमनाम्ना चतुरशीतिमण्डपालङ्कृतः प्रासादः कारितः । श्रीयुगादीशस्य प्रतिमाः सुवर्णरत्नमय्यः क्रमेणासंख्याता उद्धाराः प्रतिमाश्चात्र जज्ञिरे । असंख्याताः कोटाकोट्यश्च सिद्धाः। श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशो महायशोऽतिवलाद्यास्त्रिखण्डभोक्तारः श्रीभरतवत्सद्धपतीभूय संप्राप्तकेवला बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः, पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरितचतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्तिं गताः । किं बहुना-अन्यत्र | वर्षकोट्या यत्तपोदानदयादिभिः । प्राणी बध्नाति सत्कर्म, मुहूर्तादिह तद्रुवम् ॥ २६ ॥ नास्त्यतः परमं तीर्थ, श्रीचौ
||९९॥
Jain Education alone
For Private Personel Use Only
Page #205
--------------------------------------------------------------------------
________________
*EASSISTANCE
लुक्य ! जगत्रये । यस्यैकवेलं नामापि, श्रुतं पापापहं भवेत् ॥ २७ ॥ अतः सङ्घपतीभूय, राजन् ! यात्रा विधीयते । शत्रुञ्जयादितीर्थेषु, प्रभावकशिरोमणे ! ॥ २८ ॥ राज्ञा सङ्घपतिः कीदृग्गुणः स्यात् ? इत्युक्ते श्रीहेमाचार्य:-भक्तो माता-31 पितॄणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, सबैश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ॥१॥ मिथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः। विधेयः सङ्घपतिना, सद्यात्राफलमिच्छता ॥२॥ सहोदरेभ्योऽप्यधिकाः, द्रष्टव्या यात्रिका जनाः। सर्वत्रामारिपटहो, वाद्यः शक्त्या धनैरपि ॥ ३ ॥ साधून साधर्मिसहितान्, वस्त्रान्ननमनादिभिः । प्रत्यहं पूजयत्येष, हार्दभक्तिसमन्वितः ॥ ४ ॥ इत्यादिश्रीप्रभूपदेशामृतपल्लवितश्रीतीर्थयात्रामनोरथः श्रीकुमारपालभूपालस्तदैव शुद्धलनादि निर्णाय्य सौवर्णजिनप्रतिमालङ्कृतसुवर्णरत्नजटितपट्टगजकुम्भस्थलस्थापितदेवालयः प्रस्थानमकरोत् सकलचैत्याष्टाह्निकोत्सवामारिपटहवादनकारागारविशोधनसमग्रश्रीसङ्घपूजादिमहामहोत्सवपरम्परापूर्वकम् । तदनु द्वासप्ततिसामन्तदेवालयाः ततश्चतुर्विंशतिप्रासादकारकश्रीवाग्भटादिमन्त्रिणां तदनन्तरमष्टादशशतव्यवहारिणां देवालयाः श्वेतातपत्रमेघाडम्बरसौवर्णमौक्तिकादिच्छत्रचामरश्रेणिशोभिताः। एवं प्रस्थानमहोत्सवे जायमाने चरैरागत्य निवेदितम् । देव ! डाहलदेशाधिपः कर्णदेवः प्रौढवलाकुलितभूवलयस्त्वामभिषेणयन् द्वित्रदिनैरत्रागमिष्यति विग्रहेच्छया ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिन्दवः । चिन्ताम्भोधेरिवोद्भूताः, भूभुजः प्रोजजृम्भिरे ॥ १॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः।। कर्णयोः क्रकचाभं तद्विज्ञप्येति नृपोऽवदत् ॥२॥ यदि प्रस्थीयते तीर्थे पश्चादेत्य तदा रिपुः मद्देशं विलोडयति । अथ:
SOORNCHOCOCCASSOCTOR
Jan Education
For Private
Personel Use Only
Page #206
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्ध
॥१०॥
तत्संमुखीभूय युद्धं क्रियते तदा द्वयोरप्यतिबलत्वेन भूयाननेहा लगति । तावन्तं च कालं परदेशिकलोकः कथं तिष्ठति, इति चिन्तासमुद्रे पतितोऽस्मि । धिग मामधमाग्रण्यं यद्यात्रामनोरथो भग्नः ॥ वणिजोऽमी वरं सङ्घपतयः स्युः सुखेन ये। न त्वहं सङ्घपत्याप्तिभाग्यहीनः सुपर्ववत् ॥१॥ इति श्रुत्वा प्रभुभिरूचे-मा विषीद नरेन्द्र ! त्वं, सुरेन्द्रेणेव यत्त्वया । श्रेयस्कृत्यं समारम्भि, भज्यते तन्न जातुचित् ॥१॥ स्वास्थ्यं द्वादशभिर्यामै वीति गुरुभिभृशम् । धीरितोऽपि किं भावीति, चिन्तातुरः सभास्थितः ॥२॥ चरैरागत्य विज्ञप्तः, देव ! श्रीचौलुक्यभूप ! कर्णदेवो दिवं गतः। राजा प्राहकथम् ? चराः प्रोचुः–पत्तनं प्रातरेवाहं, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥१॥ हस्तिस्कन्धाधिरूढस्य, निद्राविद्राणचेतसः । निशीथे गच्छतो मार्गे, कण्ठस्थस्वर्णशृङ्खलम् ॥ २॥ लग्नं न्यग्रोधशाखाग्रे, क्वचिदाबद्धपाशवत् । अधस्तात्प्रस्थिते नागे, तयोल्लम्बितविग्रहः ॥ ३॥ गलरोधेन सद्योऽपि, रिपुराप परासुताम् । तस्योर्द्धदेहिकं कृत्य, दृष्ट्वाऽत्र समुपागताः ॥ ४ ॥ हा हा किमस्य संजातमिति शोकाकुलः क्षणम् । तदूचे गुरवे भूपस्तज्ज्ञानातिचमत्कृतः॥५॥ चतुर्भिः कलापकम् ॥ ततो महामहोत्सवान् कृत्वा यात्राभेरीमदापयत् । तत्र श्रीसङ्के। मुख्यसङ्घपतिः श्रीकुमारपालदेवः, द्वासप्ततिसामन्ताः, वाग्भटादिमन्त्रिणः, नृपमान्यो नागश्रेष्ठिसुत आभडः, षड्भापाचक्रवर्ती श्रीदेपालः, तत्पुत्रः सिद्धपालः कवीनां दातॄणां च धुर्यः, भाण्डागारिकः कपी, प्रल्हादनपुरनिवेशको राणप्रल्हादः, नवनवतिहेमलक्षस्वामी श्रेष्ठी छाडाकः, राजदौहितकः प्रतापमल्लः, अष्टादशशतव्यवहारिणः, श्रीहेमाचार्यादिसूरयः, अन्येऽपि लोका ग्रामनगरस्थाननिवासिनः कोटिमिताः, षट् दर्शनानि, एकादशलक्षतुरङ्गमाः, एकादशशत
॥१०॥
For Private Personal use only
www.ainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
SSSSSSSSS
गजाः, अष्टादशलक्षपदातयः, अनेके मार्गणगणाः॥ एवं यात्रोत्सवाद्वैते, जायमाने नरेश्वरः । सद्यात्राया विधि मौलं, पप्रच्छ स्वच्छभावतः॥१॥श्रीजैनधर्मधुर्यस्य, गुरुगुरुगुणोज्ज्वलः। यात्राशुद्धविधिं राज्ञः, पुरः प्रोवाच सत्यवाक् ॥२॥यथासम्यक्त्वधारी पथि पादचारी,सचित्तवारी वरशीलभारी। भूस्वापकारी सुकृती सदैकाहारी विशुद्धां विदधाति यात्राम् ॥१॥ गुरूदिताः षविदधद्विशुद्धारी सर्ववैरीरधुरीणवृत्तिः । यात्रार्थमित्थं स्थिरतास्तमेरुनरेश्वरः प्रास्थित तत्त्ववेत्ता ॥२॥
राजानमनुपानत्पादचारिणं दृष्ट्वा गुरुराह-निरुपानत्पादचारात्तव क्लेशो महीपते !। आद्रियस्व तदश्वादि, धत्स्व वोपनही पदोः ॥१॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्य प्राग पारवश्यतः। पादाभ्यां न कियद्धान्त, परं तद्व्यर्थतां गतम् ॥ २॥ अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तभवभ्रान्तिम प्रभ्रंशतेऽभितः ॥३॥ एवं युक्त्या गुरोभक्त्वा, वाहनग्राहणाग्रहम् । अभिग्रही च राजर्षिस्तथैव प्रास्थिताध्वनि ॥४॥ दृष्ट्वा राजगुरु राजराजं च पादचारिणम् । तयोर्भक्तिकृतेऽन्येऽपि, पद्भ्यां चेलुर्मुनीन्द्रवत् ॥५॥ भूयिष्ठत्वेन सङ्घोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चक्रे प्रयाणानि, पञ्चक्रोशानि सोऽन्वहम् ॥ ६॥ स्थाने स्थाने प्रभावना । जिने जिने हेमछत्रचामरादिदानम् । प्रतिप्रासाद स्वर्णरूप्यमुक्ताफलप्रवालपट्टकूलादिध्वजारोपाः। सर्वत्र सर्वेषामनिवारितभोजनानि । संमुखागतानेकनृपव्यवहारिश्रीसद्यपरिधापनानि । प्रतिदिनं द्वासप्ततिसामन्तादिश्रीसङ्घमेलनपूर्वकस्नात्रोत्सवः । प्रतिग्रामनगरादिसाधर्मिकवात्सल्यानि भोजनाच्छादनप्रच्छन्नद्रविणप्रदानादिभिः। प्रतिदिनं भोजनावसरे सीदतः श्रावकलोकान् भोजयित्वा दयादानश्रेयोर्थ बुभुक्षितजनभोजनदानपटहवादनम् । त्रिकालजिनपूजासामायिकप्रतिक्रमणपर्वपौषधादिसर्वक्रियाकलापसत्यापनम् । याच
For Private & Personel Use Only
Page #208
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥१०॥
कजनवाञ्छितसिद्धिः । एवं लोकोत्तरकरणीयपरम्पराभिः पथि जगजनमनांसि विस्मयश्रीजैनधर्माभ्युदयरसमयानि विदधानः सावधानवृत्तिर्धन्धूकपुरे श्रीहेमसूरिजन्मस्थाने पुराकारितसप्तदशहस्तप्रमाणझोलिकाविहारे कृतस्नात्रध्वजारोपादिकृत्यः क्रमेण वलभीपुरीपरिसरे प्राप ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदन्तरे स्थित्वा, प्रातरावश्यक व्यधात् ॥१॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम् । महीशः श्रेयसीभक्तिस्तद्दिरिद्वयमूर्द्धनि ॥२॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेयप्रतिमे समतिष्ठिपत् ॥३॥ ततः प्रस्थितः श्रीशत्रुञ्जयदृष्टौ समग्रश्रीससमेतो दण्डवत्प्रणामं कृत्वा पञ्चाङ्गप्रणाममकरोत् । तद्दिने तत्र स्थित्वा कृततीर्थोपवासः सारतरमौ|क्तिकप्रवालसौवर्णपुष्पादिभिः श्रीशत्रुञ्जयपर्वतं वर्धाप्य पर्वताग्रेऽष्टमङ्गली कुङ्कुमचन्दनादिभिः कृतवान् । अनेकधा नैवेद्यढौकनानि पूजोत्सवान् श्रीगुरूपदेशश्रवणरात्रिजागरणादिविधींश्च चके । राजपत्नीश्रीभूपलदेवी राजसुता लीलूप्रमुखा द्वासप्ततिसामन्तान्तःपुरीसहिताः सुवर्णस्थालस्थापितमुक्ताफलाक्षताञ्जलिभिः पर्वतं वर्धापयन्ति स्म । एवं निखिलोऽपि श्रीसङ्घः प्रातः पात्रदानातिथिपोषपूर्वकपारणोत्सवः । तृतीयदिने श्रीशत्रुञ्जयतलहट्टिकां प्राप्तः श्रीचौलुक्यभूपः । तत्र श्रीपादलिप्तपुरे स्वयं कारिते श्रीपार्श्वविहारे सौवर्णकलशदण्डध्वजारोपविधिस्नानादिकार्याणि हर्षप्रकर्षादकृत सुकृतिजनावतंसः। प्रातः श्रीगुरून् दक्षिणपार्श्वे स्थापयित्वा द्वासप्ततिसामन्तश्रीवाग्भटश्रीमदाम्बडदेवादिपरिवृतः श्रीमकपर्दिमन्त्रिणा समर्प्यमाणपूजोपहारः श्रीपरमार्हतः श्रीशत्रुञ्जय गिरिपतिमारोहन मार्गे प्रतिवृक्षं पट्टकूलादिपरिधापनं, प्रतिस्थानं सौवर्णादिपुष्पचन्दनादिपूजोपचारांश्च समारचयन् श्रीमरुदेवाशृङ्गं प्राप । तत्र जगन्मातरमादियोगिनी श्रीम
॥१०॥
Jain Education
For Private
Personel Use Only
Page #209
--------------------------------------------------------------------------
________________
रुदेवां श्रीशान्तिजिनं कपर्दियक्षादींश्च सर्वोपचारपूजादिभिरभ्यर्च्य प्रथमप्रतोलीप्रवेशे मार्गणश्रेणी पञ्चविधदानैः प्रीणयन् श्रीयुगादिदेवप्रासादद्वारं सपादसेतिकामितमुक्त्वाफलैर्वर्धाप्य प्रदक्षिणावसरे मन्त्रीश्वरवाग्भटकारितप्रासादरमणीयतां लोकोत्तरां विलोक्य प्राह पार्श्वस्थं मन्त्रिराजम् ॥ मन्त्रिन् ! महीयसां मान्यस्त्वं लोकोत्तरपौरुषः । येनेदं जगदाधारमुद्दभ्रे तीर्थमुत्तमम् ॥१॥ त्वयैव रत्नगर्भेयं, भूतधात्री प्रकीर्त्यते । अतस्त्वमग्रणीभूत्वा, यात्रासाहाय्यमातनु ॥२॥ इत्थं प्रशंसितो राज्ञा, मन्त्री नम्रशिराः पुरः। राज्ञोऽभवदत्तहस्तो, वेत्रिवन्मार्गदर्शकः॥ ३ ॥ अथ प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमभ्यर्थिताः श्रीहेमसूरयः सकलजनप्रसिद्धां 'जय जन्तुकप्प' इति धनपालपञ्चाशिका पेठः । राजादयः प्राहुः-भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुतिं कथं कथयन्ति ?, गुरुभिरूचे-राजन् ! श्रीकुमारदेव ! एवंविधसद्भूतभक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते । एतन्निरभिमानश्रीगुरुवाक्यामृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतरुतले प्राप्ताः श्रीगुरुभिरिति ज्ञापिताः । यथा__यदधः समवासाषींद्देवो नाभिनरेन्द्रसूः । तेनेयं वन्दनीयैव, तीर्थात्तीर्थमिवोत्तमम् ॥१॥ पत्रे फले च शाखायां, प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्याः, नोच्छेद्यं हि दलादिकम् ॥२॥ यस्य प्रदक्षिणां कर्तुः, सद्देशस्य शिरस्यसौ। क्षीरं क्षरति तस्य स्यादायतिः सुखदायिनी ॥ ३ ॥ सुवर्णरूप्यमुक्ताभिः, पूज्यते चन्दनादिभिः। ततोऽसौ क्षरति क्षीरं, सर्वविघ्नविनाशकृत् ॥ ४॥ शाकिनीभूतवेतालदुष्टज्वरविषादयः । एतत्पूजाप्रभावेण, प्रयान्ति विलयं क्षणात् ॥ ५॥ स्वयं निपतितं शुष्कमप्येतस्य दलादिकम् । गृहीतं विघ्नहृत् सर्वसुखदं पूज्यते यदि ॥६॥ यो गृहृतो मिथः सख्यमिमां
For Private Personal Use Only
T
Page #210
--------------------------------------------------------------------------
________________
कुमारपाल
॥१०२॥
कृत्वाऽथ साक्षिणीम् । विश्वैश्वर्यसुखं तौ तु, प्राप्य स्यातां पदे परे ॥ ७॥ अस्याः पश्चिमदिग्भागे, रसकूपी दुरा-16 प्रबन्धः । सदा । अस्ति यद्सयोगेन, जात्यस्वर्ण भवेदयः॥८॥ कृताष्टमतपा देवपूजाप्रणतिभावभाक् । अस्याः प्रसादाल्लभते, रसं तमपि कश्चन ॥ ९॥ एतत्तले युगादीशपादुका इन्द्रकारिताः। उपासिता जगजीवैः, स्वर्गमोक्षसुखप्रदाः ॥१०॥ ऋषभे पुण्डरीके च, राजादन्यां च ये नराः। पादुकायां शान्तिनाथे, सूरिमन्त्राभिमन्त्रितैः॥११॥ अष्टोत्तरशतमितैः, कुम्भैः शुद्धाम्बुसंभृतैः । गन्धपुष्पादिभिः स्नात्रं, कुर्वन्ति कृतमङ्गलाः ॥ १२ ॥ जयश्रियं सर्वकामानानन्दं दोषनिग्रहम् ।। प्रेत्य च प्रवरान् भोगान् , प्रामुवन्तीह ते सदा ॥ १३ ॥ ___ इत्यादिगुरूक्तानुसारेण राजादनीपादुकामौक्तिकादिवर्धापनपूजनोत्सवपुरस्सरं प्रदक्षिणात्रयं दत्त्वा गर्भगृहं प्राप्तः श्रीराजर्षिः । प्राप्तस्त्रिभुवनैश्वर्य इव परमानन्दोपनिषन्निषण्णस्वान्त इव निखिलनिस्तुषपरमसुखास्वादमेदुरित इव समग्रकरणव्यापारमुक्त इव सिद्धिसौधाधिरूढसिद्ध इव निमेषोन्मेषालसस्तमितलोचन इव श्रीयुगादिदेवं दृष्ट्वा क्षणमेकं जिन-13 मुखकमलन्यस्तदृष्टिहांश्रुपूरदूरिताखिलतापव्यापस्तिष्ठति स्म । ततो जगदीश ! तव पूजनं मया दरिद्रेण कथं क्रियते ? मत्पूजायोग्योऽपि देव! न भवसि च, इति स्तुतिवच उच्चरन् नवलक्षहेममूल्यनिस्तुल्यैर्नवभिर्महारत्नर्नवाङ्गेषु जिनराज पूजयामास । पर्वोपवासाष्टाह्निकामहविविधस्नात्रकविंशतिस्वर्णरूप्यादिध्वजप्रदानमौक्तिकातपत्रचमरसौवर्णमुक्ताफलप्र-19 वालनिभृतस्थालढौकनसर्वप्रकारनिस्वानादिदेवोपकरणमोचनादिप्रकारैलोकोत्तरमहिमाद्वैतमतनोत्तमां श्रीकुमारभूपालः।
॥१२॥ चिरन्तनरेन्द्रकृतदेवदायचिरन्तनच्छत्रचन्द्रोदयनिस्वानादिनैकदेवपूजोपकरणादिदर्शनैः श्रीतीर्थस्यानादिकालीनतां लो
For Private & Personel Use Only
Page #211
--------------------------------------------------------------------------
________________
कोत्तर महिमोन्नतिं च मन्यमानश्चेतस्येवमचिन्तयत् ॥ धन्योऽहं मानुषं जन्म, सुलब्धं सफलं मम । यदवापि जिनेन्द्राणां शासनं विश्वपावनम् ॥ १ ॥ या बभूवुर्बतासूर्यपश्याः क्षोणीशवल्लभाः । प्रतिचैत्यं भ्रमन्ति स्म, ता अध्यर्चनकाम्यया ॥ २ ॥ राइयो भोपलदेव्याद्याः, लीलुनृपसुताऽपि च । उद्यापनाद्यैः सत्कृत्यैः, स्वश्रियं तीर्थगां व्यधुः ॥ ३ ॥ महापूजावसरे चारणः प्राह
"इकह फुलह माटि देइ जु नरसुरसिव सुहइ । एही करइ कुसाटि वपु भोलिमजिणवरतणी ॥ १ ॥”
नवकृत्वः पाठे नवलक्षदानम् । मालोद्घट्टनसमये मिलितेषु श्रीनृपादिसङ्घपतिषु मन्त्री वाग्भट इन्द्रमालामूल्ये लक्षच - तुष्कमुवाच । तत्र च राजाऽष्टौ लक्षान्, मन्त्री षोडशलक्षीं, राजा द्वात्रिंशल्लक्षान्, एवं स्पर्द्धया मालामूल्ये क्रियमाणे कश्चित्प्रच्छन्नदाता सपादकोटीं चकार । ततश्चमत्कृतो नृपः प्रोचे, दीयतां माला, विलोक्यते मुखकमलं पुण्यवतः, इति श्रुत्वा मधुमतीवास्तव्यमन्त्रिहांसाधारूसुतो जगडश्राद्धः सामान्यमात्रवेषाकारः प्रकटीबभूव । तं दृष्ट्वा मन्त्रिणं प्राह नृपो विस्मयाकुलमनाः, मन्त्रिन् ! द्रव्यसुस्थं कृत्वा दीयतां माला । जगडोऽपि राजवाचान्तः कषायितः सपादकोटिमूल्यं रत्नं दत्त्वाऽऽह — श्रीपरमार्हतभूप ! इदं तीर्थं सर्वसाधारणम्, अत्र च द्रव्यसुस्थमन्तरेण न हि कोऽपि वक्ति । ततस्तद्वचसा चमत्कृतो राजा तं श्राद्धं समालिङ्ग्य त्वं मम सङ्के मुख्यः सङ्घपतिरिति समानन्द्य मानं दत्त्वा मालामर्पितवान् । तेनापि अष्टषष्टितीर्थेभ्योऽपि तीर्थभूता स्वमाता परिधापिता ॥ लक्ष्मीवन्तः परेऽप्येवं, बद्धस्पर्द्धाः शुभश्रियः । स्वयंवरण| मालावन्मालां जगृहुरादरात् ॥ १ ॥ सर्वस्वेनापि को मालां, न गृह्णीयाज्जिनौकसि । इह लोकेऽपि यत्पुण्यैः, स्फुरेदि
० १८
Page #212
--------------------------------------------------------------------------
________________
कुमारपाल
A
॥१०॥
न्द्रपदं नृणाम् ॥ २॥ एवं कृताऽऽरात्रिकमङ्गलोद्यतप्रदीपपूजाद्यखिलोपचारः। जिनं नमस्कृत्य स कृत्यवेत्ता, प्रजागुरुः प्रबन्धः । प्राञ्जलिरित्युवाच ॥३॥ व्यतीयुर्दिवसा देव!, ये त्वत्सेवां विना कृताः। ते व्यथन्ते हृदन्ती, करच्युतसुरत्नवत् ॥४॥ सार्वभौमोऽपि मा भूवं, त्वदर्शनपराङ्मुखः । त्वदर्शनपरः स्यां तु, त्वच्चैत्ये विहगोऽप्यहम् ॥५॥ ततः पञ्चशक्रस्तवैर्देवान् वन्दित्वा प्रणिधानदण्डकपाठान्ते
प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः। किश्चातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्ताद्वर्द्धमानो मम ॥१॥ इति पठित्वा गुरून् ववन्दे । गुरुभिर्नृपस्य पृष्टौ हस्ते दत्ते चारणः___ "हेम तुम्हारा करमरउं, जहिं अच्चब्भुअसिद्धि । जे चंपई हेठामुहा, ताहंऊपहरी सिद्धि ॥१॥" नवकृत्वः पाठेन नवलक्षीदानम् । तदनु
तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनो नराः सुकृतिनो वंशस्य ते भूषणम् ।
ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयस मन्दिरं, सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥१॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रैः॥२॥3॥१
इत्यादिगुरूपदेशामृतसुहितात्मा श्रीराजर्षिः स्वर्णमणिक्षौमहस्तितुरगादिदानैर्याचकजनजानुजीव्य समग्रश्रीसङ्घसमेतः सर्वतः श्रीपुण्डरीकाचलं पट्टकूलादिभिः परिधापयन् सर्वत्र चैत्यपरिपाटी चकार । तदवसरे श्रीहेमसूरिभिः सह वामह
१०३॥
है
Jan Education International
ForPrivate sPersonal use Only
Page #213
--------------------------------------------------------------------------
________________
स्तविलग्नसंचरणे कपर्दकविः प्राह
श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रितप्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्तत्स्पृश्येत करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः॥१॥ क्रमादुत्तीर्य पादलिप्तपुरे प्राप । तत्र च-राजन् ! शत्रुञ्जयगिरौ, रैवताद्रिरयं जिनैः । कथितः पञ्चमं शृङ्ग, पञ्चमज्ञानदायकम् ॥१॥ कैलाश उजयन्तश्च, रैवतः स्वर्णपर्वतः । गिरिनारनन्दभद्रावस्यारेष्विति चाभिधाः॥२॥ महातीर्थमिदं भूप!, सर्वपापहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ॥ ३ ॥ इत्यादिकल्पोक्तानुसारेण महिमो४ पदेशोत्साहितो नृपतिरात्मानं कृतार्थ मन्यमानः श्रीरैवतेश्वरं मनस्याधाय सुखप्रयाणैः पथि च वृक्षानपि सर्वप्रकारपूजो-5
पचारेण सन्मानयन् क्रमादुजयन्ततीर्थ प्राप ॥ समारोहति सूरीन्द्रे, नरेन्द्रेण समं तदा । स चकम्प गिरिलङ्कापत्युत्पाटितशैलवत् ॥ ४॥ तत्कम्पकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् वर्तते मार्गे, शिला छत्रशिलाह्वया ॥५॥ अधस्ताद्गच्छतोः पुण्यशालिनोर्युगपदयोः । निपतिष्यत्यसौ मूर्तीि, श्रुतिरित्यस्ति वृद्धभूः॥ ६ ॥ तत आवयोयुगपदत्रारोहणं पुण्यवतोर्न युक्तम् ; कदाचिदियं पतेत् , अतः प्रथमं श्रीपरमार्हतः श्रीनेमि प्रणमतु; पश्चादहमपि जिनं वन्दिष्ये, इत्युक्ते नृपतिर्विनयलोपतो यात्राफलं न स्यादिति वदन् श्रीगुरून् पूर्व प्रापयति स्म, स्वयं तु पश्चादारूढः श्रीरैवतम् ॥ एवं कृत्वा स सूरीन्द्रो, गूर्जरेन्द्रोऽपि सङ्घयुक् । क्रमात्प्रणेमतुर्नेमीश्वरं प्रत्यक्षदैवतम् ॥१॥ जिनपूजनाङ्गरागाद्यैर्भूयोभिः स्नात्रविस्तरैः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥२॥ तत्र च श्रीनेमिनः प्रतिमां वज्रमयीं सर्वा
For Private
Personel Use Only
Page #214
--------------------------------------------------------------------------
________________
कुमारपाल
॥१०४॥
तिशयशालिनी दृष्ट्वा केनेयं मूर्तिः कदा च कारिता ? इति पृष्टा राज्ञा श्रीगुरवः प्राहुरेवम्-इहैव भरतेऽतीतचतुर्विंश
प्रबन्धः। तिकायां तृतीयतीर्थकृत्सागरसमये उजयिन्यां नरवाहननृपोऽभूत् । तत्रान्यदा श्रीसागरजिनः समवसृतः । राजा वन्दनाय गतः। धर्मोपदेशश्रवणानन्तरं सभां विलोकयिता केवलिपरिषदृष्ट्वा पृष्टं च स्वामिपार्श्वे-अहं कदा केवली भावी ?। |स्वामिनोक्तम्-आगामिचतुर्विंशतिकायां द्वाविंशतितमजिनस्य नेमेवारके त्वं केवली भावी इति सम्यग् ज्ञात्वा तस्मिन् | 8 भवे श्रीसागरजिनपार्वे व्रतं गृहीत्वा तपस्तप्त्वा मृत्वा च ब्रह्मलोके दशसागरायुरिन्द्रः समुत्पन्नः । तत्र च स्थितेन तेनावधिना पूर्वभवं ज्ञात्वा वज्रमयीं मृत्तिकामानीय पूजार्थ श्रीनेमिबिम्ब कृतम् । स्वर्गे दशसागराणि यावत् पूजितम् । आयुष्प्रान्ते श्रीनेमेरुत्पत्तिस्थाने श्रीरैवताचले दीक्षाज्ञाननिर्वाणकल्याणिकत्रयस्थानं विलोक्य स्वर्गात् श्रीनेमिप्रतिमां गृहीत्वा श्रीरैवते वज्रेणोत्कीर्य भूमिमध्ये पूर्वाभिमुखः प्रासादः कृतः। तत्र चैत्ये रूप्यमये गर्भगृहत्रयं कृत्वा रत्नमणिसुवर्णमयबिम्बत्रयं स्थापितम् । तदने काञ्चनबलानकं कृत्वा वज्रमृत्तिकामयं बिम्बं स्थापितम् । यदुक्तम्
"शिखरोपरि यत्राम्बावलोकनशिरस्तु रङ्गमण्डपके । शम्बो बलानकेऽसौ सिद्धिविनायकः प्रतीहारः ॥१॥" ततः स इन्द्रः स्वर्गाच्युत्वा बहुसंसारं भ्रान्त्वा श्रीनेमितीर्थे पल्लिमहापल्लिदेशे क्षितिसारपुरे नरवाहननृपजीवः पुण्यसारनामा नृपोऽजनि । अन्यदा तत्र पुरे श्रीनेमिराजगाम । राजा वन्दितुं ययौ । तत्र देशनां श्रुत्वा श्रावकीबभूव । श्रीनेमिपाचे पूर्वभववृत्तान्तं ज्ञात्वा रैवतके गत्वाऽऽत्मकृतं तद्विम्बं संपूज्य नत्वा स्वपुरे गत्वासुतं राज्ये निवेश्य श्रीनेमिपा व्रतं जग्राह। तपसा केवलं प्राप्य मोक्षं गतः। श्रीनेमे रैवताचले कल्याणिकत्रयं जातम् । ततश्चैत्यं लेप्यमयं च विम्बं लोके पूज्य
BREAK
श्रीनेमिनाद्विम्व संपादणकत्रयं
Join Education Internationa
For Private
Personel Use Only
Page #215
--------------------------------------------------------------------------
________________
मानं जातम् । श्रीनेमिनिर्वाणान्नवोत्तरनवशतवर्षैः काश्मीरदेशाद्वलश्रावकः कल्पप्रमाणेन रैवतगिरौ श्रीनेमियात्रायै समायातः । हर्षोत्कर्षवशेन जलपूर्णैः कलशैः स्नात्रं कृतम् । जलेन बिम्बं गलितम् । रत्नश्रावकेण तीर्थविनाशं दृष्ट्वा मासद्वयमुपवासाः कृताः । ततोऽम्बिकाऽऽदेशेन काञ्चनबलानकाद्वज्रमयं बिम्बं समानीय स्थापितम् । यतः
"नववाससएहिं नवुत्तरेहिं रयणेण रेवयगिरिंमि । संठवियं मणिबिम्बं कंचणभवणाउ नेऊणं ॥ १ ॥
श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेर्मूर्तिरमरगणपूज्या । विंशतिसागरकोटीः, स जयति गिरिनारगिरिराजः ॥ २ ॥” श्री चौलुक्यभूप ! वामनावतारे हि वामनेन श्रीरैवते श्रीनेमिनाथाग्रे बलिबन्धनार्थं तपस्तेपे इति लौकिका अपि प्राहुः । यथा" भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ॥ १ ॥ पद्मासनसमासीनः, श्याममूर्तिर्दिगम्बरः । नेमिनाथशिवेत्युच्चैर्नाम चक्रेऽस्य वामनः ॥ २ ॥ कलिकाले महाघोरे, कलिकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ ३ ॥
उज्जयन्तगिरौ रम्ये, माघे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ॥ ४ ॥" प्रभासोक्तमेतत् ॥ एवं श्रीरैवतमहिमाद्वैतश्रवणसहस्रगुणोत्साहितः सर्वप्रकारोत्सवैरात्मानं कृतार्थयन् बहुदिनान्यस्थात् ॥ स एव जगड: प्राग्वत्तादृग् माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा जग्राहेन्द्रपदं सुधीः ॥ १ ॥ तीर्थोचिताः क्रियाः सर्वाः, विधाय विधिना नृपः । विज्ञप्तिमतनोदेवं, देवस्याग्रे कृताञ्जलिः ॥ २ ॥ तथा प्रसीद विश्वेश !, त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन मन्मनस्त्वन्मयं भवेत् ॥ ३ ॥ ततो मत्वा दुरारोहं, गिरिं शृङ्खलपद्यया । सुराष्ट्रादण्डनाथेन, श्रीमालिज्ञाति
Page #216
--------------------------------------------------------------------------
________________
प्रबन्धः ।
नानि, कुतस्त्वमा जगडो जगौ-रपि तागत कार्य इत्य
कुमारपाल
मौलिना ॥ ४॥ राणश्रीआम्बदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ॥५॥
है ततः कतिपयप्रयाणकैर्देवपत्तने श्रीचन्द्रप्रभयात्रां कृतवान् । तत्रापि जगड एवेन्द्रमालां जग्राह सपादकोटिमूल्यमाणि॥१०५॥ क्येन । तेन च जगडचरित्रेण जगदतिशायिना चमत्कृतः श्रीकुमारभूपः समग्रसङ्घसमक्षं तमभ्यधात् ॥ सपादकोटिमू-5
ल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि, कुतस्त्वमुपलब्धवान् ॥ ६ ॥ लब्धवांश्चेत्कथं पुण्यकर्मण्येवं वितीर्णवान् । स्थाने स्थाने हि तद्रत्नं, त्वद्वद्दत्ते न कश्चन ॥७॥ ततो जगडो जगौ-राजन् ! मधुमतीपुर्या प्राग्वाटज्ञातीयमन्त्रिहंसस्य मत्पितुः पूर्वजक्रमायातं रत्नपञ्चकमासीत् । स तु मत्पिता यात्रां चिकीर्षुरपि तादृग्महत्सम्योगाभावेनाकृतयात्र एव स प्रान्तसमये इदं रत्नत्रयं श्रीशत्रुञ्जयरैवतदेवपत्तनेषु क्रमादेयं भवता, द्वयेन च स्वनिर्वाहः कार्य इत्युक्त्वा परासुरजायत । तद्वचसा स्वपितुः पुण्यव्यये रत्नत्रयेणेन्द्रमाला परिदधे मया । रत्नद्वयमिदं तु सर्वतीर्थाधारश्रीसङ्घस्वामिनस्तव भवतु । एवमहं श्रीसवात्सल्येन कृतकृत्यो भवामीत्युक्त्वा राज्ञः पद्महस्ते मुक्तवान् । राजापि तस्य भक्तिविनयौदार्यादिगुणचमत्कृतचित्तः श्रीसङ्घसमक्षं रत्तद्वयं दर्शयन् प्राह-नाहं शस्यो महीशोऽपि, शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजा, तनोति त्रिजगद्गुरोः॥१॥धन्यस्त्वं श्राद्धकोटीर !, प्रथमः पुण्यकारिणाम् । ऐन्द्रं पदं | यदेवं त्वं, प्राप्तस्तीर्थत्रयेऽप्यहो!॥२॥ इत्यादि श्लाघयित्वा स्वार्द्धासने निवेश्य सुवर्णाभरणपट्टकूलादिभिः सत्कृतः सार्द्धकोटिद्वयमितं धनं दापयित्वा रत्नद्वयं गृहीतम् ॥ तन्मध्यनायकीकृत्य, हारयुग्मं विधाप्य च । शत्रुञ्जये रैवते च, प्रेषीत्पूजार्थमहतोः॥३॥ ततः प्रस्थितो महोत्सवैः पत्तनमलञ्चकार । तत्र च
॥१०५५
Jain Education Internate
For Private & Personel Use Only
Page #217
--------------------------------------------------------------------------
________________
NCR
E ASRASACRECOR
पडिलंभंते सई, दिठ्ठमदिढे अ साहु सित्तुंजे । कोडिगुणं च अदिढे, दिढे य अणंतयं होइ ॥१॥ इत्यादि स्मरन् श्रीसङ्घ सौवर्णाभरणपट्टकूलादिप्रदानः सत्कृत्य यात्रिकान् विससर्ज । अथ तीर्थयात्रापवित्रात्मा श्रीराजर्षिरष्टाहिकारथयात्रामहोत्सवं कारितवान् । यथा
"दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अठ्ठाहियाउ महिमा, बीया पुण अस्सिणे मासे ॥१॥ एयाउ दोवि सासयजत्ताओ करेंति सबदेवावि । नंदीसरंमि खयरा, नरा य नियएसु ठाणेसु ॥२॥" उत्तराध्ययनसूत्रवृत्तौ ॥ ___ इत्यागमोक्तमार्गसमाचरणचणः श्रीकुमारविहारे द्वासप्ततिसामन्तादिसकलश्रीसङ्घसहितो विधिस्नात्रपूजावलिविधानाद्यनेकप्रकारैरष्टदिनी महोत्सवैरनयत् । यदुक्तम्
"नच्चतरमणिचक्क, विसालबलिथालसंकुलं राया । कुणइ कुमारविहारे, सासयअद्वाहियामहिमं ॥१॥ नटकम्ममहवि, दिणाई सयमेव जिणवरं ण्हविउं । सबोवयारपूयापरायणो चिट्ठइ नरिंदो ॥२॥"
रथयात्राऽप्येवम्चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसहो॥१॥ सोवन्नजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥२॥ ण्हवियविलित्तकुसुमोहपूईयं तत्थ पास|जिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥३॥ तूररवभरियभुवणे, सरभसनच्चंतचारुतरुणिगणे। सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ॥ ४ ॥राया रहत्थपडिमं, पढेंसुयकणयभूसणाईहिं । सयमेव अचिउँ कार
For Private Personel Use Only
Page #218
--------------------------------------------------------------------------
________________
कुमारपाल : वेइ विविहाई नट्टाई ॥ ५ ॥ तत्थ गमिऊण रयणिं, नीहरिओ सीहवारबाहंमि । ठाइ एवं चिय धयतंडवंमि पडमंडवंमि रहो ॥ ६ ॥ तत्थ पहाए राया, रहजिणपडिमाइविरइउं पूयं । चउविहसंघसमक्खं, सयमेवारत्तियं कुणइ ॥ ७ ॥ तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चितो ॥ ८ ॥
॥१०६॥
Jain Education
किञ्च
प्रेमन् मण्डपमुलसजपटं नृत्यद्वधूमण्डलं, चञ्चन्मश्च मुदश्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् ।
विश्वग् जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुकाल्लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥ १ ॥
अपि च
सङ्गर्जद्गजराजसंस्थितमहासामन्तहस्तोलुल चञ्चच्चामरवीजितः प्रतिपदं राजन्यराजिनितः । संपन्नार्थिमनोरथो जिनरथो घस्राष्टकं सर्वतो, लीलासंचरणैर्महोत्सवमयं विश्वत्रयं निर्ममे ॥ २ ॥ एवं अट्ठदिणाई, रहजत्तं जणियजणचमक्कारं । कुणइ जहा कुमरनिवो, तहेव आसो अ मासेवि ॥ ९ ॥ जंपइ नियमंडलिए, एवं तुब्भेवि कुणह जिणधम्मं । तेविय नियनयरेसुं, कुमरविहारे करावेंति ॥ १० ॥ वियरंति विच्छरणं, जिणरहजत्तं कुणंति मुणिभत्तिं । तत्तो समग्गमेयं, जिणधम्ममयं जयं जायं ॥ ११ ॥
इत्थं निस्सीमयात्रात्रयततसुकृतोल्लासिपीयूष पूरैरुज्जीवं जीवलोकं विदधदधिपतिः भूपतीनां समन्तात् । पापव्यापप्रकारैः सकलमकलितस्त्रासयन् दुर्विलासं, कालव्यालस्य लीलां कुमरनरपती राज्यलक्ष्म्या भुनक्ति ॥ १ ॥
प्रबन्धः।
॥ १०६॥
Page #219
--------------------------------------------------------------------------
________________
___ अथान्यदा श्रीवीरचरित्रे वाच्यमाने श्रीगुरुमुखेन देवाधिदेवप्रतिमासंबन्धं श्रुत्वा श्रीअभयामात्यपृष्टश्रीवीरस्वमुखोक्तं श्रीकुमारपालभूपेनाणहिल्लपत्तने वीतभयादानीय पूजयिष्यते महोत्सवपुरस्सरम् , इत्यादिकं स्वचरित्रं निशम्य च श्रीचौलुक्यो हृदीत्यचिन्तयत् ॥ अहमेवेह धन्यानामस्मि धन्यतमः पुमान् । अगण्यपुण्यलक्ष्मीनामहमेवैकमास्पदम् ॥१॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयाग्रतः । सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिवान् ॥२॥ ततस्तत्प्रतिमाप्राप्तिवाक्यैः श्रीगुरुभिर्वद्धिंतोत्साहः स्वसामन्तान् वीतभयपत्तने प्रेष्य तां प्रतिमां पत्तनान्तिकमानयन्नृपः ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसङ्घसमन्वितः ॥ ३ ॥ प्रीतस्तद्वीक्षणात्साक्षात् , श्रीवीरप्रेक्षणादिव । अभ्यर्च्य कुसुमैमैश्चैत्यवन्दनमादधे ॥४॥ रथात्तां स्वयमुत्तार्य, करीन्द्रमधिरोप्य च । पुण्यलक्ष्मीमिवात्मीयां, मध्ये सौधं समानयत् ॥ ५॥ अन्तःक्रीडालयं चैत्यं, विधाप्य स्फाटिकं नवम् । तत्र तां पूजयामास, त्रिसन्ध्यं भूमिवासवः ॥६॥ तत्प्रभावेण तस्यर्द्धिरवर्धिष्ट दिने दिने । एकाग्रमनसो नित्यं, श्रीमज्जैनेन्द्रशासने ॥ ७ ॥ प्रतिमां तां नमस्कर्तु, पुण्डरी
कादितीर्थवत् । समापतन् परोलक्षाः, दवीयांसोऽपि धार्मिकाः ॥ ८॥ एवं सर्वात्मना जैन, शासनं भासयन्नृपः । जैनइधर्ममयो जज्ञे, स विशेश्वरमण्डनम् ॥९॥ सा प्रतिमा सम्प्रति रामसैन्येऽस्तीति लोकोक्तिः ॥ ___ इय हेमसूरिमुणिपुंगवस्स सुणिऊण देसणं राया । जाणियसमत्ततत्तो, जिणधम्मपरायणो जाओ ॥१॥ तो पञ्चनमु
कारं, सुमरंतो जग्गए रयणिसेसे । चिंतइ य दोवि हियए, देवगुरुधम्मपडिवत्तिं ॥२॥ काऊण कायसुद्धिं, कुसुमा-1 | मिसथोत्तविहिहपूयाए । पुज्जइ जिणपडिमाओ, पंचहिं दंडेहिं वंदेइ ॥३॥ निच्चं पच्चक्खाणं, कुणइ जहासत्ति सत्तगुणनि
For Private & Personel Use Only
Page #220
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥१०७॥
CRORSCORREARRANA
लओ। सयलजयलच्छितिलओ, तिलयावसरंमि उवविसइ ॥४॥ करिकंधराधिरूढो, समत्तसामंतमंतिपरियरिओ। वच्चइ जिणिंदभवणं, विहिपुवं तत्थ पविसेइ ॥५॥ अठ्ठप्पयारपूयाइ पूइडं वीयरायपडिमाओ । पणमइ महिनिहियसिरो, थुणइ पवित्तेहिं थोत्तेहिं ॥ ६ ॥ गुरुहेमचंदचलणे, चंदणकप्पूरकणयकमलेहिं । संपूईऊण पणमइ, पच्चक्खाणं 8 पयासेइ ॥७॥ गुरुपुरओ उवविसिउं, परलोयसुहावहं सुणइ धम्मं । गंतूण गिहं वियरइ, जणस्स विन्नित्तियावसरं
॥८॥ विहियग्गकूरथालो, पुणोवि घरचेइयाई अच्चेइ । कयउचियसंविभागो, भुंजेइ पवित्तमाहारं ॥९॥ भुत्तुत्तरं सहाए, वियारए सह बुहेहिं सत्थत्थं । अत्थाणीमंडवमंडणंमि सिंहासणे ठाइ ॥१०॥ अहमिचउदसिवजं, पुणोवि भुंजइ दिणहमे भागे । कुसुमाइएहिं घरचेइयाई अच्चेइ संझाए ॥ ११ ॥ एवं खु पुण्णनिहिणो, वच्चइ कालो सुचरिएहिं ॥ | अथैकदा जगदानृण्यकरणमनोरथोऽनेकधापि पुण्यरसामृतास्वादेनातृप्तात्मा श्रीचौलुक्यः सुवर्णसिद्धये श्रीगुरूपदेशात् श्रीहेमसूरिगुरून् श्रीदेवचन्द्राचार्यान् श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितवान् । तीव्रतपरायणा महत्सङ्घकार्य विमृश्य विधिविहारक्रमेण पथिकेनाप्यनुपलक्ष्यमाणाः पौषधशालामागताः । राजाऽपि प्रत्युद्गमादिसामग्री कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ द्वादशावर्त्तवन्दनोपदेशभवनानन्तरं गुरुभिः सङ्घकार्ये पृष्टे सभां विसृज्य जवनिकान्तरितौ श्रीहेमाचार्यनृपती गुरुपदयोर्निपत्य सुवर्णसिद्धियाचां चक्राते । मम बाल्ये विद्यमानस्य ताम्रखण्डं काष्ठभारवाहकाद्याचित-12 वल्लीरसेनाभ्यक्तं युष्मदादेशाद्वहियोगात्सुवर्णीवभूव । तस्या वल्ले म संकेताद्यादिश्यतामिति हेमसूरिणोक्ते कोपाटोपात् श्रीहेमसूरिं दूरतः प्रक्षिप्य न योग्योऽसीति, अग्रे मुद्गरसपायप्रदत्तविद्यया त्वमजीर्णभाक् कथमिमां विद्यां मोदकाभां
॥१०७॥
Jain Education
Page #221
--------------------------------------------------------------------------
________________
तव मन्दाग्नेर्ददामीति निषिध्य, नृपं प्रति एतद्भाग्यं भवतो नास्ति, येन जगदानृण्यकारिणी सुवर्णसिद्धिविद्या तव सिक्ष्यति, अपि च मारिनिवारणजिनमण्डितपृथ्वीकरणादिभिः पुण्यैः सिद्धे लोकद्वये किमधिकमभिलषसि ? इत्यादिश्य 3 तदैव विहारं कृतवन्तः । एकदा हेमसूरिः
मूंकरि किसिउं हरडइ काइ रडेइ । जेण कारणि हूं घल्लिउ सधि हु वंजणच्छेहिं ॥१॥ | अतः परं न रटिष्यति युष्माभिः स्वनामादौ न्यस्तत्वात् मात्रयाऽधिकीकृतत्वाच्च, इत्यादिप्रश्नोत्तरैः पूर्वमेव प्रीणित६ मनसा व्याख्यानमध्ये श्रीहेमाचाहाहेति प्रोक्ते राज्ञा सहायातदेवबोधिना हस्तौ घृष्ट्वा न किमपीति प्रोक्तम् । मुक्ते डू
व्याख्याने तु राज्ञा पृष्टम्-भगवन् ! युवाभ्यां किं कृतम् ? । श्रीगुरवः प्राहुः-राजन् ! देवपत्तने श्रीचन्द्रप्रभप्रासादे दीपेनाखुना गृहीतेन चन्द्रोदयो लग्नोऽस्माभिदृष्टः, स तु हस्तघर्षणेन देवबोधिना विध्यापितः। राजा चमत्कृतः स्वपौरुनिर्णयमकारयत् । तथेति जातेऽहो ! निरतिशयकालेऽपि श्रीगुरूणां महान् ज्ञानातिशय इति श्रीगुरुश्लाघापरः प्राहकोऽहं पूर्वभवेऽभूवं ?, भविता कश्च भाविनि ? । सिद्धराजः कुतो मह्यं, प्रसह्य द्रुह्यति स्म च ॥१॥ कस्मादुदयना
मात्यो, यूयं च मयि वत्सलाः। कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् ॥२॥ न हि प्राग्जन्मसंबन्धं, विना दकस्यापि कुत्रचित् । वैरं च सौहृदय्यं च, स्यातामात्यन्तिके ध्रुवम् ॥ ३ ॥ उक्तं च
"यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरजः॥१॥ यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥२॥"
Jain Education inter
n al
For Private & Personel Use Only
Page #222
--------------------------------------------------------------------------
________________
कुमारपाल
H १०८ ॥
Jain Education
ततो गुरुभिरूचे— राजन् ! निरतिशयकालोऽयम्, यतः श्रीवीरनिर्वाणाच्चतुःषष्टिवर्षैश्चरम केवली जम्बूः सिद्धिं गतः, तेन सह द्वादशवस्तूनि त्रुटितानि -
"मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवल सिज्झणा य जंबुंमि वुच्छिन्ना ॥ १ ॥” वर्षसहस्रेण सर्वं पूर्वगतं श्रुतं व्यवच्छिन्नम्, सम्प्रति त्वल्पं श्रुतं तथाऽपि देवतादेशेन विज्ञाय किमपि कथयिष्यत इत्युक्त्वा सिद्धपुरे सरस्वतीतीरेऽष्टमं विधाय सूरिमन्त्राद्यपीठाधिष्ठात्रीं त्रिभुवनस्वामिनीं देवीमाराध्य तन्मुखेन पूर्वभवादि श्रुत्वा राज्ञः पुरः सभासमक्षमेवं प्राहुः । यथा
राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशिनृपस्तत्पुत्रो नरवीरः सप्तव्यसनवान् पित्रा निष्काशितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यदा जयताकसार्थवाहस्य मालवकादागच्छन् सार्थः सर्वोऽपि लुण्टितस्तेन । सार्थवाहस्तु पश्चाद्गत्वा मालवेशं संतोष्य तदर्पितसैन्यमानीय पल्लीमवेष्टयत् । तन्महद्वलं ज्ञात्वा नष्टो नरवीरः । तत्पत्नी सगर्भा हता भूपतितो बालोऽपि । पल्यां कीटमारिः कारिताः । ततो मालवके गत्वा राज्ञोऽग्रे स्वरूपे निरूपिते राज्ञा हत्याद्वयं तव लग्नम्, अतोऽद्रष्टव्यमुखोऽसीति निष्काशितः स्वदेशात् । स च सार्थवाहो जयताकः पदे पदे लोकैर्नि न्द्यमानः पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीव्रं तपस्तप्त्वा मृत्वा च जयसिंहदेवोऽजनि, स च हत्याद्वयपापादपुत्रः । यतः - "पसुपक्खिमाणुसणं, बाले जो बिहु विओवए पावो । सो अणवच्चो जायइ, अह जायइ तो विवज्जिज्जा ॥ १ ॥” नरवीरोऽपि देशान्तरं गच्छन् श्रीयशोभद्रसूरीणां मिलितः । प्रोक्तश्च गुरुभिः - भो क्षत्रिय ! रूपसौभाग्यवानाकर्णक
प्रबन्धः ।
॥ १०८ ॥
w.jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
ESARSSESEARSAREEKRESSESSA
पितकोदण्डो मृगयापर एवंविधं क्षात्रगोत्रं प्राप्य कथं जीववधं कुरुषे ॥ क्षत्रियोऽसि नराधीश!, प्रतिसंहर सायकम् । आतंत्राणाय वः शस्त्रं, न प्रहर्तुमनागसि ॥१॥ वैरिणोऽपि हि मुच्यन्ते,प्राणान्ते तृणधारणात् । तृणाहाराः सदैवते, हन्यन्ते पशवः कथम् ॥२॥ वरमाजन्म दारिद्यं, वरं दास्यं परौकसि । न तु प्राणहरस्तेयसंभवो विभवो महान् ॥ ३ ॥ एतदाकर्ण्य लजितः प्राह-महात्मन् ! “बुभुक्षितः किं न करोति पापम्" । ततो गुरुवचसा व्यसनानि मुक्तानि । श्राद्धैः शम्बलादिकं दत्तम् । स च क्रमेण नवलक्षतिलङ्गदेशस्थ एकशिलापुर्या गतः । तत्र ओढरव्यवहारिणो गृहे भोजनादि-15 वृत्त्या स्थितः । श्रीयशोभद्रसूरयोऽपि तत्रैव पुर्यां चतुर्मासी स्थिताः । पुराऽपि पुरमध्ये गुरूपदेशेनौढरश्राद्धेन श्रीवी-1 रचैत्यं कारितमस्ति समग्रपुरलोकप्रसिद्धम् । तत्र चैत्ये पर्युषणापर्वणि श्रीमानोढरः सकुटुम्बः सप्रधानपूजोपकरणः पूजार्थं गतः। विधिना स्नात्रपूजनादि कृत्वा सार्द्धमायातं नरवीरं पाह-गृहाणेदं पुष्पादि, कुरु श्रीजिनेन्द्रपूजाम् , फलेग्रहि विधेहि स्वजन्म जीवितादि । ततो नरवीरेणाचिन्ति-अदृष्टपूर्वोऽयं परमेश्वरः सकलभुक्तिमुक्तिप्रदश्च कथं परकीयपुष्पादिभिः पूज्यते । ततः स्वकीयपञ्चवराटकक्रीतैः पुष्पैरानन्दाश्रुप्लावितहक् प्रसन्नमनोवाक्कायः पारमेश्वरी पूजामकरोत् । तदनु अहो ! यद्यते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वते, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतपः करोमीति गुरुमुखेनोपवासमकरोत् । पारणे शुद्धश्रद्धया साधुदानमदात् । ततः प्रभृति जिनधर्माभिमुखात्मा प्रकृतिभद्रकः सन्
मृत्वा त्वं त्रिभुवनपालनृपभूर्भूमीपतिर्जातः । ओढरस्तूदयनमन्त्री । यशोभद्रसूरयस्तु वयम् । त्वं पुनरितो निजायुष्मान्ते 3 महर्द्धिव्यन्तरदेवत्वमधिगम्य ततश्युत्वा चात्रैव भरते भद्दिलपुरे शतानन्दनृपधारिण्योः पुत्रः शतबलाह्वः पैतृकं राज्यम-31
कु. १९ in Education
Page #224
--------------------------------------------------------------------------
________________
पवन्धः।
कुमारपाला वाप्य भाविपद्मनाभजिनधर्मदेशनां श्रुत्वा प्रबुद्धो राज्यलक्ष्मी त्यक्त्वा प्रव्रज्यैकादशमगणधरो भूत्वा केवलज्ञानमासाद्य
मोक्षं यास्यसि ॥ एवं राजन् ! भवादस्मात्तातीयीके भवे तव । जिनधर्मप्रभावेण, मुक्तिश्रीभविता ध्रुवम् ॥१॥ इति ॥१०९॥
श्रीसूरिमन्त्राधिष्ठात्रीदेवीगिरा मया । कथयामासिरे सम्यग, भवास्ते भूतभाविनः ॥२॥ आसन्नसिद्धिश्रवणातल्लाभादिव निर्वृतः। अथ विज्ञपयामास, प्राञ्जलिगुर्जरप्रभुः॥३॥ ज्ञानङ्गिले कलावस्मिन् , सर्वज्ञ इव सम्प्रति । अतीतानागतं ब्रूते, कः पूज्यादपरो ननु ॥४॥ यथा भागवती भाषा, भवेन्न व्यभिचारिणी । प्राग्भव्यपि तथैवेयं, तद्ध्यानातिशयादिव ॥५॥ परं कौतुकमात्रेण, दासी तां प्रच्छयाम्यहम् । आप्तमेकशिलां प्रेष्य, यद्यादिशति मां प्रभुः ॥ ६॥ विशिष्य पृच्छतामेवं, जल्पिते गुरुणा नृपः। प्रैषीदाप्तजनं तत्र, कौतुकी येन नालसः॥७॥स गत्वैकशिलास्थानमोढराङ्गजसद्मनि । | तां दासी स्थिरदेव्याख्यां, पृष्ट्वा तद्वत्तमादितः॥ ८॥ दृष्ट्वा श्रीवीरचैत्यं च, स्वयमोढरकारितम् । आगत्य च महीभत्रे,
जगौ सर्व यथास्थितम् ॥ ९॥ युग्मम् ॥ प्रतीतोऽथ नृपः सङ्घप्रत्यक्षं गुरवे मुदा । बिरुदं कलिकालश्रीसर्वज्ञ इति दत्तवान् ॥ १०॥ श्रीसिद्धराजेन सह वैरकारणं ज्ञात्वा चिन्तितं राज्ञा मनसि, अहो ! दारुणः संसारः ॥
इक्कमरणाउ बीहसि, अणंतमरणे भवंमि पाविहिसि । जम्हा अणेगकोडीजीवा विणिवाइया तुमए ॥१॥
थेवदुहस्सवि बीहसि, अणंतदुक्खे भवंमि पाविहिसि । जम्हा अणेगजीवा, दुक्खे संताविया तुमए ॥२॥
एवं संवेगनिर्वेदालिङ्गितात्मनो यान्ति वासराः पुण्यभासुराः ॥ अन्यदा सुखसुप्तस्य, भूपतेः काऽपि देवता । है निशीथेऽजनि प्रत्यक्षा, श्यामाङ्गा क्रूररूपभृत् ॥१॥ भूपपृष्टाऽवदत्साऽपि, लूताधिष्ठात्रीदेवता । त्वदङ्गे प्रविशिष्यामि,
१०९॥
Jain Education
!
For Private Personel Use Only
S
ainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
पूर्वशापात्तवान्वये ॥२॥गतायामथ तस्यां स, चिन्तार्तोऽभून्नपः प्रगे। सूरिपृष्टोऽवदत्सर्व, तमूचे सूरिरप्यथ ॥३॥ भावी भावो भवत्येव, नान्यथा सोऽमरैरपि । पूर्व कामलदेव्या यत् , शपितो मूलभूपतिः॥४॥ यतः
"अवश्यंभाविनो भावाः, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः॥१॥
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् ।
मन्त्रौषधैः प्रहरणैश्च करोतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥२॥" परं राजन् ! पुण्यं कुरु । यतः
___“दीपो हन्ति तमस्तोम, रसो रोगभरं यथा । सुधाबिन्दुर्विषावेगं, धर्मः पापहरस्तथा ॥१॥" रात्रौ महाव्यथाऽभूत् । पृष्टे राजिकाकणोपमः पिटकः प्रादुरभूत् । प्रतीकारैरनुपशमने श्रीगुरवः समायाताः राजानं दुःखात दृष्ट्वा प्राहुः
सृजति तावदशेषगुणाकरं, पुरुषरत्नमलङ्करणं भुवः । तदनु तत्क्षणभङ्गि करोति चेदहह ! कष्टमपण्डितता विधेः ॥१॥ __ राज्ञः श्रीगुरुदर्शने क्षणं सुखमभूत् । सूरयः प्राहुः
दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा।
सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः॥१॥ इत्याद्युपदिश्य मन्त्रिणं प्रत्याहुः–मन्त्रिन् ! 'अपायानामुपायाः स्युर्बहुरत्ना वसुन्धरा' । मन्त्री प्राह-भगवन् ! अनु
REACHEMICCCC
Jan Education
on
For Private
Personel Use Only
Page #226
--------------------------------------------------------------------------
________________
कुमारपाल
प्रबन्धः ।
॥११०॥
स्वर्ण धातवः, अनु चन्दनं काष्ठानि । तथाऽनु पूज्यान् कलाकोविदाः॥ यथा तमोऽन्तको भानुः, सुधा सर्वविषापहा । जगत्संजीवनो मेघस्तथा राज्ञो गुरुभवान् ॥१॥ श्रीगुरुरभ्यधात्-नात्र मन्त्रतत्रभैषज्यप्रभावप्रसरः, किन्तु बुद्धिप्रकारोऽस्ति यदि राज्यमन्यस्य कस्यापि दीयते तदा राज्ञः कुशलं स्यात् , परं नायं धर्मः श्रीजिनधर्मविदाम् । यतः
"सबो न हिंसियबो, जह महिपालो तहा उदयपालो। न य अभयदाणवइणा, जणोवमाणेण होयचं ॥१॥" ततोऽस्माकमेव राज्यमस्तु । राजा कर्णी पिधायाभ्यधात्
को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भस्मने भस्मसात्कुर्यात्, को हि चन्दनकाननम् ॥१॥राजन् ! महाऽयुक्तमेतत् यदि मम शक्तिर्न भवति । परम्शक्तो हनूमान् यदवन्धयत्स्वयं, विष्णुर्दधौ यच्च शिवास्वरूपम् । सैरन्ध्रिकाकारधरश्च भीमस्तथाऽहमप्यत्र कतौ समर्थः२॥
CAECRECAUCCALCORDCRACC
मम मनसीदम् । यतः-
मत्री लक्ष्मीय॑यः क्लेशः, साकोऽपि विधुरो जातः ।
"या लोभायो परद्रोहाद्यः पात्राद्यः परार्थतः । मैत्री लक्ष्मीय॑यः क्लेशः, सा किं सा किं स किं स किम् ॥१॥" ततो राजा शनैः शनैर्व्यथया शून्यचित्तोऽभूत् । राजानं तथाभूतं विलोक्य सर्वः कोऽपि विधुरो जातः । यतः
"महतामापदं दृष्ट्वा, को हि दुःखी न जायते । काकोऽप्यन्धत्वमायाति, गच्छत्यस्तं दिवाकरे ॥१॥" श्रीगुरुः सर्वसंमतेन राज्ये स्वयमुपविष्टः । तत्क्षणमेव राज्ञो व्यथा सूरिशरीरे संक्रान्ता । गुरुव्यथां ज्ञात्वा राजा वज्राहत इव गतसर्वस्व इव मनसि खेदमेदुरश्चिन्तयति-स्वाङ्गदाहेऽपि कुर्वन्ति, प्रकाशं दीपिकादशाः । लवणं दह्यते वह्नौ,
॥११०॥
HainEducation
For Private Personal use only
Page #227
--------------------------------------------------------------------------
________________
परदोषोपशान्तये ॥१॥ अहो ! उत्तमानां स्वभावः। यतः
"चरित्रं तव पाषाण !, श्लाघनीयं सतामपि । दग्ध्वा येनाग्निनाऽऽत्मानं, दत्तो रङ्गः परानने ॥१॥
छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपे । फलन्ति च परस्यार्थे, नात्महेतोर्महादुमाः॥२॥" गुरुरुवाच-राजन् ! मा चिन्तां कुरु, न मे शक्तिमतोऽसुखम् । मूलाचेन्नोन्मूलयाम्येनां तदा मम वंश्यानां स्यात् । ततः-पक्कं कूष्माण्डमानाय्य, प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशलूतां, तदैवाभूत्तदन्यथा ॥ १॥ उत्पाव्यान्ध प्रधौ क्षिप्तं, कश्चिन्नोल्लसते यथा । एवं स्वस्थमभूत्सर्व, सूरेः शक्तिरहो ! स्फुटा ॥ २२ ॥ ततः पुनर्गुरो राज्ञश्च जन्मोत्सवः, सर्वत्र पुरे धवलमङ्गलोत्सवाः, सर्वचैत्येष्वष्टाहिका, अनिवारितदानानि, श्रीजिनराजशासनोन्नतिश्च सर्वत्र प्रससार जैनधर्ममहिमाऽपि । अन्यदा| लद्धे माणुसजम्मे, रम्मे निम्मलकुलाइगुणकलिए । घडियचं मोक्खकए, नरेण बहुबुद्धिणा धणियं ॥१॥धम्मो अत्थो कामो, जओ न परिणामसुंदरा एए । किंपागपागखललोयसंगविसभोयणसमाणा ॥२॥ जंमि न संसारभयं, जंमि न मोक्खाभिलासलेसोवि । इह धम्मो सो नेओ, विणा कओ जो जिणाणाए ॥३॥ पावाणुबंधिणो च्चिय, मायाइमहल्लसल्लदोसेण । एत्तो भोगा भुयग व भीसणा वसणसयहेऊ ॥ ४॥ जो पुण खमापहाणो, परूविओ पुरिसपुंडरीएहिं । सो धम्मो मुक्खो च्चिय, जमक्खओ तप्फलं मुक्खो॥५॥ पच्चक्खमेव अत्थो, कामो य अणत्थउभावेण । दीसंति
१“परलोकोप-" इत्यपि ॥
Jain Education Intematon
Page #228
--------------------------------------------------------------------------
________________
कोहणेणं, विहिणा सिइ उत्तरुत्तराणं, गुणा जियंति सुहं .
कुमारपाल परिणमंता, किमहियमिह भाणियबमओ॥ ६॥ भुवणन्भुयावि विहवा, भोगावि हुणेगहा वरविलासा । मरणंमि विर- प्रबन्धः । ॥११॥ |सभावा, न किञ्चि तेणुत्तमो मुक्खो ॥७॥ मोक्षोपायश्चायम्-निच्चं तिकालचिइवंदणेण सइ विविहपूयपुवेण । चेइय
कजाणं विहु, विहाणमइनिउणकरणेण ॥८॥ आयारपराण बहुस्सुयाण सुमुणीण वंदणेणं च । बहुणा बहुमाणेणं, गुणीसु तह वच्छलत्तेणं ॥९॥दसणविसोहणेणं, विहिणा सिद्धन्तसारसवणेणं । नवनवसुयपढणेणं, गणणेणं पुवपढियस्स ॥१०॥ तत्ताणुपेहणेणं, चउहा भावणविभावणेणं च । सइ उत्तरुत्तराणं, गुणाणमभिलासकरणेणं ॥११॥ इय में गुणरयणपहाणा, सकयत्था एत्थ चेव जम्मंमि । सरयससिसरिसजसभरभरियदियंता जियंति सुहं ॥ १२ ॥ परलोए पुण कल्लाणमालिका मालिया कमेणेव । अणुरूयचोक्खसोक्खा, लहंति मोक्खपि खीणरया ॥ १३ ॥ । इत्यादिधर्मदेशनां श्रुत्वा राजा संसारासारतां विभाव्य मोक्षकरसिकान्तःकरणः श्रीगुरून्नत्वा भगवन् ! अद्य का तिथि ? इति पप्रच्छ । श्रीगुरुः सहसाऽमावास्यादिने पूर्णिमेति प्राह । अत्र देवबोधिलब्धावकाशो मिथ्याग् बाह्यमि
त्रमप्यान्तरधर्मशत्रुराह-अहो ! कलिकालसर्वज्ञः श्रीहेमसूर्यिदद्य पूर्णिमां कथयति तदा लोकानां भाग्येन पूर्णिमैव तभविष्यतीत्युपहासगर्भ तद्वचः श्रुत्वा गुरुः प्रोचे-सत्यमेतद्भवद्वचः। तेनोक्तम् , कोऽत्र प्रत्ययः ? श्रीगुरुभिरुक्तम् ,
अहो ! केयं भवतश्चातुरी ? चन्द्रोदय एव प्रत्ययः, इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः, किमित्थमपि भवि-17 प्यति ? ततो राजा विस्मितस्वान्तदेवबोधिद्वासप्ततिसामन्तादिपरिवृतो राजसभामागत्य व चन्द्रोदयो भविष्यति ? इति परिज्ञानाय घटीयोजनगामिकरभ्यारूढान् निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् । ततः श्रीहेमाचार्येभ्यः पूर्वप्रद
॥१११॥
Jain Education Interneta
For Private Personel Use Only
www.againelibrary.org
Page #229
--------------------------------------------------------------------------
________________
तवरसिद्धचक्रसुरप्रयोगेण पूर्ववत्पूर्वस्यां सन्ध्यासमये चन्द्र उदयं कृत्वा निखिलां रात्रिं ज्योत्स्नामयीं विधाय चतुरो यामान् गगनमण्डलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽस्तमगात् । प्रातस्तेऽपि पूर्वप्रहितपुरुषाः समागत्य तथैव प्रोचुः । सर्वेषां महान् विस्मयः । अहो ! श्रीगुरूणां काऽपि महती शक्तिः, अहो ! जैनानां कोऽपि महिमा लोकोत्तर इति लोकोक्तिः सर्वत्राजायत । अथ देवबोधेस्तदेव च्छलवचनं स्मरन् श्रीगुरून् राजा पप्रच्छ । भगवन् ! सत्स्वपि बहुदर्शनेषु ब्राह्मणानां कस्माजिनधर्मे महान् विद्वेषः ? । गुरुः - राजन् ! पुरा युगादौ प्रथमजिनः परोपकाराय विनी - तासन्ने पुरिमतालपुरे समवसृतः । भरतचक्री प्रमुदितो जिनागमज्ञापकाय सार्द्धद्वादशस्वर्णकोटीप्रीतिदानं दत्त्वा विविधाहारादिभृतबहुशकटानि लाया सपरिकरो जिनवन्दनाय गतः -
सच्चित्तदबमुज्जणमच्चित्तमणुजणं मणेगत्तं । इगसाडिउत्तरासंगमंजली सिरसि जिदिट्ठे ॥ १ ॥
अयं पञ्चधा - खगं छत्तोवाणह, मउडे चमरे य पंचमए ॥ २ ॥
दशविधाभिगमपूर्वकं प्रदक्षिणात्रयं दत्त्वा प्रभुं प्रणम्य यथास्थानस्थो धर्मदेशनामिति शुश्राव । यथासबा कला धम्मकला जिणाइ, सबा कहा धम्मकहा जिणाइ । सवं बलं धम्मबलं जिणाइ, सबं सुहं मुत्तिमुहं जिणाइ ॥१॥ त्रिजगदीश ! किं धर्मस्वरूपम् ? इति चक्रिणोक्ते श्रीजिनः
श्री धर्मपुरुषस्यास्य, दानमौदारिकं वपुः । शीलं वस्त्रं तपस्तेजो, भावो जीवस्तदीशिता ॥ १ ॥ एवं श्रुत्वा दानमेव धर्मरूपमिति विचिन्त्य प्रभुं नत्वा सार्द्धमानीतभक्तादिग्रहणाद्यर्थं साधूनां निमन्त्रणामकरोत् ।
Page #230
--------------------------------------------------------------------------
________________
प्रबन्ध
कुमारपालx भगवानाह, राजन् ! आधाकर्मिकाभ्याहृतराजपिण्डादिदोषदूषितमिदं भक्कादि साधूनामकल्प्यमिति श्रुत्वा दूनं श्रीभ-5
रतचक्रिणं ज्ञात्वा शक्रः स्वामिनः पार्थे॥११२॥
देविंद १ राय २ गिहवइ ३ सागरि ४ साहमि ५ उग्गहो चेव । पञ्चविहो पन्नत्तो, अवग्गहो वीयरागेहिं ॥१॥ इत्येवं पञ्चविधावग्रहस्वरूपं पृष्ट्वा प्राह, राजन् ! मा विषादं कुरु, सर्वज्ञशासने सप्तक्षेत्राणि श्रीजिनभवनबिम्बागमच-टू तुर्विधश्रीसङ्घरूपाणि सन्ति । तत्र ये साधर्मिका गृहारम्भपराङ्मुखाः संयमपरिणामभाजः संवेगवैराग्यादिगुणजुषस्तेषां वात्सल्यं कुरु, इति सुरेन्द्रवचः श्रुत्वा पूर्वानीतवस्तुभिः साधर्मिकभक्तिमकरोत् श्रीभरतः। तेषां गृहारम्भादिकं निवार्य वृत्तिमकार्षीत् । गृहस्थाचारविचारवाच्यं चतुरध्यायनिबद्धं श्रावकप्रज्ञप्तिग्रन्थं जिनप्रणीतमर्थतो देशविरतास्ते पठन्ति । 'मा हनमा हन' इति परेषां कथयन्ति ते 'माहना' लोके प्रसिद्धिमगुः। कालेन तेषां वृद्धिः। ततः षष्ठे षष्ठे मास्याचारादिपरीक्षां कृत्वाऽयं ज्ञानदर्शनचारित्राचारशुद्ध इति काकिन्या रत्नेन कण्ठे रेखात्रयं कृतम् । ततः कालेन परीक्षापूर्वकं कनकसूत्रत्रय, क्रमेण रौप्यं जातम् । ततः कालेन नवमदशमजिनयोरन्तरे सकलसाधुव्युच्छेदे सति सर्वेषां लोकानामपरधर्मप्रकाशकाभावादेते गुरवः सञ्जाताः । क्रमेणाब्रह्मचारिणः कण्ठे सूत्रत्रयधारिणश्चाऽभूवन् । ततः क्रमेणोत्पन्नकेवले, दशमजिने धर्म प्रकाशयति गृहारम्भप्रवृत्तोऽब्रह्मचारी गुरुर्न भवतीत्युक्ते तेषां जिने जिनधर्मे च महान् विद्वेषोऽभूत् । मूढमतीनां लोकानामपि द्वेषमुत्पादयन्ति । ततः कालेन मिथ्यात्वं गताः। यदुक्तम्
“समवसरणभत्तउग्गह--अंगुलिझयसक्कसावया अहिया । जं आवट्टइ कागिणिलंछण अणुमजणा अट्ठ॥१॥
Join Education interande
For Private 3 Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
CRICASAROSAGARLOCAASAROK
अस्सावगपडिसेहो, छढे छठे य मासि अणुओगो । कालेण य मिच्छत्तं, जिणंतरे साहुवुच्छेओ ॥२॥" इति द्वेषकारणं ब्राह्मणानां श्रुत्वा राजाऽचिन्तयत्-अहो! चन्द्रमण्डलादग्निः, सुधाकुण्डाद्विषं प्रादुरभूत् । लोक नामभाग्योदयेन श्रीजिनधर्मान्मिथ्यात्वमभूदिति । एवं श्रीहेमसूरिभिरनेके कुतीर्थिनः प्रवादा राजसभायां निरुत्तरीकृताः। श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितं, राजप्रतिबोधश्च कृतः। यदुक्तम्__ “सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा।
उन्मीलन्ति महामहांस्यपि परोलक्षाणि ऋक्षाणि खे, नो राका शशिना विना बत! भवत्युजागरः सागरः ॥१॥ स्तुमत्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि, यः क्षोणिभर्तुळधितप्रबोधम् ॥२॥"131
श्रीकुमारपालदेवेन तु द्वासप्ततिसामन्ताः स्वाज्ञा ग्राहिताः। अष्टादशदेशेष्वमारिपटहो दापितः । चतुर्दशदेशेषु मैत्रीबलेनार्थबलेन च जीवरक्षा कारिता । चतुश्चत्वारिंशदधिकचतुर्दशशतनवीनजिनप्रासादेषु कलशाधिरोपणं कारितम् । षोडशसहस्रजीर्णोद्धारेषु कलशध्वजारोपोऽकारि । सप्तभिः श्रीतीर्थयात्राभिरात्मा पवित्रितः । प्रथमयात्रायां नवलक्षसुवर्णमूल्यनवरत्नैः श्रीजिनः पूजितः। एकविंशतिश्रीज्ञानकोशलेखनम् । द्वासप्ततिलक्षमितद्रव्यपत्रं पाटितम् । अष्टनवतिलक्षमितद्रव्यमौचित्ये दत्तम् । द्वासप्ततिलक्षमितः श्राद्धकरो मुक्तः। भग्नसाधर्मिकस्य गृहागतस्यैकसहस्रदीनारदानम् । एकस्मिन् वर्षे कोटिर्लग्ना ।एवं बहुवर्षाणि यावत् । आजन्मपरनारीसहोदरशरणागतवज्रपञ्जरविचारचतुर्मुखपरमाहतराजर्षिजीवदानजीमूतवाहनादीनि जगद्विस्मयावहानि विरुदानि लब्धानि । सप्तव्यसनानि निवारितानि ।श्रीसङ्घभक्तिसाधर्मिक
in Education International
Page #232
--------------------------------------------------------------------------
________________
GO
प्रवन्धः ।
॥११३॥
कुमारपाल वात्सल्यत्रिर्जिना द्विरावश्यकपर्वदिनपौषधादानशासनप्रभावनादीनोद्धारसत्रागारपरोपकारादिपुण्यान्यनेकधा कृतानि ॥
___ कुमारपालभूपस्य, किमेकं वर्ण्यते क्षितौ । जिनेन्द्रधर्ममासाद्य, यो जगत्तन्मयं व्यधात् ॥१॥ अत्रान्तरे च नियूंढराजव्यापारी विहितानेकनवीनप्रासादजीर्णोद्धारपरोपकारदीनोद्धारादिपुण्यकृत्यौ श्रीजिनशासनप्रभावको मन्त्रिबाहडदेवाम्बडौ स्वर्जग्मतुः । अत्र चार्थिसार्थप्रार्थनाकल्पवृक्षं मन्त्र्याम्बडदेवं प्रति कविवाक्यम्
वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्धनकृते, वरं वेश्याचार्यैवरमपि महाकूटनिपुणैः।
दिवं याते दैवादुदयनसुते दानजलधौ, न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥१॥ | अथैवं काले कवलितानेकपुरुषरले श्रीकुमारपालभूपालः श्रीहेमसूरिश्च कृतकृत्यौ महसा तपसा वयसा च वृद्धौ जातो,
परं हेमसूरिंगच्छे विरोधः। रामचन्द्रगुणचन्द्रवृन्दमेकतः, एकतो बालचन्द्रः। तस्य च राजभ्रातृव्याजयपालेन सह मैत्री॥ | अथ वार्धक्यमालोक्य चौलुक्यपृथिवीपतिः । स्थित्वानुरहसं रात्रौ, गुरुं प्रत्येवमूचिवान् ॥१॥ सत्यपि त्वादृशे सर्वविद्याम्भोधौ गुरौ मम । फलं गार्हस्थ्यधमस्य, नाभाग्यैस्तनयोऽजनि ॥२॥ दिने दिने जरा चैषा, जनयन्ती कृशा
ताम् । ओजायते समं राज्यलक्ष्मीदानाहचिन्तया ॥ ३ ॥ ददाम्यजयपालाय, स्वराज्यं भ्रातृसूनवे । उत प्रतापमल्लाय, *दौहित्राय निवेद्यताम् ॥ ४ ॥ ततो विमृश्य सूरिभिरभाणि, राजन् ! भ्रातृव्यो न योग्यो दुराशयत्वात्सत्सङ्गरहितत्वा-2
दधर्मनिष्ठत्वादिकारणैर्न बहुराजवर्गीयप्रजासंमतः । भ्रातृव्यात्तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति । प्रतापमल्लः प्रजाटू। प्रियन्यायधर्मनिष्ठत्वादिगुणैर्योग्यः । यदुक्तम्
OGMOCRACSROCRACK
११३॥
Jain Educationa
l
www.lainbrary
Page #233
--------------------------------------------------------------------------
________________
CAMESCORRESS
"धर्मशीलः सदा न्यायी, पात्रे त्यागी गुणादरः । प्रजानुरागसंपन्नो, राजा राज्यं करोति सः॥१॥" । एवं मन्त्रे कृते बालचन्द्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य च तदनु रामचन्द्रादिषु श्रीचौलुक्ये च महान् द्वेषः । अत्रान्तरे चतुरशीतिवर्षायुषः श्रीहेमाचार्याः परिज्ञातनिजावसानसमयाः समग्रश्रीसङ्घ स्वकीयगच्छं श्रीकुमारपालभूपं चाहूय, राजन् ! तवापि षण्मासीशेषमायुरस्तीति प्रज्ञापनां कृत्वा दशधाऽऽराधनां विधाय समाधियोगसाधितस्वकृत्याः, तदवसरे च-पतित्वाऽथ पदाम्भोजे, राजर्षिः क्षामणाक्षणे । बाष्पायमानो नेत्राभ्यां प्रभुमूचे, सगद्गदम् ॥१॥ईपल्लम्भं प्रतिभवं, स्त्रैणराज्यादिकं खलु । कल्पद्रुरिव दुष्प्रापस्त्वादृग् भद्रङ्करो गुरुः ॥२॥ न केवलमभूस्त्वं मे, भगवन् ! धर्ममात्रदः । जीवितव्यप्रदः किन्तु, ततस्त्वत्तोऽनृणः कथम् ॥ ३॥ त्वयि स्वर्गोन्मुखे स्वामिन् !, कोऽधुना शिक्षयिष्यति ? । मामखण्डतमं पुण्यप्रक्रियाकाण्डताण्डवम् ॥४॥ अगाधे मोहपाथोधौ, पर्यन्ते मजतो मम । निर्यामणाकरालम्बं, त्वां विना कः करिष्यति ॥५॥ इति भूभृद्विलापेन, विभिन्नहृदयः प्रभुः। नेत्रकूलंकषान् बाष्पान् , संनिरुध्य कथंचन ॥ ६॥ उत्थाप्य चातिकष्टेन, पदलग्नं तमात्मनः । ऊचे वाचं शुची सौरसैन्धवीलहरीमिव ॥७॥ आजन्म राजन् ! निर्व्याजभक्तेऽहं हृदि तावके । समुत्कीर्ण इव स्वर्ग, गतोऽपि स्यां पृथग् नहि ॥ ८॥ मनःशुद्ध्या समाराद्धजिनधर्मस्य ते पुरः। मोक्षोऽपि नास्ति दुर्लम्भः, सद्गुरुस्तु किमुच्यते ?॥९॥ अस्मदुक्त्याऽर्हतं धर्म, प्रपद्य क्षितिमण्डले । कृत्वा च तस्य साम्राज्यं, नापर्णस्त्वमभूः कथम् ॥१०॥इत्यादिवचोभिराश्वासितश्रीकुमारपालनृपविधीयमाननानोत्सवरचनः॥ निरञ्जनं निराकारं सहजानन्दनन्दितम् । निरूप्य मनसा नित्यं, स्वरूपं पारमेश्वरम् ॥१॥ कृत्वा तन्मयमा
ACAREERASACANCS
Jain Education Interational
For Private & Personel Use Only
Page #234
--------------------------------------------------------------------------
________________
कुमारपालादत्मानं, त्यक्त्वा सर्व स्वतः परम् । स्वात्मावबोधसंभूतज्योतिषेति व्यभावयन् ॥२॥ यथा
Gाप्रवन्धः। आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवाखिलविषयसमुज्जीवनायुस्त्वमेव । ॥११४॥ 18| कर्ता भोक्ता त्वमेव ब्रजसि जगति च स्थाणुरूपस्त्वमेव, स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोषि॥१॥
इति संचिन्त्य चरमोच्छाससमये दशमद्वारेण प्राणोत्क्रान्तिमकार्षः ॥ संवत् ११४५ कार्तिकपूर्णिमानिशि जन्म श्रीहे. मसूरीणां, संवत् ११५४ दीक्षा, संवत् ११६६ सूरिपदम् , संवत् १२२९ स्वर्गः। तदनन्तरं प्रभोर्वपुषश्चन्दनागरुकर्पूरादिभिः कृते संस्कारे तद्भस्म पवित्रमिति कृत्वा राज्ञा तिलकमिषेण नमश्चक्रे ततः समस्तसामन्तैस्तदनु नगरलोकैश्च तत्रत्यमृत्स्नायां गृह्यमाणायां "हेमखड्ड” इति प्रसिद्धा सा पत्तनेऽस्ति ॥
राजा लुठति पादाग्रे, जिह्वाग्रे च सरस्वती । श्रियेऽस्तु शश्वत् स श्रीमान् , हेमसूरिनवः शिवः ॥१॥ कति न व्रतिनः पुराऽभवन, भवनोद्भावभानुभानवः। अभयामृततर्पिताङ्गभृन्न पुनः कश्चन हेमसूरिवत् ॥ २॥ प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनाम् । हेमाचार्योऽत्र चातुर्ये, तुर्यः किं तुर्यदुर्युगे॥३॥ अथ राजा श्रीगुरुविरहेणास्तोकशोकाश्रुजलाविललोचनः श्मशाननिभा राजसभां मन्यमानस्तत्र नायाति । दुर्गतिचिह्नान्यतानीति राजचिह्नानि न धारयति । संसारकारीति राजव्यापार न करोति । भोगांश्च रोगानिव मन्यते। लास्यहास्यादि-3॥११४॥ विमुखः सकलकलाकुशलैरनेकधा विनोद्यमानोऽपि न क्वापि रतिमाप । अन्यदा सान्ध्यविधिकृते सन्ध्यासमयमावेदयितुं केनापि विदुषाऽपाठि
AASARAKASS
Page #235
--------------------------------------------------------------------------
________________
ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे, संकोचं मोचितं दाग किल कमलवनं धाम लुप्तं ग्रहाणाम् । प्राप्ता पूजा जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः, सम्प्रत्यस्तङ्गतोऽसौ हतविधिवशतः शोचनीयो न भानुः॥२॥ इत्याकर्ण्य राजा शोकं किंचित्स्तोकं कृत्वा श्रीगुरूणां गुणान् स्मारं स्मारं सुचिरमिदमवादीत्श्रीसूरीश्वरहेमचन्द्र ! भवतः प्रक्षाल्यपादौ स्वयं, स्वर्धेनोः पयसा विलिष्य च मुहुः श्रीखण्डसान्द्रद्रवैः। अर्चामोऽम्बुदमौक्तिकैयदि तदाऽप्यानृण्यमस्तु व नो, विश्वैश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतूह्यम् ॥१॥
श्रीहेमचन्द्रप्रभुपादपद्मं, वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥२॥ ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमलं राज्ये निवेशयति तावत्किंचित्कृतराजवर्गभेदोऽजयपालो भ्रातृव्यः श्रीकुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञाततत्पपश्चः स्वां विषापहारशुक्तिका कोशस्थां शीघ्रमानयतेति निजाप्तपुरुषानादिदेश । ते च तां पुराऽप्यजयपालगृहीतां ज्ञात्वा तूष्णीं स्थिताः। अत्रान्तरे व्याकुले समस्तराजलोके विषापहारशुक्तेरनागमहेतुं ज्ञात्वा कोऽपि पपाठ
कुमरड कुमरविहार एता कांई कराविया । ताहं कुण करिसिइ सार सीपनआवई सइंधणी ॥१॥ इत्याकर्ण्य यावद्राजा विमृशति तावत्कोऽप्यासन्नस्थः प्राह--
कृतकृत्योऽसि भूपाल !, कलिकालेऽपि भूतले । आमन्त्रयति तेन त्वां, विधिः स्वर्गे यथाविधि ॥१॥ द्वयोर्लक्षं लक्षं दत्त्वा शिप्रानागमहेतुं ज्ञात्वा
कु.२०
Jain Education
For Private
Personal Use Only
.
Page #236
--------------------------------------------------------------------------
________________
कुमारपाल
प्रवन्धः।
॥११५॥
अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो, वादेषु प्रतिवादिनां प्रतिहताः शास्त्रार्थगर्भा गिरः ।
उत्खातप्रतिरोपितैनृपतिभिः सारैरिव क्रीडितं, कर्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयम् ॥१॥ इत्युदीर्य दशधाऽऽराधनां कृत्वागृहीतानशनोवर्षत्रिंशत् ,मास अष्टौ,दिवसान् सप्तविंशति,राज्यं कृत्वा कृतार्थीकृतपुरुषार्थः॥
सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्रं प्रभु, धर्म तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्ययम १२३० वत्सरे विषलहयुत्सर्पिमूर्छाभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यन्तराधीशताम् ॥२॥ ततो लोके हाहाकारो महानभूत् । सर्वत्रेति गिरः प्रादुरासन्
आकर्ण्य प्रति काननं पशुगणाश्चौलुक्यभूपव्ययं, क्रन्दन्तः करुणं परसरमदो वक्ष्यन्ति निःसंशयम् । योऽभून्नः कुलवर्द्धनः स सुकृती राजर्षिरस्तं ययौ, यूयं यात दिगन्तरं झटिति रे ! नो चेन्मृता व्याधतः ॥३॥
नाभून्न भविता चात्र, हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च, जिनभक्तो महीपतिः॥२॥ नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी।समं मनोभिस्तिमिकेकितित्तिरिस्तभोरणकोडमृगादिदेहिनाम् ॥१॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष कृप्तो वितथः प्रवादः। जिनेन्द्रधर्म प्रतिपद्य येन,श्लाघ्यःस केषां न कुमारपालः॥२॥
लोको मूढतया प्रजल्पतु दिवं राजर्षिरध्यूपिवान् , बेमो विज्ञतया वयं पुनरिहेवास्ते चिरायुष्कवत् । स्वान्ते सच्चरितैनभोऽब्धिमनुभिः कैलासवहासिकैः, प्रासादैश्च बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ ३ ॥
Jain Education
For Private Personal use only
2Dainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
॥ अथ प्रशस्तिः ॥ प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपद्यैर्नवैः कैश्चित् , कैश्चित्प्राक्तननिर्मितैः ॥१॥ श्रीसोमसुन्दरगुरोः, शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना, व्यङ्कमनु १४९२ प्रमितवत्सरे रुचिरः ॥२॥ इति श्रीसोससुन्दसूरीश्वरशिष्यश्रीजिनमण्डनोपाध्यायैः श्रीकुमारपालप्रबन्धो यथा दृष्टश्रुतानुसारेण योजितः ॥
For Private & Personel Use Only
Page #238
--------------------------------------------------------------------------
________________ HARO TITUTE समाप्तोऽयं कुमारपालप्रवन्धनामा ग्रन्थः॥ For Private & Personel Use Only