________________
कुमारपाल
॥ २८ ॥
तत् श्रुत्वाऽचिन्तयदसौ बहुरला वसुन्धरा ॥ १७ ॥ कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे । तीरदेवकुले गत्वाऽर्ध्यमानं ददृशे शिरः ॥ १८ ॥ तस्य प्रवृत्तिं पृष्टश्च कश्चन स्थविरोऽवदत् । सरसीह पुरे राजमकरध्वजकारिते ॥ १९ ॥ पद्मकोशाद्विनिर्गत्य शीर्षमेकं सकुण्डलम् । एकेन ब्रुडतीत्युक्त्वा तन्निमज्जति प्रत्यहम् ॥ २० ॥ तदर्थं पण्डितैः पृष्टैर्लब्ध्वा मासचतुष्टयम् । तं ज्ञातुं प्रेषिताः विप्रा विदेशे वृद्धसंनिधौ ॥ २१ ॥ यदेकस्थविरो वेत्ति न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति वृद्धवाक्यात्स पूज्यते ॥ २२ ॥ तैश्च गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छत । स्वपिता दर्शितस्तेन तेनापि स्वपितामहः || २३ ॥ सविंशतिशतवर्षदेशीयस्य च सन्निधौ । विप्रैरपृच्छि शीर्षस्य बुडतीत्युक्तिकारणम् ॥ २४ ॥ सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् । गृह्णीतेदं महामूल्यं शुद्धयत्यध्वव्ययो यतः ॥ २५ ॥ लोभाद्विप्रा अपि कटौ | कृत्वा तांश्चलनाक्षमान् । गन्तुकामा वृद्धमूचुः संदेहं ब्रूहि नो द्रुतम् ॥ २६ ॥ संशयच्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः कथं स ऊचे शास्त्रज्ञा अप्येतदपि वित्थ न ॥ २७ ॥ यदुक्तम्
"श्वान गर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवलकं चैव सचैलस्नानमाचरेत् ॥ १ ॥”
शास्त्रे निषिद्धः संस्पर्शो विप्राणां युज्यते कथम् । तेऽप्यूचुर्बहुमूल्यानि श्वडिम्भानि त्वमभ्यधाः ॥ २८ ॥ ततोऽस्माभिगृहीतानि लोभाद्धि क्रियते न किम् ? । ऊचे वृद्धस्तदेवेदं विश्वं ब्रूडति लोभतः ॥ २९ ॥ इति ते छिन्नसंदेहाः कुमारेहागताः पुनः । पण्डितैः पुस्तकेष्वेष लिखितोऽर्थः सविस्तरः ॥ ३० ॥ राज्ञेऽदर्शि नृपोऽप्याह सत्यमेतच्छिरो यदि । श्रुत्वैनमर्थं न पुनः सरसो निस्सरिष्यति ॥ ३१ ॥ तथाकृते तथाजाते चैत्यं निर्माय भूभुजा । देवस्थाने स्थापितं च शीर्षमेतत्प्रसिद्धये
Jain Education International
For Private & Personal Use Only
प्रबन्धः ।
॥ २८ ॥
www.jainelibrary.org