SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ५२ ॥ गृह्यन्तां स्वेच्छया रत्नान्यत्र मुक्त्वा च काञ्चनम् । यतो ह्येकमपि प्रायो, रत्नं लाभाय भूयसे ॥ ११ ॥ विक्रीय कनकं तेऽपि खानिं खनितुमागताः । तत्र राज्ञो नवांशाः स्युर्दशांशः स्यात्पुनर्नृणाम् ॥ १२ ॥ एवं व्यवस्थया खानिं खनित्वा रत्नपञ्चकम् । प्रत्येकं प्राप्य ते प्राहुर्मुदिता मित्रमादरात् ॥ १३ ॥ इदानीमपि रत्नानि गृहाण त्वं सुहृत्तम ! | विनष्टं नास्ति ते किंचिन्मुञ्च मुञ्च कदाग्रहम् ॥ १४ ॥ इत्यादिवादितोऽप्येष दुरात्मा प्रतिवक्ति च । यूयं भोः ! मिलिता धूलेश्चलाचलविचेतसः ॥ १५ ॥ एवं नवनवं लात्वा, युष्माभिस्तरलीकृतः । आश्रितो द्वेषिभिः स्वात्मा, वातान्दोलिततूलवत् ॥ १६ ॥ तस्यैतद्वचनं श्रुत्वा, निर्विचारशिरोमणेः । मूढोऽयमिति निश्चित्य, स्थितास्तूष्णीं त्रयोऽपि ते ॥ १७ ॥ ऋद्ध्या च किं तया या हि, स्वदेशे नैव भुज्यते । ध्यात्वेति रत्नान्यादाय स्वस्थानं प्रति तेऽचलन् ॥ १८ ॥ तुरीयोऽपि गरीयोऽयः पोट्टिलं खरवत्स्वयम् । समुत्पाट्य समं सर्वैस्तैश्चचाल जडाशयः ॥ १९ ॥ क्रमेण सर्वे संप्रापुः, स्वस्थानं क्षेमयोगतः । त्रयाणां तु धनै रत्नोद्भवैरापूरि मन्दिरम् ॥ २० ॥ महेभ्यकुलकन्यास्ते, परिणीय महोत्सवैः । देवा इव सुखोलासाल्लोकपूज्याश्च जज्ञिरे ॥ २१ ॥ अन्यस्तु स्वल्पमूल्येन, लोहं विक्रीय तद्द्रुतम् । उद्धारकधनं दत्त्वा लोकेभ्यश्छुटितः परम् ॥ २२ ॥ गृहाद्यभावादेकाकी, रङ्कवत्स परिभ्रमन् । अप्राप्तभोजनः खेदमेदुरः समजायत ॥ २३ ॥ ऋद्धिं तदीयां लीलां च, संपश्यंश्च पदे पदे । धिग् मां कदाग्रहग्रस्तमित्यात्मानं निनिन्द सः ॥ २४ ॥ याज्यापरः स तैर्मित्रैः, कृपया दत्तभोजनः । आजन्मदुःखितां प्राप, पश्चात्तापपरायणः ॥ २५ ॥ इत्थं लोहसमं विचारविकलो मिथ्यात्वपक्ष Jain Education International For Private & Personal Use Only प्रबन्धः । ॥ ५२ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy