SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तदैव परिपुष्टाङ्गी श्यामा च स्वीकृताशना । मुनिसुव्रतनाथस्य प्रासादमधितस्थुषी ॥१॥ शुभचेष्टाकरा दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् ॥ २॥ हृष्टः शाकुनिकः प्राह सिद्धिस्ते वाञ्छिताधिका । भविष्यति विशेषेण जिनभक्तिप्रभावतः॥ ३ ॥ ततः कोल्लापुरे गत्वा दानभोगादिसद्गुणम् । सर्वार्थसिद्धियोगीन्द्रं सेवित्वा तमतोषयत् ॥ ४॥ उवाच योगी मन्त्री स्त एकः साम्राज्यदायकः। स्वेच्छया धनदाताऽन्य आद्यः सोपद्रवः पुनः ॥५॥ सत्त्वसारः कुमारोऽथ मन्त्र जग्राह राज्यदम् । उक्तेन तेन विधिना पूर्वसेवां व्यधत्त सः ॥ ६॥ ततः कृष्णचतुर्दश्यां । गत्वा पितृवने निशि । शवस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः॥७॥ उपविश्य तस्य कट्यां यावद्धोमं ददाति सः। करालमूर्तिः प्रत्यक्षस्तावत्क्षेत्राधिपोऽवदत् ॥ ८॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा । इति श्रुत्वाऽपि निःक्षोभः| सोऽपि जापं समापयत् ॥९॥ तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत । गूर्जरत्राधिपत्यं ते धीर ! दत्तं मयाऽखिलम् | ॥ १०॥ परमद्यतनादिनात्पश्चवर्षात् फलिप्यति मनोरथः ॥ सिद्धमन्त्रः कुमारोऽथ नत्वा तं योगिपुङ्गवम् । कल्याणका-1 रके देशे क्रमाकान्तीपुरी ययौ ॥ ११॥ कुमारः कौतुकात्तस्या भ्रमन् परिसरेऽन्यदा । कबन्धमेकमद्राक्षीत् वैरिणापास्तमस्तकम् ॥ १२ ॥ तत्पाबै मिलितस्त्रीणां शुश्रावान्योन्यजल्पितम् । अहो ! कचकलापोऽस्य अहो ! श्रवणलम्बता|3|| ॥ १३ ॥ अहो ! घनत्वं कूर्चस्य ताम्बूले व्यसनं तथा । अहो ! विरलदन्तत्वं श्रुत्वेत्येका ततो जगौ ॥ १४ ॥ कथमेतत्ततस्ताश्चावीचन् किं चित्रमत्र यत् । वेण्याघर्षोऽस्ति पृष्ठेऽस्य स्कन्धे कुण्डलयोः किणे ॥ १५॥ आनाभिहदि गौरत्वं दृश्यते दीर्घकूर्चतः। ताम्बूलव्यसनाच्चास्याङ्गष्ठश्चर्णेन चर्चितः॥ १६ ॥ नित्यं विरलदन्तानां क्षित्या रक्ता कनिष्ठिका । Jan Education Intemanona For Private Personel Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy