________________
'इत्थं सम्यगविज्ञातशुद्धदेवादितत्त्वोऽपि श्रीकुमारपालनृपः कुलकमायातत्वालोकलज्जादिना मिथ्यात्वं मोक्तुं न समीहते । यतः
"कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१॥" अथैकदा श्रीहेमाचार्या दृष्टान्तप्रकटनेन कदाग्रहदुष्टतामाहुः
सम्यग्गुरूक्तमवगम्य दुरन्तमोहान्मिथ्याकदाग्रहमिहोज्झति नो पुमान् यः।
सोऽनन्ततापकलितः किल लोहभारवाहीव हीनपदयुग विपदां पदं स्यात् ॥१॥ तद्यथा कोशलापुर्या, चत्वारः सुहृदोऽभवन् । समदुःखसुखाः प्रायः, परं निर्धनवृत्तयः॥१॥ अन्योन्यं मन्त्रयित्वा |ते, धनोपार्जनकाम्यया । देशान्तरे क्वचित् प्रापुः, सुप्रापाऽयोमहाकरे ॥ २॥ वर्षासु बहुमूल्यं स्याल्लोहमन्यत्र नीवृति । इति निश्चित्य ते तत्र, लोहं लात्वा पुरोऽचलन् ॥३॥ अग्रतो गच्छतां तेषामागाद्रूप्याकरो महान् । हृष्टः परस्परं प्रोचुर्गृह्यते रूप्यमत्र भोः!॥ ४ ॥ तत्र ते हि त्रयो लोह, विक्रीयासारभारकृत् । दीप्यद्रूप्यं गृहीत्वा च, चतुर्थ मित्रमूचिरे ॥५॥ मित्र! लोहमिदं दूरात्त्यज दुर्जनसङ्गवत् । गृहाणाऽतनुलाभाय, तारं सजनसङ्गवत् ॥ ६॥ सोऽप्याह यूयं व्यामूढाः, अनवस्थितचेतसः । यदयोव्यूढमियतीं, भुवं तत्त्यज्यते कथम् ॥७॥ श्रुत्वेति तद्वचस्तेऽग्रे, संप्राप्ताः कनकाकरे । विक्रीय तत्र तद्रूप्यं, सुवर्ण जगृहुस्त्रयः॥ ८॥ कदाग्रहगृहीतस्तु, वादितो बहुयुक्तिभिः । चतुर्थो नामुचल्लोह, तद्रो-12 हमिव दुर्जनः॥ ९॥ क्रमेणेवं गताः सर्वे, भास्वरं रत्नमाकरम् । परस्परं वदन्ति स्म, ते तत्र मुदिताशयाः॥१०॥
in Education Internal
For Private
Personal Use Only